Friday, 11 August 2017

Standard Article No: 20170811
  संस्कृतकवयित्रीणां सामान्यपरिचयः     लेखनम्

Silpa N.S 
Research scholar,
Dept. Of Vyakarana
Sree Sankaracharya University of Sanskrit, Kalady.

              विश्ववाङ्मये संस्कृतसाहित्यस्य स्थानम् उन्नतमस्ति। अनेके पाश्चात्याः विद्वांसः अपि संस्कृतसाहित्यं प्रति मुग्धाः परिलक्ष्यन्ते। संस्कृतस्य प्रतिभाधनाः कवयः विश्वप्रसिधिं  प्राप्नुवन्। कविरत्नभूताः कवयित्र्यः अपि संस्कृतसाहित्ये आदरणीयं स्थानमलङ्कुर्वन्ति।
                     वैदिककालादारभ्य आधुनिककालपर्यन्तं स्त्रियः स्वसृजनतायाः योगदानं संस्कृतसाहित्याय प्रयच्छन्त्यः सन्ति। कवयित्रीणां समृद्धपरम्परा भारतदेशे द्रष्टुं शक्यते। स्त्रियः द्वारा रचितं साहित्यं न्यूनमस्ति। पारिवारिक तथा सामाजिकावरोधः बन्धनं च स्त्रीणां प्रतिभायाः न्यूनतायाः हेतुरभवन्। प्रतिभा अस्ति चेदपि कोपि न जानाति।
                 भारतीयजीवनव्यवस्था पुरुषप्रधाना इत्यस्मात् साहित्यक्षेत्रेपि स्त्रीणां योगदानं न्यूनमस्ति। अतः तासां योगदानम् अधिकतया प्रेरणारूपेण आसीत्, स्रष्टारूपेण न्यूनं च।
वैदिककालः
                 लिखितप्रमाणेषु ऋग्वेदः प्राचीनतमः अस्ति। तस्मिन् काले महिलानां सामाजिकस्थितिः उन्नताः, स्त्रियः शिक्षिताः च मन्त्राणां द्वारा ज्ञायते। ऋग्वेदे स्त्रीणाम् ऋचः उपलभ्यन्ते। ऋषिकाः इति नाम्ना अभिहिताः ताः वेदशास्त्रेषु पारङ्गताः भुत्वा काव्यरचनामकुर्वन्। ऋग्वेदे सामवेदे च आहत्य एकविंशति महिलानां नामानि विद्यन्ते। अधिकाधिकं भक्तिगीताः विरचिताः अभवन्। ऋग्वेदकालीनकवयित्रीणां नामानि तु एवमुच्यन्ते- विश्ववारा आत्रेयी, वागम्भृणी, ब्रह्मवादिनी सूर्या, लोपामुद्रा, रोमशा, घोषा, शश्वती, श्रद्धा, काक्षीवती, कामायनी च।
1. ब्रह्मवादिनी सूर्या
                सावित्री सूर्या ब्रह्मवादिनी नाम्ना प्रसिद्धा अभवत्। सा स्वस्याः तपश्चर्यायाः प्रभावेण ऋग्वेदस्य दशममण्डलस्य पञ्चाशीतिसूक्तस्य सम्पूर्णसप्तचत्वारिंशत् ऋचः सूर्या सूक्तमित्याख्यं व्यरचयत्। तस्याः मन्त्रेषु प्रेमभावस्य महत्त्वं दृश्यते। सा स्त्री-पुरुषयोः समानतायाः विशिष्टतलमप्यददत्। तस्मात् भारते अद्यापि विवाहसंस्कारविधौ ते मन्त्राः प्रयुज्यन्ते। सूर्यसावित्र्याः विवाहसम्बन्धेषु मन्त्रेषु विवाहस्य आदर्शम् आधारितमस्ति।
2. विश्ववारा आत्रेयी
                विश्ववारा इति तस्याः नाम, आत्रेयी कुलनाम च। सा अत्रिमहर्षेः परम्परायां जाता। अत्रिमहर्षेः पत्न्या अनसूयया तपोबलेन मन्दाकिनी नदीं प्रवाहितवती। आत्रेयी विश्ववारा तु काव्यस्य सरः मन्दाकिनी प्रवाहितवती इति काचन उक्तिरस्ति। तया त्रिष्टुप्, जगती, अनुष्टुप् इत्यादि छन्दसः उपयुज्यन्ते। एकस्यैव सूक्तस्य ऋषिका सा अस्य सूक्तस्य विषयवस्तुनः दृष्ट्या एकस्याः कवयित्र्याः जीवनस्य सम्पूर्णतां दर्शयति। सा सद्गृहिणी आसीदिति सूक्तपठनेन ज्ञायते।
"समिद्धो अग्निर्दिविशोचिरश्रेत् प्रत्यङुषसमुर्विया विभाति।
प्रति प्राची विश्ववारा नमोभिर्देवाँ ईळाला हविषा घृताची।।"
3. वागम्भृणी
                वागम्भृणीनामकऋषिकायाः मतानुसारं यदा विश्वस्य भूतानाम् आत्मनि सर्वभूतानि दृश्यन्ते, सर्वभूतेषु चात्मानं दृशेयन्ते च तदा ऋषिः मन्त्रद्रष्टा भविष्यतीति। तस्याः जीवनकालः अन्यकार्याणि च न ज्ञायते। तया विरचिताः केचन मन्त्राः लभ्यन्ते।
                 यस्य मनसि औदार्यभावं नास्ति तस्य कृते विश्वे किमपि मूल्यं न प्राप्स्यतीति तया मन्त्रैः सूच्यते। दानं विना स्वीकारः तस्याः अभीष्टं नासीत्। सा स्वमन्त्रैः मानवीयशक्तिषु ब्रह्मणः आलेखनं करोति।
"श्रोत्रस्य श्रोत्रं मनसो मनो यद् वाचो ह वाचं स उ प्राणस्य प्राणम्।
चक्षुषश्चक्षुरतिमुच्य धीरा प्रेत्यास्माल्सोकदमृता भवन्ति।।"
                ब्रह्मशक्तेः अनुपस्थितौ अस्माकं श्रोत्र-नेत्रादि अवयवाः शक्तिहीनाः भविष्यन्तीति अस्य सारः। तस्याः दृष्ट्याः ब्रह्मज्ञानग्रहणं विना उन्नतिं न प्राप्नोति। ब्रह्मज्ञानं तु अन्तः ज्ञानमेव तद् बाह्यजगतः न प्राप्नोति।
              वागम्भृणी ब्रह्मज्ञानस्य शत्रुं स्वशत्रुमेव मन्यते। सर्वशक्तयः मनुष्याणाम् अन्तः एव विद्यन्ते। मानवस्य जन्म-मृत्युबन्धनात् मोचनं प्राप्तुं तद् ज्ञानं साहाय्यते इति तया उच्यते।
             काक्षीवती घोषा, अपाला, लोपामुद्रा, रोमशा, शश्वती, श्रद्धा कामायनी, शिखण्डिन्यौ अप्सरसौ, अगस्त्यस्वसा इन्द्राणी, उर्वशी इत्यादीनां कवयित्रीणां परामर्शः ऋग्वेदादि वेदग्रन्थेषु उपनिषत्सु च दृश्यन्ते। किन्तु तासां स्थितिकालादि कार्याणि न लभन्ते।
प्राचीनकालकवयित्र्यः
वैदिककालात् परम् अनेकाः कवयित्र्यः प्रसिद्धाः अभवन्। विज्जिका, गङ्गादेवी, तिरुमलाम्बा, शीलीभट्टारिका, देवकुमारिका, लक्ष्मीराज्ञी, मधुरवाणी आदि कवयित्र्यः प्रमुखाः। कविवेणीदत्तकृते पद्यवेणीसंग्रहग्रन्थे मोरिका, गौरी, केरली, विकटनितम्बा, पद्मावती प्रभृति कवयित्रीणां रचनासंग्रहः अपि विद्यते।
1. विज्जिका
विद्या, विजा, विज्जका, विजया आदि नामसु सुभाषितग्रन्थेषु विज्जिकायाः श्लोकाः उद्धृताः सन्ति। एकताम्रपत्रानुसारं विजया भट्टारिका पुलकेशिन् द्वितीयस्य ज्येष्ठपुत्रस्य चन्द्रादित्यस्य पत्नी आसीत्। अतः तस्याः समयः सप्तमशतकस्य उत्तरार्धः इति मन्यते।
मम्मटाचार्येण काव्यप्रकाशे मुकुलभट्टेन अभिधावृत्तिमातृकायां च तस्याः श्लोकाः उद्धृताः। मुकुलभट्टस्य समयः 925(पञ्चविंशत्युत्तरनवमशतकं) . इत्यस्मात् तस्याः समयः तस्मात् पूर्वमेव स्यात्। सा दण्डिनः समकालीना आसीदिति शार्ङ्गधरपद्धतौ उद्धृतपद्यात् ज्ञायते। कालिदास-भारवि-भवभूत्यादीनां प्रभावः तस्याः नाटकेषु दृश्यते। अतः सा 800 ईस्व्याः समीपे आसीदित्युच्यते। एवं विभिन्नानां मतानुसारं विज्जिकायाः समयः सप्तम-अष्टमशताब्देः समीपे स्यादिति मन्यते।
राजस्तुतिः, कविप्रशंसा, असतीचरित्रः, विरहिणी, ग्राम्या, रमणी, पथिकामिनी, दृष्टिः, स्त्रीमुखं, प्रोषितभर्तृका, प्रियसंवादः, सुरतकेलिः, देवाख्यानम्, ऋतुवर्णनम् इत्यादिविषयेषु उत्तमरचनां कर्तुं सा समर्था आसीत्। तस्याः वर्णनावैशिष्ट्यस्य उत्तमोदाहरणम् अधः दीयते।
"उन्निदकोकनदरेणुपिशाङ्गिताङ्गा गायन्ती मंजुमधुपा गृहदीर्घकासु।
एतच्चकास्ति च रवेर्नवबन्धुजीव पुष्पच्छदाभमुदयाचलचुम्बिबिम्बम्।।"
भाषासौन्दर्यः तस्याः कृतिषु दृश्यते। प्राकृतिकदृश्यानां चित्रणेपि विज्जिकायाः सुन्दरकवितायाः दृष्टिरस्ति। यथा मध्याह्नम्, सन्ध्या, रात्रिः, शरद् ऋतुः इत्यादयः।
2. गङ्गादेवी
चतुर्दशशताब्द्यां विजयनगरस्य बुक्कप्रथमस्य (1343-1379) द्वितीयपुत्रस्य कम्परायस्य विदुषी पत्नी आसीत् गङ्गादेवी। मथुराविजयम्, वीरकम्परायचरितं च ऐतिहासिककाव्यशृङ्खलायां प्रामाणिकौ स्तः। तयोः वीरकम्परायचरितम् अपूर्णमस्ति। अनुष्टुप्, उपजातिः, वंशस्थं, द्रुतविलम्बितं, पुष्पिताग्रा इत्यादि वृत्तानि तया प्रयुक्तानि।
गङ्गादेव्या स्वकाव्ये कोमलभावाभिव्यक्तिं सौम्यसरलस्वाभाविकान् प्रयोगान् अलङ्कारान् च प्रस्तूयते। यथा-
"घटमानदलररीपुटं नलिनं मन्दिरमिन्दिरास्पदम्।
परिपालयति स्म निक्वणन् परितो यामिकवन्मधुव्रतः।।"
अत्र विकसितकमलं परितः भ्रममाणस्य भ्रमरयोरुपमा प्रहरीरूपेण प्रस्तूयते।
3. तिरुमलाम्बा
विजयनगरनृपतेः श्री अच्चुतरायस्य (1529-1542 .) विदुषी पत्नी तिरुमलाम्बा। सा वरदाम्बिकापरिणयचम्पूः इति ग्रन्थं व्यरचयत्। तस्याः कविता अतिप्रौढा उच्चस्तरीया च वर्तते। तस्याः कल्पनाशक्तिः उर्वरा, आकर्षिका च दृश्यते। नाट्यशास्त्रे, अलङ्कारशास्त्रे, पुराणे एवम् आगमरहस्येषु च तस्याः परिचयः आसीत्।
कवयित्र्याः भाषापाण्डित्यम् अनेन काव्येन व्यक्तम्। भाषाविषये अनुरूपपरिवर्तनं तया कृतम्। तस्याः रसनिरूपणं प्रशंसनीयमेव। चम्पोः अङ्गीरसः शृङ्गारः भवति।
तया विविधशब्दालङ्कारैः एवम् अर्थालङ्कारैश्च कवितां विभूषितम्। द्रुतविलम्बितं, रथोद्धता, नर्कुटक, कलहंसा इति प्रायः चतुर्विंशति(24) वृत्तानि प्रयुक्तवती। तस्याः ग्रन्थस्य पाण्डुलिपिः स्वर्गीय लक्ष्मणस्वरूपमहाभागेन तंजौरपुस्तकालये (1024 .) प्राप्ता एवञ्च 1932 ईस्व्यां प्रकाशिता।
4. शीलाभट्टारिका
काश्मीरनिवासिन्याः शीलाभट्टारिकायाः उल्लेखः राजशेखरेण कृतः इत्यस्मात् नवमशताब्द्याः पूर्वमासीत् तस्याः कालः इति ज्ञायते।
" शब्दार्थयोः समोगुम्फः पाञ्चाली रीतिरिष्यते।
शीलाभट्टारिकावाचि बाणोक्तिषु च सा मत।।"
सा नृपः, नृपवैभवं, नदी, उपवनम्, सूर्योदयः, सन्ध्या, प्रातः, वृक्षं, वसन्तं, वर्षा इत्यादीनां वर्णनेषु समर्था आसीत्। किन्तु सा मूलतः शृङ्गारकवयित्री आसीत्। यथा-
"विहर विषमो वामः कामः करोति तनुं तनुं
दिवसगणनादक्षश्चायं व्यपेतधृतो यमः।
त्वमपि वश्यो मानव्याधेर्विचिन्त्य नाथ हे!
किसलयमृदुर्जीवदेवं कथं प्रमदाजनः।।"
5. देवकुमारिका
उदयपुरस्य राणस्य अमरसिंहस्य पत्नी देवकुमारिका वैद्यनाथप्रसादप्रशस्तिः इति काव्यस्य रचनाम् अकरोत्। तस्याः पितुः नाम शबलसिंहः। सप्तमशतकस्य उत्तरार्धस्य अष्टमशतकस्य पूर्वार्धस्य च मध्ये तस्याः जीवनकालः वर्तते।
तस्मिन् ग्रन्थे उदयपुरस्य राणावंशस्य ऐतिहासिकवर्णनं, संग्रामसिंहस्य यौवराज्याभिषेकविवरणं, वैद्यनाथमन्दिरप्रतिष्ठायाः चारुचित्रणं च विद्यन्ते। अनुष्टुप्, रथोद्धता, इन्द्रवज्रा इत्यादीनि त्रयोदशवृत्तानि प्रयुक्तानि।
6. लक्ष्मीराज्ञी
उत्तरमलबारदेशस्य कटत्तनाट्टुराजानां कुटुम्बस्य अङ्गमासीत् लक्ष्मीराज्ञी। तस्याः सन्तानगोपालकाव्ये भक्तिरसमेव दृश्यते। लोकालोकपर्वतस्य, विष्णोः वर्णनं च अतिमनोहरमेव।
कठिनसमासान् निरस्सृत्य सरलया मधुरया शैल्या काव्यं व्यरचयत्। वसन्ततिलकम्, मालिनी, शिखरणी, पुष्पिताग्रा प्रभृति नववृत्तानां प्रयोगमकरोत्।
4.मधुरवाणी
पञ्चदशशताब्द्यां तंजावूर् देशस्य राणी आसीत् मधुरवाणी। रघुनाथनृपतेः राजसभायां मधुरवाणी इति नाम्नी आशुकवयित्री अप्यासीत्। तया श्रीरामायणकाव्यतिलकं विरचितम्। तालपत्रेषु लिखितः "रामायणसार" इति ग्रन्थः बंगलौरनगरे उपलब्धः। सा सङ्गीते तथा अन्यासु कलासु निपुणा आसीदिति अन्य ग्रन्थस्य भूमिकया ज्ञायते। सा नैषधचरित- कुमारसम्भवग्रन्थयोः छायानुवादमपि अकरोत्।
5. अवन्तिसुन्दरी
अवन्तिसुन्दरी कवेः तथा आचार्यस्य राजशेखरस्य विदुषी पत्नी आसीत्। सा चौहानवंशस्य पुत्री आसीदिति निश्चयेन ज्ञातम्। राजशेखरस्य पत्नी इत्यस्मात् तस्याः समयः नवमशताब्द्याः उत्तरार्धे वा दशमशताब्द्याः पूर्वार्धे वा स्यादिति।
अवन्तिसुन्दरी संस्कृत-प्राकृतभाषयोः विदुषी आसीत्। सा तु एकैव महिला कवयित्री तथा आचार्या द्वे स्थाने गौरवेण अतितिष्ठत्। काव्यमीमांसायाः नवमाध्याये अर्थव्याप्तौ स्वमतं व्यक्तीकृत्य तया कृतपद्येनैव तस्याः काव्यश्रेष्ठत्वं ज्ञायते। यथा-
"वस्तुस्वभावोत्र कवेरतन्त्रो गुणागुणावुक्तिवशेन काव्ये।
स्तुवन्निबध्नात्यमृतांशुमिन्दुं निन्द्यं तु दोषाकरमाह धूर्तः।।"
आधुनिककालकवयित्र्यः
आधुनिककालेपि अनेकाः श्रेष्ठाः कवयित्र्यः विद्यन्ते। त्रिवेणी, पण्डिता क्षमारावः, बालाम्बा, ज्ञानसुन्दरी, इत्यादयः अनेकाः सन्त्यपि तासु पण्डिता क्षमारावः प्रमुखा मन्यते।
पण्डिता क्षमारावः
सा पूनानगर्यां 4 जुलाई 1890तमे वर्षे अजायत। पिता पण्डितः शङ्करः पाण्डुरङ्गः संस्कृतनविद्वानासीत्। सा आङ्गलभाषा, फ्रैंच्, जर्मन्भाषासु अभ्यासमकरोत्। गाँन्धिमहोदयस्य स्वाधीनतासंग्रामात् प्रचोदनं स्वीकृत्य "सत्याग्रहगीता" इत्याख्यं व्यरचयत्।
"मीराचरितम्", "उत्तरसत्याग्रहगीता", "शङ्करजीवनाख्यानम्" आदयः तस्याः कृतयः। उत्कृष्टसाहित्यस्य रचनायै अस्यै लेखिकायै "पण्डिता", "साहित्यचन्द्रिका" चेति उपाधिद्वयं प्रदत्तम्।
"गम्भीरो विषयः क्वायं श्रेष्ठसत्याग्रहात्मकः।
कृत्स्ने जगाति विख्यातः क्व मे लघुतमा मतिः।।"
एतेन श्लोकेन तस्याः रचनायां काव्य-प्रतिभा, मानवीयसंवेदना तथा राष्ट्रप्रेममपि दृश्यन्ते।
उपसंहारः
संस्कृतसाहित्ये पुरुषापेक्षया स्त्रीकवीनां संख्या न्यूना तथापि तस्य संवर्धनाय स्त्रीणां योगदानं महत्तरमस्ति। संस्कृतकविभिरिव कवयित्रीभिरपि अधिकतया प्रेममेव विषयरूपेण स्वीकृतम्। ताः पाठकान् सदाचारज्ञानमधिकृत्य मोक्षमधिकृत्य वा कोपि सन्देशः कवितामाध्यमेन प्रदातुं नोद्दिश्यन्ते। कवितारचनार्थमेव लिखन्ति न तु अन्यकार्याणां प्रचारणाय। तासां पङ्क्तयः उत्तेजकाः, विकारप्रदर्शकाः, सूचकाः, उत्साहजनकाः च भवन्ति। श्लोकेषु निष्कापट्यं च दृश्यते।
भावदेवी, चण्डालविद्या, चन्द्रकान्तभिक्षुणी, चिन्नम्मा, गन्धदीपिका, गौरी, इन्दुलेखा, जघनचपला, केरली, कुटला, लक्ष्मी, लक्ष्मीदेवी ठकुरणि, मदालसा, मदिरेक्षणा, मारुला, मोरिका, नागम्मा, पद्मावती, फल्गुनहस्तिनी, राजकन्या, रसवती प्रियमवदा, सरस्वती, सीता, सुभद्रा, त्रिभुवनसरस्वती, वेणीदत्ता, विकटनितम्बा, कनकवल्ली, कामलीला, सुनन्दा, ललिदाङ्गी, मधुराङ्गी, विमलाङ्गी, वैजयन्ती, प्रभुदेवी लाटी, निजयाङ्का, अनसूया कमलाबायी, बापाट्, बालाम्बा, हनुमाम्बा, ज्ञानसुन्दरी, मण्डयं धाति, राधाप्रिया, रमाबाई, श्रीदेविबलरात्री, सुन्दरवल्ली, त्रिवेणी प्रभृति कवयित्र्यः अपि सन्ति, किन्तु तासां केवलं नामान्येव प्राप्तानि।
।।सहायकग्रन्थसूची।।
संस्कृतग्रन्थाः।
1. कवयित्री कण्ठाभरणम्
(Contribution of Women Writers to Sanskrit and allied literature)
Prof. Jagadish Sahai Kulshrethra
Vidyanidhi Prakasan, Delhi
First edition 2000
हिन्दीग्रन्थाः।
2. औरत् कल्, आज् और् कल्
आशा रानी व्होरा
कल्याणी शिक्षा परिषद्
प्रथमसंस्करण् 2005
आङ्गलेयग्रन्थाः।
3. The Contribution of Women to Sanskrit Literature
J.B.Chaudhari
Vol.I&II
Cosmo Publication 2001
4. A Companion to Sanskrit Literature
Sures Chandra Banerji
Motilal Banarsidass, Delhi
Second edition 1989