Sunday 27 October 2019

मनोगतम्’ [०२.०५]   ‘मन की बात’ (5वीं कड़ी)
प्रसारण-तिथि : २७-ओक्टोबर’२०१९ 
- [भाषान्तरं – सर्वश्री-डॉ.श्रुतिकान्त-पाण्डेय-पुरुषोत्तम-शर्मभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]   

     मम प्रियाः देशवासिनः,  नमस्कारः | अद्य दीपावल्ल्याः पावन पर्व अस्ति | भवद्भ्यः सर्वेभ्यः दीपावल्ल्याः भूयस्यः शुभकामनाः | अस्मदीये वाङ्मये निगदितम् -
       शुभं करोति कल्याणम् आरोग्यं धनसम्पदाम् |
       शत्रु-बुद्धि-विनाशाय दीपज्योतिर्नमोsस्तु ते ||

कियान् उत्तमः सन्देशः अस्ति | अस्मिन् श्लोके कथितं – प्रकाशः जीवने सुखं, स्वास्थ्यं समृद्धिञ्च आपादयति, तथा च, विपरीत-बुद्धिं विनाश्य, सद्बुद्धिं विकासयति | एतादृशाय दिव्यज्योतये नमान्सि | दीपावलीमेनां स्मरणीयां विधातुं किमितः परं भद्रतरः विचारः भवेत् यत् वयं प्रकाशं विस्तारयेम, रचनात्मिकां प्रवृत्तिं प्रसारयेम, शत्रुतायाः भावनाम् एव च प्रणाशयितुं प्रार्थयेम! अद्यत्वे जगतः अनेकेषु देशेषु दीपावली-पर्व आयोज्यते | अत्र वैशिष्ट्यम् इदमेव यत् अत्र केवलं भारतीय-समुदायः एव भवति, इति नैव, अपि तु, साम्प्रतं अनेकेषां देशानां प्रशासनानि, तत्रत्याः नागरिकाः,  तत्रत्यानि च सामाजिक-सङ्घटनानि दीपावलीं पूर्ण-हर्षोल्लासेन आयोजयन्ति | एवं हि ते तत्र ‘भारतम्’ विरचयन्ति | 
 सखायः, जगति ‘festival tourism’-इति उत्सव-
पर्यटनस्य नैजमेव आकर्षणं भवति | अस्मदीयं भारतं, यद्धि उत्सव-बहुलः देशोsस्ति, तस्मिन् उत्सव-पर्यटनस्य अपि भूयस्यः सम्भावनाः सन्ति | अस्मदीयः प्रयासः स्यात् यत् होली भवतु वा दीपावली, ओणम् वा पोंगलम्, बिहुः आहोस्वित् अपरः कश्चन उत्सवः, एतादृशानाम् उत्सवानां प्रसारं कुर्याम, तथा च, उत्सवानां प्रसन्नतायां, अन्य-राज्यानां, अन्य-देशानां जनान् अपि समावेशयेम | अस्मदीये देशे तु प्रत्येकमपि राज्ये, प्रत्येकमपि क्षेत्रस्य स्वीयाः एतावन्तः विभिन्नाः उत्सवाः भवन्ति –  इतर-देशीयानां नागरिकाणां तु अत्र भूयसी रुचिः भवति | अत एव, भारते उत्सव-पर्यटनस्य सम्वर्धने,  देशाद् बहिः निवसतां भारतीयानां भूमिका अपि अतितरां महत्त्वपूर्णा अस्ति |
   मम प्रियाः देशवासिनः, विगते ‘मन की बात’इति- मनोगतम्-प्रसारणे वयं निर्धारितवन्तः यत् अस्य दीपावली-पर्वणः अवसरे किञ्चित् पृथक् करिष्यामः | अहम् अकथयम् – आगच्छन्तु, वयं सर्वे अस्य दीपावली-पर्वणः अवसरे भारतस्य नारीशक्तेः, तस्याः च उपलब्धीः सभाजयाम, अर्थात् भारतस्य लक्ष्म्याः सम्माननम्| तथा च, पश्यता एव, अनुपदम्, सामाजिक-सञ्चार-माध्यमेषु असंख्यानि प्रेरणात्मकानि वृत्तानि एकत्रीभूतानि | Warangal-स्य कोडीपाक-रमेशः NamoApp-इत्यत्र अलिखत् यत् मम जननी मम शक्तिरस्ति | नवत्युत्तर-नवदश-शते वर्षे, यदा मम पितुः निधनम् अभवत्, तदा मम माता एव पञ्च-पुत्राणां दायित्वं निरवहत् | साम्प्रतं वयं पञ्च अपि भ्रातरः समीचीन-व्यवसायेषु स्मः | मम माता एव मम कृते साक्षात् भगवत्-स्वरूपा | सा मह्यं सर्वस्वम्, तथा च, सा एव वस्तुतस्तु भारतस्य लक्ष्मीः | 
      रमेश-महोदय! भवतः मातुः कृते मम प्रणामः | Twitter-इत्यत्र सततं सक्रिया गीतिका-स्वामी कथयति यत् तस्याः कृते मेजर-खुशबू-कंवरः ‘भारतस्य लक्ष्मीः अस्ति’ या हि बसयान-संवाहकस्य पुत्री वर्तते, सा च, असम-Rifles-वाहिन्याः महिला-गुल्मस्य नेतृत्वं व्यदधात् | कविता-तिवारी-महोदयायाः कृते तु भारतस्य लक्ष्मीः, तस्याः पुत्री अस्ति, या हि तस्याः शक्तिरपि वर्तते | सा गौरवम् अनुभवति यत् तस्याः पुत्री उत्कृष्टं चित्राङ्कनं करोति | सा CLAT- इति सामान्य-विधि-प्रवेश-परीक्षायां [ Common Law Admissions Test ] उत्तमां श्रेणीमपि अध्यगच्छत् | अपरत्र मेघा-जैन-महोदया अलिखत् यत् द्वि-नवति-वर्षीया एका वृद्धा महिला, विगतानेक-वर्षेभ्यः ग्वालियर-रेलास्थानके यात्रिभ्यः निःशुल्कं जलं पाययति | मेघा-महोदया अस्याः भारतलक्ष्म्याः विनम्रतया करुणया चातितरां प्रेरिता अभवत् | एतादृश्यः अनेकाः कथाः जनाः सम्विभाजितवन्तः | भवन्तः अवश्यमेव पठन्तु, प्रेरणाम् आददतु, तथा च, स्वयमपि एतादृशं किञ्चित् निज-परि-पार्श्वतः सम्विभाजयन्तु | भारतस्य एताभ्यः सर्वाभ्यः लक्ष्मीभ्यः मम सादरं वन्दनम् |               
मम प्रियाः देशवासिनः, सप्तदश-शताब्दस्य सुप्रसिद्धा कवयित्री साँची-होनम्मा (Sanchi Honnamma), सा तदा, कन्नड़-भाषायां, कवितामेकाम् अलिखत् | ते भावाः, ते शब्दाः, भारतस्य प्रत्येकमपि लक्ष्म्याः विषये, यद्वयं सम्भाषामहे! एवं प्रतीयते,  यत् तस्याः आधारशिला सप्तदश-शताब्द्याम् एव निस्स्थापिता आसीत् | कियन्तः समीचीनाः शब्दाः, कियन्तः उत्कृष्टाः भावाः कियन्तः उत्तमाः च विचाराः, कन्नड़- भाषायाः अस्यां कवितायां सन्ति | 
     पैन्निदा पर्मेगोंडनू हिमावंतनु,
     पैन्निदा भृगु पर्चिदानु
     पैन्निदा जनकरायनु जसुवलीदनू
     (Penninda permegondanu himavantanu.
     Penninda broohu perchidanu
     Penninda janakaraayanu jasuvalendanu)    

        अर्थात्  हिमवान् पर्वतराजः निजपुत्र्याः पार्वत्याः कारणात्, ऋषिः भृगुः निजपुत्र्याः लक्ष्म्याः कारणात्, राजा जनकः च निजपुत्र्याः सीतायाः कारणात्,  प्रसिद्धिमवाप्नुवन् | अस्माकं दुहितारः, अस्माकं गौरवम् | आसां दुहितॄणां माहात्म्याद् एव, अस्मदीय-समाजस्य, दृढम् अभिज्ञानं वर्तते, अस्य भविष्यच्च उज्ज्वलम् | 
    मम प्रियाः देशवासिनः, ऊनविंशोत्तर-द्विसहस्रतमे वर्षे नवम्बर-मासे द्वादशः दिनाङ्कः  –  अयमेव सः दिवसः, यस्मिन् दिने जगति, श्रीगुरुनानक-देवस्य सार्ध-पञ्चशत-तमः प्रकाशोत्सवः प्रकीर्तयिष्यते | गुरोः नानक-देवस्य प्रभावः न केवलं भारते, अपि तु विश्वस्मिन् विश्वे वर्तते | जगतः अनेकेषु देशेषु अस्मदीयाः सिक्ख-भगिनी-भ्रातरः निवसन्ति ये नाम गुरोः नानकदेवस्य आदर्शान् प्रति पूर्णरूपेण समर्पिताः सन्ति | अहं वैंकूवर (Vancouver)- तेहरानयोः (Tehran) गुरुद्वाराणां निज-यात्रां न कदापि विस्मर्तुं शक्नोमि | श्रीगुरुनानकदेवस्य विषये एतादृशं सुबहु वर्तते यद्धि भवद्भिः साकम् अहं सम्विभाजयितुम् अर्हामि, परञ्च एतदर्थं ‘मनोगतम्’- इत्यस्य अनेके कथाभागाः अपेक्षन्ते | सः, सेवाभावं सर्वदैव सर्वोपरि सन्धारितवान् | गुरुनानकदेवः मिनोति स्म यत् निःस्वार्थभावेन कृतानि सेवाकार्याणि अमूल्यानि भवन्ति | सः स्पृश्यास्पृश्य-सदृशीं सामाजिक-कुरीतिं विरुध्य दृढतया अतिष्ठत् | श्रीगुरुनानक-देवः स्वीयं सन्देशम्, जगति, सुदूरं यावत् प्रापितवान् | सः निज-जीवनकाले सर्वाधिक-यात्राकर्तृषु अन्यतमः आसीत् | अनेकेषु स्थानेषु प्रयातः | यत्रापि असौ प्रयातः, तत्र तत्र, निज-सरलता-विनम्रता-सहजतादि-गुणैः सर्वेषां हृदयानि विजितवान् | गुरुनानक-देवः अनेकाः महत्वपूर्णाः धार्मिक-यात्राः अकरोत्, या ‘उदासी’-ति नाम्ना कथ्यन्ते  | सद्भावना-समानतयोः सन्देशमादाय सः, उत्तर-दक्षिण-पूर्व-पश्चिमेति प्रत्येकमपि दिशायां प्रयातः, प्रत्येकमपि स्थानेषु जनान्, महात्मानः ऋषीन् च अमिलत् | मन्यते यत् असम-क्षेत्रस्य सुविख्यातः महात्मा शंकरदेवः अपि तेन प्रेरितः अभवत् | सः हरिद्वारस्य पवित्र-भूमेः यात्रामकरोत् | काश्याम् अन्यतमं पवित्र-स्थलम्, ‘गुरुबाग-गुरुद्वारा’ अस्ति –  एवं कथ्यते यत् श्रीगुरुनानक-देवः तत्र निवासम् अकरोत् | सः बौद्ध-धर्म-सम्बद्धानि ‘राजगीर’-‘गया’-सदृंशि धार्मिक-स्थलानि अपि अगच्छत् | दक्षिणे श्रीगुरुनानक-देवः, श्रीलंका-पर्यन्तं यात्रामकरोत् | कर्णाटके बिदरयात्रावधौ, श्रीगुरुनानक-देवः एव, तत्रत्यायाः जल-समस्यायाः समाधानमकरोत् | बिदर-क्षेत्रे ‘गुरुनानक-जीरा-साहब’ नामकम् एकं प्रसिद्ध-स्थलमस्ति यद्धि अस्मान् गुरुनानक-देवस्य स्मरणमपि कारयति, तस्मै एव इदं समर्पितं वर्तते | अन्यतमायाः उदासी-ति यात्रायाः अवधौ, श्रीगुरुनानकदेवः उत्तरे, कश्मीरस्य एतत्-परिवर्ति-क्षेत्राणाम् अपि यात्रामकरोत् | एवं हि सिक्खानुयायिनां कश्मीरस्य च मध्ये पर्याप्तं दृढतराः सम्बन्धाः  स्थापिताः अभूवन् | श्रीगुरुनानक-देवः तिब्बत्-क्षेत्रमपि अगच्छत्, यत्रत्याः जनाः तं गुरुमिति अमन्यन्त | सः उज्बेकिस्ताने अपि पूजनीयः, यत्रत्यां यात्रामसौ व्यदधात् | स्वीयायाः अन्यतमायाः उदासीति यात्रायाः अवधौ सः,  बृहत्स्तरेण इस्लामिक-देशानाम् अपि यात्रामकरोत्, यस्यां, Saudi Arab-Iraq-Afghanistan-देशाः अपि समाविष्टाः सन्ति | सः लक्षशः जनानां हृदयेषु न्यवसत्, ये हि पूर्ण-श्रद्धया तस्य उपदेशान् अन्वसरन्, अद्यापि च अनुसरन्ति च | सद्यः कतिपय-दिनेभ्यः प्रागेव, प्रायेण पञ्चाशीतेः देशानां राजदूताः, दिल्लीतः अमृतसरं प्रयाताः | तत्र ते अमृतसरे स्वर्ण-मन्दिरस्य दर्शन मकुर्वन्, एतच्च सर्वं श्रीगुरुनानक-देवस्य सार्ध-पञ्चशत-तमस्य प्रकाशोत्सवस्य निमित्तेन अभवत् | तत्र एते सर्वे राजदूताः सुवर्ण-मन्दिरस्य दर्शनं तु अकुर्वन्नेव, ते, सिक्ख-परम्परा-संस्कृत्योः विषये अपि ज्ञातुम् अवसरं लब्धवन्तः | ततः परम् अनेके राजदूताः सामाजिक-सञ्चार-माध्यमेषु तत्रत्यानि चित्राणि सम्विभाजितवन्तः | सगौरवं स्वीयान् भद्रान् अनुभवान् अपि अलिखन् | अहं कामये यत् श्रीगुरुनानक-देवस्य सार्ध-पञ्चशत-तमं प्रकाश-पर्व गुरोः विचारान् आदर्शान् च निज-जीवने अवतारयितुं समधिक-प्रेरणां दद्यात् | पुनरेकवारं अवनत-शिरः अहं गुरुवर्यं नानक-देवं प्रणमामि |
मम प्रियाः भ्रातरः भगिन्यश्च। अहं विश्वसिमि यत् ऑक्टोबरस्य एकत्रिंशत्तमा तिथिः भवद्भिः अवश्यमेव स्मर्यते । एषः दिवसः भारतस्य लौहपुरुषस्य सरदार-वल्लभभाई-पटेलस्य जन्म-दिवसोsस्ति, यो हि देशम् एकतासूत्रे आबद्धकर्त्ता महानायकः आसीत्। सरदार-पटेलः जनानां एकीकरणे अद्भुतक्षमतावान्, अपिच, वैचारिक-मतभेदवत्सु अपि सामञ्जस्य-स्थापकः आसीत्। असौ सूक्ष्म-विषयानपि ध्यानेन परीक्षते स्म, अतएव वस्तुतस्तु ‘मैन ऑफ डिटेल’- इति गहनान्वीक्षकः असौ आसीत्। योजनानाम् अपि च, रणनीतीनां निर्माणे असौ अतिकुशलः अवर्तत। यदाऽस्य कार्यशैली-विषये पठामः, शृणुमः वा तदा ज्ञायते यत् तस्य योजनाः अतीव सुदृढाः भवन्ति स्म । एकविंशोत्तर-नवदश-शत-तमे वर्षे अमदाबादे आयोज्यमाने कॉग्रेस्-अधिवेशने भागग्रहणाय समग्र-देशतः सहस्रशः प्रतिनिधयः आगम्यमानाः आसन्। अधिवेशनस्य सम्पूर्णायाः व्यवस्थायाः सरदारपटेलस्य उत्तरदायित्वम् आसीत्। अस्य अवसरस्य उपयोगः तेन नगरस्य जलापूर्ति-व्यवस्थायाः परिष्कारार्थं कृतः। तेन सुनिश्चितीकृतं यत् कुत्रापि जल-संकटः न भवेत्। असौ चिन्ताकुलः आसीत् यत् कस्यचिदपि परिच्छदः सामग्री-जातं पादत्राणं वा लुप्तं नैव भवेत्। एतदवधार्य सरदार-पटेलेन यत्कृतं तद्ज्ञात्वा भवन्तः अतीव आश्चर्यान्विताः भविष्यति। तेन स्थानीय-कृषकाः खादी-स्यूतानां निर्माणाय उत्साहिताः। कृषकैः स्यूत-निर्माणं कृत्वा प्रतिनिधिभ्यः ते विक्रीताः। एतेषु स्यूतेषु पादत्राणं स्थापयित्वा सहैव सन्धारणेन प्रतिनिधीनां पादत्राण-चौर्यस्य आततिः विगलिता । अपरतश्च खादी-विक्रये अपि महती वृ़द्धिः जाता। सम्विधान-सभायां उल्लेखनीय-भूमिकायै अस्माकं देशः पटेल-महाभागस्य सदैव ऋणी भविष्यति। असौ मौलिकाधिकाराणां सुनिश्चितीकरणे महत्त्वपूर्णं योगदानम् अकरोत्, येन जातीयस्य अथवा सम्प्रदायाधारितस्य कस्यचिदपि विभेदस्य आशंका न भवेत्।
    मित्राणि! वयं जानीमः यत् भारतस्य प्रथम-गृहमन्त्रि-रूपेण सरदार-वल्लभभाई-पटेलः राज्यकानां विलयस्य भागीरथम् ऐतिहासिकञ्च कार्यं व्यदधात् । सरदार-पटेलस्य वैशिष्ट्यं आसीत् यदसौ एकशः एव सर्वपक्षेषु ध्यानावलम्बने क्षमते स्म । एकतः तस्य दृष्टिः हैदराबाद-जूनागढ-सदृशेषु राज्यकेषु आसीत्;  अन्यतश्च तस्यावधानं सुदूरे लक्ष-द्वीपे अपि अवर्तत। वस्तुतः यदा वयं सरदार-पटेलस्य प्रयासानां चर्चां कुर्मः तदा देशस्य एकीकरणे कतिपयानां राज्यकानां विषये तस्य भूमिका विशेषतया आलोच्यते। लक्ष-द्वीप-सदृशस्य लघुराज्यस्य कृतेऽपि तेन महती भूमिका निर्व्यूढा इति कदाचिदेव जनाः स्मरन्ति। भवन्तः सम्यग्जानन्ति यत् लक्ष-द्वीपः अनेकेषां द्वीपानां समूहः अस्ति। एषः भारतस्य सर्वाधिक-मनोहर-क्षेत्रेषु अन्यतमः। सप्त-चत्वारिंशदुत्तर-नवदश-शत-तमे वर्षे भारत-विभाजनस्य समये अस्माकं प्रतिवेशिनां दृष्टिः लक्ष-द्वीपे आसीत्, असौ च स्वीयं ध्वजं पोतं तत्र प्रेषितवान्। सरदार-पटेलः यदा अस्मिन् सन्दर्भे ज्ञातवान् सः सत्वरं, यथाशीघ्रं कठोर-विधिम् आचरितवान्। असौ मुदालियर-बन्धून्, अरकोट-रामास्वामी-मुदालियरं, अरकोट-लक्ष्मणस्वामी-मुदालियरं चाकारयत् यत्ताभ्यां त्रावणकोर-वासिभिः साकं तत्र गत्वा राष्ट्रध्वजोत्तोलनं करणीयम् । लक्ष-द्वीपे ध्वजोत्तोलनं प्रथमं करणीयम् । तस्यादेशानुसारेण लक्ष-द्वीपे त्रिरंग-ध्वजस्य उत्तोलनं कृत्वा प्रतिवेशिनः तस्य निग्रहणस्य षड्यन्त्रं मोघीकृतवन्तः । एतदनु सरदार-पटेलः मुदालियर-बन्धुं आदिशत् यत्ताभ्यां व्यक्तिगत-रूपेण लक्ष-द्वीपस्य विकासाय सर्वसम्भवं साहाय्यं सुनिश्चितीकर्त्तव्यम् । अद्य लक्ष-द्वीपः भारतस्य विकासार्थं महत्त्वपूर्णं योगदानं करोति। एतत् आकर्षकं पर्यटक-स्थलमपि अस्ति। अहं विश्वस्तोऽस्मि यत् भवन्तः अपि एतेषां मनोहर-द्वीपानां समुद्रतटानां च यात्रां करिष्यन्ति। 
       मम प्रियाः देशवासिनः! अष्टादशोत्तर-द्विसहस्र-तमे वर्षे ऑक्टोबर-मासे एकत्रिंशत्तमः दिवसः अस्मत्कृते स्मरणीयः यदा सरदार-महाभागस्य स्मृतौ निर्मिता ‘स्टेच्यू ऑफ यूनिटी’ इत्येषा सुदीर्घा विशाल-काया च प्रतिमा देशाय विश्वाय च समर्पिता आसीत्। एषा हि प्रतिमा विश्वस्य उत्तुंगतमा प्रतिमा अस्ति। अमेरिका-स्थितायाः ‘स्टेच्यू ऑफ लिबर्टी’- इत्यस्याः प्रतिमायाः अपेक्षया इयं द्विगुगुणितास्ति। विश्वस्य प्राक् अग्रतमा एषा प्रतिमा प्रत्येकं भारतीयं गौरवान्वितं करोति। प्रत्येकं भारतीयस्य शिरः गर्वेण उत्तुंगः भवति। भवन्तः एतत्ज्ञात्वा प्रसन्नाः भविष्यन्ति यत् विगत-वर्षे प्रायशः 26-लक्षं जनाः अस्याः दर्शनार्थम् आगताः । अस्य अर्थः अयमेव यत् प्रतिदिनं प्रायशः सार्धाष्टसहस्रं जनैः ‘स्टैच्यू ऑफ यूनिटी’ इत्यस्याः प्रतिमायाः भव्यतायाः दर्शनं क्रियते; सरदार-वल्लभभाई-पटेलं प्रति तेषां हृदये या आस्था श्रद्धा च स्तः, तयोरेव प्रदर्शनं क्रियते । अद्यत्वे तत्र कैक्टस्-गार्डन-पुष्प-पतंगोद्यान-अरण्य-वसति- बाल-पोषणोद्यानैकता-पादपोद्यानादीनां अनेकेषां आकर्षक-केन्द्राणां विकासः क्रियमाणः वर्तते । एतेन स्थानीयार्थव्यवस्थायाः विकासः भवति, जनेभ्यश्च वृत्तेः अभिनवाः अवसराः अपि प्राप्यन्ते। समागतानां पर्यटकाणां सौविध्यं अभिलक्ष्य अनेके ग्रामवासिनः स्वीयेषु गृहेषु ‘होमस्टे’ इति सुविधां प्रयच्छन्ति। एतत्सुविधा-प्रदातृभ्यः व्यावसायिक-प्रशिक्षणं दीयते। तत्रत्यैः वासिभिः साम्प्रतं ड्रैगन्-फलानां कृषिः आरब्धास्ति। मम विश्वासः अस्ति यत् शीघ्रमेव एषा तत्रत्यानां जनानां आजीविकायाः प्रमुखं स्रोतः भविष्यति। 
         मित्राणि! देशस्य सर्वेषां राज्यानां, पर्यटन-व्यवसायस्य च कृते ‘स्टेच्यू ऑफ यूनिटी’ नूनं शोधविषयत्वेन भवितुमर्हति। वयं सर्वेsपि साक्षिणः स्मः यत्कथं एकमेव स्थानं एकस्मिन्नेव वर्षे विश्वस्तरीय-पर्यटकस्थलत्वेन विकसितं जातम्। तत्र देश-विदेशतः जनाः आगच्छन्ति, आवागमनस्य, अल्पावासस्य, गाइड इति निर्देशकानां, पर्यावरणानुकूल-व्यवस्थानाम् अपिच अन्येषां सौविध्यानां विकासः क्रमेण जायमानः अस्ति। तत्र बृहदाकारा अर्थव्यवस्था विकसमाना वर्तते यत्र यात्रिणां आवश्यकतानुसारेण जनाः सौविध्यविकासं कुर्वन्ति। सर्वकारः अपि तत्र स्वीयां भूमिकां निर्वहति।      
     मित्राणि! सर्वेsपि भारतवासिनः गर्वं अनुभवन्ति यत् विगतेषु दिनेषु ‘टाइम’ इति पत्रिकया ‘स्टेच्यू ऑफ यूनिटी’ इति विश्वस्य शतेषु सर्वाधिक-महत्त्वाधायिसु पर्यटक-स्थलेषु परिगणितास्ति। अहं आशान्वितः अस्मि यत्भवन्तः अपि स्वीय-व्यापृत-जीवने कञ्चित् अवसरं प्राप्य ‘स्टेच्यू ऑफ यूनिटी’ इत्यस्याः दर्शनार्थं गमिष्यन्ति। येऽपि भारतवासिनः यात्रायै अवसरं प्राप्नुवन्ति, ते भारतस्य न्यूनान्न्यूनं पंचदश-पर्यटन-स्थलानां यात्रां सपरिवारं रात्रिवास-सहितं कुर्वन्तु। एष मम शाश्वतः आग्रहः अस्ति।  
     मित्राणि! यथा भवन्तः जानन्ति, चतुर्दशोत्तर-द्विसहस्र-तम-वर्षादारभ्य ऑक्टोबरस्य एकत्रिंशत्तमः दिवसः राष्ट्रीयैकता-दिवसत्वेन आमान्यते। एषः दिवसः अस्मान् स्वीयदेशस्य एकताखण्डता-सुरक्षायाश्च पालनार्थं प्रेरयति।  ऑक्टोबरे एकत्रिंशत्तमे दिने यथापूर्वं ‘रन फॉर यूनिटी’ इत्यस्य आयोजनं अपि क्रियते। अस्मिन् समाजस्य प्रत्येकमपि वर्गस्य, विभागस्य च जनाः सहभागिनः भविष्यन्ति। ‘रन फॉर यूनिटी’-इति एकता-धावनम्  देशस्य ऐक्यस्य, एक दिशायाः एक-लक्ष्यस्य च प्रतीकत्वेन वर्तते । तल्लक्ष्यम् एकभारतम्–श्रेष्ठभारतम् इत्यस्यैव निर्माणं वर्तते ।
     गत-पञ्च-वर्षेषु दृष्टं यत् न केवलं दिल्ल्यां अपितु हिन्दुस्थानस्य अनेकेषु नगरेषु, केन्द्र-शासित-प्रदेशेषु राजधानीषु जनपद-केन्द्रेषु लघु-लघुषु टियर-टू-टियर थ्री-सिटी इत्यभिधेय-नगरेषु बृहन्मात्रायां, भवन्तु नाम पुरुषा:, महिला:, नगरवासिन:, ग्रामीणा:, बाला:, युवान:, वृद्धा: अथ च दिव्याङ्ग-जना: समेsपि अत्यधिक-मात्रायां सम्मिलिता: भवन्ति। एवमेव, साम्प्रतम् अवलोकयेम चेत् यज्जनेषु मैराथन- इति दीर्घ-धावनम् निध्याय प्रबला रुचि:, उत्साहश्च च दृश्यते। Run For Unity इति ऐक्यभावनायै धावनमपि अपूर्वं प्रावधानं विद्यते। धावनं मनोमस्तिष्काभ्यां शरीराय च लाभप्रदं वर्तते। अत्र तु धावनमपि वर्तते, FIT INDIA- इति स्वस्थभारतस्य भावनां चरितार्थां कुर्वन्ति, सममेव एकभारतम् – श्रेष्ठभारतम् - उद्देश्येन साकम् अपि सम्पृक्ति: सञ्जायते। अत एव केवलं शरीराय नैव,  मानस-संस्काराभ्यां, भारतस्य ऐक्याय, भारतं नूतनशिखरे समुन्नेतुं च विद्यते। अतः भवन्तो यस्मिन् कस्मिन्नपि नगरे निवसन्ति, तत्रात्मन: पुरत: Run For Unity इत्यस्मिन् विषये ज्ञातुं शक्नुवन्ति, एतदर्थम् अन्तर्जालपुटकपि प्रख्यापितम्, तदस्ति runforunity.gov.in - इति । अत्र पुटके देशस्य तेषां नगराणां विवरणं प्रदत्तमस्ति यत्र Run For Unity- इत्यस्य आयोजनं भविष्यति। विश्वसिमि यत् भवन्त:  ओक्टोबर-मासे एकत्रिंश्याम् आयोजनेsस्मिन्  धावने अवश्यं सहभागिनो भविष्यन्ति। भारतस्य ऐक्याय, आत्मनः सुस्वास्थ्याय चापि। 
        मम प्रिया: देशवासिन:, सरदार-पटेलेन राष्ट्रम् ऐक्यसूत्रे निबद्धम्। ऐक्यस्य अयं मन्त्र: अस्माकं जीवने संस्कारमिव वर्तते, भारत-सदृशे वैविध्यपूर्णे देशे अस्माभि: प्रत्येकं स्तरे, प्रत्येकं पथि, प्रत्येकं स्थात्रे, प्रत्येकमपि आस्थानके च ऐक्यमन्त्रः सततं दृढीकर्तव्यः । 
      मम प्रियाः देशवासिन:, देशस्य ऐक्यं परस्पर-सद्भावनां च क्षमीकर्तुं अस्माकं समाज: सर्वदैव अतितरां सक्रिय: अवर्तत। वयं स्वं परितः पश्येम चेत्, नैकानि तादृंशि उदाहरणानि प्राप्स्यामो यानि परस्पर-सद्भावं सम्वर्धयितुं निरन्तरं कार्याचरणं कुर्वन्त: सन्ति, कदाचित् एवमपि भवति यत् समाजस्य प्रयास:, तस्य योगदानं च शीघ्रमेव स्मृतिपटलात् तिरोहतं भवति।
     सखायः!  स्मर्यते मया यत् दशोत्तर-द्विसहस्रतमाब्दस्य ईस्वीयवर्षस्य सेप्टेम्बर-मासे यदा इलाहाबादोच्च-न्यायालयेन रामजन्मभूमि-विषयकः स्वीय-निर्णय: श्रावित:, किञ्चित् स्मरन्तु तानि दिनानि, कीदृशः परिवेशः आसीत् , भिन्न-प्रकारका: जना: सम्मुखमागता: आसन्, केन प्रकारेण लाभापेक्षिण: समूहाः स्व-प्रकारेण परिस्थिते: लाभार्जनाय क्रीडन्त: आसन्। स्थितिम् उद्वेलयितुं कीदृशी भाषा अभिभाष्यते स्म, विविध-स्वरेषु उग्रता-प्रकर्षाय प्रयासाः भवन्ति स्म। कतिपयैः वाचालैः उद्दाम-वक्तृभि: च केवलं आत्मन: प्रकर्षाय किं किं दायित्वहीनं प्रजल्पितमासीत्, कीदृशं च दायित्व-रहितं वाग्विडम्बनं विजल्पितमासीत्, तत् सर्वम् अस्माभिः सुस्मर्यते। परमिदं केवलं पञ्च वा सप्त वा दश-दिनानि यावदेव प्रचलितम्, परं यथैव निर्णय: समागत:, तदा एकम् आनन्ददायकम्, आश्चर्यजनकं च परिवर्तनं देशेन अनुभूतम्। एकतो द्विसप्ताहं यावत्  विक्षेप-विवर्धनार्थं सर्वम् अभवत्, परं यदा रामजन्मभूमेः निर्णय: समागत: तदा प्रशासनेन, राजनीतिक-दलै:, सामाजिक-सङ्घटनै:, सामान्य-जनै:, समेषां सम्प्रदायानां प्रतिनिधिभि:, साधु-महात्मभिः च सुतरां सन्तोलितं संयमितं च वक्तव्यं प्रदत्तम्। स्थित्या: चिन्तामपाकर्तुं प्रयासाः  कृता:, परमधुना तद्दिनं मया सम्यक्तया स्मर्यते, यदा च तद्दिनं स्मरामि, मनसि प्रसन्नता समुदेति । न्याय-पालिकाया: गरिम्णे गौरवपूर्ण-रूपेण सम्माननं प्रदत्तम्, न कुत्रचिदपि उग्रतायाः ऊष्णताया: आततेः च परिवेशं समुत्पादयितुम् अनुज्ञातम् । तथ्यमिदम् अस्माभि: सदैव स्मरणीयम्, इदमस्मभ्यं समधिकं बलं प्रयच्छति, तद्दिनं तत्पलं च अस्माकं कृते कर्तव्यबोधो विद्यते। ऐक्य-स्वरः, राष्ट्राय कियद् महद् बलं प्रददाति, तस्योदाहरणमिदं वर्तते। 
मम प्रियाः देशवासिन:, ऑक्टोबर-मासे एकत्रिंशत्तमे दिने अस्माकं पूर्व-प्रधानमन्त्रि-वर्याया: श्रीमत्या: इंदिरा-गान्धी-महाभागायाया: हत्यापि अभवत्, अयं देशाय बृहदाघात: आसीत्, अहमद्य तस्यै श्रद्धाञ्जलिं समर्पयामि। 
     मम प्रियाः देशवासिन:! अद्य प्रत्येकमपि गृहस्य एका कथा यदि सर्वत्र श्रूयते, प्रत्येकं ग्रामस्य च कथा श्रूयते, उत्तरतो दक्षिणं, पूर्वत: पश्चिमं यावत् च,  हिंदुस्थानस्य कोणे कोणे या कथा श्रूयते, सैवास्ति स्वच्छताया: कथा। प्रत्येकं जनः, प्रत्येकं परिवारः, प्रत्येकं ग्रामश्च स्वच्छता-सम्बद्धान् आत्मन: सुखदानुभवान् श्रावयितुमिच्छति, यतोहि स्वच्छताया: अयं प्रयास: सपादैकशत- कोटि-मितानां भारतीयानां प्रयासो विद्यते। परिणामस्य च अधिकार: सपादैकशत-भारतीनामेव विद्यते। परमेक: सुखद: रोचकश्चानुभवो वर्तते। मया श्रुतम्, विचारयामि, तदहम् भवद्भ्यश्च श्रावयामि। परिकल्पयन्तु, जगत: सर्वोच्चं युद्धस्थलं यस्य तापमानं शून्यतो 50-60-डिग्री-मित्या नैयून्यं गच्छति, प्राणवायुरपि ईषदेव भवति। एतादृशीषु विपरीत-परिस्थितिषु एतादृशानां समाह्वानानां च मध्ये जीवनयापनं नाम पराक्रमातिरिक्तं न किञ्चिदस्ति। एतादृश्यां विकट-स्थितौ अस्माकं वीरभटा: सोत्साहम् उन्नत-शिरस्काश्च न केवलं कौशल-बलेन देशस्य सीम-प्रदेशं रक्षन्ति, अपितु तत्र स्वच्छ-सियाचिनाभियानमपि प्रचालयन्ति। भारतीय-सैन्य-बलानां  अद्भुत-प्रतिबद्धतायै अहं देशवासिनां पक्षतो तान् श्लाघयामि। कार्तज्ञ्यं च प्रकटयामि । तत्र एतावच्छैत्यं वर्तते यत् कस्यापि पदार्थस्य विघटनं दुष्करं भवति। एवं स्थिते, अवकर-प्रबन्धनं महत्त्वपूर्णं कार्यं वर्तते। एवंभूते परिवेशे, हिम-संहतेः तत्-परिवर्तिभ्यः क्षेत्रेभ्यः त्रिंशदुत्तरैक-शत-टन-मितस्य ततोsप्यधिक-तरस्य च अवकरस्य अपनयनम्, तदपि भिदेलिम्नि पारिस्थितिक-तन्त्रे! कियती महती सेवा अस्त्येषा! इदं तादृशं पारिस्थितिक-तन्त्रमस्ति यत्र हिम-चित्रक-सदृशीनां दुर्लभ-प्रजातीनां वसतिः वर्तते | अत्र ibex- इति-पार्वत्याः अजाः, बभ्रुक-भल्लूक-सदृशाश्च दुर्लभाः पशवः अपि निवसन्ति | वयं सर्वे जानीमहे यत् सियाचिनमिदं तादृशं हिम-क्षेत्रं वर्तते यद्धि नदीनां, स्वच्छ-जलस्य च स्रोतस्त्वेन  वर्तते अत एवात्र स्वच्छताभियानस्य सञ्चालनं नाम तेषां जनानां कृते स्वच्छ-जलस्य सुनिश्चितीकरणम् अस्ति ये हि अधःस्थितेषु क्षेत्रेषु निवसन्ति | युगपदेव, Nubra-Shyok-सदृशीनां नदीनां जलोपयोगं च कुर्वन्ति |

       मम प्रियाः देशवासिनः, उत्सवः, अस्माकं सर्वेषां जीवने नूतनायाः चेतनायाः समुद्भावकं पर्व भवति | तथा च, दीपावल्ल्याः अवसरे तु विशेषतया किञ्चित् अपि अभिनवं वस्तुजातं क्रेतुं, विपणीतः किञ्चित् आदातुं न्यूनाधिक-रूपेण प्रत्येकमपि कुटुम्बे प्रयत्यते एव | अहमेकदा उक्तवान् यत् वयं प्रयतेम – स्थानिक-वस्तूनि क्रीणीयाम | अस्मदीयानि आवश्यक-वस्तूनि अस्माकं ग्रामेभ्यः एव लभ्यते, तर्हि उपजनपदे गमनस्य आवश्यकता नैवास्ति | उपजनपदे लभ्यते चेत् जनपदं यावत् गमनस्य आवश्यकता नास्ति | यावन्ति अधिकतराणि स्थानिक-वस्तूनि क्रेतुं वयं प्रयतिष्यामहे, ‘गांधी-सार्ध-शती’, स्वयमेव अनन्यतमः महान् अवसरः सेत्स्यति | ममायम् अनारतम् आग्रहः भवति यत् अस्माकं तन्तुवायानां हस्ताभ्यां निर्मितम्, अस्माकं खादी-कर्मकराणां हस्ताभ्यां निर्मितं, किमपि किञ्चिदपि च अस्माभिः क्रेतव्यम् | अस्मिन् दीपावली-पर्वणि अपि, दीपावल्याः प्राक् तु भवन्तः बहुमात्रिकं क्रीतवन्तः स्युः परञ्च बहवो जनाः एतावन्तः अपि भवन्ति, ये विचारयन्ति यत् दीपावल्याः पश्चात् क्रेतुं गमिष्यामः चेत् वस्तूनि किञ्चित् न्यून-मूल्यवन्ति प्राप्स्यन्ते | अतः बहवः भविष्यन्ति तादृशाः ये नाधुनावधि क्रयणं विहितवन्तः भवेयुः | तर्हि दीपावली-शुभकामनाभिः साकमेव साग्रहमहं कथयामि यत् आगच्छन्तु! वयं स्थानिक-वस्तु-क्रयणस्य आग्रहिणः भवाम, स्थानीय-वस्तूनि च क्रीणीयाम | अवलोकयन्तु, महात्म-गाँधिनः स्वप्नानि साधयितुं वयमपि कियन्तीं महतीं भूमिकां वोढुं शक्नुमः | अहं पुनरपि, अस्याः दीपावल्याः पावनपर्वणि भवद्भ्यः भूयो भूयः शुभकामनाः वितरामि | दीपावल्यां वयं नाना-प्रकारकाणि आग्नेय-क्रीडनकानि प्रयुञ्जामहे | परञ्च, कदाचित् अनवधानतया अग्नि-काण्डस्य सम्भावना एधते | कुत्रचित् दाहः आघातश्च भवतः | ममायं भवत्सु सर्वेषु आग्रहः यत् भवन्तः स्वयमपि अवहिताः स्युः, उत्सवञ्च सोत्साहं सभाजयन्तु | मम भूयस्यः शुभकामनाः |  कोटिशः धन्यवादाः | 
[भाषान्तरं –सर्वश्री-डॉ.श्रुतिकान्त-पाण्डेय-पुरुषोत्तम-शर्मभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]  
                                  दूरभाषः -   ९८१० ५६२२ ७७                                                अणुप्रैषः  - baldevanand.sagar@gm