tag:blogger.com,1999:blog-61905953803628834652024-03-14T14:54:40.549+05:30 सम्प्रति वार्ताः A COMPLETE ONLINE RESEARCH JOURNAL AND NEWSPAPER IN SANSKRIT LANGUAGE From INDIA सम्प्रति वार्ताः Sanskrit articles for Sanskrit Learning JNAN DARSHANhttp://www.blogger.com/profile/15562624675746025969noreply@blogger.comBlogger170125tag:blogger.com,1999:blog-6190595380362883465.post-1731749881701137272023-12-28T00:50:00.001+05:302023-12-28T00:50:30.753+05:30
संस्कृतगीतम्

JNAN DARSHANhttp://www.blogger.com/profile/15562624675746025969noreply@blogger.comtag:blogger.com,1999:blog-6190595380362883465.post-19945500271351512202023-08-31T06:00:00.012+05:302023-09-09T14:01:38.641+05:30

संस्कृतदिनम् - श्रावणपूर्णिमा

महामहोपाध्यायः डा. गो. गङ्गाधरनायर:

सर्वे संस्कृतज्ञाः जानन्ति श्रावणपूर्णिमा संस्कृतदिनं भवति इति। 1969 तमे वर्षे संस्कृतदिनाचरणस्य आरम्भः कृतः यदा श्रीमती इन्दिरा गान्धी भारतस्य प्रधानमन्त्री आसीत् तदानींतनकाले भारतस्य राजनैतिक नेता तथा शिक्षाविचक्षणाः प्रायेण संस्कृतं प्रति आदरवन्तः, इतरभाषापेक्षया संस्कृतस्य प्राचीनतमत्वं भारतीयसंस्कृतेः संस्कृताश्रितत्वं च जानन्तश्च आसन्। भाषाविज्ञानिनः जानन्ति स्म यद् भारतस्य अधिकाः भाषाः सांस्कृताद् जाताः सर्वाः भारतीयभाषाः संस्कृतेन पोषिताः, तथा बहवः विदेशभाषाः अपि तेन सम्बद्धाश्च इति। परन्तु आधुनिककाले आङ्गलभाषा प्राशासनिक-भाषात्वेन शिक्षामाध्यमत्वेन च स्वीकृता इति कारणेन संस्कृतस्य पठने पाठने च भारतीयानाम् उत्साहः क्षीणः अभवत्। प्रादेशिक भाषाणां विकासः सम्पादनीयः इति, तदर्थं नूतनानां वस्तूनां नामकरणार्थम् आधुनिकानाम् आशयानां प्रतिपादनाय शब्दनिर्माणार्थं च संस्कृतस्य आश्रयणम् अत्यन्तम् अपेक्षितमिति च सर्वे भारतीयाः चिन्तकाः जानन्ति स्म। स्वातन्त्र्यप्राप्तेः अनन्तरं जनाधिपत्यम् अङ्गीकृत्य गणतन्त्रराष्ट्रत्वेन भारतस्य परिणामे क्रियमाणे सति भारतस्य राजभाषा (प्राशासनिकभाषा) का भवतु इति विचारे तदर्थसमित्यां मतग्रहणेन निर्णयावसरे हिन्दी- संस्कृताभ्यां समसङ्ख्यानि मतानि प्राप्तानि। तत्समितेः अध्यक्षस्य विशेषमतेन हिन्दी राजभाषास्थाने चिता। किन्तु संस्कृतशब्दप्रधाना हिन्दी (Sanskritized Hindi) एव अखिलभारतस्तरे राजभाषा भवेत् इति तत्र निर्णीतम् आसीत्। एतत् सर्वं जानतां राष्ट्रहितचिन्तकानां प्रेरणा एव संस्कृतदिनाचरणस्य प्रकल्पनं भारतीयसर्वकारेण मानितं तदर्था व्यवस्था कृता च। बाजपेयी महोदयः यदा प्रधानमन्त्री आसीत् तदा श्रावणपूर्णिमायाः पूर्वाणि त्रीणि दिनानि पराणि त्रीणि दिनानि च योजयित्वा प्रतिवर्षं संस्कृतसप्ताहः विपुलकार्यक्रमैः सह आचरणीयः इति च निर्देशः प्रचालितः॥

श्रावणपूर्णिमा कस्मात् ?

अस्माकं सनातनसंस्कृतौ शिशूनाम् अक्षरशिक्षणस्य आरम्भाय विद्यारम्भः इति संस्कारः विहितः आसीत्| केरळराज्ये विजयदशमीदिने इदानीम् अपि जाति सम्प्रदायधर्मभेदं विना विद्यारम्भः आचर्यते। पुरातनकाले अधुनातनविद्यालयप्रवेशः इव बालानां शिक्षणस्य सदारम्भाय गुरुकुलं)

प्रति प्रेषणम् आसीत्। गुरुः बालकं शिष्यत्वेन स्वीकरोति स्म तस्य संस्कारस्य उपनयनम् इति नाम उपनीय शिष्यं गुरुः वेदानां दर्शनानां च प्रथमवाक्यं पाठयति स्म। उपनयनस्य दिनम् आसीत् श्रावणपूर्णिमा। इदानीम् अपि द्विजाः प्रतिवत्सरम् उपनयनस्य अनुकरणरूपेण तस्मिन् दिने (श्रवणनक्षत्रे) वा अनन्तरदिने (धनिष्ठानक्षत्रे) वा उपवीतस्य परिवर्तनं कुर्वन्ति वेदादीनाम् आरम्भवाक्यानि उच्चारयन्ति च। अतः एव मङ्गला तिथिरिति श्रावणपूर्णिमा संस्कृतदिनत्वेन घोषिता । अस्मिन् संवत्सरे आगस्तमासस्य एकत्रिंशः दिनाङ्कः एव।

अस्माकं कार्यम्

संस्कृतस्य प्रचारणाय विकासाय च जनानाम् उत्साहवर्धनम् एव संस्कृतदिनाचरणेन उद्दिष्टम्। एकदिनस्य वा एकस्य सप्ताहस्य वा उत्सवेन अस्माकं कार्यं सम्यक् सपन्नम् इति वयं निर्वृताः न भवेम। एकवर्षस्य संस्कृतकार्यार्थं वयम् अनेन आवरेण उत्तेजिताः इत्येव संस्कृतसेव अस्माभिः चिन्तनीयम्। संस्कृतसेवकाः इत्युक्ते संस्कृतस्य अध्यापकाः, प्रौढच्छात्राः, संस्कृतसङ्घटनानां सदस्याः, विविधानां संस्कृतपत्रिकाणां चालकाः, संस्कृतलेखकाः, संस्कृतप्रेमिणश्च मया अभिप्रेताः। एकस्मिन् काले भारते तथा समीपराष्ट्रेषु च राज्यानां मिथः व्यवहाराय संस्कृतमेव माध्यमम् आसीत्। सा अवस्था पुनरपि आनेतुं न शक्यते चेदपि भारते सर्वेषु राज्येषु संस्कृतभाषिणां संस्कृतच्छात्राणां संस्कृतसंस्थानां च सङ्ख्यावर्धने अस्माकं सम्भूय प्रयत्नः अपेक्षितः। तेन साकम् अस्माकं परम्परागते ज्ञाने विज्ञानेषु च उपयोगीनि यानि तत्त्वानि सन्ति तानि प्रकाशं नीत्वा सर्वलोकोपकाराय उपयोक्तव्यानि च। विदेशेषु अपि बहवः जनाः सन्ति येषाम् तादृशविषयेषु रुचिः अस्ति। बहुषु विदेशराष्ट्रेषु इदानीम् अपि संस्कृतप्रचारकार्यम् अस्ति। तदपि बहुगुणं करणीयम् ।

संस्कृतसेवकेषु परस्परविश्वासस्य सहयोगस्य च वातावरणम् अवश्यं निर्मातव्यम्। इदानीं मम प्रतिभाति कानिचन संघटनानि अन्यानि सदृशानि संघटनानि द्वेषस्य दृष्ट्या पश्यन्ति। समानमेव संस्कृतकार्यं कुर्वतां मध्ये द्वेषस्य कः अवकाशः। यदि किञ्चित् संघटनं केवलं कागदे एव अस्ति अध्यक्षादिपदाभिमानार्थम् अथवा किञ्चित् संघटनं देशविरोधि समाजविरोधि वा कार्यं करोति तर्हि तत् संघटनं निश्चयेन विरोद्धव्यम्। तद्भिन्नानां सहयोगेन अस्माकमेव बलं वर्धिष्यते, संस्कृतस्य पुरोगति अपि भविष्यति ।

दुरदर्शनादिमाध्यमानां दायित्वम्

आधुनिककाले सम्भाषणान्दोलनेन संस्कृतभाषायाः प्रचारः महता प्रमाणेन प्रवृद्धम् इति विषये सन्देहः एव नास्ति। भाषाशुद्धे: स्तरः अधस्तात् गच्छति इति दृश्यते। प्रादेशिकानां भाषाणाम् प्रभावेण भारते एकैकस्मिन् राज्ये कदाचित् तत्रत्य लघुप्रदेशे अपि वर्णानाम् उच्चारणं विकृतं भवति। मम युवावस्थायाम् एवम् एव नास्ति इति मम अनुभवः। तदानीं पञ्जाबस्था वा केरळीयः वा पश्चिमबङ्गस्थः वा उत्कलस्था वा संस्कृतोच्चारणं यथावत् सम्यक् करोति स्म। एकस्मिन् अवसरे पञ्चाशतः वर्षेभ्यः पूर्वं पञ्चाबविश्वविद्यालयस्य संस्कृतप्राचार्यः यज्ञदत्तशर्मा महोदयः मां यदुक्तवान् तद् इदानीमपि अहं स्मरामि- ''विदेशियभाषाणां प्रभावेण अस्माकम् उत्तरभारतीय-भाषासु पदानाम् अन्ते, क्वचित् मध्ये च अकारः लुप्तः। शषसानाम् उच्चारणं मिश्रं भवति। अस्माकं भाग्यं मम भवतः च संस्कृतम् अविष्कृतम्" इति अधुना अहं पश्यामि उत्तरभारते बहवः महान्तः अपि ञ् ङ् इत्यनयोः उच्चारणं न जानन्ति। भारते क्वचित् क्वचित् ऋ इत्यस्य उच्चारणम् अज्ञानेन केचित् रु इति कुर्वन्ति केचित् भाषा इत्यस्य भासा इति उच्चारणं कुर्वन्ति। केरळराज्यस्य उत्तरभागे पण्डिताः अपि तस्मात् प्रचोदयात् इत्यादीनां स्थाने तस्माल्, प्रचोदयाल् इत्यादि वदन्ति। प्रादेशिकभेदे दोषो नास्ति इति वादं कुर्वन्तः वा अन्ये अज्ञानेन वा प्रादेशिकतया प्रसिद्धेषु अर्थेषु संस्कृतशब्दान् प्रयुञ्जते यदि दूरदर्शने वार्तादीनां प्रस्तोताराः तथा आकाशवाण्याम् अवतारकाश्च उच्चारणदृष्ट्या व्याकरणदृष्ट्या च शुद्धान् सरलान् शब्दान् प्रयुञ्जीरन् तर्हि प्रमाणभूतं संस्कृतम्) सर्वत्र समानरूपतया प्रसरेत्। यथा मम बाल्यकाले जनाः बी.बी.सी. इत्यस्य आङ्गलं "मानकम् आङ्गलम्” इति स्वीकृतवन्तः तथा भारतीयाः अपि मानकं संस्कृतम् अङ्गीकरिष्यन्ति। दूरदर्शनस्य आकाशवाण्याः वार्तादीनाम् अवतारकाः कुशलैः अखिलभारतीयदृष्टिमद्भिः संस्कृताभिज्ञैः प्रशिक्षणीयाः। सहस्रेभ्यः वर्षेभ्यः पूर्वं जाता संस्कृतभाषा इदानीम् अपि जनैः अवगम्यमाना जीवति। सा ऊर्जस्वला चिरं जीव्यात्।

संस्कृतेन संस्कृतिस्तया च राष्ट्रनिर्मितिः ॥

JNAN DARSHANhttp://www.blogger.com/profile/15562624675746025969noreply@blogger.comtag:blogger.com,1999:blog-6190595380362883465.post-14302375323637545272023-04-17T06:00:00.036+05:302023-04-18T21:13:37.232+05:30

राष्ट्र-वन्दना

-कविता

-बलदेवनन्द-सागरः

विश्व-वन्द्यं सुरम्यं परं भारतम्, नौमि पुण्यप्रदं पावनं भारतम् |

सर्व-सन्देह-सन्दोह-संहारकम् स्तौमि माङ्गल्य-मानादरैः भूरिशः॥१॥

अद्भुतं भारतं कल्पितं वै पुरा, पूर्वजैरत्र भावि-प्रजानां कृते।

मित्र ! संश्रूयतां नूतनं जीवनम् दर्शितं भारती-सेवकैः सन्ततम्॥२॥

यत्र सर्वे जनाः सादरं निर्भयम्, जीवनं यापयेयुः विना कल्मषम्।

नापराधो भवेत् कुत्रचित् सज्जने, दुर्जने सन्मतिः सर्वदा सम्भवेत् ॥३॥

सामरस्यादि-भावैः भवेत् साधितम्, विश्व-बन्धुत्व-सन्देशकैः पावितम्।

शान्तिरेधीति- मन्त्रैः समाराधितम्, सम्विधानाधिकारैश्च सम्वर्धितम् ॥४॥

प्राविधीत्यादि-संस्कार-शोभान्वितम्, अन्तरिक्षेऽनुसन्धान-कार्यादिभिः।

ज्ञान-विज्ञान-साहित्य-संसाधनैः, भक्ति-शक्ति-द्वयेनोन्नतिं प्राप्नुयात्॥५॥

विग्रहे निग्रहों नाग्रहः संग्रहे यत्र सामाजिकाः राष्ट्र-कार्ये रताः।

लेखकाः बोधकाः शोधकाः शासकाः, ते च प्रामाणिकत्वं भजेरन् सदा॥६॥

प्रीति-रीति-प्रतीति-प्रमाणैः परम्, वेद-वाणी-वितानैः सदा साधितम्

शौर्य-धैर्यादि-भावैः मुदा भावितम्, सर्वदा स्त्रीकुलं रक्षितं सम्भवेत्॥७॥

बालवृन्दं समस्तं विकासं व्रजेत्, प्रोन्नतं शिक्षणं स्याच्च यूनां कृते।

सर्व-धर्मान्वितौ सत्वरं तत्परम्, नागरः सागरः सम्भवेत् सर्वदा॥८॥

JNAN DARSHANhttp://www.blogger.com/profile/15562624675746025969noreply@blogger.comtag:blogger.com,1999:blog-6190595380362883465.post-3938887039868550602023-04-03T06:00:00.005+05:302023-04-18T21:17:07.143+05:30
पद्मम्

चौ दुन्यि (Zhou Dunyi 1017-1073 ) चीनकविः ।

अनुवादक:- महामहोपाध्याय गो. गङ्गाधरनायरः

बहूनि पुष्पाणि जले स्थले च

रोहन्ति सर्वाणि प्रियाणि नूनम् ।

जिन्- राजवंशे बत लब्धजन्मा

ताओयुवान् मिङ् युवराजवर्यः ॥1॥

सेवन्तिपुष्पे नितरां हि प्रीतो

नान्यत्सुमं कामयते स्म प्रीत्या ।

ताङ् वंशकालात् परमत्र सर्वे

पियोनिपुष्पे रुचिमावहन्ति ॥2॥

एकान्ततः पङ्कजमात्रकामी

भवाम्यहं राजकुमारभिन्नः ।

पङ्कात्तु निष्क्रान्तमिदं तु पुष्पं

निष्पङ्कमास्ते स्नपितं जलेन ॥3॥

दुष्काममेतन्न करोति चित्ते

मनोहरं तिष्ठति शोभते च ।

एतस्य वृन्तं तु ऋजु स्वयं त-

च्छून्यान्तरङ्गं न च तत्र पङ्कः ॥ 4 ॥

न तस्य शाखास्ति न च प्ररोहः

सन्तिष्ठते पूर्णशुचि स्वयं तु ।

प्रसारयत् सौरभमेव पुष्पं

समन्ततः सर्वहितं मनोज्ञम् ॥5॥

हस्तेन तद् लालयितुं न शक्यं

दूरे स्थितास्तु प्रवदेम शंसाम् ।

सेवन्तिका पुष्पमहो मतं मे

सन्न्यासि पुष्पेष्विति नात्र शङ्का ॥6॥

पियोनिपुष्पं खलु राजकीय-

माढ्यं च तद्वद् धनिनां प्रियं च ।

पद्मं तु पुष्पं सुजनः सुमेषु

मदन्य एतर्हि नु कस्तदिच्छेत् ॥7॥

ताओ कुमारात् परमस्ति नैव

सेवन्तिकायां रतमानसोऽन्यः

मत्तः परः कोऽस्ति सरोजपुष्ये

सुप्रीतिमान् वस्तुत एव देशे ॥8॥

पियोनिपुष्पाणि समस्तलोके

समाद्रियन्ते न हि तत्र शङ्का ।

इतःपरं किं न वदामि कष्टं

सेवन्तिका कुत्र च कुत्र पद्मम् ॥9॥

[भारते इव चीनमहाराज्येऽपि प्राचीनकाले धर्माश्रिता जीवनचर्या एव आद्रियते स्म। चीनदार्शनिक: कोङ्त्सिये (Confucius) महोदय: एव चीनसंस्कृतौ धार्मिकतायाः प्रतिष्ठायां कारणभूतः गुरुः। तस्य उपदेशेषु महता आदरेण पण्डितः कविः दार्शनिकः चौ दुन्यिमहोदयः नव्यकोङ्त्सियेदर्शनं प्रचार्य जनानां जीवनवृत्ते सामाजिकव्यवहारे च धार्मिकनीतिं पुनः स्थापयितुं महान्तं प्रयासं कृतवान्। चीनसंस्कृतौ धार्मिकतायाः चिह्नं भवति पद्मपुष्पम्। धार्मिकतायाः अपचये वैयक्तिकदुर्वृत्तं यद् व्याप्रोति तद् जनप्रियं स्यात् न तु जनहितम्। एषा कविता तु अन्यापदेशरीत्या सांस्कृतिकापचयं सूचयति।)
JNAN DARSHANhttp://www.blogger.com/profile/15562624675746025969noreply@blogger.comtag:blogger.com,1999:blog-6190595380362883465.post-44724510797502941862023-03-10T17:06:00.074+05:302023-03-11T22:33:48.817+05:30
ज्ञानवीथी कल्पाती।

डा. गोविन्दः एन्

संस्कृताध्यापक:

सर्वकारविद्यालय:

इरिङालक्कुटा, तृश्शूर्

मानवजीवनस्य समुन्नतये जीवनमूल्यवर्धनाय च अविभाज्याः अंशाः भवन्ति ग्रन्था इत्यत्र सन्देहो नास्ति। यद्यपि ग्रन्थानां प्राधान्यं वर्णयितुम् अनेकाः सन्दर्भाः सन्ति तथापि ग्रन्थालयानां तथा ग्रन्थविक्रयालयानां विवरणम् अल्पमेव इति भाति। वस्तुतः यथा ग्रन्थाः तथा ग्रन्थालयाः अपि प्रधानाः, विशिष्य संस्कृतवाङ्मये। अनेकैः ग्रन्थरत्नैः परिलालितो भवत्यस्माकं संस्कृतलोकः। परं विशिष्टाः ग्रन्थालयाः ग्रन्थविक्रयालयाः के इत्यत्र अधुनापि जनानां ज्ञानं नास्तीति मत्वा विशिष्टा एका ग्रन्थविक्रयशला अत्र प्रतिपाद्यते।

केरलराज्येषु प्रकृतिसौन्दर्ये तथा सांस्कृतिकमण्डले अग्रिमस्थानमावहति पालक्काट् जनपदः। तत्रस्थे कल्पाती इत्यग्रहारे विद्यमाना अतिविशिष्टा विशाला ग्रन्थविक्रयशाला भवति आर्. एस्. वाध्यार् ग्रन्थशाला। पुरा केरलराज्येषु संस्कृतशिक्षायाः प्रथमं सोपानम् इतः आसीत्। वाध्यार् महोदयेन संस्कृतशिक्षां सरलीकर्तुं तथा बालानां सुखबोधाय च आरब्धा इयं ग्रन्थशाला। अत्र ग्रन्थप्रकाशनं ग्रन्थविक्रयणं च प्रचलति। शब्दमञ्जरी, धातुरूपमाला, श्रीरामोदन्तं काव्यम्, श्रीकृष्णविलासकाव्यम् इत्यादीनां प्राथमिकग्रन्थानां सङ्ग्रहः अत्र वर्तते। एतैः पुस्तकैरेव पूर्वस्मिन् काले आचार्याः छात्रान् संस्कृतं पाठयन्ति स्म। ललितरीत्या संस्कृतकथनं, तस्य आङ्गलेयव्याख्यानम्, शुद्धाक्षराणि इत्येते अंशाः पुस्तकानां वैशिष्ट्यं प्रसारयन्ति।

गच्छता कालेन ग्रन्थविक्रयशालायाः अभिवृद्धिः जाता। विदेशेषु अपि अस्याः ग्रन्थशालायाः प्रसिद्धिः व्यापृता। जगति विद्यमानाः सर्वे संस्कृतानुरागिणः इमां ग्रन्थशालामन्विष्य कल्पातीपुरमागन्तुम् आरब्धवन्तः। तेषु संस्कृतछात्राः, अध्यापकाः, शोधछात्राः किमधिकं संस्कृतं पठितुमिच्छुकाः जनाः अपि अन्तर्भवन्ति। अत्र न केवलं लघुसंस्कृतग्रन्थाः अपि तु स्तोत्रग्रन्थाः, शास्त्रग्रन्थाः, साहित्यग्रन्थाः इत्यादीनां समाहारोपि वर्तते।

सर्वैः संस्कृतानुरक्तैः अवश्यं गन्तव्या ग्रन्थशाला भवति इयम्। अधुनापि बहवः अत्र आगत्य पुस्तकानि स्वीकुर्वन्ति।

कदाचित् अभूतपूर्वः सम्मर्दः अत्र अनुभूयते। अन्तर्जाले अस्य सम्पर्कसंख्या उपलभ्यते। अपेक्षानुगुणं दूरवाणीं कृत्वा पुस्तकानि स्वीकर्तुं शक्यन्ते। डिजीटेल् माध्यमेन अधुनात्र प्रसिद्धीकरणं चलति इति हेतोः पुस्तकानामुपलब्धिः विना प्रयासेन जायते। वाध्यार् महोदयस्य अनुवर्तिनः सम्प्रति ग्रन्थालयं चालयन्ति। दूरवाणी - RS Vadhyar & Sons 9496245066

सर्वे आगच्छन्तु, ज्ञानमधुरमनुभवन्तु॥
JNAN DARSHANhttp://www.blogger.com/profile/15562624675746025969noreply@blogger.comtag:blogger.com,1999:blog-6190595380362883465.post-57878039525832528522023-01-26T23:27:00.004+05:302023-03-11T22:21:50.257+05:30
"वसन्तपञ्चमी"

निबन्धकारः - दीपककुमारचौधरी

वसन्तो ग्रीष्मो वर्षा: शरद् हेमन्तः शिशिरश्चेति षडृतवो भवन्ति। एतेषु षट्सु ऋतुषु वसन्तस्य अन्यतमं स्थानं वर्तते "वसन्ति सर्वे ऋतवो यस्मिन् स वसन्तः"इति विग्रहात्। अत एव वसन्तः "ऋतुराज:"इति नाम्नाऽपि सम्बोध्यते।अस्मिन् ऋतौ क्षेत्रेषु नवसस्यानि प्रजायन्ते।तैः क्षेत्रसौन्दर्यम् अतीव मनोहरं प्रतिभाति।हृदयावर्जकानि विविधपुष्पाणि विकसन्ति।पुष्पाणि परितः भ्रमरा गुञ्जायमाना भ्रमन्तो वसन्तस्य माहात्म्यं ख्यापयन्ति।आम्रवृक्षेषु नवमञ्जराणि समायान्ति।वृक्षेषु पिका मधुरं कूजन्त: वसन्तमहत्त्वं कीर्तयन्ति। यथोक्तम्- ऋतुसंहारनामके खण्डकाव्ये कविकुलशिरोमणिना कालिदासेन वसन्तर्तुवर्णनप्रसङ्गे-

द्रुमाः सपुष्पा: सलिलं सपद्मं,

स्त्रिया: सकामा: पवनः सुगन्धि:।

सुखा: प्रदोषा दिवसाश्च रम्या:,

सर्वं प्रियं चारुतरं वसन्ते।।

(ऋतुसंहार:-६/२)

असौ वसन्तो "मधुमास:,माधवमास:,ऋतुराज: पिकानन्दश्च"इत्याख्यै: कीर्त्यते।एतेन वसन्तस्य प्रामुख्यं स्पष्टं भवति।

अस्मिन्(वसन्ते) ऋतौ निखिलेऽपि देशे अनेकानि पर्वाणि आयोज्यन्ते।तेषु अन्यतमं भवति "वसन्तपञ्चमी" इति। वसन्तस्य पञ्चमी वसन्तपञ्चमीति।इयमेव केषाञ्चन मते " ऋषिपञ्चमी श्रीपञ्चमी"इत्याख्याभ्यामपि कीर्त्यते। वसन्तपञ्चमी माघमासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ आयोज्यते।अस्यां तिथौ मिथिलाप्रदेशे सोल्लासेन नृत्यगीतस्तोत्रघोषादिपुरस्सरं वाग्देव्या: सरस्वत्या आराधनं क्रियते,यतोहि अस्यामेव तिथौ विद्याप्रदायिन्या वीणापाणे: सरस्वत्या: प्रादुर्भावोऽभवद् इति पौराणिककथामाश्रित्य पौराणिका आमनन्ति। विद्याया वाण्याश्च अधिष्ठातृदेवी सरस्वती वर्तते।इयं विद्या-बुद्धिप्रदात्री वर्तते।

अतो "वागीश्वरी, वाग्देवी,विद्यादात्री,विद्या-बुद्धिप्रदायिनी, शारदा,भगवती,वीणापाणिः,

वीणावादिनी" इति नामभिः पूज्यते।सङ्गीतम् अस्या एव समुद्भूतम् अतः सङ्गीतदेवी इत्यपि उच्यते।ऋग्वेदेऽपि सरस्वतीस्तुति: प्राप्यते-

"प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती धीनामणित्रवतु" इति।शिक्षाविद: सङ्गीतनृत्यादिकलाविद: शिल्पिनः समेऽपि "विद्या-बुद्धि-वागधिष्ठातृदेवताया भगवत्या: श्रीसरस्वत्या आराधनां कुर्वन्ति।यथैव सैनिकाः क्षत्रियाश्च विजयदशम्यां शस्त्रपूजां कुर्वन्ति तथैव शिक्षकाः छात्रा अन्ये अध्येतारश्च शास्त्राणां ग्रन्थानां पुस्तकानाञ्च तदधिष्ठातृदेव्या: सरस्वत्याश्च पूजां कुर्वन्ति।यथोक्तम्-

"माघस्य शुक्लपञ्चम्यां महापूजां समाचरेत्।

नवै: प्रवालै: कुसुमैरनुलेपैर्विशेषत:।।

नीराजनोत्सवं कृत्वा भक्त्या संमान्य वैष्णवान्।

वसन्तरागं जनयन् गीतनृत्यादि कारयेत्।।"

इयं पञ्चमी मानवान् समस्तपापान् मोचयित्वा तेभ्यः सदसद्विवेकबुद्धिं प्रददाति।यथोक्तं मत्स्यसूक्ते-

"वसन्तपञ्चमी नाम सर्वपापप्रमोचनी।"

अस्यां तिथौ केचन लघुबालकानां विद्यारम्भम्(अक्षरारम्भम्) कारयन्ति।यतोहि विद्यारम्भनिमित्तं वसन्तपञ्चमी तिथिरतीव पवित्रतमा मन्यत इति शम्।

लेखकः-दीपककुमारचौधरी

(संस्कृतशोधार्थी-दीपकवात्स्य:)
JNAN DARSHANhttp://www.blogger.com/profile/15562624675746025969noreply@blogger.comtag:blogger.com,1999:blog-6190595380362883465.post-18227231027099902782022-12-28T01:20:00.006+05:302023-03-11T22:24:26.427+05:30
हेमन्तः

-कविता

-डा. जि . गंङ्गाधरन् नायर्॥

हेमन्तऋतुकाले/स्मिन् शैत्यं तीक्ष्णं प्रवर्धते ।

ततो/पि जायते तीव्रं वातेन वहता / निशम् ॥

आसारवर्षपातो∫स्ति ऋतावस्मिंस्तदा तदा ।

अल्पेन समयेनाथ वर्धन्ते शीकरास्तदा ।।

धूलयः प्रसरन्तीव वान्तीह हिमशीकराः ।

कार्पासस्य तु तूलानि प्रसरन्तीव दर्शने ॥

भूमेरुपरि वातेन प्रेरिता हिमसीकराः ।

व्याप्नुवन्ति हि सर्वत्र भूमौ तु हिमवालुकाः ॥

क्रीडासक्तास्तदा बाला हिममानुषनिर्मितौ

यतन्ते च प्रमोदेन कुर्वते हिमगोलकान् ॥

तानन्योन्यं प्रक्षिपन्ति बालका हृष्टमानसाः ।

नास्ति सीमा त तोषस्य तेषां बाल्यं मनोहरम् ॥

तु अनन्तरदिने वाथ द्वितीये वा तृतीयके ।

सान्द्रं भूत्वा घनीभूतं हिमं हिमशिला भवेत् ॥

पिच्छिला सा भवेत्तस्यां चलनं बहुदुष्करम् ।

अवधानं विना कश्चिच्चलेत् स स्खलितः पतेत् ॥

शिशिरर्तुर्भवेन्मासद्वयेन क्लेशवर्धनः ।

हिमपातस्य वृद्धिः स्यात् तीव्रं शैत्यं सहेमहि ॥

JNAN DARSHANhttp://www.blogger.com/profile/15562624675746025969noreply@blogger.comtag:blogger.com,1999:blog-6190595380362883465.post-82839833322698160632022-12-15T18:51:00.002+05:302022-12-15T18:52:40.326+05:30
सत्यव्रतचरितम्

लेखकः - डा.रुरुकुमारमहापात्रः (अध्यापकः)

राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः

व्यासदेवः सविस्तरं सत्यव्रतचरितं कथयति। पूर्वकाले एकदा मुनीनां समाजे विचारः अभूत्- यत् कः देवः सर्वश्रेष्ठः पूज्यतमश्च भवति। कः देवः विशेषरूपेण उपासनीयः। कः देवः अभीष्टफलं ददाति। एतस्य प्रश्नस्य उत्तरेण लोमशमुनिः उक्तवान् यत् सर्वेऽपि बुद्धिमन्तः कल्याणकामिनः पुरुषाः महाशक्तेः भगवत्याः अम्बिकायाः उपासनां कुर्युः। तस्मिन् प्रसङ्गे कथं ऐकारस्य उच्चारणेन ब्राह्मणः सत्यव्रतः देवीकृपातः लोकप्रसिद्धिं मोक्षञ्च प्राप्तवानिति एकमाख्यानमुक्तवान्। पुरा कोशलदेशे देवदत्तनामकः एकः विख्यातः ब्राह्मणः तिष्ठति स्म। तस्य कोऽपि सन्तानः नासीत्। पुत्रप्राप्त्यर्थं सः पुत्रेष्टियज्ञं कृतवान्। गोभिलमुनिः उद्गाता च आसीत्। मुनिवरः गोभिलः रथन्तरच्छन्दसा गानं करोति स्म । तदा तस्य स्वरभङ्गः अभूत्। ब्राह्मणः देवदत्तः मुनिवरं गोभिलं भर्त्सितवान्। महात्मा गोभिलः अपि कुपितः अभूत्। देवदत्तस्य भर्त्सनं श्रुत्वा सः तस्मै अभिशापं दत्तवान्। हे देवदत्त ! भवतः एकः मूर्खपुत्रः भविष्यति। तदा देवदत्तः मुनेः पादौ पतित्वा क्षमायाचनां कृतवान्। मुनिः शान्तः भूत्वा उक्तवान् यत् तव पुत्रः मूर्खः भूत्वा अपि अनन्तरं पण्डितः भविष्यति। अनन्तरं शुभकाले देवदत्तस्य पत्नी एकं पुत्रं जनयामास। तस्य नाम उतथ्य इति अभूत्। ब्राह्मणदेवदत्तस्य सः पुत्रः उतथ्यः पठितुं गुरुगृहं गतवान्। बहुवर्षं पठित्वा अपि तस्य किमपि ज्ञानं नाभूत्। एकशब्दमपि उच्चारयितुं सः समर्थः नाभूत्। सः किमपि शास्त्रं न जानाति स्म, सन्ध्यावन्दनादिकमपि न जानाति स्म। अतः सः मूर्ख इति सर्वत्र प्रचारितः अभूत्। सर्वे तस्य उपहासं कृतवन्तः। पितरौ अपि निन्दां कृतवन्तौ। यदा जनाः माता, पिता सर्वेऽपि च जनाः तस्य अत्यन्तनिन्दां कृतवन्तः, तदा तस्य मनसि वैराग्यमागतम्। सः वनं गतवान्। गङ्गातटे एकस्मिन् स्थाने कुटीरं निर्माय वन्यफलं मूलञ्च भुक्त्वा सः जीवनं यापयति स्म। सः इन्द्रियसंयमं स्थापयित्वा एकनियमं स्थापितवान् यत्- अहं कदापि मिथ्या न कथयिष्यामि। अतः तत्रत्याः जनाः तं ब्राह्मणं सत्यव्रत इति नाम्ना आह्वयन्ति स्म। एवम्प्रकारेण सः वने केवलं ब्रह्मचर्यधारणपूर्वकं फलमूलानि भुक्त्वा जीवनं यापयति स्म।

एकदा एकः निषादः तत्र हस्ते धनुर्बाणं धृत्वा आगतवान्। सः वने एकं शूकरं शरेण विद्धवान्। ततः भयभीतः सः शूकरः शीघ्रं धावन् उतथ्यमुनेः आश्रमे आगतवान्। तदा शूकरस्य शरीरं रक्ताक्तमासीत् एवं सः भयेन कम्पते स्म। तं दीनहीनं पशुम् उतथ्यमुनिः दृष्टवान्। ततः मुनेः हृदये दया आगता। एवं तस्य मुखात् भगवत्याः सारस्वतबीजमन्त्रः ऐं इति उच्चारितमभूत्। पूर्वं कदापि सः एनं मन्त्रं न जानाति स्म। कदापि न श्रुतवान् अपि आसीत्। कस्मादपि अदृष्टप्रेरणया शोकवशात् तस्य मुखे एषः मन्त्रः आगतः। तदा सः निषादः धनुर्बाणं नीत्वा तत्र उपस्थितः अभूत्। सः व्याधः मुनिम् उतथ्यं वारम्बारं पृष्टवान् यत् - हे मुने ! भवान् सत्यव्रती अस्ति। अतः भवान् कथयतु बाणविद्धः सः शूकरः कुत्र गतः। व्याधस्य वचनं श्रुत्वा मुनेः मनसि बहुविचारः आगतः। सः चिन्तितवान् यदि अहं सत्यं कथयिष्यामि तदा व्याधः शूकरं नेष्यति। असत्यं कथयामि चेत् मम व्रतहानिः भविष्यति। एवं किमपि कथयिष्यामि येन मम वाणी मिथ्या न भवेत् एवं शूकरस्य जीवनहानिरपि न भवेत्। प्रथमतः बाणविद्धं शूकरं दृष्ट्वा दयावशात् तस्य मुखात् सरस्वत्याः सारस्वतबीजमन्त्रः ऐं इति उच्चारितमासीत्। ऐं इति भवति वागबीजमन्त्रः। ततः तमेव मन्त्रं श्रुत्वा भगवती उतथ्यमुनेः उपरि प्रसन्ना अभूत्। अतः देवीकृपातः उतथ्यमुनेः कृते सम्पूर्णविद्या आगता। तस्य मनसि सर्वविद्याः स्फुरिताः अभवन्। सः एकः महान् कविरभूत्। तदेव तस्य मुखादेकः श्लोकः निर्गतः –

या पश्यति न सा ब्रूते या ब्रूते सा न पश्यति।

अहो व्याधः स्वकार्यार्थी किं पृच्छसि पुनः पुनः॥

तस्य तात्पर्यं भवति यत् हे व्याध ! यत् नयनं पश्यति तत् न कथयति, या वाणी कथयति सा न पश्यति। अतः हे व्याध ! भवान् पुनः पुनः मां किमर्थं पृच्छति। मुनिवरस्य कथनादनन्तरं सः व्याधः ततः निर्गतः अभूत्। एवं शूकरस्य जीवनरक्षा अभूत्। इदानीं देवीकृपातः उतथ्यमुनिः वाल्मीकि इव प्रकाण्डः विद्वान् अभूत्। समग्रभूमण्डले सत्यव्रत इति नाम्ना तस्य प्रसिद्धिरभूत्। तदनु अनन्तरं सारस्वतबीजमन्त्रः ऐं इति सः विधिवत् जपं कृतवान्। ततः जगति तस्य वैदुष्यं यशो च चर्तुदिक्षु प्रसारितमभूत्। ब्राह्मणजनाः उत्सवादिषु तस्य यशोगानं कृतवन्तः। सत्यव्रतस्य माहात्म्यं श्रुत्वा तस्य परिवारजनाः वनमागत्य बहुमानेन सत्कारेण च तं मुनिं गृहं नीतवन्तः। अतएव हे राजन् ! तस्याः एव आदिशक्तेः भगवत्याः जगदम्बिकायाः सदैव भक्तिपूर्वकतया उपासना करणीया भवति। भगवत्याः कृपातः जनस्य सर्वकल्याणं भवितुमर्हति। एवम्प्रकारेण पाठ्यक्रमेऽस्मिन् द्वितीयांशे सारांशरूपेण एते विषयाः उपन्यस्ताः सन्ति।

JNAN DARSHANhttp://www.blogger.com/profile/15562624675746025969noreply@blogger.comtag:blogger.com,1999:blog-6190595380362883465.post-15075454681767940252022-11-21T21:19:00.001+05:302022-11-21T21:19:27.435+05:30
हालोवीन् (कविता)
-डॉ जि. गङ्गाधरन् नायर् -

उत्सवोऽस्ति महान् कश्चिद्
हालोवीनिति संज्ञितः।
शुद्धात्मदिन प्राक्सन्ध्या
शब्दार्थस्तस्य बुध्यताम् ॥
साम्प्रदायिकताप्राप्तेः
क्रिस्तुधर्मस्य प्राग्जनैः।
यूरोपीयैश्चिरं नीता
संस्कृतिः काचन स्थिता॥
क्रिस्तु धर्मप्रचारे तु
तद्धर्मस्य प्रचारकैः।
पागन्नित्याख्ययाहूता

बहुदेवार्चनायुता॥
प्रेतात्मनां पितॄणां तु

सभाजनपरायणाः।
पागना एकदा वर्षे
कुर्वन्ति पितृतर्पणम्॥
यथा हि भारते श्राद्धं
शिवरात्रौ प्रवर्तते।
तथैव पागने देशे
हालोवीने परेऽह्निच॥
पितॄणां तर्पणार्थाय
मिष्टान्नं रक्ष्यते गृहे।
श्रद्धालुभिस्तदा रात्रौ

मांसवर्जनसुव्रतैः॥
स्वीकृत्य पागनाचार
माचरन्ति च क्रैस्तवाः।
तस्माल्लोके बहुत्रास्ति

हालोवीनुत्सवः शुभः॥
उत्सवोऽयं नवे काले
सम्पन्नो बालकोत्सवः।
भीकरैः शोभनैर्वापि

विचित्रैर्वेषभूषणैः
भ्रमन्ति बालकाः स्वेषां
प्रतिवेशगृहान् प्रति ॥
संवनन्ति च ते स्वादु
मधुरं खाद्यवस्तु यत् ।
मिठायादि च तद् द्त्त्वा
गृहस्थाः प्रीणयन्ति तान्॥
तुष्यतो बालकांश्चैव
बालिकाश्च शुभे दिने।
दृष्ट्वा चालौकिकं मोदं
लभेमहि सुहृद्वराः॥
JNAN DARSHANhttp://www.blogger.com/profile/15562624675746025969noreply@blogger.comtag:blogger.com,1999:blog-6190595380362883465.post-51424883612963218172022-10-24T06:00:00.001+05:302022-10-24T21:13:23.766+05:30
भगवतीमुद्दिश्य विष्णुस्तुत्योपस्थापनम्

भगवत्याः नखकोणे ते देवाः समग्रभवनं विश्वञ्च दृष्टवन्तः। तदा विष्णुः उक्तवान् एषा एव भगवती आदिशक्तिः जगतः जननी भवति। तदा भगवान् विष्णुः भगवत्याः स्तुतिं कृतवान्। तद्यथा- प्रकृतिदेव्यै नमः। हे भगवति! भवती कल्याणस्वरूपिणी मनोरथञ्च पूरयति। भवती बुद्धिं ददाति सिद्धिस्वरूपा च अस्ति। त्वां वारम्बारं नमस्करोमि। भवती एव सृष्टि-स्थिति-संहारस्य मूलकारणं भवति। अतः त्वां भगवतीं भुवनेश्वरीं प्रणमामि। सर्वाभीष्टानां पूरणकारिणीं भगवतीं नमामि। मातः! अहं ज्ञातवान् यत् एतस्मिन् सम्पूर्णसंसारे त्वमेव विराजसे। भवती एतस्य जगतः सृष्टिसंहारस्य च तत्त्वं भवति। तव एव व्यापकमाया संसारे ममत्वं सज्जीकरोति। भवती एव अखिल-जगन्मयी माता अस्ति। भवती एव अखिलविश्वे व्यापकरूपेण विराजमाना वर्तते। देवि! प्रलयकाले भवती एव संसारं भक्षयति। भगवति! तव वैभवं चरित्रं वा कः ज्ञातुं शक्नुयात्। मातः! भवती एव मधुकैटभौ इति असुरद्वयात् अस्मान् रक्षितवती। भवानि! यदा अहं,शङ्करः, ब्रह्मा च भवत्याः विषये अज्ञाताः भवामः, तदा अन्यः कः तव विषये ज्ञातुं शक्नुयात्। समग्रविश्वमेव तव नखदर्पणे दृश्यते। देवि! तव एतत् विस्तृतं अचिन्त्यम् ऐश्वर्यं नराः कथं जानीयुः। मातृपुत्रैव आवयोः सम्बन्धः सर्वदा तिष्ठतु। जगदम्बे! भवती एव समग्रजगत्प्रपञ्चं जानाति। हे भवानि! तव इच्छातः एव शक्तिं प्राप्य ब्रह्मा सृजति, विष्णुः पालयति, महेशश्च संहरति। गिरिजानन्दिनि! त्वमेव सर्वेषां माता असि। जगत्सृजनं, पालनं संहरणञ्च तव स्वाभाविककार्यं भवति। भगवति! तव शक्तितः एव शक्तिं प्राप्य सूर्यः जगदिदं प्रकाशयति। भवती समग्रसंसारं उद्भासयति। अहं ब्रह्मा शङ्करश्च तव कृपातः एव भवामः। अस्माकं आर्विभावः तिरोभावश्च भवति। केवलं त्वं जगत्जननी असि । भवती बुद्धिमतां जनानां बुद्धिः, शक्तिमतां जनानां शक्तिश्च भवति। त्वं शुद्धस्वरूपा असि। मुक्तिदानं तव स्वाभाविककार्यं भवति। वेदस्य मुख्यविषयः गायत्री भवती एव भवति। स्वाहा, स्वधा एवं ऒम् भवत्याः रूपाणि भवन्ति। भवती देवानां रक्षणार्थं वेदशास्त्राणां रचनां कृतवती। जीवानाम् उदाहरणार्थं भवती अखिलजगदिदं रचितवती। देवि! भवती महाविद्या स्वरूपिणी अस्ति। तव रूपं कल्याणमयमस्ति। त्वं सम्पूर्णं मनोरथं पूरयसि । तव चरणयॊः वारम्बारं प्रणौमि ।

लेखकः - डा.रुरुकुमारमहापात्रः

अध्यापकः,पुराणेतिहासविभागः

राष्ट्रियसंस्कृतविश्वविद्यालयः,तिरुपतिः
JNAN DARSHANhttp://www.blogger.com/profile/15562624675746025969noreply@blogger.comtag:blogger.com,1999:blog-6190595380362883465.post-90484339670492436242022-10-04T07:55:00.004+05:302022-10-04T08:11:32.627+05:30
श्रीमद्देवीभागवतपुराणस्य संक्षिप्तपरिचयः

मनुष्याणां जीवनं सुखमयं समृद्धिमयं तथा शान्तिमयं कर्तुं वेदानां रचनाभूत्। परन्तु साधारणमानवानामवगतये क्लिष्टकरवेदानां भाष्यभूतं पुराणसाहित्यं व्यासदेवेन विरचितम्। अष्टादश महापुराणानि, उपपुराणानि, औपपुराणानि च व्यासदेवेन रचितानि। तेषु अष्टादश संख्याकानि उपपुराणानि वर्तन्ते, तेषु देवीभागवतपुराणम् अन्यततम्। कलपभेदेन 'देवीभागवतम्' महापुराणत्वेनापि स्वीक्रियते । देवीभागवतपुराणे 318 अध्यायाः, 18,000 श्लोकाः,द्वादशस्कन्धाश्च सन्ति। पुराणवाङ्मये देवीभागवतं भुक्तिमुक्तिप्रदायकं पञ्चमपुराणमिति प्रोच्यते। अस्य पुराणस्य वक्ता महर्षिव्यासः श्रोता राजा जन्मेजयश्च भवति। पुराणमिदं वेदसम्मतं तद्धिया अर्थानुमोदितञ्चास्ति। अखिलशास्त्रस्य रहस्यस्रोतरूपमिदं पुराणम् आगमे स्वस्थानं प्रसिद्धं ख्यापयति। देवीभागवतस्यानुशीलनेन ज्ञायते यत् देवी एव परमतत्वमस्ति, या निर्गुणा,नित्या,सर्वव्यापिका,योगगम्या,जाग्रत्स्वप्नसुप्तिभ्यः परायां तुरीयावस्थायां विराजते। तस्याः तिस्त्र: शक्तयः, सात्त्विकी राजसी तामसी चेति क्रमशः लक्ष्मीः,सरस्वती,कालीरूपेण च प्रकटिताः सन्ति। अनयैव च दृष्ट्या पुराणेषु ब्रह्मविष्णुमहेश्वराः त्रिमूर्तिरूपेण वर्णिता: सन्ति।

निर्गुणा दुर्गमा शक्तिः निर्गुणश्च पर: पुमान्।

ज्ञानगम्यो मुनीनां तु भावनीयौ पुनः पुन:॥

अनादिनिधनौ विद्धि सदा प्रकृतिपुरुषौ।

एवञ्च देवीभागवतपुराणेषु प्रोक्तमस्ति यत्-

देवीभागवतं पुराणममलं यद् ब्राह्मणानां धनम्

धर्मो धर्मसुतेन यत्र गदितो नारायणेनामल:।

गायत्र्याश्च रहस्यमत्र च मणिदीपश्च संवर्णित:

श्रीदेव्या हिमभूभृते भगवती गीता च गीता स्वयम् ॥

तत्र देवीभागवतपुराणस्य द्वादशस्कन्धेषु विशेषतः तृतीयस्कन्धे ब्रह्माण्डोत्पत्ति-विषयकप्रश्नाः, उत्तराणि तथा त्रिदेवानां ब्रह्माण्डदर्शनादिविषयाः यथा विवृताः सन्ति, तथैव भगवत्याः कृपामाहात्म्यत्वेन सत्यव्रतचरितं, शशिकलासुदर्शनयोः परिणयवृत्तान्तः, नवरात्रविधानत्वेन श्रीरामचरितादिविषयाः अपि सम्यगालोचिताः सन्ति ।

लेखकः - डा.रुरुकुमारमहापात्रः (अध्यापकः)

राष्ट्रियसंस्कृतविश्वविद्यालयः,तिरुपतिः।

JNAN DARSHANhttp://www.blogger.com/profile/15562624675746025969noreply@blogger.comtag:blogger.com,1999:blog-6190595380362883465.post-91332718107786260912022-09-05T06:00:00.003+05:302022-09-05T06:00:00.197+05:30
राराज्यते विज्ञो गुरुर्नमस्यः

शिष्यः आचार्यं ब्रह्मा- विष्णु- महेश्वरः इति ज्ञानेन पूजयति। तं विधिपूर्वकं प्रणम्य, परिप्रश्नेन सेवया शुश्रूषया च तस्य सन्तोषं शुभाशिषञ्च अर्जयति। गुरोः आशीर्वादात् शिष्यस्य सिद्धिलाभः भवति। तस्मात् गीतायामुक्तम् “तद्विधिप्रणिपातेन परिप्रश्नेन सेवया”। अन्यत्रापि उक्तम् - “गुरुशुश्रूषया विद्या”। सन्दर्भेऽस्मिन् गल्पद्वयमुपस्थापयामः।

रामदासः आसीत् एकः सिद्धपुरुषः तथा लोकपूज्यसद्गुरुः। तस्य अनेके शिष्याः आसन्। परन्तु शुद्धतया, गुरुभक्त्या, चरित्रवत्तया, ज्ञानपिपासया, दृढतया, वीरत्वेन च शिवाजीमहाराजः इव तस्य एकोऽपि शिष्यः नासीत्। अतः सः आसीत् गुरोरत्यन्तप्रियपात्रम्।

अन्ये शिष्याः चिन्तयन्ति स्म। शिवाजी राजपुत्रः, धनिकश्च अतः गुरुः तस्मै अधिकं स्निह्यति। ईर्षापरायणानां शिष्यानाम् आलोचनमेतत् गुरुः रामदासः श्रुतवान्। गुरुः ज्ञातवान् कतिपयशिष्याणां तस्य निरपेक्षतायाः उपरि सन्देहः घनीभूतः अस्ति। अतः सः एकमुपायं कृतवान्। सः शिष्यान् आहूय उक्तवान् - अहम् अस्वस्थः। उत्थातुमपि बलं न भवति। जीवामि उत मरिष्यामि वक्तुं न शक्यते। यूयमेतदर्थं व्यस्ताः न भवथ।

एतच्छृत्वा शिष्याः क्रन्दितवन्तः। गुरुदेवः किं कृते भवान् रोगमुक्तः भविष्यति। वयं यत्परं नास्ति उद्यमं कृत्वा तदौषधमानेष्यामः।

गुरुदेव उक्तवान् - यूयं किं मम औषधमानेतुं सक्षमाः भविष्यथ। सद्यप्रसविनीसिंहतः यूयं किं एककुम्भदुग्धमानेतुं शक्नुथ ? तदा अहं स्वस्थः भविष्यामि।

एतच्छृत्वा शिष्याः चिन्तायामपतन्। तेषां धारणा अभवत् एतत् असम्भवकार्यं कोऽपि कर्तुं न शक्नोति। तदा युद्धे दिग्विजयी भूत्वा शिवाजीमहाराजः गुरुं कृतज्ञतां ज्ञापयितुं प्रत्यावर्तनं करोति स्म। सः गुरोः अनारोग्यं ज्ञात्वा कालविलम्बं न कृत्वा सद्यप्रसविन्याः सिंह्याः सन्धाने अरण्यं प्रति प्रस्थितवान्। सौभाग्यात् एकस्यां गुहायां सः एकां सद्यप्रसविनीं सिंहीं प्राप्तवान्। शिवाजीमहाराजस्य कृते दुर्गा भारतमाता। सिंही तस्याः वाहनः। अतः सः तां ‘मा’ इति आहुतवान्। शिवाजीमहाराजस्य प्रेम्णः संक्रमणमभवत्। सिंह्याः उपरि तस्य प्रभावः अपतत्। शिवाजी मातृभावेन सिंहीं एककुम्भदुग्धं याचितवान्। सिंही अपि पुत्रवात्सल्यतया शिवाजीराजं लेढि। शिवाजीराजः सिंहीतः एककुम्भदुग्धमानीय गुरोः समीपमागतवान्। परन्तु रामदासः हसन् उक्तवान् - मम दुग्धे किं प्रयोजनम्। अहं ज्ञातुमिच्छामि स्म- त्वम् एतत् कार्यं कर्तुमर्हसि न वा। यः भारतवर्षस्य शासकः भविष्यति, तस्य सिंहीतः दुग्धमानेतुं दृढमनोबलं तथा दुःसाहसं स्यात्। अहं पश्यामि यत् सर्वेषु शिष्येषु त्वमेतदर्थं योग्यतमोऽस्ति। अहं सम्पूर्णतया स्वस्थोऽस्मि। मम विषये चिन्ता मास्तु, केवलं प्रमाणी करोतु यत् मम तव विषये धारणा अमूलका नास्ति इति। शिवाजी प्रमाणितवान् यत् गुरोः आशीर्वादतः सः असाधारणकार्यं कर्तुमर्हति। एषः महावीरः देशभक्तस्य चरमपराकाष्ठां निजजीवने प्रदर्शितवान्।

लेखकः - डा.रुरुकुमारमहापात्रः (अध्यापकः)

राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः
JNAN DARSHANhttp://www.blogger.com/profile/15562624675746025969noreply@blogger.comtag:blogger.com,1999:blog-6190595380362883465.post-59140686595523317172022-08-31T16:07:00.003+05:302022-08-31T16:07:57.730+05:30
गणेशः तथा कुवेरस्य गर्वः

लेखकः - डा.रुरुकुमारमहापात्रः

धनस्य देवता कुवेरः लोकत्रयेऽपि सर्वश्रेष्ठो धनी आसीत्। एकदा तस्य एतदर्थं महान् गर्वः अजायत। त्रिभुवनस्य देवान् भोजयितुम् आमन्त्रयामि इति सः स्थिरीकृतवान्। कुवेरः भगवन्तं शङ्करं सपरिवारम् आमन्त्रयितुं कैलाशं प्राप्तवान्। सः शङ्करमवदत् भवतः अनुग्रहात् मम समीपे सर्वमस्ति। अहं लोकत्रयेष्वपि श्रेष्ठधनी भवामि। सर्वे मम गुणगानं कुर्वन्ति। कृपया मम गृहे भोजनाय भवान् स्वीकृतिं प्रयच्छतु।

भगवान् शङ्करः अवदत्, वत्स! अहं कुत्राऽपि न गच्छामि। देवी पार्वती अपि मां विना कुत्राऽपि न गच्छति। किन्तु यदि भवतः एतादृशाग्रहः वर्तते तर्हि अहं गणेशं प्रेषयामि।

कुवेरः गोष्ठीभोजनस्य आयोजने अलगत्। सः अतिथिवृन्दस्य इत्थम् आप्यायनं करिष्यामि येन ते सर्वे चिरदिनं स्मरिष्यन्ति इति चिन्तयति स्म। भोजनस्य दिवसः आगतः। त्रिभुवनस्य देवदेव्यः तत्र उपस्थिताः अभवन्। कुवेरः तान् सर्वान् प्रसन्नतापूर्वकं भोजनकक्षम् आनयत्। भोजनकक्षः सुसज्जितः आसीत्। सुगन्धेन कक्षः सुगन्धितः भवति स्म। सेवकैः स्वर्णस्थालिकायाम् अगणितप्रकराणि व्यञ्जनानि परिवेषितानि। विन्घराजः गणेशः भोजनकक्षायामाऽऽसनं स्वीकृतवान्। कुवेरस्य भण्डारे यानि खाद्यानि आसन् गणेशः सर्वान् खादितवान्। तथापि तस्य क्षुधा न अपगता । सः कुवेरं पुनः किमपि खादितुं याचितवान्। किन्तु कुवेरः निरुपायः आसीत्। गणेशः कुवेरं खादितुं धावितवान्। कुवेरः भयभीतः सन् शङ्करस्य समीपं गत्वा तस्य चरणयोः अपतत् । तस्मिन् क्षणे गणेशः तत्र उपस्थितः भूत्वा पितरं शङ्करम् उक्तवान् यत् एषः कुवेरः मां भोजनाय आमन्त्रितवान्, किन्तु मह्यं भोजयितुं सः असमर्थः। किन्तु मे क्षुधा न अपगता। शङ्करः गणेशमवदत् त्वं स्वमातृतः याचित्वा खादतु। एतेन कुवेरस्य धनगर्वं नष्टं जातम्।

JNAN DARSHANhttp://www.blogger.com/profile/15562624675746025969noreply@blogger.comtag:blogger.com,1999:blog-6190595380362883465.post-41985185551925355652022-08-13T18:17:00.004+05:302022-08-13T18:18:08.446+05:30
मातृस्तवनदशकम्

त्वमेव पाठ्यञ्च पठ्यं त्वमेव,

त्वमेव नाट्यञ्च नृत्यं त्वमेव।

त्वमेव गीतञ्च गानं त्वमेव,

त्वमेव सर्वं मम मातर्मातः।।१।।

त्वमेव लक्ष्यञ्च चिन्त्यं त्वमेव,

त्वमेव सेव्यञ्च ध्येयं त्वमेव।

त्वमेव लेख्यञ्च काव्यं त्वमेव,

त्वमेव सर्वं मम मातर्मातः।।२।।

त्वमेव रक्तञ्च जीवस्त्वमेव,

त्वमेव बन्धुश्च मित्रं त्वमेव

त्वमेव विद्या च वेद्यं त्वमेव,

त्वमेव सर्वं मम मातर्मातः।।३।।

त्वमेव चित्तञ्च बुद्धिस्त्वमेव,

त्वमेव सत्त्वञ्च शक्तिस्त्वमेव।

त्वमेव कीर्तिश्च कान्तिस्त्वमेव,

त्वमेव सर्वं मम मातर्मातः।।४।।

त्वमेव धर्मश्च कर्म त्वमेव

त्वमेव धार्यञ्च कार्यं त्वमेव।

त्वमेव पुण्यञ्च दृष्टं त्वमेव,

त्वमेव सर्वं मम मातर्मातः।।५।।

त्वमेव भक्ष्यञ्च भोज्यं त्वमेव,

त्वमेव पेयञ्च लेह्यं त्वमेव।

त्वमेव हृद्यञ्च हार्दं त्वमेव,

त्वमेव सर्वं मम मातर्मातः।।६।।

त्वमेव वित्तञ्च सम्पत्त्वमेव,

त्वमेव दत्तञ्च दानं त्वमेव।

त्वमेव शस्त्रञ्च शास्त्रं त्वमेव,

त्वमेव सर्वं मम मातर्मातः।।७।।

त्वमेव कामश्च मोक्षश्च त्वमेव,

त्वमेव माया च मोहस्त्वमेव।

त्वमेव जुष्यञ्च हव्यं त्वमेव

त्वमेव सर्वं मम मातर्मातः॥८॥

त्वमेव वस्त्रञ्च भूषा त्वमेव,

त्वमेव गन्धश्च रागस्त्वमेव।

त्वमेव गात्रञ्च रूपं त्वमेव

त्वमेव सर्वं मम मातर्मातः ॥९॥

त्वमेव पूज्यञ्च पुष्पं त्वमेव,

त्वमेव दीपश्च वर्त्तिस्त्वमेव।

त्वमेव दीव्यञ्च भव्यं त्वमेव

त्वमेव सर्वं मम मातर्मातः ॥१०॥

दीपकवात्स्यः बीहारम्

"वात्स्यकोशः"

JNAN DARSHANhttp://www.blogger.com/profile/15562624675746025969noreply@blogger.comtag:blogger.com,1999:blog-6190595380362883465.post-25384239641914616512022-08-12T06:00:00.034+05:302022-08-13T18:06:06.136+05:30
विश्वसंस्कृतदिनम् ॥

निबन्धः

Article No: 20230812

लेखकः-अय्यम्पुष़ हरिकुमारः

विश्वस्मिन् विद्यमानासु भाषासु अतिप्राचीना भाषा भवति संस्कृम्। एषा सुरभारती, अमृतभारती, देववाणी, अमरवाणी, इत्यादिभिः नामभिः प्रकीर्तिता। वैदिकं लौकिकम् इति अस्याः भेदद्वयं वर्तते। वेदाः वैदिके रामायणादि पुराणानि लौकिके च अन्तर्भवन्ति ॥ सर्वासां भारतीयाभाषाणां जननी संस्कृतभाषा इति मन्यते।

भारतस्य २२ राजभाषासु संस्कृतभाषा अन्यतमा भवति। १९६९ तमे भारतसर्वकारेण श्रावणपूर्णिमादिनं संस्कृतदिनत्वेन परिगण्यते। तदनन्तरं प्रतिसंवत्सरं श्रावणपूर्णिमादिनेन सह सप्तदिनानि संस्कृतसप्ताहत्वेन आचरामः।

जगति विद्यमानासु भाषासु अत्याधुनिकता सम्पूर्णता च संवत्सरात् पूर्वं संस्कृतभाषया समार्जितम्। वैयाकरणदृष्ट्या वैज्ञानिकी भाषा च भवति संस्कृतम्। अत एव सङ्गणकयन्त्रे उपयोक्तुम् अत्यनुयोज्या इति सङ्गणकविद्वांसः अभिप्रयन्ति।

आधुनिके अन्तर्जालयुगे अपि संस्कृतभाषायाः स्वकीयं विपुलप्रयोगसाधकं स्थानम् अस्ति। तादृशेषु स्थानेषु यू-नालिकावाहिन्यः संस्कृत-अन्तर्जालपत्रिकाः च संस्कृतस्य आधुनिकत्वम् उद्घोषयन्ति। सम्प्रतिवार्ता-पत्रिकायाः अन्तर्जालवार्ताप्रसारणपुटद्वारा यू-नालिका द्वारापि लघुवयस्काः बालिकाबालकाः अपि संस्कृतवार्ताप्रवाचकत्वेन सुप्रसिद्धाः इति संस्कृतस्य गरिमा तथा लखिमा च युगपदेव प्रमाणीक्रियते।

संस्कृतस्य पोषणेन अस्माकं संस्कृतीनां पोषणं भविष्यति। अस्माकं मनोबलस्य पोषणं भविष्यति। विश्वमानवत्वस्य पोषणं च भविष्यति। अतः अस्माकं सुरक्षित-शान्तिमय-जीवनाय संस्कृतम् अध्येमः। संस्कृतेन चिन्तयामः। संस्कृतेन वदामः। संस्कृतं प्रसारयामः॥
JNAN DARSHANhttp://www.blogger.com/profile/15562624675746025969noreply@blogger.comtag:blogger.com,1999:blog-6190595380362883465.post-37781746386209114502022-08-03T17:58:00.001+05:302022-08-04T10:25:33.145+05:30
ब्रह्मचर्यम्

-डा.गदाधर त्रिपाठी

ऋषयो वेदवेत्तारो ज्ञाननिधयस्तथा च वै।

जीवनं तु मनुष्याणां योजितं तैस्तदा च हि॥1॥

आसीदाश्रमेषु विभक्तं हि ब्रह्मचर्यं सुखदं परम्।

ऊर्जायाः संरक्षणमभवद् ज्ञानार्जनं तथा च वै॥2॥

वेदार्थं यच्च विप्राणामाचरणं ब्रह्मचर्यं हि वै।

स्त्रीस्मरणशून्यत्वं सर्वथा विन्दो:परिरक्षणं तथा॥3॥

स्त्रीणां पुरुषस्मरणराहित्यं

नैव पुरुषान्तरमैथुनसेवनम्।

स्मरणं कीर्तनं केलि पुरुषैरष्टविधि

सर्वदा कामनिवर्तनम्।।4।।

प्राथमिकी चावस्था या रक्ते नायात्यशक्तता।

सामर्थ्यमायाति वीर्ये ह्योजसस्तु मुखमण्डले॥5॥

मरणं विन्दुपातेन जीवनं विन्दुरक्षणम्।

महत्वं ब्रह्मचर्यस्य ऋषिभिः कीर्तितं सदा॥6॥

त्याज्यं भवति गरिष्ठं वै शृंगारञ्चैव च वर्जितम्।

ज्ञानार्जने गुरुसेवायां श्रद्धयया चैव समर्पणम्॥7॥

विनयश्चैव तपश्चैव दर्शनञ्चैव व्रतं हि वै।

मुक्ते:प्रदर्शकमस्ति ब्रह्मचर्यं सनातनम्॥8॥

वानप्रस्थो ब्रह्मचर्यञ्च कलौ नास्ति च स्वीकृतम्।

गृहस्था भिक्षुकाश्चैव भविष्यन्ति खल्वस्मिन् युगे॥9॥

JNAN DARSHANhttp://www.blogger.com/profile/15562624675746025969noreply@blogger.comtag:blogger.com,1999:blog-6190595380362883465.post-29100658020493439782022-05-02T05:53:00.018+05:302022-05-02T07:22:02.661+05:30
गुरुरेव गरीयः

मम दिग्दर्शकः, गुरुः, सर्वस्वम्... श्री. प्रोफ. आर्. वासुदेवन् पोट्टी।

-डा. मनोजः बी. (भावना)

प्री-डिग्रीं समाप्य मया निर्णीतं यत् इतःपरं मम अर्हतानुगुणं यत्किमपि कर्म करोमीति। यतो हि यावदध्येतव्यं तावदधीतम् इत्यासीत् मूर्खस्य मम विचारः। किन्तु मम पितुः अभिलाषः उच्चस्तरीयः आसीत्। सः साधारणः कश्चन मानवः आसीत् यः प्रतिदिनं अष्टादश किलोमीट्टर् पर्यन्तं द्विचक्रिकां चालयित्वा कर्म कृत्वा अस्माकं कुटुम्बं संरक्षति स्म। स्वस्य कार्याय कदापि त्रिचक्रिकया यात्रां न कृतवान् सः एकस्मिन् दिने त्रिचक्रिकया गृहमागत्य मां अवदत् – शीघ्रं सज्जो भव। तव कृते श्रीशङ्कराचार्यसंस्कृत-सर्वकलाशालायां बी. ए. अध्ययनाय अवसरः प्राप्यते इति। किंकर्तव्यतामूढः अभवम् अहम्। यतो हि तावत् पर्यन्तं संस्कृतम् इति पदं केवलं श्रुतवानहम् आकाशवाण्यां यदा संस्कृतवार्ताप्रसारः भवति तदा। किन्तु पितरम् अनुसृतवानहम्।।

साक्षात्कारगणे अहं कञ्चन सुस्मेरवदनं शुभ्रवस्त्रधारिणं वयोवृद्धं दृष्टवान्। तस्य केशाः अपि श्वेताः आसन्। मम मनसि झटिति भीष्मपितामहस्य चित्रमेव आगतम्। सः अपृच्छत् – संस्कृतं जानासि किम्? “न” इति उत्तरिते सः पुनः उक्तवान् – “कापि चिन्ता न कार्या। सर्वं वयम् अध्यापयामः।” इति। एवं यद्यपि संस्कृतस्य अक्षरज्ञानं न आसीत् तथापि बी. ए. बिरुदे अहं प्रवेशितः जातः।।

किञ्चित्कालानन्तरं मया ज्ञातं यत् सः एव संस्कृतक्षेत्रे बहुविधपुरस्कारैः अलंकृतः भारतराष्ट्रपतिना अपि पुरस्कृतः साहित्यव्याकरणादि सर्वविज्ञानशाखास्वपि भीष्मपितामहः इव विराजमानः पोट्टि सर् इति सर्वैः आदरेण गीयमानः च श्री. प्रोफ. आर् वासुदेवन् पोट्टिमहोदयः इति।

बहूनां संस्कृतपण्डितानां वात्सल्यपूर्णसामीप्येन वर्धितस्य मम सौभाग्यं यत् ईश्वरेण अहं वासुदेवन् पोट्टिमहोदयस्य करकमलेषु समर्पितः अभवम् कालान्तरे। सेवानिवृत्तः पोट्टिमहोदयः स्वस्य ग्रन्थानां लेखनाय प्रकाशनाय च कोच्चीनगरस्थे सुकृतीन्द्र ओरियन्टल् रिसर्च् इन्स्टिट्यूट् इति केरलसर्वकलाशालायाः (विश्वविद्यालयः) अनुसन्धानकेन्द्रे गच्छति स्म। यादृच्छिकं वा देवहितं वा मम नियोगः वा न जाने, मम अनुसन्धानस्य प्रादेशिककेन्द्रमपि 'सुकृतीन्द्र' एव आसीत्। अनुसन्धाने साहाय्यार्थं प्रार्थिते सति सः महोदयः मन्दहासपूर्वकम् अङ्गीकृतवान्। सः मन्दहासः तस्य जन्मसिद्धा शैली आसीत् इति तदानीम् अहं ज्ञातवान् यतो हि बी. ए. प्रवेशनस्य साक्षात्कारे यदा अहं तं मिलितवान् तदानीम् अपि सः एवमेव हसन्मुखः आसीत्। यद्यपि “पोट्टि सर्” इति मया श्रुतम् आसीत् बहुवारं मिलितवान् च आसम् तदापि तस्य महत्त्वमवगन्तुं सौभाग्यम् ईश्वरेण कल्पितम् आसीत् इति अधुना अहम् अवगच्छामि। तद्दिनादारभ्य गुरुकुले शिष्यः यथा गुरुं परिचरति अनुसरति च तथैव अहम् सर्वदा तेन सह आसम्।।

पोट्टिमहोदयः यदा यदा सुकृतीन्द्रं गच्छति स्म तदा तदा अहमपि तम् अनुसरामि स्म। तत्र आवां सप्ताहं वा द्विसप्ताहं वा यावत् उषित्वा कार्यं संपादयावः स्म। दिने यावत् पोट्टिमहोदयः स्वस्य 'ग्रन्थानां ग्रन्थने' व्यापृतः भवति स्म। अहं च महाशयस्य निर्देशानुसारं विभिन्नान् ग्रन्थान् परिशील्य अनुसन्धानस्यपूर्तीकरणाय स्वीकर्तव्यान् अंशान् एकैकस्मिन् पत्रे लिखित्वा स्थापयामि स्म। (यदा “अजभक्षितमेतत्” इत्यस्य लोककथा यदा सः मां श्रावितवान् तदा अहम् अवगतवान् यत् सा एव प्रक्रिया महोदयः मम विषये अपि अनुसृतवान् इति)।।

सामान्यतः सार्धनववादने पोट्टिमहोदयः शय्याम् अवलम्बते स्म। अहं च रात्रौ द्वादशवादनपर्यन्तम् अनुसन्धाने व्यापृतः भवामि स्म। तद्दिने यद्यत् संपादितं संगृहीतं वा तत्सर्वं रात्रौ गाढनिद्रायां विलीनस्य पोट्टिमहोदयस्य प्रकोष्ठे विद्यमानायाम् उत्पीठिकायां संस्थाप्य निद्रितः भवामि स्म अहम्। अग्रिमदिने प्रातः सामान्यतः ब्राह्ममुहूर्ते जाग्रियमाणः पोट्टिमहोदयः दैनन्दिनसंस्कारान् समाप्य मया समर्पितं सर्वमपि संशोध्य स्थापयति स्म। यदा अहं जागृतः भवामि स्म तदा महोदयः संशोधितानि पत्राणि प्रतिददाति स्म। मम महत् आश्चर्यम् आसीत् अयं महोदयः अस्मिन् वार्धक्ये अपि कथं कार्ये निरतः अस्ति इति शिष्यहिताय सदा उद्यतः च अस्ति इति।।

यदा प्रतिनिवर्तितः भवामि तदा संशोधितानि पत्राणि सर्वाणि संङ्गणकमाध्यमेन उट्टङ्कितानि कृत्वा अग्रिमयात्रावेलायां महोदयस्य हस्ते समर्पयामि स्म। स च सर्वमपि पुनरपि निरीक्ष्य प्रतिददाति स्म। एकवर्षपर्यन्तम् अहं पोट्टिमहोदयं छायेव अनुसृतवान्।।

मन्ये अहं, एतस्मात् अपि महत् सौभाग्यं प्राप्तं मया यत् तस्य व्याकरणप्रवचनानि श्रोतुम् अस्मिन् काले मदर्थम् अवसरः ईश्वरेण कल्पितः इति। यद्यपि व्याकरणसाहित्यादिषु विभिन्नशास्त्रशाखासु विशेषेण राजमानः आसीत् तथापि अयं महोदयः कदापि स्वपाण्डित्यस्य आधारेण वा स्वपाण्डित्यं प्रदर्शयितुं वा कक्षां न चालितवान् परन्तु स्वसम्मुखे उपस्थितानां छात्राणां ज्ञानस्य आधारेण एव स्वप्रवचनम् अकरोत्। अनेन प्रेरितः अद्य पर्यन्तं अहं “डा.” मनोजः बी भूत्वा मम छात्रान् न पाठितवान्। किन्तु छात्राणां स्तरानुगुणमेव पाठनीयमिति पोट्टिमहोदयेन शिक्षितेन मार्गेण अद्य पर्यन्तं अहं संचरितवान् संचरिष्यामि च।।

अपि च यदा यदा महोदयेन सह वृथा जल्पनार्थम् उपवेशितुं कालः लभ्यते, तस्मिन् समये अहं तेन सह उपविश्य तस्य अनुभवान् शास्त्रकथाः च शृणोमि स्म। ततः प्रेरणां प्राप्य अहं बहुविधान् ग्रन्थान् परिशील्य शास्त्रसंबद्धाः नैकाः कथाः संगृहीतवान् पोट्टिमहोदयं समर्पितवान् च। महता सन्तोषेण महाशयः तस्य ग्रन्थस्य पुरोवचनं लिखित्वा दत्तवान्। किन्तु दौर्भाग्यं मम इदम् अस्ति यत् अद्यावधि सः ग्रन्थः न प्रकाशितः इति।।

यदा कदापि यं कमपि सन्देहं पृच्छामः स्म तदा जन्मसिद्धशैल्या हसन्मुखः सन् सन्देहनिवृत्तिं कारयन् सः निश्चयेन शिष्यहृदयेषु कालातीतः सन् स्थास्यति इत्यत्र नास्ति सन्देहलेशः। मम जीवने सर्वविधाभिवृद्धिः सौभाग्यानि च पोट्टिमहोदयस्य अनुग्रहः अस्ति इति अहं दृढं विश्वसिमि। "पुरा कवीनां गणनाप्रसङ्गे ...." इति श्लोकः तस्य महोदयस्य कृते परिवर्तनं कृत्वा लेखितुं शक्यते। तद्यथा –

“पुरा गुरूणां गणनाप्रसङ्गे

कनिष्ठिकाधिष्ठितवासुदेवः।

अद्यापि तत्तुल्यगुरोरभावात्

अनामिका सार्धवती बभूव।।”

श्रीयुतस्य पोट्टिवर्यस्य पादकमलेषु कोटि-कोटि-प्रणामाः॥
JNAN DARSHANhttp://www.blogger.com/profile/15562624675746025969noreply@blogger.comtag:blogger.com,1999:blog-6190595380362883465.post-4011835910438738152021-11-25T18:19:00.009+05:302021-11-25T21:51:26.065+05:30
॥ दूरभाषकासुर:॥

रचयिता - युवराजभट्टराई

(शैशवे महदस्ति दूरभाषकस्य संकटम्। तदेव आलक्ष्य अद्य प्रस्तूयते नूतना बालबोधनपरा एका सुललिता कविता )

मुहुर्मुहु: विलोक्यते किमर्थमत्र कार्टुनम्,

कदा तु पुस्तकस्य दर्शनाय चापि यत्यताम्।

त्वदीयहस्तगं न भाति दूरभाषयन्त्रकम्,

सुते! परामृशामि ते न पश्य दूरभाषकम्।।१

न वेत्सि दूरभाषकं तु नेत्ररोगजं भृशम्,

तथास्ति तस्य दर्शनं स्वचेतना विलोपकम्।

करोषि केवलं वृथा स्वकालयापनं कथम्?

पुन: पुनः प्रबोधितापि नेच्छसीह वेदितुम्।।२

अनारतं हि दूरभाषयन्त्रकेण खेलनम्,

स्वभाव एव तेऽभवत् शृणोषि नैव मातरम्।

तत: कदापि मुक्तये प्रिये! सुते! प्रयत्यताम्,

त्वया न मन्यते किमर्थमत्र मे प्रबोधितम्।।३

यथा यथा स्वभाव एष वर्धते तथा तथा,

विमर्शितुं न शक्यतेऽत्र साध्वसाधुपथ्यता।

न तिष्ठ दूरभाषकेण सर्वदापि योजिता,

हितं भवेत् सुते! यतो भणाम्यहं सदिच्छया।।४

यदात्र दूरभाषयन्त्रवागुरासु पत्यते,

सुबुद्धिरत्र लुप्यते भृशं मनोऽपि भ्रश्यते।

मति: न निश्चिनोति किं त्वयाधुना विधीयते,

त्यजे: स्वदूरभाषकं प्रणोदयामि हे सुते! ।।५

चिकित्सकै: प्रमाण्यते मृषा न वच्मि साम्प्रतम्,

बहुत्र बोधितापि मन्यते न तद्गभीरताम्।

समस्तलोकत: समागतं समग्रकल्मषम्,

तदत्र दूरभाषकेण नीयते स्व-मानसम्।।६

हृदा सुधारये: सदा ददामि सन्मतिं शुभे!

न चात्र दूरभाषकेण खेल सर्वदा शुभे!।

प्रयत्यते शुभाय ते न लक्ष्यते कथं सुते?,

विवश्यतां गतासि केन दूरभाषके सुते।।७

निरुद्धदृष्टिरस्ति ते सदैव दूरभाषके,

तदेव रोधने रतोऽस्मि न त्वया निशम्यते।

निपातितासि दूरभाषकासुरेण शैशवे,

निरस्य तत्र रञ्जनं मन: करोतु पुस्तके।।८

समग्रविश्वदर्शकं कराङ्गुलीविहारकम्,

नृणां मनोविकारकं विलासवस्तुपूरकम्।

लयस्वरेण गायकं पवित्रचित्तदूषकम्,

सुते! जहीहि तादृशं द्रुतं हि दूरभाषकम्।।९

तदेव लोकनेन वै गतासि चिन्तनीयताम्,

न रोचते सुतेऽत्र ते स्वदूरभाषरोधनम्।

अलं सुदूरभाषखेलनेन ते वदाम्यहम्,

कथं न बुध्यते त्वया मदाशय: प्रबुध्यताम्।।१०
JNAN DARSHANhttp://www.blogger.com/profile/15562624675746025969noreply@blogger.comtag:blogger.com,1999:blog-6190595380362883465.post-75010119750561791112021-08-16T09:58:00.005+05:302021-08-18T16:56:28.858+05:30
वर्षाकाले भोज्यवस्तूनि संरक्षितुम् एताः विद्याः परीक्ष्यन्ताम्-

ज्योतिलक्ष्मी जे.
वेदपूर्णपुरी -

वर्षाकाले स्वास्थ्यसंरक्षणे श्रद्धा न दीयते चेत् निलीयमानाः रोगप्रसारकाः अणवः अस्माकं शरीरं नाशयेत्। वर्षाकाले महानससंरक्षणे दत्तश्रद्धाःभवेयुः। तदर्थं कानिचन कार्याणि सूच्यन्ते।

भोज्यवस्तूनि यावन्ति अवश्यकानि तावन्ति पक्तव्यानि । नूतनभोज्यवस्तून्येव खादव्यानि। शाकादीनि लवणजले शुद्धीकृत्य उपयोक्तव्यानि। आपणाद् क्रेतानि तैलयुक्त- भोज्यवस्तूनि परिवर्जनीयानि। भोज्यवस्तूनि शुद्धवस्त्रेण आवरणं कृत्वा संरक्षितव्यानि। शीतीकरणयन्त्रम् मलिनविमुक्ततया संरक्षितव्यम् ।।

Samprati Vartahhttp://www.blogger.com/profile/10241962019249516471noreply@blogger.comtag:blogger.com,1999:blog-6190595380362883465.post-59612404792716985502021-08-15T00:19:00.001+05:302021-08-16T00:39:34.431+05:30
वास्तविकं स्वातन्त्र्यम्

लेखकः- दीपककुमारचौधरी (दीपकवात्स्य:)

अस्मदीयं राष्ट्रं भारतं सप्तचत्वारिंशदुत्तरनवदशतमाब्दस्य अगस्तमासस्य पञ्चदशके दिनाङ्के स्वातन्त्र्यमलभत।स्वतन्त्रताप्राप्त्यर्थं नैके राष्ट्रैसेवाव्रतिनो भारतीसपुत्रा नैजान् प्राणान् अत्यजन्। तेषां राष्ट्राय हुतात्मनां त्यागशौर्यबलिदानादिकं नितरां स्मृतिपटले सदास्मदीयहृच्चेतनासु "इदं राष्ट्राय इदं न मम"इति श्रुतिवचनं स्मारयेत्तथा राष्ट्राय समर्पणभावं जागरयेदित्यादिकं लक्ष्यीकृत्य भारतसर्वकारेण तद्दिनं राष्ट्रियपर्वत्वेनोद्घुष्टमथ च समग्रभारते "स्वतन्त्रतादिवस:" "स्वातन्त्र्योत्सव:" समायोज्यते।अनेन लक्ष्यीक्रियते महत्काठिन्येन यल्लब्धं स्वातन्त्र्यं तत्पुन: पारतन्त्र्ये परिवर्तितं न स्यात्।अत्र मनसि नैका: जिज्ञासा: समुद्भवन्ति। तद्यथा-

१.किं नाम स्वातन्त्र्यम्?

२.किमर्थं स्वातन्त्र्यम्?

३.स्वातन्त्र्यस्य वास्तविकं स्वरूपं किम्?

४.कथं वा परिरक्षितं स्याद्भारतीयं स्वातन्त्र्यम्?

तत्र सर्वादौ विचारयामो वयं "किन्नाम स्वातन्त्र्यम्"।स्वातन्त्र्यमिति पदं स्वतन्त्रपदान्निष्पद्यते। यत्कृते आङ्गलभाषायाम् "Freedom"इति पदं प्रयुज्यते।इदञ्च स्वातन्त्र्यपदं "स्वम् (आत्मीयम्),तन्त्रं( प्रधानं सिद्धान्तो विस्तारो वा)इति द्वाभ्यां पदाभ्यां नैकविधव्युत्पत्तिद्वारा व्युत्पादयितुं शक्यते।स्वस्य तन्त्रमिति षष्ठीसमासव्युत्पत्त्या आत्मन: प्राधान्यमित्यर्थ:" तन्त्रं प्रधानं सिद्धान्त"इति कोशवचनात्।स्वं तन्त्रं यत् तत् स्वतन्त्रम् इति कर्मधारायसमासव्युत्पत्त्या आत्मीयशासनमात्मशासनं वेत्यर्थ:"तन्त्रं शासनम्"इति वचनात्। स्वं तन्त्रं यस्येति बहुव्रीहिसमासव्युत्पत्त्या स्वतन्त्रोऽर्थात् स्वाधीन: प्रमुखो जनविशेष इत्यर्थ:।इत्थं स्वस्य प्राधान्यं यस्मिन् शासने राष्ट्रे वा तत् शासनं राष्ट्रं वा स्वतन्त्रम्। यस्य प्राधान्यं स जन: सिद्धान्तो वा स्वतन्त्र:।स्वतन्त्रस्य भाव: स्वातन्त्र्यम् इति।

साम्प्रतं "किमर्थं स्वातन्त्र्यम्" इति विचारयाम:-कस्यचिद्व्यक्ते: शारीरिक-मानसिक-आध्यात्मिक-शैक्षिक-धार्मिक-नैतिक-भौतिकादिविकासान् अभिवर्धयितुं तथा कस्यचिदपि राष्ट्रस्य सर्वविधौन्नत्यर्थसम्पादनार्थं राष्ट्रगौरवसंस्कृतिसभ्यतादीनां संरक्षणार्थञ्च स्वातन्त्र्यं नितरामावश्यकम्।यतोहि पारतन्त्र्ये (बन्धने पराधीनतायां वा) कस्यचिज्जीवाय राष्ट्राय च स्वोन्नतिविकासावसरो नोपलभ्यते। अतो जीवमात्रस्य राष्ट्रस्य च उन्नत्यै स्वातन्त्र्यमतीवावश्यकम्।

अधुना भारतीयपरिप्रेक्ष्ये स्वातन्त्र्यस्य वास्तविकं स्वरूपं परिशीलयाम:। भारते स्वातन्त्र्यस्य वास्तविकं स्वरूपं विश्ववन्द्या भारतीया संस्कृतिर्वर्तते।तत्रैते मुख्यबिन्दवो मन्मतौ अन्तर्भवन्ति

१.सर्वेषामधिकार: स्वतन्त्रता।

२.सर्वधर्मसमादर:।

३.जीवनशैली आचारव्यवहार: लौकिकपरम्पराश्च।

४.भाषा-वेशभूषा-भोजनादिकम्।

५.सभ्यता शाशनव्यवस्था च।

६.आध्यात्मिकैतिहासिकभौतिकसमृद्धय:।

७.समृद्धसाहित्यम् ।

८.विश्वबन्धुत्व-लोकहितचिन्तन-जनकल्याणादिभावना।

एते समेऽप्यंशा: स्वातन्त्रस्य वास्तविकं स्वरूपं बोधयन्ति।

साम्प्रतं विचारयाम:" कथं वा परिरक्षितं स्यात् स्वातन्त्र्यम्" इति।

१.वेदबोधिताचारलक्षणधर्मपुरस्सरं नैतिकव्यवहारेण स्वातन्त्र्यं परिरक्षितं स्यात्।२.कामक्रोधलोभमोहादिवर्जनपुरस्सरं मनसानिशं स्वहितपरहितचिन्तनेन।येन स्वप्नेऽपि कस्यचिज्जीवस्याहितं न स्यात्।यत: तस्य स्वातन्त्र्यं नश्येदिति चिन्तनेन।

३.निजस्य स्वातन्त्र्यरक्षणाय अन्येषां स्वातन्त्र्यं न हन्यात्। अर्थात् निजस्वातन्त्र्यरक्षणक्रमेअपरेषामपि स्वातन्त्र्यं परिरक्षणीयम्।येन एषा व्यवस्था परिरक्षिता स्यात्।

महद्दौर्भाग्यं वर्तते यदद्यत्वे वयं भारतीया: निजप्राणभूतत्त्वं विश्ववन्द्यां भारतीयां संस्कृतिं सन्त्यजन्त: पुन: पारतन्त्र्यपथे नित्यं वर्धमाना नित्यं पाश्चात्यसंस्कृतिम् अनुकुर्म:।तत्र चिन्त्या अंशा:-

१.सर्वप्राचीनभारतीयसभ्यतां विस्मृत्य पाश्चात्यसभ्यताया: गुणगानं कुर्म:।

२. परधर्मं निन्दाम:।

३. स्वजीवनशैलीं विस्मरन्त: पाश्चात्यजीवनशैलीमाचाराम:।तद्यथा-

अर्धनग्नवस्त्रं धराम:, स्नानपूजादिकं विनैव भोजनं कुर्म:,मदिरादिपानं कुर्म:,परस्परं विद्विषामहे,

मातृपित्रादिकं सन्त्यजाम:, वारम्वारं निजपत्नीं सन्त्यज्य परपत्न्या सहामर्शनं कुर्म:,विवाहात्पूर्वमेव स्त्रीसंसर्गं कुर्म:, प्रेमदिवसादिकमायोजयामश्च।

४.निजभाषां विहाय पाश्चात्यभाषां भाषमाणा गौरवमनुभवामः।

५.आध्यात्मिकैतिहासिकभौतिकसमृद्धी: न गणयाम:।

६.निजशासनव्यस्थाया विखण्डनं कुर्म:।

७.निजसाहित्यसम्पदायां दोषं दर्शयाम:।

८.विश्वबन्धुत्वादिभावं न स्मराम:।

९.स्वार्थसिद्धौ पराहितं कुर्म:।

इत्थं वक्तुं शक्यते यद् वयं स्वतन्त्रा: सन्तोऽपि वस्तुतो मानसिकरूपेण परतन्त्रा अद्यापि। अनिशं वयं पारतन्त्र्यपथे वर्धमाना: स्म:। यदा भारतीयनागरिका मानसिकरूपेण स्वतन्त्रा: भविष्यन्ति तदैव वस्तुतो नागरिका: स्वतन्त्रा:, अस्मदीया शासनव्यवस्था स्वतन्त्रा अस्मदीयं राष्ट्रञ्च स्वतन्त्रम् इति शम्।

Samprati Vartahhttp://www.blogger.com/profile/10241962019249516471noreply@blogger.comtag:blogger.com,1999:blog-6190595380362883465.post-13871359922716267002021-08-04T23:26:00.012+05:302021-08-05T00:16:43.908+05:30

अज्ञानतः प्रिये पुरतोऽनुगते

(Sanskrit Version of Hindi Film Song—बेखुदी मे सनम् उठ गये जो कदम)

भाषिकानुवादः – डा.रुरुकुमारमहापात्रः

अध्यापकः,पुराणेतिहासविभागः

राष्ट्रियसंस्कृतविश्वविद्यालयः,तिरुपतिः।

अज्ञानतः प्रिये पुरतोऽनुगते/अञ्जिते उद्गते/अग्रजाते पदे

आयातौ आयातौ

आयातौ समीपे (2)

कामतापो हृदये किमेवम्

हृदयात् भूयः शरीरे/शरीरेषु लग्नः/सुलग्नः

ज्वाला नैषा हृदः सम्भाषा

प्रयत्नात् चापि लुप्ता नैषा

प्रेमाश्रवं/प्रेमाश्रवात् विना/ऋते जनिः भोः किं स्यात्

सङ्गमिते मयि दूरतापि गता

आयातौ आयातौ

आयातौ समीपे (2)

अज्ञानतः प्रिये पुरतोऽनुगते/अञ्जिते उद्गते/अग्रजाते पदे

मृगयेहं वै दृश्यं शयितम्

वीक्ष्य त्वां वै बोधितसर्वम्/विदितं सर्वम्

मनसा जाते हृदयेऽङ्गिते/हृदयाङ्किते/हृदये अङ्किते

गच्छान्यहं त्वया साकम्

सद्यः प्रीतो मे हृदयो ब्रूते

तवाऽऽसन्ने गते विरताप्रेमते

आयातौ आयातौ

आयातौ समीपे (2)

अज्ञानतः प्रिये पुरतोऽनुगते/अञ्जिते उद्गते/अग्रजाते पदे

हृदः वै भाषा रसनोपेता

ज्ञायते नो क्वाऽप्युप्येत/कुत्रोप्येत

प्रेम्णः यात्री आगत एतावत्/अटित्वाऽद्य यावत्

यास्येत तावत् हृदयं हि यावत्/हृदयसीमान्तम्

साकं न्वहं त्वया यास्ये नाकम्

हृदि नीता/नीत्वा स्फृहा/स्फृहां बहुवात्याधिया

आयातौ आयातौ

आयातौ समीपे (2)

अज्ञानतः प्रिये पुरतोऽनुगते/अञ्जिते उद्गते/अग्रजाते पदे

Samprati Vartahhttp://www.blogger.com/profile/10241962019249516471noreply@blogger.comtag:blogger.com,1999:blog-6190595380362883465.post-35497250656425874422021-08-01T00:51:00.006+05:302021-08-05T00:36:48.177+05:30

पुस्तकमुद्रणम्

-डा गदाधर त्रिपाठी

श्रुत्वा संरक्षिता वेदा श्रुत्वा संरक्षणं तदा।

लिपिर्नासीत्तथा चैव न ज्ञानं मुद्रणस्य वै।।

आदौ जाता ध्वनिश्चैवाक्षराणां नु समुद्भवः।

पितृभिः गुरुभिश्चैव भाषा वै प्रस्तुता तदा।।

शनै:शनैश्च जातं नु लिपेर्ज्ञानं तदा हि वै।

लेखनं भूर्जपत्रेषु समारब्धं सुशोभनम्।।

लिपिर्जाता नु पुष्टा वै कर्गदस्य च शोधनम्।

विचाराः कलिताश्चैव समारब्धं तु मुद्रणम्।

काष्ठाक्षरैस्तथा चैव लोहाक्षरैः सहैव वा।

आरब्धं मुद्रणञ्चैव व्यवस्थेयं पुरा हि वै।।

कवयो लेखकाश्चैव लिखन्ति यद् वदन्ति वा।

इच्छन्ति मुद्रणं तस्य सर्वेषाञ्च हिताय वै।।

अभवद्वै विकासो हि यन्त्राणाञ्च यथा तथा।

मुद्रणञ्चैव यन्त्रैर्हि जातं रुचिकरं हि वै।।

अनेके विधयश्चैव मुद्रणस्य नु भारते।

यन्त्रै: प्रचलितास्तेन सरलं मुद्रणं हि वै।।

चीनदेशे तु बुद्धस्य चित्रमासीत् प्रकाशितम्।

प्राप्तं हीरकसूत्रञ्च मुद्रणं प्रथमं हि वै।।

भवति या च शक्तिर्हि मुद्रणेन सुरक्षिता।

'चाल्सी डिक्नस' विद्वान् निरूपयति मतं यथा।।

मुद्रणस्य तु कार्यं वै साध्यमर्थेन सर्वदा।

अर्थहीनास्तथा चैव लेखका:प्रायशस्तु वै।।

अनेनैव तु प्रायो वै मुद्रणं मुद्रकैर्यथा।

लाभान्वितास्तथा चैव लेखका हि यथा तथा।।

oooooooooooooooooooooooooooooooooooooo
Samprati Vartahhttp://www.blogger.com/profile/10241962019249516471noreply@blogger.comtag:blogger.com,1999:blog-6190595380362883465.post-8037914294726434522021-07-10T06:00:00.030+05:302021-07-10T09:17:08.105+05:30

देशप्रेमिहुतात्मनां बलिदानमनुत्तमम्

रचयिता- डा.रुरुकुमारमहापात्रः

अध्यापकः,राष्टियसंस्कृतविश्वविद्यालयः, तिरुपतिः

देशप्रेमिहुतात्मनां बलिदानमनुत्तमम्
उत्तमं हि उत्तमं महनीयं महत्तमम्
सम्यक् साधु सुशोभनं सत्यं शिवञ्च सुन्दरम्

प्रेरणातिप्रेरितं झर्झरझरझङ्कृतम्

डमडमडमडाङ्कृतं चञ्चुरचमूचञ्चितम्

दुर्गमपथे अञ्चितं क्लिष्टकर्मकर्षितम्

मर्मरमारमर्षितं दुर्धरधाराधर्षितम्

भीषणभयभञ्जितं घनघनघोरगर्जितम्

वैरिवैरवारितं गर्वितगरगञ्जितम्

खण्डखण्डखण्डितं शत्रुरक्तरञ्जितम्

नेति नेति नाशितं दर्पदलनदर्पितम्

रङ्गितरणरञ्जितं स्यन्दितशोणशोणितम्

मण्डलमणिमण्डितं हर्षणपरहर्षितम्

जनगणमनोरञ्जितं देशभक्तिसञ्चितम्

मातृदीक्षादीक्षितं मन्त्रभावचोदितम्

जयजयनादनन्दितं हृदये हृदये स्पन्दितम्

गगने पवने ध्वनितं वदने वदने स्वनितम्

मातरं भोः ! मातरं वन्दे मातरम्

वन्दे मातरं भोः ! वन्दे मातरम्

वन्दे मातरं वन्दे मातरम्

वन्दे मातरं वन्दे मातरम् ।।

Samprati Vartahhttp://www.blogger.com/profile/10241962019249516471noreply@blogger.comtag:blogger.com,1999:blog-6190595380362883465.post-23037422226776287002021-07-01T01:29:00.002+05:302021-07-09T22:41:40.927+05:30
अरण्यजीवाः

द्विधा भवन्ति जीवास्तु पाल्या आरण्यकाश्च वै।

पशवः पक्षिणश्चैव तेषां चर्या पृथक् पृथक्।।

पृथिव्यां यच्च प्राप्तं वै मनुष्याणां कृते च तत्।वन्यजीवास्तथा चैव मानवानां हिताय वै।।

कूर्दन्ते नु मृगाश्चैव शशकानाञ्च धावनम्।

व्याघ्रा वै हिंसकाश्चैव वनमध्ये वसन्ति च।।

वसन्ति चैव सर्वत्र विचरन्ति च सर्वथा।

पर्वतेषु नदीतीरे शुष्कस्थलेषु प्रायशः।।

भ्रमति केशरी चैव वनराजश्च कथ्यते।

अरण्ये हि तथा चैव भल्लूकोऽपि विराजते।।

वने भवन्ति गावश्च कूर्दन्ति हरयस्तथा।

नृत्यञ्चैव च केकानां मनोहारि च सर्वदा।।

कोकिलाभिश्च रावैर्वै वनमाकर्षकं सदा।

खगैरन्यैर्नु रावैर्वै वनं संशोभितं तथा।।

संरक्षिता सदा सन्तु वन्यजीवाश्च भूतले।

नियमा विविधा: सन्ति शासनेन निरूपिता:।।

घातका ये च जीवा वै स्वयमेव नियन्त्रिता:।

पर्यावरणरक्षायै महत्त्वञ्च निरूपितम्।।

-डा गदाधर त्रिपाठी -
Samprati Vartahhttp://www.blogger.com/profile/10241962019249516471noreply@blogger.comtag:blogger.com,1999:blog-6190595380362883465.post-34061447467948350782021-06-19T00:30:00.005+05:302021-06-19T00:30:00.267+05:30
पि. एन्. पणिक्करः- ग्रन्थालयप्रतिष्ठापना योजनायाः संस्थापकः

अद्य जून् मासस्य नवदशतमदिनाङ्कः। अस्य दिवसस्य प्राधान्यं सर्वैः सुविदितमेव। अद्य वाचनदिनम्। श्रीमत: के - एन् पणिक्कर् महोदयस्य स्मरणार्थं तस्य चरमदिनमेव वाचनदिनत्वेन समाचरन्ति। केरलेषु इदंप्रथमतया ग्रन्थालययोजनायाः समारम्भ: अनेन महाशयेन एव कृतः। अस्य पूर्णनाम पुतुवयिल् नारायणपणिक्कर् इति। एषः नवाधिकनवशतोत्तरसहस्रतमे (१९०९ मार्च१) वर्षे मार्च मासस्य प्रथमे दिने आलप्पुषा जिल्लायां नीलम्पेरूर् ग्रामे जनिमलभत। अस्य माता जानकियम्मा पिता गोविन्दपिल्ला च आस्ताम्। सः सर्वकारविद्यालये अध्यापकः आसीत् । ग्रन्थालययोजनायाः प्रचारकः अयं (१९९५जून१९) पञ्चनवत्युत्तर नवशताधिकसहस्रतमे वर्षे जून् मासस्य नवदशतमे दिने दिवङ्गतः। 1996 षण्णवत्यधिकनवशतोत्तर सहस्रतमवर्षादारभ्य केरलसर्वकारः प्रतिसंवत्सरं तस्य चरमदिनं वाचनदिनत्वेन समाचरन् अस्ति। (२०१७) सप्तदशोत्तरद्विसहस्रतमे वर्षे प्रधानमन्त्रिणा नरेन्द्रमोदिना अस्य चरमदिनं राष्ट्रियवाचनदिनत्वेन आचरणाय प्रख्यापितम्।

Samprati Vartahhttp://www.blogger.com/profile/10241962019249516471noreply@blogger.com