Wednesday 11 November 2015

॥ सुवचनानि ॥


अतिपरिचयादवज्ञा ।
अतिलोभो विनाशाय ।
अतितृष्णा न कर्तव्या ।
अति सर्वत्र वर्जयेत् ।
अधिकस्याधिकं फलम् ।
अनतिक्रमणीया हि नियतिः ।
अल्पश्च कालो बहवश्च विघ्नाः ।
अलभ्यो लाभः ।
अव्यापारेषु व्यापारः ।
अहिंसा परमो धर्मः ।
अभद्रं भद्रं वा विधिलिखितमुन्मूलयति कः ।
अर्थो हि लोके पुरुषस्य बन्धुः ।
आकृतिर्बकस्य दृष्टिस्तु काकस्य ।
आये दुःखं  व्यये दुःखं धिगर्थाः कष्टसंश्रयाः ।
इक्षुः मधुरोऽपि  समूलं न भक्ष्यः ।
इतः कूपः ततस्तटी ।
इतो भ्रष्टस्ततो भ्रष्टः ।
ईश्वरेच्छा बलीयसी ।
उत्पद्यन्ते विलीयन्ते दरिद्राणां मनोरथाः ।
उत्सवप्रियाः खलु मनुष्याः ।
कण्टकेनैव कण्टकमुद्धरेत् ।
कर्तव्यो महदाश्रयः ।
कवयः किं न पश्यन्ति ?
काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।
कालाय तस्मै नमः ।
किमिव हि मधुराणां मण्डनं नाकृतीनाम् ।
किमिव हि दुष्करमकरुणानाम् ।
किं मिष्टमन्नं खरसूकराणाम् ?
क्षमया किं न सिद्ध्यति ।
क्लेशः फलेन हि पुनर्नवतां विधत्ते ।
गतं न शोच्यम् ।
गतानुगतिको लोकः  न कश्चित् पारमार्थिकः ।
गहना कर्मणो गतिः ।
गुणाः सर्वत्र पूज्यन्ते ।
चक्रवत्परिवर्तन्ते दुःखानि च सुखानि च ।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ।
जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।
जीवो जीवस्य जीवनम् ।
त्रुटितः सम्बन्धः प्रशान्तः कलहः ।
त्रैलोक्ये दीपकः धर्मः ।
दुर्लभं भारते जन्म  मानुष्यं तत्र दुर्लभम् ।
दूरतः पर्वताः रम्याः ।
द्रव्येण सर्वे वशाः ।
धर्मो मित्रं मृतस्य ।
धीराः हि तरन्ति आपदम् ।
नास्ति सत्यसमो धर्मः ।
न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे ।
न भूतो न भविष्यति ॥
नमः शिवाय ।
नमो भगवते वासुदेवाय ।
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
न शान्तेः परमं सुखम् ।
निगूढेऽपि कुक्कुटे  उदेत्येव अरुणः ।
निर्वाणदीपे किमु तैलदानम् ।
निरस्तपादपे देशे  एरण्डोऽपि द्रुमायते ।
निःस्पृहस्य तृणं जगत् ।
न निश्चितार्थात् विरमन्ति धीराः ।
निर्धनस्य कुतः सुखम् ।
नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ।
परदुःखं शीतलम् ।
परोपकाराथमिदं शरीरम् ।
परोपदेशे पाण्डित्यम् ।
परोपकारः पुण्याय ।
परोपकाराय सतां विभूतयः ।
पुनः पुनरपि प्रक्षाल्य कज्जलं न श्वेतायते ।
पिण्डे पिण्डे मतिर्भिन्ना ।
प्रज्ज्वालितो ज्ञानमयः प्रदीपः ।
प्रथमग्रासे मक्षिकापातः ।
पृथिव्यां त्रीणि रत्नानि  जलमन्नं सुभाषितम् ।
बधिरात् मन्दकर्णः श्रेयान् ।
बहुजनहिताय बहुजनसुखाय ।
बहुरत्न वसुन्धरा ।
बालानां रोदनं बलम् ।
बुद्धिः कर्मानुसारिणी ।
बुद्धिर्यस्य बलं तस्य ।
भद्रं कर्णेभिः श्रुणुयाम देवाः ।
भवन्ति भवितव्यानां द्वाराणि सर्वत्र ।
भिन्नरुचिर्हि लोकः ।
मधु तिष्ठति जिव्हाग्रे  हृदये तु हलाहलम् ।
मनः पूतं समाचरेत् ।
मनोरथानामगतिर्न विद्यते ।
मरणं प्रकृतिः शरीरिणाम् ।
महाजनो येन गतः स पन्थाः ।
मार्गारब्धाः सर्वयत्नाः फलन्ति ।
मातृदेवो भव ।
पितृदेवो भव ।
आचार्यदेवो भव ।
अतिथिदेवो भव ।
मूढः परप्रत्ययनेयबुद्धिः ।
मृदुर्हि परिभूयते ।
मौनं सर्वार्थसाधनम् ।
यथा बीजं तथा अङ्कुरः ।
यथा राजा तथा प्रजा ।
यद् वा तद् वा भविष्यति ।
यद् वा तद् वा वदति ।
याचको याचक्ं दृष्ट्वा श्वानवत् गुर्गुरायते ।
यादृशं वपते बीजं तादृशं लभते फलम् ।
यः क्रियावान् स पण्डितः ।
युद्धस्य कथा रम्या ।
येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् ।
योजकस्तत्र दुर्लभः ।
राजा कालस्य कारणम् ।
वन्दे मातरम् ।
वक्ता दशसहस्रेषु ।
वचने का दरिद्रता ?
विद्वान् सर्वत्र पूज्यते ।
विद्याधनं सर्वधनप्रधानम् ।
विनाशकाले विपरितबुद्धिः ।
शठं प्रति शाठ्यम् ।
शरीरमाद्यं खलु धर्मसाधनम् ।
शीलं परं भूषणम् ।
शुभास्ते पन्थानः ।
शुभं भवतु ।
सत्यमेव जयते न अनृतम् ।
सत्यं कण्ठस्य भूषणम् ।
सुखमुपदिश्यते परस्य ।
संहतिः कार्यसाधिका ।
स्वभावो दुरतिक्रमः ।
मितञ्च सारवत् दुर्लभं वचः
हुतं च दत्तं च तथैव तिष्टति

दीपावलिः

दीपावलिः
दीपावलिः भारतवर्षस्य अतिमहत्वपूर्ण: उत्सवः अस्त्ति। दीपावलि इत्युक्ते दीपानाम् आवलिः। कार्तिकमासस्य कृष्णपक्षस्य त्रयोदशीत: आरभ्य कार्त्तिकशुद्धद्वितीयापर्यन्तं ५ दिनानि यावत् आचर्यते एतत् पर्व। सायंकाले सर्वे जनाः दीपानां मालाः प्रज्वालयन्ति। दीपानां प्रकाशः अन्धकारम् अपनयति। एतत्पर्वावसरे गृहे, देवालये, आश्रमे, मठे एवं सर्वत्रापि दीपान् ज्वालयन्ति। प्रतिगृहं पुरत: आकाशदीप: प्रज्वाल्यते। दीपानां प्रकाशेन सह स्फोटकानाम् अपि प्रकाश: भवति। पुरुषाः, स्त्रियः, बालकाः, बालिकाः च नूतनानि वस्त्राणि धरन्ति। शुभमुहूर्ते जनाः लक्ष्मीं पूजयन्ति मिष्टान्नानि च आस्वादयन्ति । सर्वे जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति, सुधया लिम्पन्ति सुन्दरैः च चित्रैः भूषयन्ति। ते स्वमित्रेभ्यः बन्धुभ्यः च मिष्टान्नानि प्रेषयन्ति। बालकाः बालिकाः च क्रीडनकानां मिष्टान्नानां स्फोटकपदार्थानां च क्रयणं कुर्वन्ति। अस्मिन् दिवसे सर्वेषु विद्यालयेषु कार्यालयेषु च अवकाशः भवति। भारतीयाः इमम् उत्सवं प्रतिवर्षं सोल्लासं मन्यन्ते। अस्य पर्वण: दीपालिका, दीपोत्सव:, सुखरात्रि:, सुखसुप्तिका, यक्षरात्रि:, कौमुदीमहोत्सव: इत्यादीनि नामानि अपि सन्ति। अस्मिन्नवसरे न केवलं देवेभ्य: अपि तु मनुष्येभ्य: प्राणिभ्य: अपि दीपारतिं कुर्वन्ति। दीपावली भारतस्य चिन्तनस्य प्रतिनिधित्वं करोति। भायां रत: स: भारतीय:। अत: सर्वे भारतीया: प्रकाशपूजका:।
ब्रह्मानंदः कुलकर्णी 
संस्कृतभारती कार्यकर्ता
अहमदपूरतः
 

Tuesday 29 September 2015

सम्पादकीयम् 1


प्रियसंस्कृतबान्धवाः नमस्काराः !

अस्माकं संस्कृतभाषा चिरपुरातनी नित्यनूतना च भवति । विज्ञानस्य विस्फोटयुगे अस्मिन् संस्कृतभाषया अपि अन्तर्जालमाध्यमसागरे महानौकया इव तरणीयम् । यत्र यत्र भाषाणां सान्निध्यं भवति तत्र सर्वत्र संस्कृतभाषया अपि स्वस्याः दायित्वं प्रकाशनीयम् ॥

मानवधियः व्यापारः यत्र यत्र् भविष्यति तत्र तत्र संस्कृतभाषा परिलसतु इति चिन्तायाः परिणतिः एव " सम्प्रति वार्ताः " नाम इयं पत्रिका ।

धार्मिकविकासः एव विकासः । तं विना पुरोगतिः न भवति । अतः अस्माकं कर्म सत्यधर्मयुक्तं भवेत् । अतः एव अन्तर्जालमाध्यमसागरे दीपस्तम्भः इव भवतु इयं पत्रिका इति अस्मत्प्रार्थना ॥
भारतराष्ट्रे केरलराज्ये अधुना प्रथमकक्ष्यायाः आरभ्य संस्कृताध्ययनाय अवसरः अस्ति। अतः एव छात्राणाम् अध्यापकानां संस्कृतकुतुकिनां च सौकर्याय नितराम् उपकरिष्यति अयं प्रयत्नः इति अस्माकं विश्वासः ॥
अत्रत्यन्यूनताः परिहर्तुं वाचकानाम् अपि उपदेशान् सविनयं स्वीकुर्मः । तदर्थं सर्वेषाम् अपि वयं स्वागतं कुर्मः ॥

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
तत्वं पूषन्नपावृणु सत्यधर्मायदृष्टये॥

Sunday 16 August 2015

Yoga

योगः

योगेन चित्तस्य पदेन वाचां 
मलं शरीरस्य च वैद्यकेन  
योऽपाकरोत्तं प्रवरं मुनीनाम् 
पदञ्जलिं प्राञ्जलिरानतोस्मि
योगविद्या भारतवर्षस्य अमूल्यनिधिः । पुराकालादेव अविच्छित्ररुपेण 
 गुरुपरम्परापूर्वकं प्रचलिताऽऽसीत् गुरुपरम्परेयम् । वस्तुत ऋषिमुनियोगिनामध्यवसायजनितं साधनालब्धं अन्तर्जगतो महत्त्वपूर्णमन्तर्विज्ञान भवति तथा । अनेन योगसमाधिना ऋषयो मन्त्रान् द्रष्टुं समर्था आसन् श्रीमद्भगवद्गीतायां योगस्य द्विविधत्वं वर्णितं श्रीकृष्णेन । यथा –ज्ञानयोगः, कर्मयोगश्च । परम्परनिरपेक्षं मोक्षसाधनत्वेन कर्मज्ञानयोगरुपं निष्ठाद्वयमुक्तम् ।योगदर्शनानुसारेण योगस्य अष्टौ अङ्गानि सन्ति । तदुक्तं योगदर्शने यम्- नियम- योगविद्या भारतवर्षस्य अमूल्यनिधिःआसन- प्राणायाम-प्रत्याहार –धारण् –ध्यान – समाधयोऽष्टाङ्गानि – इति । एतेषां वहिरङ्गान्तरङ्गभेदेन द्विविधत्वं कल्प्यते । एषु यम- नियम – आसन –प्राणायाम –प्रत्याहरादीनि पञ्चाङ्गानि वहिरङ्गानि सन्ति । धारणा –ध्यान –समाधीति त्रीणि अन्तरङ्गाणि भवन्ति । यतो हि एतेषामन्तः करणेन साकमेव सम्बन्धो विद्यते । अतः एतेषामन्तरङ्गत्वम् । महर्षिणा पतञ्जलिना त्रयाणां कृते संयमः इत्युच्यते । तद्यथा – त्रयमेकत्र संयमः  । अष्टाङ्गयोगद्वारा प्रमाण- विपर्यय- विकल्प निद्रा – स्मृत्यादिपञ्चप्रवृत्तीनां निरोधं कृत्वा योगसमाधौ प्रविशति योगी ।कर्मफलमनपेक्षमाणः सन् अवश्यं कार्यतया विहितं कर्म यः करोति स एव योगी भवति । इन्द्रियभोगेषु तत्साधनेषु च कर्मसु यदा आसक्तिं न करोति, सर्वान् भोगविषयान् परित्यजति तदा स योगारुढं उच्यते । स एकान्ते स्थितः सन् सङ्गशून्यो भूत्वा मनः वशीकृत्य आशां परिग्रहञ्च परित्यज्य सततमात्मानं समाहितां कुर्यात् । तत्रासनमुपविश्य एकाग्रं विक्षेपरहितं मनः कृत्वा योगमथ्यसेत् । यस्य आहारः विहारश्च नियमितः, सर्वेषु कर्मसु यस्य चेष्टा नियमिता, यस्य शयनः जागरणञ्च नियमितं तस्य दुःखनिवर्त्तको योगो सिध्दयति ।

Saturday 15 August 2015

स्वतन्त्रतादिनस्य आशंसाः

Image result for indian patriotic pictures

सर्वेभ्यः अस्माकं  स्वातन्त्र्यदिनाशंसाः। - लिबि पुरनाट्टुकरा।

भारतस्येतिहासे  सुवर्णाक्षरैः लिखितमस्ति तत् दिनम्।
एकसहस्र-नवशत-सप्तचत्वारिंशत् -1947-आगस्त् पञ्चदश -15- आम् .... शताब्दैः अस्मद् राष्ट्रेण अनुभूयमानात् अपमानात् अस्वातन्त्र्यात् दास्यात् तस्मिन् दिने एव मोचनं लब्धम्। एकेन दिनेन न , बहूनां महात्मानां बहुभिः वर्षैः कृतानां अश्रान्तपरिश्रमाणां , त्यागानां , बलिदानानां च फलत्वेन एव तत् सम्पन्नम्।
अद्य वयं स्वतन्त्राः - कुत्रापि गच्छाम:, किमपि पठामः, किमपि लिखामः, किमपि कार्यं कुर्मः , किं बहुना अस्माकं नेतारः के इति निश्चेतुं शक्नुमः च।
तादृश प्रजातन्त्रराष्ट्रे जीवामः यत्र प्रजाः एव शासनं कुर्वन्ति। अस्मिन् पवित्रे मुहूर्त्ते स्वीयत्यागैः अस्माकं कृते स्वातन्त्र्यं दत्तवतां महात्मनां स्मरणम् अनुचितं नैव। न..... अवश्यं करणीयमेव।
आश्चचर्यस्य विषयः यत् - यस्मिन् देशे वेदाः दृष्टाः रामायणादि धार्मिककृतयः रचिताः विविधानि शास्त्राणि जातानि ..., तत् राष्ट्रं कथं विदेशीयानां करालहस्तेषु प्राप्य निष्पीडिता ? इति । तस्य उत्तरं तु अस्माकम्  इतिहासः कथयति , यस्मिन् देशे ".समानी व आकूतिः समाना हृदयानि नः " एवं जपः आसीत् तस्मिन्नेव देशे असमता प्रसृता। वर्णन वर्गेण जात्या च भिन्नाः जनाः परस्परं कलहं कृतवन्तः।
यत्र भिन्नो वेषः भिन्ना भाषा भिन्नं रूपमपि सोदरत्वेन जीवनं कृतवन्तः तत्र परस्परं स्पर्धां जनयितुं परदेशीयैः अधिकप्रयत्नः न करणीयः जातः। अस्माकं संस्कृतेः संस्कृतस्य च दुर्व्याख्यानं कृत्वा जनानां अधिकारिणां च मनस्सु द्वेषविषं प्रसारयितुं ते शक्तवन्तः।
ये व्यापारं कर्तुं आगतवन्तः ते क्रमशः शासनम् आरब्धवन्तः ।
लघूणां राज्यानां प्रखण्डानां च उपरि ते कियता सारल्येन स्वीयाधिपत्यं स्थापितवन्तः।तेषां सकाशे भय ङ्कराणि आयुधानि स्यु:
तथापि भारतस्य लघुतमराज्यादपि लघुतरस्य इङ्गलण्ड् देशस्य जनाः अस्मान् शताब्दान् यावत् शासनं कृतवन्तः इत्यत्र अस्माकं अनैक्यमे कमेव कारणम्। यदा तेषां कापट्यं सर्वैः ज्ञातं तावता बहुविलम्बः जातः। तथापि केषुचित् स्थानेषु विदेशीयान् विरुध्य समरा: जाताःएव। झान्सी राणी, राजगुरु, इत्यादीन् आरभ्य बालगङ्गाधरतिलकः , महात्मागान्धी इत्यादीन् यावत् कति वीरपुरुषाः महिलाश्च स्वजीवनं तृणवत्कृत्वा ".इदं न मम राष्ट्राय स्वाहा इति जपन् स्वजीवनार्पणं कृतवन्तः  "।
       कालः परिवर्तितः । अधुना भारतं सशक्तं जातं । निष्कामकर्मिणां नेतृजनानां निरन्तर आत्मसमर्पणेन भारतं लोकस्य पुरतः उत्कर्षं आप्नोत् ।
भारतस्य लोकगुरुत्वं पुनरानयन्निव अधुना लोकाः अस्मान् वीक्षयन्तः  सन्ति।
योग -आयुर्वेद - वेदान्तादिशास्त्राणि संस्कृतभाषा सर्वं नवजागरणं प्राप्नुवत् अस्ति ।
समन्वयस्य... शान्तेः आत्मसाक्षात्कारस्य च शास्त्रं तदनुयुक्तां संस्कृतिं च लोकः अङगीकरोति अनुकरोति च। आम्   ...महामनीषिणां क्रान्तदर्शनमिव अयं शताब्दः भारतस्य एव । वयं निश्चयेन अग्रे सरामः। तदर्थं स्वर्गीय अब्दुल्कलामादि पथदर्शकानां दिग्दर्शम् अस्मभ्यं लब्धमेव। किन्तु अस्माभिः जागरूकैः भाव्यम् । शताब्दानां दास्ये अस्मान् पातयन्ती वर्ग -वर्ण -भेदचिन्ता कुत्रचित् शक्तिम् आप्नुवन्ति किल ? अस्य निवारणं अस्माकं युवशक्तेः कर्तव्यं।
वयं तादृश वटवृक्षस्य शाखाः स्मः यस्य मूलानि सनातनतत्वानि काण्डं तु शास्त्रं च। तद् कदापि न विस्मरेम। अनेकेषां बलिदानेन प्राप्तं स्वातन्त्र्यं संरक्षितुं वयं प्रतिज्ञां कुर्मः। बाह्य- आभ्यन्तर आतङ्कान् विरुध्य राष्ट्रशरीरं संरक्षितुं वयं सन्नद्धाः भवेम। तदर्थं ".इदं न मम 'राष्ट्राय स्वाहा इति मन्त्रं प्राणेषु स्वायत्तीकुर्मः । सङ्कुचितात् महत्तां प्रति वर्धयेम अस्माकं पुण्यजन्म । राष्ट्रपुनर्निमाणाय समर्पयेम स्वजीवान्।
जयतु भारतं .... वन्दे मातरम्....

Image result for indian patriotic pictures animated

Saturday 8 August 2015

APJ ABDULKALAM

Image result for apj abdul kalam

अवुल् पकिर् जैनुलाअबदीन अब्दुल् कलामः। -

 Edited by Libi Bhaskaran


LIBI BHASKARAN
                डॉ. अब्दुल् कलाममहोदयस्य हृदयाघातेन निधनम् अभवत् । २०१५ जूलै २७ 
सायं काले भारतीय-प्रबन्ध-संस्थानस्य (Indian Institute of 
Management Shillong) एकस्यां व्याख्यानसभायां व्याख्यारतः 
सन् हृत्पीडया पीडितः जातः आसीत् । एतां वार्तां श्रुत्वा  अखिलं भारतीयैः
 सह लोकं दुःख सागरे निमग्नम् I

(१५ अक्टोबर् १९३१ – २७ जुलै २०१५) अयं  क्रि.श. 
१९३१तमवर्षस्य अक्टोबरमासस्य पञ्चदशे दिने तमिळ्नाडुराज्यस्य रामेश्वरम् इति 
 मण्डलस्य धनुष्कोटि इति स्थाने लब्धजन्माभूत्। अस्य पूर्ण नाम अवुल् पकिर् जैनुलाअबदीन 
अब्दुल् कलाम: इत्यासीत् । लोकः एतं डा. अब्दुल् कलाम इत्येव सम्बोधयति स्म ।
 भारतीयगणतन्त्रस्य एकादशः निर्वाचितः राष्ट्रपतिः अभवत् । कलामः प्रसिद्धः वैज्ञानिकः 
अभियन्ता अविवाहितः च आसीत् ।

बाल्यं शिक्षा च

अस्य जन्म मध्यमवर्गस्य मुस्लिम् कुटुम्बे अभवत् । यद्यपि अस्य पिता जैनुलाब्दीन् तु 
धनवान् विद्यावान् च नासीत् तथापि सः शुद्धहस्तः अनुशासितः नाविकः आसीत् । 
धीवरेभ्यः नौकाः भाटकरूपेण ददाति  स्म । अविभक्ते कुटुम्बे  पालितस्य अस्य 
पञ्च सहोदराः पञ्चसहोदर्यः सन्ति । एवं गृहे त्रयाणां कुटुम्बाः वसन्ति स्म । 
अब्दुल् कलामस्य जीवने अस्य पितुः प्रभावः अधिकः आसीत्। सः सम्पूर्णतया शिक्षितः
 नास्ति तथापि तस्य कार्यबद्धता दत्तः संस्कारः च कलामस्य जीवने बहूपकारकः जातः ।

विद्यार्थिजीवनम्

पञ्चवर्षीयः कलामः रामेश्वरस्य पञ्चायतप्राथमिकशालायां प्रविष्टः । प्रारम्भिकशिक्षां 
अनुवर्तयितुम् आवश्यकं धनसङ्ग्रहं प्रातः प्रतिगृहं वृत्तपत्रिकानां वितरणद्वारा करोति स्म 
इति सःस्वीये विङ्‌ स् ऑफ फयर्  नामिकायाम् आत्मकथायाम् वदति। तिरुच्चिरप्पलि
  सेन्ट् जोसफ्स् कलालयतः पठनानन्तरं क्रि.श. १९५८तमे वर्षे कलामः 
मद्रास-इंस्टीट्यूट-आफ् टेकनालजी इति महाविद्यालयतः अन्तरिक्षविज्ञाने स्नातकपदवीमं 
प्राप्तवान् । पश्चात् हाँवरक्राफ्ट् इति परियोजनायाम् उद्योगं प्राप्तवान् । ततः भारतीयरक्षानुसन्धान
 तथा विकास इत्येतस्यां संस्थायां प्रवेशं प्राप्य क्रि.श. १९६२ तमवर्षतः उपग्रहप्रक्षेपणस्य 
विविधासु परियोजनासु स्वभूमिकां समर्थरूपेण निरूढवान् । परियोजनायाः निदेशकत्वेन 
भारतस्य एस्.एल्.वि.३ इति प्रथमं स्वदेशीयम् उपग्रहं निर्मीय प्रक्षेपितवान् । 
क्रि.श. १९८०तमवर्षे "रोहिणी'' इति उपग्रहं सफलतया अन्तरिक्षं प्रापितवान् ।

वृत्तिजीवनम्

यद्यपि वैमानिकः भवितुम् इष्टवान्‌ भाग्यं तं क्रि.श. १९६२ तमवर्षे भारतीयान्तरिक्षानुसन्धानसङ्घटनं
 प्रति अनयत्। डा. अब्दुल् कलामः प्रकल्पनिदेशकत्वेन भारतस्य स्वदेशीयोपग्रहस्य 
(एस्.एल्.वी. तृतीयः) प्रक्षेपणस्य क्षिपणिनिर्माणस्य श्रेयः प्राप्तवान् । क्रि.श. १९८० तमवर्षस्य 
जुलैमासे रोहिणी इति उपग्रहं प्रथिव्याः भ्रमणपथस्य समीपे  एव स्थापितवान् । 
अनेन भारताय अपि अन्ताराष्ट्रियान्तरिक्षसमाजस्य सदस्यत्वं दत्तम् अभवत्। इसरो संस्थायाः 
 व्योमवाहनसम्प्रेषणस्य कार्यक्रमस्य अनुमतिप्राप्तेः श्रेयः अपि अस्य एव । कलामः 
स्वदेशीयलक्ष्यभेद्यस्त्रस्य विन्यासं कृतवान् । स्वदेशीयतन्त्रज्ञानेन अग्निः इति पृथ्वी इति 
क्षिपणी विन्यासं कृतवान् । डा. कलामः क्रि.श. १९९२ तमवर्षस्य जुलैमासतः 
क्रि.श. १९९९ डिसेम्बर् पर्यन्तंभारतस्य रक्षणमन्त्रिणः विज्ञानमार्गदर्शकः सुरक्षाशोधविकासविभागस्य
 सचिवः च भवत् । एषः स्टेटेजिक् मिसाय्ल् सिस्टम् इत्यस्य उपयोगम् 
आग्नेयास्त्रस्य रूपेण कृतवान् । अनेन कारणेन भारतदेशः परमाण्वस्त्राणाम् उत्पादनस्य 
क्षमताप्रापणे सफलः जातः । डा.कलामः क्रि.श. २०२०वतमवर्षपर्यन्तं भारतं वैज्ञानिके क्षेत्रे 
अत्याधुनिकं कर्तुं विशिष्टां योजनां निर्मीय सर्वकाराय समर्पितवान् । तदानीम् एषः भारतसर्वकारस्य  
प्रधानवैज्ञानिकोपदेशकः आसीत् । क्रि.श. १९८२ तमवर्षे डा. कलामः भारतीयरक्षानुसन्धान 
एवं विकास इत्यस्याः संस्थायाः निदेशकत्वेन पुनरागतः । तदा एषः स्वस्य सम्पूर्णं 
लक्ष्यं निदेशितक्षिपणेः विकासार्थं केन्द्रीकृतवान् । अग्निक्षिपणिः पृथ्वीक्षिपणिः इत्यनयोः 
परीक्षणसाफल्यस्य श्रेयसः बहुभागः डा. कलामस्य एव भवति । क्रि.श. १९९२तमवर्षे 
भारतीयरक्षणामन्त्रालयस्य वैज्ञानिकोपदेशकः इति नियुक्तः । अस्य परिवीक्षणे एव क्रि.श. १९८८तमे 
वर्षे पोखरान् इति स्थाने द्वितीयं परमाणुपरीक्षणम् उपपन्नम् । अनया घटनया भारतं 
परमाणुशक्तिसम्पन्नराष्ट्रस्य आवल्याम् अन्तर्भावितम् अभवत् ।

राजनैतिकजीवनम्

डा. अब्दुल् कालामः भारतस्य एकादशः राष्ट्रपतिः इति निर्वाचितः अभवत् । भारतीयजनतापक्षेण 
समर्थितः एन्.डि.ए. सङ्घटनं स्वस्य प्रतिनिधिम् अकरोत् यस्य समर्थनं विपक्षं विना 
अन्ये सर्वे अकुर्वन् । क्रि.श. २००२तमवर्षस्य जुलैमासस्य १८तमे दिने डा. कलामः 
९०%बहुमतेन भारतस्यराष्ट्रपतिः अभवत् । तस्मिन् एव वर्षे जुलैमासस्य 
२५ तमे दिने संसद्भवनस्य अशोकसभाङ्गणे राष्ट्रपतिपदस्य 
प्रमाणशपथम् बोधितम् । अस्मिन् संक्षिप्ते समारोहे अटलबिहारीवाजपेयी तस्य 
मन्त्रिमण्डलस्य सदस्याः तथा अधिकारिणः उपस्थिताः आसन् । डा.कलामस्य 
कार्यकालः क्रि.श. २००७तमवर्षस्य जुलै २५तमे दिने समाप्तः अभवत् । 
डा.कलामः राजनैतके वैयक्तिके च जीवने अतीव अनुशासितः आसीत् । 
अयं सर्वदा शाकाहारी मद्यपानव्यसनरहितः आसीत् । अस्य विङ्ग्स् आफ् 
फायर् इति आत्मकथनग्रन्थे भारतीयुवकानां मार्गदर्शनम् अस्ति । गैडिङ्ग् सोल्स् - डायलाग्स्
 आफ् दि पर्पस् आफ् दि लैफ् इति अस्य द्वितीये ग्रन्थे 
अध्यात्मिकविचाराः उल्लिखिताः सन्ति । अनेन तमिळुभाषाया अनेकानि पद्यानि 
विरचितानि । दक्षिणकोरियादेशे अस्य पुस्तकानाम् अभ्यर्थना अधिका अस्ति अस्य 
विषये अपि महान् आदरः अस्ति इति ज्ञायते । सामान्यतः पश्यामः चेत् डा.कलामः 
राजनैतिकव्यक्तिः न किन्तु अस्य मनसि राष्ट्रवादी विचाराः अधिकाःआसन् । अयं  राष्ट्रपतिः 
भूत्वा भारतदेशस्य अभिवृद्धिनीतेः संस्थापनस्य कारणेन राजनीतिज्ञः इत्यपि वक्तुं शक्यते । 
इण्डिया २०२० इत्याख्ये स्वरचिते पुस्तक्ते अयं क्रान्तदर्शी  भारतस्य अभिवृद्धिविषये 
स्वदृष्टिदिशां स्पष्टं कृतवान् । एषः अन्तरिक्षक्षेत्रे भारतं जगदुरुत्वेन द्रष्टुम् इच्छति स्म । 
एतत् साधयितुम् अस्य मस्तके नैकाः योजनाः आसन् । पर्माण्वस्त्रस्य क्षेत्रे एष 
भारतंपरमशक्तिशालिनं कर्तुम् इच्छति । विज्ञानस्य अन्यक्षेत्रेषु अपि विकासः भवेदिति 
अस्य परमाशयः । डा.कलामः वदति यत् तन्त्रांशस्य क्षेत्रे सर्ववर्जनानि विमुक्तानि भवेयुः 
येन अधिकाधिकजनाः अस्य प्रयोजनं प्राप्नुयुः । एवं चेत् सूचनातन्त्रांशः तीव्रगत्या 
विकसितः भवति । यदि कोऽपि देशस्य अभिवृद्धिमिच्छति देशे शान्तेः संरक्षणार्थं 
प्रयत्नः विधेयः । शान्तिः आवश्यक्ती इति शक्तिसङ्ग्रहः न कर्तव्यः इति भावः न । 
अस्माकं शक्तेः अभावादेव गतेषु २०००वर्षेषु ६००वर्षणि वयम् अन्यैः प्रशासिताः 
इति सधैर्यम् अण्वस्त्रसङ्ग्रहविषये जागरयति ।

प्रशस्तिपुरस्काराः

अवुल पकीर जैनुलबीदीन अब्दुल कलामायभारतसर्कारस्य क्रि.श. १९८१तमे वर्षे 
 प्रशासकीयसेवाक्षेत्रस्य पद्मभूषणप्रशस्तिः प्रदत्ता । अपि च 
 डा.कलामः भारतसर्कारस्य सर्वोच्चेन नागरिकसम्माननेन भारतरत्नेन अलङ्कृतः ।

वैयक्तिकजीवनम्

डा.कलामः स्वव्यक्तिगते जीवने अपि परिपूर्णः अनुशासितः अस्ति । आजीवनं 
 ब्रह्मचर्यव्रतस्य पालनं सङ्कल्पितवान् । एषः कुरान्ग्रन्थं तथा भगवद्गीतां च समानतया 
अध्ययनं करोति स्म । स्वयं कलामः बहुत्र उक्तवान् यत् सः तिरुक्कुरल् अपि 
अनुसरति इति । अस्यभाषणे न्यूनातिन्यूनम् एकस्य कुरलस्य उल्लेखः भवत्येव । 
राजनैतिकेस्तरे अस्य अभिप्रायः अस्ति यत् भारतस्य अपि भूमिपा 
अन्ताराष्ट्रियस्तरे विस्तृता भवेत् इति । भारतदेशः महाशक्तिः जगद्गुरुः च भवितुं 
तत्पथे गच्छन्तं दृष्टुम् अस्य मनः बहुधा इच्छति स्म  । अस्यां दिशायां प्रेरणां 
जनयितुम् एषः अनेकान् ग्रन्थन् अपि व्यरचयत् । तन्त्रांशः भारतस्य सर्वसाधारणस्यापि 
जनस्य हस्तगतः भवेत् इति सर्वदा आग्रहं कृतवान् । बालानां वृद्धानां च कलामः 
अतीव प्रियः आसीत् ।

कृतयः

डा. कलामः साहित्यिकरूपेणापि स्वशोधसारं चतृषु ग्रन्थेषु आनीतवान् । 
विंग्स् ऑफ़ फैर्', 'इण्डिया २०२०- ए विषन् फ़ॉर दि न्यू मिलेनियम्', 'माई जर्नी' तथा 
'इग्नाटिड् माइण्ड्स्- अनसैसिङ्ग् दि पवर् विदिन् इण्डिया । एतानि पुस्तकानि 
भारतीयभाषाभिः विदेशीयभाषाभिः च अनूदितानि । एषः कश्चित् विशिष्टः वैज्ञानिकः 
यस्मै ३०विश्वविद्यालयाः गौरवपूर्वकं डाक्टरेट् उपधिं दत्तवन्तः ।
ग्नाइटेड मैण्ड्स् एनलिषिङ्ग् दि पाव
विदीन इण्डिया (प्रकाशनम् - पेंग्विन बुक्स, २००३)इण्डिया मै ड्रीम् 

 (प्रकाशनम् - एक्सेल बुक्स्, २००४)एनविजनिंग अन एम्पावर्ड् नेशन् टेक्नालजी 
 फार् सोसायटल् ट्रांसफारमेशन् (टाटा मैकग्राहिल् पब्लिशिङ्ग् कम्पनी लिमिटेड्, २००४)
आत्मकथा - विग्स् आळ् फैर् एन् आटोबायोग्राफी आफ ए.पी.जे. अब्दुल् कलामः 
(ओरियण्ट् लाङ्गमैन्, १९९९)आत्मकथा - सैण्टिस्त् टू प्रेसिडेंट् (ज्ञान पब्लिशिङ्ग हौस् २००३)
इटरनल् क्वेस्ट् अब्दुल् कलामस्य जीवनकालः लेखकः - एस्. चन्द्रः 
(पेंटागन पब्लिशर्स्, २००२)प्रेसिडेंट एपीजे अब्दुल् कलामः आर्. के. पूर्ति रचितः 
(अनमोल पब्लिकेशन्स,२००२) Iए. पी. जे. अब्दुल् कलामः दि विषनरी आळ् इण्डिया -
 के. भूषण तथा जी. कात्यालः रचनम् (एपीएच पब्लिशिङ्ग् कार्पोरेशन्, २००२)