Thursday 31 January 2019

‘मनोगतम्’ – ५२  
‘मन की बात’ (५२-वीं कड़ी)   प्रसारणतिथि: - २७-o१-२०१९     
          [“मन की बात” - इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]                                  
                                 - भाषान्तर-कर्ता -  डॉ.बलदेवानन्द-सागरः 
                मम प्रियाः देशवासिनः, नमस्कारः | मासेsस्मिन् एकविंशे दिने देशः गहन-शोकस्य वृत्तम् अध्यगच्छत् | कर्णाटके टुमकुर-जनपदे श्रीसिद्धगङ्गामठस्य डॉक्टर-श्री-श्री-श्रीशिवकुमार-स्वामि-पादः ब्रह्मणि लीनः| शिवकुमारस्वामिपादः नैजं सम्पूर्णमपि जीवनं समाज-सेवायै समर्पितवान् | भगवान् बसवेश्वरः अस्मान् अशिक्षयत् – ‘कायकवे कैलास’– अर्थात् कठोर-परिश्रमं कुर्वन् स्वीय-दायित्व-निर्वहणं हि,  भगवतः शिवस्य निवास-स्थाने, कैलाशधाम्नि स्थेय-तुल्यमस्ति| शिवकुमारस्वामिपादः अस्यैव दर्शनस्य अनुयायी आसीत्, तथा चासौ स्वीये एकादशोत्तर-शत-वर्षमिते निजे जीवन-काले परस्सहस्र-मितानां जनानां शैक्षिकार्थिक-सामाजिकोत्थान-कार्याणि अकरोत् | तस्य ख्यातिः तादृक्-विद्वद्वर्यरूपेणासीत्, यो हि आङ्ग्ल- संस्कृत-कन्नड़-भाषासु अप्रतिहत-गतिः अवर्तत | असौ समाज-परिष्कारकः आसीत् | सः नैजं पूर्णमपि जीवनं अस्मिन्नेव कर्मणि अनैषीत् यत् जनाः शिक्षां भोजनमाश्रयम् आध्यात्मिक-ज्ञानञ्चावाप्नुयुः| कृषकाः सर्वविधं कल्याणमवाप्नुयुः, - इयमेव स्वामिपादस्य जीवनस्य प्राथमिकता अवर्तत | सिद्धङ्गा-मठं नियमितरूपेण पशु-मेलां कृषिमेलाञ्चायोजयति स्म | नैकवारमहं परमपूज्य-स्वामि-पादस्य आशीर्वादावाप्तेः सौभाग्यम् अवाप्नवम् | सप्तोत्तर-द्विसहस्र-तमे वर्षे, श्री-श्री-श्रीशिवकुमारस्वामि-वर्यस्य शताब्दवर्षसमुत्सव-समारोहावसरे अस्माकं पूर्व-राष्ट्रपतिः डॉ.ए.पी.जे
.अब्दुलकलाम-महोदयः टुमकुरम् अगच्छत् | कलाम-महाभागः अवसरेsस्मिन् पूज्य-स्वामि-पादानां विषये कवितामेकाम् अश्रावयत् | सः अकथयत् –
“O my fellow citizens - In giving, you receive happiness,
In Body and Soul - You have everything to give.
If you have knowledge - share it
If you have resources - share them with the needy.
You, your mind and heart
To remove the pain of the suffering, and, cheer the sad hearts.
In giving, you receive happiness Almighty will bless, all your actions.”
       डॉ.कलाम-महाभागस्य एषा कविता श्रीश्रीश्रीशिवकुमार-स्वामिपादस्य जीवनस्य सिद्धगङ्गामठस्य च लक्ष्यं सुन्दरतया प्रस्तौति| पुनरेकवारं, एतादृशाय महापुरुषायाहं श्रद्धा-सुमनान्सि अर्पयामि |
        मम प्रियाः देशवासिनः ! पञ्चाशदुत्तरैकोनविंश-शततमे वर्षे जान्युआरि-मासे षड्विंशे दिने अस्मदीये देशे सम्विधानं प्रावर्तत, तथा च, तस्मिन् दिने अस्माकं देशः गणतन्त्र-राष्ट्रमजायत, ह्यः एव वयं भव्यतया निज-शौर्य-वीर्य-प्रदर्शन-पुरस्सरं गणतन्त्रदिवसमपि आयोजितवन्तः परञ्चाहम्, अद्य किञ्चित् अन्यत् कथाजातं कथयितुमभिलषामि | अस्माकं देशे एकातितरां महत्वपूर्णा संस्थास्ति, या हि अस्माकं लोकतन्त्रस्य अभिन्नाङ्गत्वेन तु अस्त्येव, तथा चास्माकं गणतन्त्रादपि प्राचीनास्ति – भारतस्य निर्वाचनायोगस्य विषये कथयामि | जान्युआरि-मासे पञ्चविंशे दिने निर्वाचनायोगस्य स्थापनादिवसः आसीत्, यो हि ‘राष्ट्रिय-मतदातृदिवस’रूपेण आमान्यते | भारते यत्प्रमाणेन निर्वाचनानि आयोज्यन्ते तद्दृष्ट्वा अशेष-जगतो जनाः आश्चर्यमनुभवन्ति, तथा चास्माकं निर्वाचनायोगः येन कौशलेन एतानि आयोजयति, तद्दृष्ट्वा प्रत्येकमपि देशवासी निर्वाचनायोग-विषयकं गौरवमनुभवतीति तु स्वाभाविकमेव |  अस्माकं देशे सुनिश्चितमिदं कर्तुं न मनागपि उपेक्ष्यते यत् भारतस्य प्रत्येकमपि नागरिकः, यो हि पञ्जीकृतः मतदातास्ति,  सः मतदानावसरम् अवाप्नुयात् |
      यदा वयं शृण्मः यत् हिमाचलप्रदेशे, समुद्रतलात् पञ्चदश-सहस्र-फीट्-मितोच्छ्रिते क्षेत्रेsपि मतदानकेन्द्रं स्थाप्यते, तदा अण्डमान-निकोबार-द्वीपसमूहे सुदूरवर्तिषु द्वीपेष्वपि मतदानं व्यवस्थाप्यते| तथा च, भवन्तः गुजरात-विषये नूनं श्रुतवन्तः स्युः यत् गिर-जङ्गलेषु, एकस्मिन् सुदूरवर्तिनि क्षेत्रे, एकः मतदान-कक्षः, केवलम् एकस्य मतदातुः कृते एव स्थाप्यते | कल्पयन्तु... केवलमेकस्य मतदातुः कृते | यदा वयं एतादृशीः कथाः शृण्मः तदा निर्वाचनायोग-विषयिणी गर्वानुभूतिः स्वाभाविकी एव | तमेकं मतदातारमभिध्याय, सः मतदाता, नैजं मताधिकारमवाप्नुयादिति कृत्वा, निर्वाचनयोगस्य कर्मचारिणां पूर्णमपि वृन्दं सुदूर-वर्तिनि क्षेत्रे प्रयाति, तथा च, मतदानं व्यवस्थापयति – तथा चेदमेव, अस्मदीय-लोकतन्त्रस्य सौन्दर्यमस्ति |
अहम्, अस्मदीय-लोकतन्त्रस्य दृढतायै अनारतमनुष्ठीयमान-प्रयासार्थं निर्वाचनायोगं प्रशंसामि | सर्वेषामपि राज्यानां निर्वाचनायोगानां, सर्वेषामपि सुरक्षा-कर्मिणां, अन्य-कर्मचारिणामपि प्रशंसां करोमि ये मतदान-प्रक्रियायां सहभागित्वमावहन्ति, तथा च, स्वतन्त्रं निष्पक्षञ्च निर्वाचनं सुनिश्चिन्वन्ति|
        ऐषमः अस्माकं देशे लोकसभा-निर्वाचनानि सम्पत्स्यन्ते, अयं हि प्रथमोsवसरः भविता यदा एकविंश-शताब्दे गृहीत-जन्मानो युवानो लोकसभा-निर्वाचनेषु निज-मताधिकारम् उपयोक्ष्यन्ति |  तेषां कृते देशस्य दायित्वं निजस्कन्धयोः वोढुमवसरः समुपागतः | सम्प्रति ते देशस्य निर्णय- प्रक्रियायाः सहभागिनो भवितुमग्रेसरन्ति | तेषां कृते निज-स्वप्नानि, देशस्य स्वप्नैः संयोजयितुं कालः समुपागतः | अहं युव-जनान् साग्रहं कथयामि यत्ते यदि मतदानार्थम् अर्हाः सन्ति चेत्, नूनं आत्मानं मतदातृरूपेण पञ्जीकारयेयुः | अस्मत्सु प्रत्येकमपि अनुभूयात् यत् देशस्य मतदातृत्वेन भवितुं, मताधिकारञ्च प्राप्तुम् अधिगतावसरः, जीवनस्य महत्वाधायिनीषु उपलब्धिषु अनन्यतमः महत्वपूर्णावसरोsस्ति | युगपदेव मतदानं हि मम कर्त्तव्यमस्ति – एतादृशो भावोsस्मत्सु सम्वर्धेत |  जीवने कदाचित् कस्मादपि कारणात्, यदि मतदानं कर्तुं नैवापारयाम चेत्, नूनमेतद्विषयिणी गहना पीडा स्यात् |  कदाचित् कुत्रचिच्च देशे किमपि अनुचितं भवत् दृष्ट्वा नूनं दुःखं स्यात् |  एवम्! अहं मतदानं नैव कृतवान्, तद्दिने नाहं मतदानार्थं गतवान् – तदर्थमपि अद्य मम देशः हानिमनुभवति | अस्माकं कृते अस्य दायित्वस्य अनुभूतिः भवेत् | एषा अस्मदीया वृत्तिः, अस्माकञ्च प्रवृत्तिः भवितव्या | एते अस्मदीयाः संस्काराः भवेयुः | अहं देशस्य सुख्यातान् जनान् साग्रहं कथयामि यत् वयं सर्वे सम्भूय मतदातृ-पञ्जीकरणस्य, आहोस्वित् मतदान-दिने मतदानस्य च कृते, अभियानानि प्रचाल्य जनान् जागरुकान् विदध्म | आशासे यत् यूनाम् अधिसंख्यं युवमतदातृरूपेण पञ्जीकृतं भविष्यति तथा च, निज-सहभागितया अस्मदीयं लोकतन्त्रं दृढतरं विधास्यति |
        मम प्रियाः देशवासिनः,  भारतस्य अस्यां महत्यां धरण्याम् अनेके महान्तो जनाः प्रसूताः तथा च, ते महापुरुषाः मानवतायै कानिचन अद्भुतानि अविस्मरणीयानि च कार्याणि अकुर्वन् | अस्मदीयोsयं देशः बहुरत्ना वसुन्धरा | एतादृशेषु महापुरुषेषु अन्यतमः आसीत् – नेताजी-सुभाष- चन्द्रबोसः | जान्युआरि-मासे त्रयोविंशे दिने पूर्णोsपि देशः पृथक्-शैल्या तस्य जन्म-जयन्तीमायोजितवान् | नेताजी-वर्यस्य जन्मजयन्त्यवसरे, भारतस्य स्वातन्त्र्याय विधीयमाने सङ्घर्षे योगदान-कर्तृभ्यो वीरेभ्यः समर्पितस्य   एकस्य सङ्ग्रहालयस्य उद्घाटनावसरस्य सौभाग्यमहं प्राप्नवम् | भवन्तो जानन्ति यत् लालकिलेति रक्तदुर्गस्य अभ्यन्तरं स्वातन्त्र्यावाप्ति-कालात् अधुनावधि-पर्यन्तं अनेके कक्षाः भवनानि च पिहितानि एवासन् | रक्तदुर्गस्य पिहिताश्च ते कक्षाः नितरां सुन्दर-सङ्ग्रहालय-रूपेण परिवर्तिताः, नेत्रे सुभाषचन्द्रबोस-वर्याय, Indian National Army – ‘याद-ए-जलियां-[1857]–Eighteen Fifty Seven-India’s First War of Independence-इत्येतेभ्यः समर्पित-सङ्ग्रहालयम् एनं पूर्णमपि परिसरञ्च ‘क्रान्तिमन्दिर’-रूपेण परिवर्त्य देशाय समर्पितोsस्ति | एतेषां सङ्ग्रहालयानां प्रत्येकमपि इष्टिकायाम्, अस्माकं गौरवपूर्णेतिहासस्य सुरभिः निवसति | सङ्ग्रहालयस्य प्रत्येकमपि स्थले वर्तमानानि अस्मदीय-स्वाधीनता-सङ्ग्रामस्य वीराणां कथावर्णनस्य तथ्यानि, अस्मान् इतिहासस्य अभ्यन्तरं प्रवेष्टुं प्रेरयन्ति | अस्मिन्नेव स्थाने, कर्नलप्रेम-सहगल-कर्नलगुरबख्शसिंहढिल्लो-मेजर-       जनरलशाहनवाज़खां-इत्येतेषु भारतमातुः वीरपुत्रेषु आङ्ग्ल-प्रशासनेन वादः प्रवर्तितः आसीत्|
  यदाहं रक्तदुर्गे, क्रान्तिमन्दिरे, नेतृ-वर्येण सम्बद्धायाः स्मृतेः दर्शनं कुर्वन्नासं तदा नेतृ-वर्यस्य कौटुम्बिक-सदस्याः मह्यं विशिष्टमेकं शिरस्कम् उपायनीकृतवन्तः | पूर्वं कदाचित् नेताजी-महोदयः एतत्-शिरस्कं धारयन् आसीत् | तत्-शिरस्कमहं सङ्ग्रहालये एव स्थापितवान्,  येन तत्रागन्तुकाः जनाः अपि तत्-शिरस्क-दर्शनं कृत्वा देशभक्तिप्रेरणामादध्युः | वस्तुतस्तु निज-नायकानां शौर्य-देशभक्ति-स्वरूपं पौनःपुनिकं पृथक्-पृथक्तया च नूतन-सन्ततिं यावत् सततं प्रापयितुं परमावश्यकं भवति | नातिचिरम्, मास-पूर्वमेव डिसेम्बर-मासे त्रिंशत्तमे दिनेsहम् अण्डमान-निकोबार-द्वीपं प्रयातः आसम् | एकस्मिन् कार्यक्रमे, तस्मिन्नेव स्थाने त्रिवार्णिकं ध्वजम् उत्तोलितवान्, यत्र नेताजी-सुभाषचन्द्रबोस-वर्येण पञ्च-सप्तति-वर्षेभ्यः प्राक् त्रिवार्णिक-ध्वजः उत्तोलितः आसीत्| एवमेव गतवर्षे ओक्टोबर-मासे रक्तदुर्गे त्रिवार्णिकध्वजः उत्तोलितः आसीत्तदा सर्वेsपि आश्चर्यमन्वभवन्, यतो हि तत्र तु ओगस्ट-मासे पञ्चदशे दिने एव एतादृशी परम्परा वर्तते | अयमवसरः आसीत्– आज़ादहिन्दसर्वकारस्य सङ्घटनस्य पञ्च-सप्तति-वर्षाणां पूर्तेः|
          सुभाष-बाबू-महोदयः सर्वदैव वीरसैनिक-रूपेण कुशल-सङ्घटन-कर्तृरूपेण च स्मरिष्यते | एकः तादृशो वीरसैनिकः येन स्वाधीनता-सङ्घर्षे महत्त्वाधायिनी भूमिका निर्व्यूढा | “ दिल्ली चलो’,  ‘तुम मुझे खून दो, मैं तुम्हे आज़ादी दूंगा” - सदृशैः ओजस्वि-समाघोषैः नेताजी-महोदयः प्रत्येकमपि भारतीय-हृदयं विजितवान् | नैक-वर्ष-पर्यन्तम् इदमभियाच्यते स्म यत् नेतृ-महोदयेन सम्बद्धाः सञ्चिकाः सार्वजनिक-रूपेण प्रकाशनीयाः, तथा चाहं प्रसीदामि यत्, कार्यमिदं वयं पूर्णतामनयाम | तद्दिनमहं सुस्मरामि यदा नेतृवर्यस्य कृत्स्नमपि कुटुम्बं प्रधानमन्त्रिनिवासमागच्छत् | वयं सम्भूय नेतृ-वर्येण सम्बद्धाः अनेकाः घटनाः चर्चितवन्तः तथा च, नेताजीसुभाषचन्द्रबोस-वर्याय श्रद्धाञ्जलिमर्पितवन्तः|
    प्रसीदामि यत् भारतस्य महद्भिः नायकैः सम्बद्धानि अनेकानि स्थानानि दिल्ल्यां विकासयितुं प्रयतितम् | भवतु नाम तत् बाबासाहेब-आम्बेड्करेण सम्बद्धं षड्विंशतिः, अलीपुररोड-इति स्थानं वा सरदारपटेल-सङ्ग्रहालयो वा भवतु तत् क्रान्ति-मन्दिरम् | यदि भवन्तो दिल्लीमागच्छन्ति चेत् एतानि स्थानानि अवश्यम् अवलोकयन्तु |
      मम प्रियाः देशवासिनः, अद्य वयं यदा नेताजी-सुभाषचन्द्र-बोस-वर्यस्य विषयस्य चर्चां कुर्मः, तदपि ‘मन की बात’-इति कार्यक्रमे, तदाहं भवद्भिः साकं नेतृ-वर्यस्य जीवनेन सम्बद्धां घटनामेकां सम्विभाजयितु- मभिलषामि | सर्वदैवाहं रेडियो-इत्येतत् जनैः सह संयोजनस्य महत्वपूर्ण-माध्यममिति स्वीकृतवान्, तद्वत् नेतृवर्यस्यापि रेडियो-इत्यनेन साकं घनिष्ठः सम्बन्धः आसीत्, तथा च, सोsपि देशवासिभिः सम्भाषणं कर्तुं रेडियो-माध्यमम् अचिनोत् |
        द्विचत्वारिंशदुत्तरैकोनविंशतमे वर्षे सुभाषबाबू-महोदयः आज़ाद-हिन्दरेडियो-इति प्रसारणमारभत, तथा च, रेडियोमाध्यमेन सः ‘आज़ाद- हिन्दसेनायाः’सैनिकैः देशवासिभिश्च सम्भाषणं करोति स्म | सुभाष-महोदयस्य रेडियो-प्रसारणारम्भस्य एका पृथगेव शैली आसीत् | सः सम्भाषणमारभमाणः सर्वप्रथमं कथयति स्म – This is Subhash Chandra Bose, speaking to you over the Azad Hind Radio... तथा चामान्यते यत् एतावत् श्रुत्वैव, श्रोतृषु नूतनोत्साहस्य अभिनवायाः चोर्जायाः सञ्चारो भवति स्म |
     अहं सूचितः यत् रेडियो-केन्द्रमिदं, साप्ताहिक-वार्ताप्रसारणमपि करोति स्म, यद्धि हिन्दी-तमिलाङ्गलोर्दू-बांग्लामराठीपंजाबीपश्तोप्रभृति-भाषासु विधीयते स्म | अस्य रेडियो-केन्द्रस्य सञ्चालने गुजरात-वास्तव्यस्य एम्.आर्.व्यास-महोदयस्य महत्त्वपूर्णा भूमिका आसीत् | 
    आज़ादहिन्दरेडियोतः प्रसार्यमाणाः कार्यक्रमाः सामान्यजनेषु अतितरां लोकप्रियाः आसन्, तथा च, एतैः कार्यक्रमैः अस्मदीयाः स्वाधीनतासङ्ग्रा- मस्य योद्धारोsपि महतीं शक्तिम् अलभन्त |
    क्रान्तिमन्दिरेsस्मिन् एको दृश्यकला-सङ्ग्रहालयोsपि विनिर्मितः|अत्र भारतस्य कलां संस्कृतिञ्च आकर्षकरीत्या प्रदर्शयितुं प्रयतितम् | सङ्ग्रहा- लयेsस्मिन् चतस्रः ऐतिहासिक्यः प्रदर्शन्यः सन्ति, तथा चात्र, शताब्द-त्रय-प्राचीनाः सार्ध-चतुश्शताधिकाः चित्र-कलाकृतयो वर्तन्ते | सङ्ग्रहालयेsस्मिन् अमृता-शेरगिल-राजारविवर्मावनीन्द्रनाथटैगोर-गगनेन्द्रनाथटैगोर-नन्दलालबोस-जामिनीराय-सैलोज़मुखर्जी-सदृशानां श्रेष्ठानां कलाकाराणां उत्कृष्टकार्याण्यत्र कुशलतया प्रदर्शितानि सन्ति | तथा चाहं, भवतः सर्वान् विशेषाग्रहं करोमि यत् भवन्तः सर्वे तत्र प्रयान्तु, गुरुदेवरबीन्द्रनाथ-टैगोरस्य च कार्याणि चावश्यम् अवलोकयन्तु |
     साम्प्रतं भवन्तो विचारयन्तः स्युः यत् अत्र चर्चा तु कलायाः प्रवर्तते, तथा चाहं गुरुदेव-टैगोरस्य उत्कृष्टकार्याणामवलोकनार्थं कथयामि | भवन्तः अधुनावधि गुरुदेवरबीन्द्रनाथ-टैगोरं लेखक-सङ्गीतकाररूपेण जानन्तो भवेयुः परञ्चाहं सूचयितुमिच्छामि यत् गुरुदेवः महान् चित्रकारोsप्यासीत् | सः अनेकान् विषयान् आधृत्य चित्राणि विरचितवान् | सः पशु-पक्षिणामपि चित्राणि विरचितवान्, अनेकानि सुन्दराणि परिदृश्यान्यपि असौ चित्रितवान् तथा चैतावदेव नालम्, सः मानव-चरित्राण्यपि कलामाध्यमेन स्थूल-पटेषु उत्कीर्णवान् | तथा चात्र विशिष्टमिदं तथ्यं यत् गुरुदेव-टैगोरेण स्वीय-कला-कार्याणाम् अधिकांशं नाम-रहितं स्थापितम् | सः आमिनोति स्म यत् तस्य कला-कृति-दर्शकः स्वयमेव तां कलाकृतिमवगच्छेत्, कलाकृतौ तद्द्वारा प्रदत्तं सन्देशं निज-मन्तव्येन अवगच्छेत् | तस्य कलाकृतयः यूरोपीयदेशेषु, रशियामेरिका-देशयोश्चापि प्रदर्शिताः सन्ति | आशासे यत् भवन्तः क्रान्तिमन्दिरे एताः कलाकृतीः अवलोकयितुं नूनं यास्यन्ति |
         मम प्रियाः देशवासिनः,  भारतं नाम साधूनां सतां महात्मनाञ्च भूमिः | अस्मदीयाः साधवः निज-विचारैः कार्यैश्च सद्भावस्य, समानतायाः सामाजिक-शक्तिकरणस्य च सन्देशं प्रादुः| एतादृक्षु अन्यतमः आसीत् – सन्त-रविदासः | फेब्रुआरि-मासे ऊनविम्शे दिने रविदास-जयंती वर्तते | सन्त- रविदासस्य दोहेति उक्तयोsतितरां प्रसिद्धाः वर्तन्ते | सन्तरविदासः काभिश्चित् पङ्क्तिभिरेव बृहत्तमं सन्देशं ददाति स्म |  तेनोक्तमासीत् –
“जाति-जाति में जाति है, ज्यो केतन के पात,
 रैदास मनुष ना जुड़ सके, जब तक जाति न जात”
     येन प्रकारेण कदली-काण्डस्य उत्सर्जनेन पत्रादधः पत्रम्, तदधोsपि पत्रम्, अन्ते च, न किमपि लभ्यते, परञ्च अशेष-पादपः एव पूर्णतया नश्यति, एवमेव मानवोsपि जातिषु विभक्तीकृतः, तथा चान्ते नायं मानवत्वेन अभिज्ञायते | असौ कथयति स्म यत् वस्तुतस्तु भगवान् यदि प्रत्येकमपि मानवेषु अस्ति चेत्तदा, जाति- पन्थादीतर-सामाजिकाधारैः अस्य विभाजनं नास्ति समीचीनम् |
      गुरोः रविदासस्य जन्म वाराणस्याः पवित्रभूमौ अजायत| सन्त-रविदासः निज-सन्देशमाध्यमेन स्वीये सम्पूर्णेsपि जीवनकाले श्रम-श्रमिकयोः महत्त्वम् अवगमयितुं प्रायतत | सः संसारं श्रमस्य प्रतिष्ठायाः वास्तविकम् अर्थम् अवगमितवान् इत्युक्तौ न किमपि अनुचितम् | सः कथयति स्म –
   “मन चंगा तो कठौती में गंगा”
     अर्थात् यदि भवतः मनः हृदयञ्च पवित्रे स्तः चेत्, साक्षादीश्वरः भवतां हृदयेषु निवसति | सन्तरविदासस्य सन्देशाः प्रत्येकमपि श्रेणिकान्, वर्ग्यान् च जनान् प्राभावयन् | भवतु नाम चित्तौड़स्य महाराजा वा राज्ञी आहोस्वित् भवतु मीराबाईः, सर्वेsपि तस्य अनुयायिनः आसन् | पुनरप्येक- वारमहं सन्त-रविदासं नमस्करोमि|
      मम प्रियाः देशवासिनः,  किरण-सिदरः MyGov-इत्यत्र अलिखत् यदहं भारतस्य अन्तरिक्ष-कार्यक्रमेण तद्-भविष्यता च सम्बद्धान् पक्षान् वर्णयेम| सः मत्तः इदमपि अपेक्षते यदहं विद्यार्थिनः अन्तरिक्षकार्यक्रमेषु रुचिमाधातुं, तथा च, किञ्चित् नवीनमनुष्ठातुं, नभसोsपि चाग्रे गत्वा विचारयितुम् आग्रहं कुर्यामिति – किरण-महोदय!  अहं विचारमिमं विशेषेण च, अस्मदीय-विद्यार्थिनां कृते प्रदत्त-सन्देशम् अभिनन्दामि |
   कतिपय-दिनेभ्यः प्रागहं, अमदावादे आसम्, यत्राहं डॉक्टर-विक्रम-साराभाई-वर्यस्य प्रतिमायाः अनावरणसौभाग्यम् अवाप्नवम् | भारतस्य अन्तरिक्षकार्यक्रमे डॉक्टर-विक्रम-साराभाई-वर्यस्य महत्वपूर्णं योगदानमवर्तत | अस्मदीये अन्तरिक्षकार्यक्रमे  देशस्य यूनाम् वैज्ञानिकानाम् अधिसंख्यं योगदान-निरतं वर्तते | वयम् एतद्विषये गौरवम् अनुभवामः यत् साम्प्रतं अस्मदीयैः विद्यार्थिभिः विकासितानि प्रक्ष्येप्य-यानानि Sounding- Rockets-चेत्यन्तरिक्षयानानि प्रयान्ति | ऐषमः जान्युआरिमासे चतुर्विम्शे दिने ‘कलाम– सेट्’-इति अस्मदीयैः विद्यार्थिभिः विकासितं अन्तरिक्षयानं प्रक्षिप्तम् | ओडिशा-राज्ये विश्वविद्यालयीयैः विद्यार्थिभिः विकासितैः Sounding Rockets-इत्येतैरपि अनेकानि कीर्तिमानानि विरचितानि | देशस्य स्वाधीनता-प्राप्तेः अनन्तरं चतुर्दशोत्तरैकोन-विंशशत-वर्षं यावत्, यावन्तोsन्तरिक्ष-कार्यक्रमाः अभूवन्, प्रायेण तावन्तः एव अन्तरिक्ष-कार्यक्रमाः विगते वर्ष-चतुष्टये आरब्धाः |  वयम् एकेनैव अन्तरिक्षयानेन युगपद् चतुरधिक-शतं प्रक्षेप्य-यानानि प्रक्षिप्य विश्व-कीर्तिमानमपि विरचितवन्तः | वयं शीघ्रमेव चान्द्रायण-द्वितीयमिति अभियान-माध्यमेन चन्द्रमसि भारतस्योपस्थितिम् अभिलेखिष्यामः |
    अस्मदीयोsयं देशः, अन्तरिक्ष-प्रविधेः उपयोगं जन-सम्पत्-रक्षार्थमपि कुशलतया करोति | भवतु नाम सः सामुद्रिक-चक्रवातो वा, रेल-राजमार्गीय-सुरक्षा, एतेषु विषय-सर्वेषु अन्तरिक्ष-प्रविधिना महत्-साहाय्यं लभ्यते |  अस्मभ्यः मत्स्यजीविभ्यः बन्धुभ्यः NAVIC devices-इत्युपकरणानि  वितरितानि, यानि तेषां सुरक्षया साकमेव आर्थिकोन्नतयेsपि सहायकानि सेत्स्यन्ति | वयम् अन्तरिक्ष-प्रविधेरुपयोगं शासनिक-सेवानां प्रवर्तनार्थं, तथा च, विश्वसनीयताञ्च भद्रतरां विधातुमपि कुर्मः | “Housing for all”- अर्थात् “सर्वेषां कृते आवासः” –  अस्यां योजनायां त्रयोविंशतेः राज्यानां प्रायेण चत्वारिंशद्-लक्षगृहाणि जिओ-टैग्- इति कृतानि आसन् | युगपदेव मनरेगा-कार्यक्रमान्तर्गतं प्रायेण सार्ध-त्रि-कोटि-मिताः सम्पदः अपि जिओ-टैग्- इति कृताः सन्ति | अस्माकम् अन्तरिक्ष-यानानि साम्प्रतं देशस्य समेधमानायाः शक्तेः प्रतीकरूपाणि वर्तन्ते | जगतः अनेकैः देशैः साकं अस्मदीयानां भद्रतर-सम्बन्धानां कृते  आसां महद्-योगदानं वर्तते| साउथ-एशिया-अन्तरिक्षयानानि तु अनुपम-प्राथमिक-प्रयासत्वेन अवर्तन्त, यैः अस्मभ्यः प्रतिवेशिभ्यो मित्रराष्ट्रेभ्योsपि विकासः उपायनीकृतः | स्वीयानामतितरां स्पर्धित्त्व-प्रक्षेपण-सेवानां माध्यमेन भारतमद्य न केवलं विकसत्-राष्ट्राणाम्, अपि तु, विकसित-देशानाम् अन्तरिक्ष-यानान्यपि प्रक्षेपयति | बालानां कृते नभः तारकादीनि च सर्वदैव सुतराम् आकर्षण-केन्द्राणि भवन्ति | अस्माकम् अन्तरिक्ष-कार्यक्रमः बालानां कृते महत्तरं विचारयितुं, ताः सीमाश्च अतिक्रम्य अग्रेवर्धितुं अवसरं प्रावधत्ते, याः साम्प्रतं यावत् असम्भवरूपाः मन्यन्ते स्म |  इदन्तु अस्मदीय-बालानां कृते तारकादि-सन्दर्शनेन सहैव, नवीन-नक्षत्रान्वेषणं प्रति प्रेरणा-लक्ष्यमस्ति |
      मम प्रियाः देशवासिनः, अहं सर्वदैव कथयन्नस्मि, ‘यः क्रीडेत् सः विकसेत्’, तथा च, अस्मिन् क्रमे ‘खेलो इंडिया’- क्रीडतु भारतम्–इत्यत्र तरुणानाम् असंख्यं, युवानः क्रीडकाः, सोत्साहं समुपस्थिताः |जान्युआरि-मासे पुणे-नगरे ‘खेलो इंडिया यूथ गेम्स’ इति क्रीडा-स्पर्धानाम् अष्टादश-स्पर्धासु प्रायेण षड्-सहस्रं क्रीडकाः सहभागित्वमावहन् | यदा अस्माकं क्रीडानां पारिस्थितिक-तन्त्रं दृढतरम् अभविष्यत् अर्थात् यदास्माकं आधारो दृढो भविता, तदैव अस्मदीयाः युवानः देशे जगति च, निज-क्षमतायाः सर्वोत्तमं प्रदर्शनं कर्तुं पारयिष्यन्ति | यदा स्थानिक-स्तरेषु क्रीडकः उत्कृष्टं प्रदर्शयिष्यति तदनु एव, सः वैश्विकेषु स्तरेषु अपि उत्कृष्टं प्रदर्शयितुं शक्ष्यति | क्रमेsस्मिन् ‘खेलो इंडिया’-इति स्पर्धासु प्रत्येकमपि राज्यानां क्रीडकाः स्व-स्व-स्तरेषु उत्कृष्टं प्रदर्शनं विहितवन्तः| पदक-विजेतॄणाम् अनेकेषां क्रीडकानां जीवनानि अतितरां प्रेरणादायीनि सन्ति |
            मुष्टामुष्टि-स्पर्धायां युवा क्रीडकः आकाश-गोरखा राजतं पदकं विजितवान् |  अहं पठन्नासम् – आकाशस्य पिता श्रीरमेशः, पुणे-नगरे एकस्मिन् सामूहिकावास-परिसरे प्रहरि-रूपेण कार्यनिरतः अस्ति | असौ निज-कुटुम्बेन सह एकस्मिन् parking shed-इति वाहनास्थानके निवसति | तत्रैव महाराष्ट्रस्य एकविंशोन-वर्गीयस्य महिलाकबड्डी-वृन्दस्य नायिका सोनाली हेलवी, सतारा-वास्तव्यास्ति| सा अत्यल्प-वयसि पितृ-सुखाद् वियुक्ता जाता, तथा च, तस्याः मातृ-भ्रातरौ सोनाली-समुत्साहं विवर्धितवन्तौ | प्रायेण इदं दृश्यते यत् कबड्डी-सदृशीषु क्रीडाषु पुत्रिकाः नैतावत्-सम्वर्धनं प्राप्नुवन्ति |एवं सत्यपि, सोनाली कबड्डी-क्रीडामचिनोत्, उत्कृष्टञ्च प्रदर्शनं व्यदधात् | आसनसोलस्य दश-वर्षीयः अभिनव-शॉ- ‘खेलो-इंडिया’-युवक्रीडा-स्पर्धासु न्यूनतमायुष्कः स्वर्णपदक-विजेतास्ति | कर्णाटकस्य कृषकस्य पुत्री अक्षता बासवानी कमती, भारोत्तोलन-स्पर्धायां स्वर्णपदकं विजितवती | सा स्वीय-विजयस्य श्रेयं निज-पित्रे प्रादात् | तस्याः पिता बेलगामे कृषकोsस्ति | यदा वयं भारतस्य निर्माण-कथां कुर्मः, तदा तत् युव-शक्तेः सङ्कल्पस्यैव नवीन-भारतमस्ति |’ खेलो इंडिया’- इत्यस्य एताः कथाः सूचयन्ति यत् नूतन-भारतस्य निर्माणे केवलं महानगरीय-जनानामेव योगदानं नैवास्ति, अपि तु लघुनगराणां, ग्रामाणाम्, उपनगराणाञ्च यूनां, बालानां, युव-प्रतिभावताञ्चापि बृहत्तरं योगदानमस्ति|
      मम प्रियाः देशवासिनः,  भवन्तः कासाञ्चित् प्रतिष्ठितानां सौन्दर्य-स्पर्धानां विषये स्यात् श्रुतवन्तः | परञ्च किं भवन्तः शौचालय-सुन्दरीकरण-स्पर्धायाः विषये वा कदाचित् श्रुतवन्तः? अयि भोः ! विगतैक-मासात् प्रवर्तमानायामस्याम् अद्भुतायां स्पर्धायां पञ्चाशल्लक्षाधिकाः शौचालयाः सहभागित्वमावहन् | अस्याः अद्भुतायाः स्पर्धायाः नामास्ति “स्वच्छः सुन्दरः शौचालयः” |  जनाः निजशौचालयान् स्वच्छीकृत्य, युगपदेव तान् वर्णैः रञ्जयित्वा, काश्चन कलाकृतीः स्थापयित्वा सुन्दरीकुर्वन्ति | भवन्तः कश्मीरतः कन्याकुमारीं यावत्, कच्छतः कामरूपं यावच्च “स्वच्छः सुन्दरः शौचालयः” इत्यस्य अनेकानि चित्राणि सामाजिक-सञ्चार-माध्यमेष्वपि अवलोकयितुं शक्ष्यन्ति | अहं सर्वान् अपि सरपञ्चान् ग्राम-प्रधानान् चास्य अभियानस्य नेतृत्वार्थम् आकारयामि | स्वस्य “स्वच्छः सुन्दरः शौचालयः”- इत्यस्य चित्राणि #MylzzatGhar-इत्यनेन साकं सामाजिक-सञ्चार-माध्य- मेषु अवश्यं सम्विभाजयेयुः |
      सखायः ! चतुर्दशोत्तरोनविंश-शततमे वर्षे ओक्टोबर-मासे द्वितीय-दिनतः अस्माभिः नैजं देशं स्वच्छं विधातुं अनावृत्त-शौचात् मोचयितुञ्च सम्भूय एका चिर-स्मरणीया यात्रा आरब्धासीत् | भारतस्य प्रत्येकमपि जनस्य सहयोगेन अद्य भारतम् ऐषमः ओक्टोबर-मासीय-द्वितीय-दिनात् बहु-पूर्वमेव अनावृत्त-शौचात् मुक्तिं प्रति अग्रेसृतं वर्तते येन बापू-वर्याय तस्य सार्ध-शती-जयन्तीमालक्ष्य तस्मै श्रद्धाञ्जलि-प्रदानं शक्यं स्यात्|
     स्वच्छ-भारतस्य अस्यां चिर-स्मरणीयायां यात्रायां ‘मन की बात’- श्रोतॄणामपि महद्योगदानमस्ति, अत एव भवद्भिः सर्वैः साकं वृत्तमेतत् सम्विभाजयितुं प्रसन्नतामनुभवामि यत् सार्ध-पञ्च-लक्षाधिकाः ग्रामाः षट्-शताधिकाश्च जनपदाः स्वयम् अनावृत्त-शौचात् मुक्ताः घोषिताः सन्ति, तथा च, ग्रामीण-भारते स्वच्छता-प्रतिशतं अष्टनवतिमितिमत्यक्रामत, तथा च प्रायेण नव-कोटि-मितेभ्यः कुटुम्बेभ्यः शौचालय-सुविधाः प्रापिताः सन्ति|
     मम लघु-लघु-सखायः ! परीक्षा-दिनानि आगन्तारः | हिमाचलप्रदेश-निवासी अंशुल-शर्मा, MyGov-इत्यत्र अलिखत् यत् मया परीक्षाणां परीक्षा-योद्धॄणां च विषयेsत्र चर्चा कर्तव्या | अंशुल-महोदय, विषयमेनम् उत्त्थापयितुं भवते साधुवादान् व्याहरामि | एवम्, अनेकेषां कुटुम्बानां कृते वर्षस्य प्रथमान्शः परीक्षाकालो भवति| विद्यार्थिनः, तेषां मातापितरौ, तेषाञ्च शिक्षकाः, सर्वेsपि जनाः परीक्षा-सम्बद्धेषु कार्येषु व्यापृताः सन्ति |
     अहं सर्वेभ्यो विद्यार्थिभ्यः, तेषां मातापितृभ्यां, शिक्षकेभ्यश्च, शुभकामनाः व्याहरामि | विषयमेनमालक्ष्य अद्याहं ‘मन की बात’- कार्यक्रमे अवश्यं चर्चां कर्तुकामः अस्मि, परञ्च भवन्तो वृत्तमिदं ज्ञात्वा नूनं प्रसन्नतामनुभविष्यन्ति यत् दिनद्वयानन्तरमेव जान्युआरि-मासे ऊनत्रिंशे दिने प्रातः एकादशवादने ‘परीक्षा पे चर्चा” इति कार्यक्रमे अशेष-देशस्य विद्यार्थिभिः सम्भाषिष्ये | अस्मिन् क्रमे विद्यार्थिभिः सह माता-पितरौ शिक्षकाश्चापि कार्यक्रमेsस्मिन् सहभागित्वमावक्ष्यन्ति | तथा चात्र ऐषमः क्रमे, अन्येषामपि देशानां विद्यार्थिनोsपि कार्यक्रमेsस्मिन् सहभागिनो भवितारः| ‘परीक्षा पे चर्चा’- इति कार्यक्रमे परीक्षा-सम्बद्धान् सर्वान् पक्षान्, विशेषरूपेण च मानसिकाततिमुक्तायाः परीक्षायाः विषये निज-युव-मित्रैः सम्भूय सम्भाषणं करिष्यामि | एतदर्थमहं जनान् समावेश्य-विचारान् प्रेषयितुं साग्रहं न्यवेदयम्, अपि च, प्रसन्नतामनुभवामि यत् MyGov-इत्यत्र जनानामधिसंख्यं स्वीय-विचारान् संविभाजयति| एतेषु अन्यतमान् काञ्श्चन विचारान् परामर्शान् चाहं नूनं टाउन-हॉल-कार्यक्रमावसरे भवतां समक्षं प्रस्तोष्यामि | भवन्तो नूनमस्य कार्यक्रमस्य सहभागित्वं स्वीकुर्युः...सामा- जिकसञ्चार-माध्यमानां नमो-ऐप्-माध्यमेन भवन्तः अस्य जीवत्प्रसारणमपि द्रष्टुं शक्ष्यन्ति |
मम प्रियाः देशवासिनः! मासेsस्मिन् त्रिंशत्तमे दिने पूज्य-बापू-वर्यस्य पुण्यतिथिरस्ति | एकादश-वादने अशेष-देशः हुतात्मेभ्यः श्रद्धाञ्जलिमर्पयति| वयं यत्रापि भवेम, मिनट्-द्वयं यावत् हुतात्मेभ्योsवश्यं श्रद्धाञ्जलिं दद्याम| पूज्यबापू-वर्यस्य पुण्यस्मरणं करवाम तथा च, पूज्यबापू-वर्यस्य स्वप्नानि साकारीकर्तुं, नूतनं भारतं निर्मातुं, नागरिकत्वेन स्वीय-कर्तव्य-निर्वहणार्थम्  अमुना सङ्कल्पेन साकम्... आगच्छन्तु, वयं सर्वे अग्रेसरेम | ऊनविंशोत्तर-द्विसहस्रतम-वर्षस्य यात्रामेनां सफलतया अग्रेसारयेम | भवद्भ्यः सर्वेभ्यः मम भूयस्यो मङ्गलकामनाः, भूयो भूयो धन्यवादाः|                                                             
                        *****                           
                            ---     भाषान्तर-कर्ता -   डॉ.बलदेवानन्द-सागरः
                                     दूरभाषः -   ९८१० ५६२२ ७७                       
                         अणुप्रैषः  - baldevanand.sagar@gmail.com