Monday, 17 April 2017

Standard Article No: 20170417
 Dr. Abhilash J
शिक्षया विश्वहितम्     लेखनम्

विद्यया मृत्युं तीर्त्वा विद्यया अमृतमश्नुते इति वेदघोषः। सा विद्या एव प्रकृष्टा या मुक्तिं ददाति। उपनिषदनुसारेण परा अपरा इति विद्ये द्वे स्तः। यया विद्यया लैकिकं ज्ञानं जायते सा अपराविद्या। यया च अक्षरब्रह्मविषयकं ज्ञानं जायते सा परा विद्या। विद्या शब्दस्य अपरं नाम भवति शिक्षा इति।
 
     शिक्षायाः शाब्दिकार्थः- शिक्ष् विद्योपादाने इति धातोः निष्पन्नः शिक्षा शब्दः। यस्य च अर्थः भवति शिक्षणम् अध्ययनं वा। शिक्षायाः अर्थः भवति व्यक्तेः आन्तरिकशक्तेः बहिरानयनं अथवा अन्तस्थशक्तीनां बहिर्निष्क्रमणम्। पुनः शिक्षापदस्य निर्देशः, शिक्षणम्, प्रशिक्षणं, अनुशासनं, पालनपोषणं,संस्कृतिः इत्याद्यर्थाः च प्रतीयन्ते।

     शिक्षायाः व्यापकार्थः- शिक्षायाः व्यापकार्थे शिक्षा नाम आजीवनं प्रचलन्ती काचित् गतिशीला प्रक्रिया भवति। व्यापकार्थे शिक्षायाः कार्यं जीवनपर्यन्तं  प्रचलत् भवति। व्यक्तिः जन्मतः मृत्युपर्यन्तं किमपि किमपि शिक्षते। व्यक्तिः परिवारे , समाजे,बन्धुवर्गे, क्रीडोद्याने, आपणे, यात्रायां, उद्यानादिषु च क्रमशः शिक्षते। एवं शिक्षायाः क्षेत्रम् अतीव विस्तृतं भवति। आधुनिक शिक्षाशास्त्रिणां मते शिक्षा आगर्भात् चितापर्यन्तं प्रचलति इति।

     शिक्षायाः सड्कुचितार्थः- विद्यालये प्रदीयमाने शिक्षा इति अस्याः सड्कुचितार्थः। अस्यामभिप्रायः यत् बालकः निश्चितयोजनानुसारं, निश्चितसमयानुगुणं, निश्चितपाठ्यक्रमानुसारं,निश्चितोद्देश्यमाधारीकृत्य निश्चितविधिमाश्रित्य निश्चितेभ्यः अध्यापकेभ्यः शिक्षां प्राप्नोति। अत्र सर्वमपि पूर्वयोजनानुगुणं भवति।

     शिक्षायाः विश्लेषणात्मकः अर्थः- शिक्षायाः अर्थः विद्यालये प्रदीयमान ज्ञाने सीमिता न भवेत्, परं जन्मसमयादारभ्य मृत्युपर्यन्तं प्रचाल्यमाना क्रिया भवति। शिक्षा बालकस्य जन्मजातशक्तेः विकासार्थं भवति।

     शिक्षायाः वास्तविकार्थः- शिक्षायाः वास्तविकार्थः सर्वाड्गीणविकासः भवति। अर्थात् शिक्षा तादृशी एका प्रक्रिया भवति यया मनुष्यस्य जन्मजातशक्तीनां स्वाभाविकसामञ्जस्यपूर्णविकासः च प्रस्फुटितः भवति। सर्वाड्गीणविकासः इत्युक्ते शारीरिक, मानसिक,संवेगात्मक,सामाजिक,नैतिक,आध्यात्मिकश्च विकासः। एवं सर्वाड्गीणविकासयुक्तः छात्रः समाजस्य सदस्यरूपेण समाजं प्रति राष्ट्रं प्रति च स्वदायित्वस्य निर्वहणे समर्थः भवति। पुनः तस्य व्यवहार विचार आचारादीनां विषये मर्यादानुगुणं परिवर्तनं संभवति। तेन समाजस्य देशस्य तथा विश्वपरिवारस्य च हितं भवति।
--------------------------------