Thursday 29 March 2018

 कृतयुगम्             ( कविता )   डा. गदाधर त्रिपाठी
अबाधितोऽस्ति कालो हि यद्यपि गणना भवति न वै।
स्थापनाय व्यवस्थाया: परिकल्पितानि युगानि च।।
विभाजनं यद्यपि च वेदेषु स्पष्टं नैव कृतञ्च वै।
स्मृतिषु च पुराणेषु स्पष्टरूपेण कालगणना कृताभवत्।।
दिवसोऽक्षयतृतीया हि खल्वादिदिवसश्च व्याकृतः।
ज्ञानं ध्यानं तपश्चरणं प्रमुखान्यासन् तदा हि वै।।
प्रतिष्ठा कर्मणासीत् कर्मणा च कृतकृत्यता।
तेनैवायं कृतयुगोऽस्ति सर्वे सत्पथगामिनः।।
चतुर्णामीशावताराणां पुराणेषु चर्चा कृता।
मत्स्यकूर्मवराहनृसिंहादयश्च ह्यासन् तेषु च वै।।
धर्मशास्त्रं मनोः रचितं प्रामाणिकमासीत्तदा हि वै।
तीर्थं पुष्करमासीत् प्रचलिता मुद्रा स्वर्णमयी तदा।।
प्रचलनं स्वर्णपात्राणां पूर्णं पुण्यं हि जीवने।
पापकर्मणामभावश्च कृतयुग आसीत् सर्वदा।।
आयु: सहस्रवर्षाणां मनुष्यस्यासीत्तदा हि वै।
लम्बमानं शरीरञ्च वै सन्तोषस्याधानं मुखम्।।
ब्राह्मणानां प्रतिष्ठा चासीद्धि कृतयुगे तथा।
विद्याया: प्रकाशश्चादरणीयोऽभवत्तदा।।
समाप्ते कलियुगे चैव कल्किर्भगवान् भविष्यति।
स्थापयिष्यति कृतयुगं सुखं प्राप्स्यन्ति मानवाः।।