Monday 16 July 2018


ऐतिहासिककाव्येषु आङ्गलसाम्राज्यम्।
डा. रोहिणी के.

Research Article  No: 20180716 

 अनुसन्धानाध्ययनम्
Dr. ROHINI K.
Guest Lecturer 
Dept. of Sanskrit
Sree Krishna college, Guruvayoor.


कैरलीभाषाया: व्यवस्थापक:, युगप्रभाव: केरलपाणिनि: इति नाम्ना प्रसिद्ध: ए. आर्. राजराजवर्मा महोदय:। अनेन विरचितमिदं काव्यं चरितमहाकाव्येषु अद्वितीयस्थानमर्हति। आङ्गलभारतचरित्रमेव वर्ण्यविषय:। अन्यचरितकाव्यापेक्षया आङ्गलसाम्राज्यस्य वर्णना नदीप्रवाहरूपेणैव भवति। आङ्गलभारतचरितं विशदरूपेण प्रतिपादित एका एव संस्कृतकृतिरस्ति आङ्गलसाम्राज्यम्।
लण्टन् नगरवर्णनया काव्यस्यास्य आरम्भ:। ‘ब्रिटीष् ईस्ट् इन्ट्या कम्पनी’ नाम संघटनाया:, 1900 तम भारताङ्गलचरितं च अत्र विशदरूपेण प्रतिपादयति। काव्येस्मिन् 23 सर्गेषु 1900 श्लोका: सन्ति। आङ्गलसाम्राज्ये 1911 श्लोका: सन्ति, किन्तु 11 श्लोका: कवि: तस्य एव ‘पञ्चाशत्पूर्तिपञ्चाशिका’ नामक काव्यात् स्वीकृता: भवन्ति। मातुल: ‘केरलकालिदास:’ इति प्रथित: केरलवर्मा वलियकोयितम्पुरान् महाभागस्य निर्देशानुसारमेव काव्यस्यास्य रचना कृता इति 1897 जूण् मासस्य दैनिक्यां लिखितमासीत्। ग्रन्थस्य अवतारिका ए. शेषय्या शास्त्रिमहोदयेन, लघुटिप्पणी टि. गणपतिशास्त्रिणा च लिखितं वर्तते। 1901 तमे वर्षे ग्रन्थस्यास्य प्रकाशनमभवत्। काव्येस्मिन् स्थल-कथापात्र-नदीनां नामानि स्थूललिप्या लिखिता वर्तते। प्रत्येकपुटस्य वामभागे तत्र वर्णितमुख्यविषयस्य वर्षस्य च विवरणमपि दत्तमस्ति।
अस्ति प्रशस्तेष्वतलान्तिकाब्धि-
क्षिप्तेषु विष्वक्पुरमाङ्गलेषु
तिंसा नदीतीरवतंसभूतं
भूमण्डनं लण्टननामधेयम्।।22 (आ. सा. 1/1)
एतेन श्लोकेन लण्टन् नगरस्य वर्णनया ग्रन्थारम्भ: भवति। कुमारसभ्मवस्य शैली एव अत्र प्रयुक्त: इति एतेन काव्येन ज्ञायते। प्रथमसर्गस्य नाम इन्ट्याप्रवेश: इत्यस्ति। काव्येस्मिन् 29 छन्दसां प्रयोग: कविना कृत:।
‘आद्यचरितानुवर्णना’ नामकस्य द्वितीयसर्गस्य 77 श्लोकेषु भारते आर्याणाम् आगमनकालत: मुगलचक्रवर्तीनां शासनपर्यन्तविस्तृतकालस्य रूपरेखा कृता वर्तते। क्लैव् वर्यस्य नायकत्वेन दक्षिणभारते आङ्गलानाम् आधिपत्यस्य शाक्तीकरणमेव ‘कर्णाटकास्कन्दनं’ नामके तृतीयसर्गे प्रतिपाद्यविषय:। चतुर्थसर्गस्य ‘परङ्गिनिष्कासनम्’ इति नाम अन्वर्थमेव। भारते फ्रञ्च् आधिपत्यस्य पतनमेव अस्मिन् सर्गे प्रतिपाद्यते। ‘कालगर्तरात्रिवृत्तम्’ इति पञ्चमसर्गस्य नाम, वङ्गविजय: एव षष्ठसर्गस्य नाम। बंगाल् कलापविवरणं तथा बंगाल् गवर्णर् पदव्यां क्लैव् वर्यस्य अवरोधनम् इत्यादय: सप्तमे सर्गे वर्णिता:। अष्टमे तु वारन्हेस्टिङ् वर्यस्य भरणपरिष्कार: रेगुलेटिंग् आक्ट्, पिट् वर्यस्य इन्ट्या आक्ट् इत्यादय: विषया: प्रतिपादिता:। नवमे सर्गे मराठाचरितं, दशमे मैसूर् चरितं च उपवर्णितम्। अनन्तरसर्गत्रये तथा चतुर्दशसर्गस्य पञ्चविंशतिश्लोकपर्यन्तं टिप्पुसुल्तान् राज्ञ: वर्णना च भवति। चतुर्दशसर्गस्य शिष्टश्लोकै: वेल्लस्लीप्रभो: शासनवर्णना कृता वर्तते। पञ्चदश सर्गे मरात्ताराज्ञां पराजय:, षोडशसर्गे ब्रिटीष् शासकै: विहितशासनक्रम: चित्रित:। मध्यभारतोधृति: च सप्तदशसर्गे:, आम्हेस्ट् बेन्टिक् आक्लन्ट् इत्यादयानां भरणाधिपानां भरणक्रम: अष्टादशे सर्गे च उपवर्णित:। डेल्हौसे: नयतन्त्रै: जायमानं सिक् पतनमेव नवदशसर्गस्य प्रतिपाद्यविषय:। डेल्हौसी प्रभो: रेल् व्यवस्था, पत्रालयव्यवस्था, विद्याभ्यासपरिष्कार: च विंशे सर्गे प्रतिपादित:। प्रथमस्वातन्त्र्यसंग्रामवर्णना एव महासमुप्पिञ्चिलं इत्यस्मिन् एकविंशे अध्याये वर्ण्यते। राजश्रीपरिग्रहमिति द्वाविंशसर्गस्य नाम। यद्यपि आङ्गलसाम्राज्यस्थापनमिति काव्यस्येतिवृत्तम् एषु अध्यायेषु समाप्तं याति, तथापि विक्टोरिया राज्ञ्या: भरणस्वीकारोद्घोष: तत्कालीनभरणक्रम: इत्यादि विषयान् प्रवक्तुं साम्राज्यसिद्धिरिति त्रयोविंशसर्गस्य विनियोग: कविना विहितं वर्तते।
      विषयदृष्ट्या आङ्गलशासनप्रशंसनमेव कवे: मुख्यलक्ष्यमित्यत: कालिकप्रसक्तिरेव वर्तते। रचनाशैल्या: मनोहारितया ऐतिहासिकप्रधानतया च आङ्गलसाम्राज्यमिति अस्य काव्यस्य महत्तमं स्थानं चरितकाव्यप्रस्थाने वर्तते इत्यत्र नास्ति सन्देह:।