Sunday 17 March 2019

मातृवात्सल्यम् 
-डा. गदाधर त्रिपाठी

अहेतुकी च करुणा या श्रीशः संवलितस्तया।
वत्सान् प्रति तथा माता वत्सलभावेन रक्षति।।2।।

स्तनदात्री गर्भधात्री च मान्या माता महीयसी।
गर्भधारणपोषाभ्यां सवित्री जनयित्री तथा।। 3।।

कोऽपि देवो न सृष्टौ हि मातृसदृशस्तथा च वै।
मातृसेवा परो धर्मःसफलं तेनैव जीवनम्।।4।।

पतितःपिता भवति त्याज्यो ननु माता नैव कदाचन।
प्रत्युपकारो भवति नैव कर्तुं केनापि न शक्यते।5।।

गर्भपीडा प्रसवपीडासह्या यस्य जीवने।
आत्मजस्य मुखं दृष्ट्वा तु न स्मरति कदाचन।।6।।

उदरपूर्तिर्न पुत्राणां यावत्तेषां जीवने।
सुखं शक्रसमं त्याज्यं जीवनं मातुर्निरर्थकम्।।7।।

मुखानां या चाक्लान्तिर्हि पुत्राणां यत्सुखञ्च तत्।
तदेव जीवनं मातुर्हि वात्सल्यमिदमेव हि वै।।8।।
                       ---------------