Saturday 12 January 2019

चोरभयम्
कर्मणा भाग्यबलेनैव सर्वेषामंशः सुनिश्चितः।
अनधिकारात् पराशं यो गृह्णाति सैव चोरः ॥१॥
धर्मांगेष्वस्तेयः प्राक्कालाद्धि स्वीकृतः।
चोरकर्म  अधर्म इति शास्त्रेषूपवर्णितः ॥२॥
येषामभिरुचिर्मद्ये द्यूतकर्मणि तथा च वै।?
क्रियास्वभिरुचिर्नास्ति हि ते चोरा भयकारकाः ॥३॥
संयोगाद् विधिवशाच्चैव केचन चोरा हि जीवने।
आश्रयहीनाश्च ये सन्ति वृत्याभावास्तथा च वै ॥४॥
संचिता यैः सम्पत्ति: सर्वे भयभीतास्तथा।
रक्षकै:सुरक्षिता:केचनान्ये जाग्रता:सदा ॥५॥
हिंसका भवन्ति केचन वा  सर्वदा भयकारकाः।
कामक्रोधादिकाश्चैव सद्वृत्तीनाञ्च चोरका: ॥६॥
सर्वे भयदायका नैव प्रिया हृदयहारकाः।
इच्छा भवति सर्वेषां तथा चोरास्तु जीवने ॥७॥
आसीन्नवनीतचोरस्तु  गोपीनां हृदयहारकः।
हरत्वीशो मम हृदयञ्चैव जीवानामिच्छा सदा ॥८॥

                     -------------------