Wednesday, 17 February 2016

।।भारतराष्ट्रे षोडशसंस्काराः।।

संस्कारशब्दः सम् उपसर्गपूर्वक: 'कृञ्' धातुना घञ् प्रत्ययपूर्वक: अस्ति। सम + कृञ् + घञ् इति संस्कारशब्दस्य व्युत्पत्ति:। संस्कारशब्दस्य प्रयोगः बहुधा भवति। मीमांसादर्शने अस्य संस्कारशब्दस्य अर्थः यज्ञाङ्गभूत पुरोडाशादि शुद्ध्यर्थं प्रोक्षणविक्षणादिना सम्पन्ना भवति । अद्वैतवेदान्तमतानुसारेण शारीरिकक्रियाणां मिथ्याक्षेपः संस्कारः इति। अभिव्यक्तिहेतुना आत्मव्यञ्जकशक्तिः संस्कारः कथ्यते इति नैय्यायिका:। मानवजीवने संस्काराः महत्त्वपूर्णाः सन्ति। संस्कारैः मनुष्यत्वं, मानवता, व्यक्तित्वविकासश्च भवति। विभिन्नेषु ग्रन्थेषु संस्काराणां संख्या भिन्ना-भिन्ना दर्शिता वर्तते। जन्मना मानवः अपूर्णः भवति। संस्कारै: तत्र पूर्णता आयाति।

भारतीयग्रन्थपरम्परायां प्रायः षोडशसंस्काराः करणीयाः इति भगवान् बादरायणः सूचयति, ते च इत्थं सन्ति -

१ गर्भाधानसंस्कारः

सृष्ट्यां मानवः सर्वोत्कृष्टो मन्यते। तस्य जीवनस्य उद्देश्यम् आत्मसाक्षात्कारो वर्तते। विधिपूर्वकं संस्कृतो मानवो दिव्यज्ञानमर्जयित्वा आत्मसाक्षात्कारं कर्तुं प्रभवति। मानवस्य सम्पूर्णजीवनं संस्काराणां क्षेत्रं वर्तते। संस्काराणां प्रमुखं लक्ष्यं शरीरस्य शुद्धि: पवित्रता चास्ति। एते संस्कारा वस्तुतः गर्भस्याधानादेव प्रारभन्ते।

अधिकांशगृह्यसूत्राणि गर्भाधानादेव संस्काराणां प्रारम्भं निर्दिशन्ति। प्रजननमपि मानवजीवनस्य अङ्गभूतम्। धर्मशास्त्रानुसारम् अत्र काऽप्यशुचिता नास्ति। अस्मिन् विषये मनुराह  –

वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम्।
कार्यं शरीरसंस्कारः पावनः प्रेत्य चेह च ॥

अस्यायमर्थो यद् वेदमूलत्वात् वैदिकैः पुण्यैः शुभैः मन्त्रप्रयोगादिभिः कर्मभिः द्विजातीनां गर्भाधानादि शरीरसंस्कार: कर्तव्यः। यतोहि एष शरीरसंस्कारो न केवलम् इहलोके परलोके चापि पुनाति। एवम् उक्तप्रकारेण गर्भाधानादिभिः संस्कारकर्मभिः पापं शमं याति। गर्भाधानं परिभाषमाणो जैमिनिराह –
गर्भः सन्धार्यते येन कर्मणा तद् गर्भाधानमित्यनुगतार्थं कर्मनामधेयम्।
शौनकोऽपि प्रत्यपादयत् यत् यस्मिन् कर्मणि पुरुषेण निषिक्तो गर्भः स्त्रियां धार्यते तत् गर्भालम्भनं गर्भाधानं इत्युच्यते –
निषिक्तो यत्प्रयोगेण गर्भः सन्धार्यते स्त्रिया।
तद् गर्भालम्भनं नाम कर्म प्रोक्तं मनीषिभिः ॥
मनुयाज्ञवल्क्यादयः आचार्याः इदमेव कर्म ''निषेक्'' इत्यभ्यदधुः ।

२ पुंसवनसंस्कारः

गर्भधारणानन्तरं गर्भस्थशिशोः पुंसत्वं सम्पादनहेतोः पुंसवननाम्नः संस्कारः भवति। अत्र विभिन्नदेवानां प्रार्थना भवति। यया प्रार्थनया गर्भस्थशिशुः पुष्टो भूत्वा पुत्ररूपेणप्राप्तो भवेत्। अस्मिन् अवसरे आयुर्वैदिकौषधीनां सेवनं, भगवतः विष्णोः पूजनं च कर्तव्यम्। येन कर्मणा पुमान् सूयते तत् पुंसवनम्। गर्भाधानस्य द्वितीये तृतीये वा मासे पुष्यनक्षत्रयुक्तायां तिथौ पुंसवनकर्म क्रियते। पुत्रजनननिमित्तं संस्कारः क्रियते। होमः औषधिसेवनञ्च परिपाल्यते।

३ सीमन्तोन्नयनसंस्कारः

गृह्यसूत्रानुसारेण गर्भधारणानन्तरं चतुर्थे पञ्चमे वा मासे सीमन्तोन्नयनसंस्कारः भवति। अत्रावसरे पतिपत्न्योः केशानां प्रसाधनं वा संवर्धनं च करणीयम्। तयोः कृते उत्सवरूपोयं संस्कारः। अत्र संस्कारः, नृत्यं, गानं, वादनम् इत्यादि भवति । पत्न्याः मनोरञ्जनार्थं सोमस्य स्तुतिः भवति। यदा चन्द्रः पुरुषवाचकनक्षत्रेण युक्तः भवति तदा एव एषः संस्कारः भवति। सीमन्तम् उन्नियते यस्मिन् कर्मणि तत् सीमन्तोन्नयनम्। स्मृतिग्रन्थानुसारेण षष्ठे अष्टमे वा मासे संस्कारोऽयमनुष्ठीयते। त्रिभिः दर्भपिञ्जुलैः गर्भिण्याः सीमन्तं (केशम्) उर्ध्व विनयति स्वामी। गर्भरक्षणमस्य प्रयोजनम्। केशस्य विभजनद्वारा जातशिशोः यशः त्रिलोकं व्याप्नुयात् इति भाव:।

४ जातकर्मसंस्कारः

जातकर्मसंस्कारः नवजातशिशोः संवर्धनार्थं तथा च तस्य परिपोषणार्थं भवति। एतस्मिन् नाभिवर्धनात्पूर्वं पञ्च ब्राह्मणैः वैश्वानराग्ने: स्तुतिः भवति। तथा च आहुतिः अपि देयं भवति। येन शिशोदीर्घायुष्यम् एवम् अभ्युदयश्च भवति। गर्भकोशात् शिशु: निर्गते सति जातकर्म विधीयते। पुत्रमुखदर्शनेन पिता नाभिवर्धनात् प्राक् शीतोदकेन सतैलस्नानं विधाय उत्तराभिमुखं भूत्वा यथाविधि: जातकर्म कुर्यात्। जातकर्मणि पितृनुद्दिश्य नान्दीमुखश्राद्धादिकर्माणि क्रियन्ते। एतत्सर्वं शौचानन्तरमेव कर्तव्यम्।

५ नामकरणसंस्कारः

अयं संस्कारः शिशोः जन्मानन्तरदश वा एकादशदिनानन्तरं भवति। गोपनीयं नाम तु जातकर्मसंस्कारे एव भवति। उच्चारणार्हं नाम एतस्मिन् दिने भवति। शुभमुहूर्ते नक्षत्रे च मघुरध्वनियुक्तं नामचतुराक्षरैः वा द्वि अक्षरात्मकं भवति। नाम्नः करणं नामकरणम्। शिशोः जन्मनः दशमे एकादशे वा दिवसे पुण्यावसरे पिता आचम्य “अस्य पुत्रस्य नामकरणं करिष्ये” इति संकल्प्य पुण्याहं कथयित्वा नान्दीश्राध्दं च विधाय ब्राह्मणान् भोजयित्वा कुमारस्य नाम दद्यात् । ब्राह्मणशिशोः जन्मतः दशमदिवसे, क्षत्रियाणां त्रयोदशे षोडशे वा दिवसे, वैश्यानां षोडशे विंशतितमे वा दिवसे, शुद्राणां द्वाविंशे मासान्ते वा नामकरणसंस्कारः करणीयः ।

६ कर्णवेधसंस्कारः

कर्णवेधं प्रशंसन्ति पुष्ट्यायुः श्री विवृद्धये इति गर्गस्य उक्त्या अस्य संस्कारस्य प्रशंसा ज्ञायते ।
अस्मिन् संस्कारे प्रथमं बालकस्य दक्षिणे कर्णे सूर्यकिरणप्रवेशयोग्यं छिद्रं तदनु वामकर्णे क्रियते।
संस्कारेण अनेन अन्त्रवृद्धिः न भवति इति स्मृतिकाराणां मतम् यद् -

शङ्कोपरि च कर्णान्ते त्यक्त्वा यत्नेन सेवनीयम्।
व्यत्यासाद्वा शिरां विध्येदन्त्रवृद्धि निवृत्तये ॥

कर्णवेधसंस्कारात् बालकेषु नपुंसकत्वम्, बालिकासु च वन्ध्यात्वं न भवति इति स्मृतिसङ्ग्रहबोधनम्।

७ निष्क्रमणसंस्कारः

शिशोः गृहाद् प्रथमबहिर्निगमनं निष्क्रमणमित्युच्यते। चतुर्थमासे शुभे दिने संस्कारोऽयं करणीय इति मनुनोक्तम्। शिशोःमानसिक्याभिवृद्ध्यर्थं, बाह्मजगत: ज्ञाननिमित्तं, श्रीवृद्ध्यर्थं संस्कारोऽयं विधीयते।

८ अन्नप्राशनसंस्कारः

अन्नं प्राश्यते येन कर्मणा तदन्नप्राशनम्। षष्ठे मासे अथवा कुलधर्मत्वेन माङ्गल्यकालविशेषे मासेऽन्नप्राशनं करणीयमिति मनुना प्रोक्तम्। 'षष्ठे मासेऽन्नप्राशनम्' इति पारशगृह्यसूत्रम्। 'घृतोदनं तेजस्कामः दधिमधु घृतमिश्रमन्नं प्राशयेत्' इति आश्वलायनगृह्यसूत्रम्। सामान्यतः दधिमधुघृतमिश्रितमन्नं शिशवेऽन्नप्राशनाय प्रदीयते। काठकगृह्यसूत्रानुसारेण शिशोः दन्तजननानन्तरमन्नप्राशनं विधेयम्। तस्मिन् दिवसे सिद्धं सुमिष्टं चान्नमिष्टदेवेभ्यः उत्सर्गीकृत्य पिता पुत्रं मन्त्रपाठपूर्वकं भोजयेत्।

९ चूडाकर्मसंस्कारः

चूडानां केशपाशानां संस्कारो येन कर्मणा क्रियते तत् चूडाकर्मेति कथ्यते। प्रथमे तृतीये वा संवत्सरे अथवा कुलधर्मानुसारेण् संस्कारोऽयं करणीयः। प्रवरसंख्यानुसारेण चूडाकरणसंस्कारः कल्पितः। शिखा एकाधिका भवितुमर्हति। वशिष्ठगोत्रियाः शिरोमध्यभागे एकां शिखां धारयन्ति। अत्रिकाश्यपगोत्रियाः पञ्चशिखा: धरन्ति। भृगुवंशीयाः सर्वमुण्डिताः भवन्ति।

१० उपनयनसंस्कारः

बालसंस्काराणाम् उपनयनाख्यः संस्कारः एव सर्वप्रधान:। वेदाध्ययनाय गुरोः शिष्यस्य समीपे गमनम् उपनयनम् इति उच्यते। उपनयन शब्दोऽयम् उपपूर्वक नी धातोः ल्युट् प्रत्यययोगे निष्पद्यते। उप = समीपं (वेदपठनाय गुरोः समीपं) नयनमुपनयनम् इति। यदा पिता वेदम् अध्यापयितुम् असमर्थो भवति तदा स्वयं स्वपुत्रम् आचार्यस्य समीपं नीत्वा तस्य उपनयनार्थं प्रार्थयेत्। आचार्य: तम् उपनीय शिष्यत्वेन अङ्गीकृत्य तम् अध्यापयेत्। महर्षिगौतममतानुसारेण प्रथमतः अष्टमवर्षवयस्कं माणवकम् उपनयनसंस्कारेण संस्कुर्यात्। उपनयनं हि माणवकसंस्कारः।

११ वेदारम्भसंस्कारः

उपनयनसंस्कारस्य अनन्तरं गुरुः शिष्यं वेदान् शिक्षयेत्। तदारम्भप्रधानः संस्कारः एव अयम्।

उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम्।
वेदमध्यापयेदेनं शौचाचारांश्च शिक्षयेत् ॥ (याज्ञवल्क्यस्मृतिः)

वेदारम्भः प्रथमं निजशाखायाः एव स्यात्। निजशाखां साङ्गोपाङ्गम् अधीत्य ततः शाखान्तराध्ययनक्रमः विहितः।

१२ केशान्तसंस्कारः

षोडशे वर्षे केशान्तसंस्कारः सम्पादनीयः। संस्कारोऽयं ब्रह्मचर्यस्य समाप्तिमेव सूचयति। अस्मिन् संस्कारे ब्रह्मचारी केशानां श्मश्रूणां च क्षौरं करोति। अवसरेऽस्मिन् आचार्याय गोदानं क्रियते। नापितमपि उपहारः प्रदीयते।

१३ समावर्तनसंस्कारः

द्वादशवर्षाणि वेदग्रहणान्तं वा गुरुकुले ब्रह्मचर्यम् आचरित्वा ततः प्रतिनिवृत्ते: काले समावर्तनाख्यः संस्कार: अनुष्ठेय:। तत्र प्रधानभूतं कर्म स्नानम्। तच्च तस्य ब्रह्मचर्यप्रक्षालनोद्देशेन क्रियते। तेन स: स्नातकाख्यो भवति। अत आश्रमाद् गृहगमनं समावर्तनम् इति उच्यते। संस्कारेस्मिन् गुरोः उपदेशः भवति। एष उपदेशो ब्रह्मचारिणः जीवनयात्रां सुखदां सरलां च कर्तुं सारगर्भितो भवति। उपदेशवाक्यानि श्रद्धा-विश्वास-प्रेम-भक्ति-ज्ञान-वैराग्यादीनि
ऐहिकपारलौकिककल्याणानि वर्षन्तीव भान्ति।

१४ विवाहसंस्कारः

गृहस्थाश्रमं प्रविविक्षता 'विवाहसंस्कारः' अनुष्ठीयते। अयं संस्कारः स्त्रीणामपि भवति। गृहस्थाश्रमपरिपालनाय गृहिण्या: अपेक्षा भवति। अतः स्त्रीपुरुषयोः सौन्दर्यं, पौरुषं, नारीत्वं, चरित्र, कुलं चेति बाह्याभ्यन्तरदृष्ट्या उद्वाहः, परिणयनं, विवाहः इति वा अभिधीयते इहामुक्तं च -
नारीणां परमा गति: पतिः।
भर्तृमार्गानुसरणं स्त्रीणां हि परमं व्रतम्।
न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते।
तस्याः पुत्रं प्राप्य पुरुषः पूर्णोऽभवत्।
पुत्रलाभेन पितॄणाम् ऋणाद् मुक्तिः।
इत्यादिभिः सुभाषितैः अस्य संस्कारस्य महत्त्वम् अवगम्यते।

विवाहाग्निपरिग्रहसंस्कारः

आश्रमेषु गृहस्थाश्रमः विशिष्टः अस्ति। अस्मिन् प्रवेशार्हता विवाहसंस्कारेण भवति। तस्मिश्च संस्कारे अग्निः प्रधानदेवता। तस्य परिग्रहः एव अस्मिन् संस्कारे विशिष्टं कर्म। धर्मशास्त्रानुगुणम् आह्निकाचारयोः महत्त्वपूर्णं स्थानम् आस्ते। गृहस्थानां प्रमुखं कर्तव्यं आयाति 'अग्निपरिग्रहः'। अग्निना नित्यकर्म भवति गृहस्थस्य। अग्नौ समिधनिक्षेपणं वास्तविकः यज्ञः अस्ति।

गृहस्थस्तु षडग्निः स्यात्पञ्चाग्निचतुरग्निकः च।
स्याद् द्वित्र्यग्निरथैकाग्निः नाग्निहीनः कथञ्चन।।

१६ अन्त्येष्टिसंस्कारः

अयं संस्कारः मानवजीवनस्यान्तिमसंस्कारः, येन संस्कारेण सह तस्य जीवनं समाप्यते। अन्त्येष्टे:
कारणेन मनुष्यः परलोकं प्राप्नोति। मृत्युपरवर्तिजीवनस्य सरलीकरणाय अयं संस्कारः अनुष्ठीयते।⛳🙏