Wednesday 13 April 2016

मनसि वचसि काये पुण्यपीयूषपूर्णा:
त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः ।
परगुणपरमाणून् पर्वतीकृत्य नित्यं
निजहृदि विकसन्तः सन्ति सन्तः कियन्त: ॥
नीतिशतकम् (५३/२२१)

अन्वयः---मनसि वचसि काये पुण्यपीयूषपूर्णाः उपकार-श्रेणिभिः त्रिभुवनं प्रीणयन्तः परगुणपरमाणून् पर्वतीकृत्य निजहृदि नित्यं विकसन्तः सन्तः कियन्तः सन्ति ।


व्याख्या---मनसि---हृदये, वचसि--वाण्याम्, काये---देहे, पुण्यपीयूषपूर्णाः---(पुण्यमेव पीयूषः तेन पूर्णाः) सुकृतसुधाप्रपूरिताः, उपकारश्रेणिभिः---(उपकारस्य श्रेणय: ताभिः) हिताचरणपंक्तिभिः, त्रिभुवनम्---(त
्रयाणां भुवनानाम् समाहारः) लोकत्रयम्, प्रीणयन्तः---प्
रसादयन्तः, परगुणपरमाणून्---(परेषां गुणाः, परमाश्च ते अणवः परमाणवः,परगुणानां परमाणवः, तान्) इतरेषां सौजन्यादिगुणसूक्ष्मागान्, पर्वतीकृत्य--(अपर्वतान् पर्वतान् कृत्वा इति) शैलमिव अतिबृहदाकारान् कृत्वा, निजहृदि---स्वकीयमनसि, विकसन्तः---हर्षानुभवं कृतवन्तः, सन्तः---सत्पुरुषाः, कियन्तः---कियत्
संख्याकाः सन्ति, अत्यल्पा एव वर्तन्ते इति तात्पर्यम् । (मालिनी वृत्तम्)


भावार्थः---मनसा, वचसा, कर्मणा च सर्वेषामेव प्राणिनामुपकारिणः, सदा परेषां सूक्ष्मानपि गुणान् विशदीकृत्य हृदि धारयन्तः सज्जनाः जगति अंगुलिगणनीया एव भवन्ति ।

अर्थाः--- सज्जनानां स्वभावं वर्णयति कविः । सत्पुरुषाणां वचांसि मनांसि शरीराणि च अमृतेन पूर्णानि भवन्ति । तादृशेन अमृतपूर्णेन वचनेन, चेतसा, शरीरेण च ते सज्जनाः उपकारसहस्रेण लोके स्थितानां सर्वेषां जीविनामपि हितम् आचरन्ति । अपि च अन्येषु स्थिताः गुणाः अल्पाः चेदपि तान् एव बहु मत्वा, मनसि सन्तोषम् अनुभवन्ति । किन्तु एतादृशाः जनाः जगति कियन्तः सन्ति ?