Sunday 19 June 2016


योगो भवति दुःखहा... ! [१]
 - बलदेवानन्द-सागरः
 [ आलेखेsस्मिन् योगसाधनायाः सैद्धान्तिक-पक्षाः संक्षिप्तम् इतिवृत्तञ्च वर्णितम् ]
 प्रस्तावना-
 २०१४-तमे वर्षे सेप्टेम्बर-मासे २७-तमे दिने संयुक्त-राष्ट्र-महासभायां [ UNGA ] ६९-तमम् अधिवेशनं सम्बोधयन् भारतस्य प्रधान-मन्त्री आदरणीयः श्रीनरेन्द्र-मोदी योगस्य अन्ताराष्ट्रिय-दिवसं स्वीकर्तुं विश्व-समुदायम् अध्यर्थितवान् | तेन उक्तमासीत् - “योगः प्राचीनायाः भारतीय-परम्परायाः अमूल्य-उपहारत्वेन वर्तते | अयं मनसः देहस्य च, विचारस्य कर्मणः च, संयमस्य पूर्णतायाः च, मध्ये ऐक्यं स्थापयति, मानवस्य प्रकृतेः च मध्ये समन्वयं साधयति, आरोग्यस्य सुखस्य च मध्ये पूर्णतान्वितायाः पद्धतेः सामञ्जस्यं विवर्धयति | योगः न केवलं शारीरिक-व्यायामत्वेन परिगणनीयः, परन्तु प्रकृत्या जगता च साकम् अस्मदीयम् ऐक्य-भावम् अन्वेष्टुम् अयं सम्प्रेरयति | अस्मदीयायाः जीवन-शैल्याः परिवर्तनेन चेतनायाः संरचनया च, जल-वायु-परिवर्तनम् अनुकूलियतुम् अयं साहाय्यं कर्तुं शक्नोति | अन्ताराष्ट्रिय-योग-दिवसस्य स्वीकरणार्थम् अस्माभिः सम्भूय कार्याणि आचरणीयानि” इति | प्रायेण सार्ध-द्वि-मासानन्तरम् अर्थात् २०१४-तमे वर्षे डिसेम्बर-मासे एकादशे दिने त्रिनवत्यधिक-शत-सदस्यात्मिका UNGA-इति संयुक्त-राष्ट्र-महासभा बहु-सम्मत्या जून-मासस्य २१-तमं दिवसम् अन्ताराष्ट्रिय-योग-दिनत्वेन प्रतिष्ठापियतुं प्रस्तावमेकम् अभ्युपागच्छत् यस्मिन् सप्त-सप्त्यधिक-शतस्य सह-प्रायोजक-देशानां सम्मतिः आभिलेख्यं भजते | स्वीये प्रस्तावे संयुक्त-राष्ट्र-महासभया अभिमानितं यत् योगाचरणं हि स्वास्थ्यं भद्रतां च प्रति समग्र-रूपात्मिकां प्रवृत्तिं प्रावधत्ते, अपि च, विश्व-जनसंख्यायाः आरोग्यार्थं योगाभ्यासस्य लाभ-प्रदायिनीं व्यापिनीं सूचनाम् उपपादयति | योगाभ्यासः जीवनस्य प्रत्येकं क्षेत्रे ऐक्यमपि साधयति, एवंरीत्या रोग-निवारणार्थम्, स्वास्थ्य-संवधनार्थम्, अनेकेषां जीवन-शैली-सम्बद्धानां विकाराणां प्रबन्धनार्थञ्च अयं प्रभवति |

 किं नाम योगाचरणम् ?

 योगाचरणं हि परमार्थत्वेन सूक्ष्मतम-विज्ञानाधृतम् आध्यात्मिकानुशासनं वर्तते यद्धि मनसः देहस्य च मध्ये ऐक्यभावं प्रतिष्ठापयितुं विशेषेण अवधत्ते | इदं हि स्वस्थ-जीवनस्य कला-विज्ञानत्वेन वर्तते | ‘योगः’- इति शब्दः संस्कृत-भाषायां ‘युजिर् युतौ’, ‘युज् समाधौ’- वेति धातोः योजने एकीभवने समन्वयने चेत्यादि-अर्थेषु व्युत्पन्नोsस्ति | योग-शास्त्रानुसारं, योगाभ्यासः व्यष्टि-चेतनायाः संयोजनं ब्रह्माण्डीय-चेतनया साकं विधातुं साधकान् सततं सन्नयति | आधुनिकानां वैज्ञानिकानाम् अनुसारेण, जगति प्रत्येकमपि वस्तु केवलं तुल्य-परिमाणात्मकस्य आकाशस्य अभिव्यक्तिः अस्ति | यः कश्चन अस्य अस्तित्वस्य इदम् ऐक्यम् अनुभवति, सः ‘योगस्थः’ इत्युच्यते, अपि च, सः योगी-इति ख्याप्यते, येन मुक्तावस्था अधिगतास्ति | एषा एव अवस्था - ‘निर्वाणम्’, ‘कैवल्यम्’, ‘मोक्षः’, ‘मुक्तिः’- इति सन्दर्भ्यते | ‘योगः’ अन्तर्विज्ञानत्वेन अपि सन्दर्भ्यते, यस्मिन् प्रविधि-वैविध्यं समाविष्टं वर्तते | अनेन प्रविध-वैविध्येन आत्म-साक्षात्कारम् अधिगन्तुं मानवाः देहस्य मनसः च मध्ये ऐक्यभावम् अवाप्तुं शक्नुवन्ति | सर्व-विधानां दुःखानां परिहारः एव योग-साधनायाः लक्ष्यमस्ति, एतच्च, सम्पूर्ण-स्वास्थ्य—प्रसन्नता-समन्विति-युतस्य जीवनस्य प्रत्येकमपि क्षेत्रे मुक्ति-भावम् उपपादयति |

योगस्य संक्षिप्तः इतिहासः विकासः च -

 प्रथम-धर्मस्य उत वा विश्वास-व्यवस्थानां प्रादुर्भावात् सहस्रशो वर्षेभ्यः प्राक् योग-विज्ञानम् आरब्धमासीत् | यौगिक-मान्यतानुसारेण, प्रथम-योगी, आदियोगी वा शिवः एव आमान्यते स्म | सः एव शिवः प्रथम-गुरुः वा आदिगुरुः- इति स्वीक्रियते | सहस्रशो वर्षेभ्यः प्राक्, हिमालये कान्ति-सरोवरस्य तटेषु, आदिगुरुः पुराण-प्रथितेभ्यः सप्तर्षिभ्यः स्वीयं गहनं ज्ञानं व्यतरत् | एते सप्तर्षयः एशिया-मध्यपूर्वैशिया उत्तरीयाफ्रिका–दक्षिणामेरिका-सहितेषु जगतः विविधेषु भागेषु प्रबलं योग-विज्ञानं प्रासारयन् | वृत्तमिदं रुचिकरं यद् अशेष-जगतः प्राचीन-संस्कृतीनां मध्ये अधिगतं घनिष्ठ-साम्यं परिभाव्य आधुनिकाः विद्वांसः विशेषावधानेन आश्चर्यम् अनुभूतवन्तः | परञ्च, भारते एव एषा योग-पद्धतिः पूर्णतया विकिसता जाता | सप्तर्षिषु अन्यतमः महर्षिः अगस्त्यः सम्पूर्णमपि भारतीयम् उपमहाद्वीपं परिभ्रम्य सार-भूतेन योगमार्गेण समन्वितस्य जीवनस्य एनां संस्कृतिं विरचयामास |
      योगाचरणमिदं प्रायेण २७००-खिष्ट्रिय-वर्षेभ्यः प्राक्, इण्डस्-सरस्वती-उपत्यका-सभ्यतायाः सनातन-सांस्कृतिक-परिणामत्वेन व्यापकतया परिभावितम्, अपि च, मानवतायाः भौतिक्याः आध्यात्मिक्याः च उन्नतेः कृते अमुना स्वीया सार्थकता सिद्धीकृता | इण्डस्-सरस्वती-उपत्यका-सभ्यतायाः अनेकाः मुद्राः, अवशिष्टाः जीवाश्माः, योग-साधना-निरताः आकृतयः, योग-चिन्हानि च प्राचीने भारते तदानीन्तनां प्रवर्तमानां योगोपस्थितिं द्योतयन्ति | मातृ-देव्याः प्रतिमाः मुद्राश्च तन्त्र-योगं सूचयन्ति | लोक-परम्परासु, वैदिके औपनिषदिके च रिक्थे, बौद्ध-जैन-परम्परासु, दर्शनेषु, श्रीमद्भगवद्गीता-समुपेतासु महाभारतीय-वीरकथासु, आदि-काव्ये रामायणे, शैवानां वैष्णवानां च आस्तिक-परम्परासु, तान्त्रिक-परम्परासु चापि योगोपस्थितिः प्राप्यते | यद्यपि प्राक्-वैदिक-काले योगाभ्यासः विधीयते स्म, परञ्च, महर्षिः पतञ्जलिः पातञ्जल-योगसूत्र-माध्यमेन तदानीन्तनानां यौगिक-क्रियाणां, योगार्थस्य, योगज्ञानस्य च, व्यवस्थापनं विधाय संहिताबद्धं कृतवान् |
        महर्षेः पतञ्जलेः अनन्तरं, अनेके ऋषयः योग-गुरवश्च समुचित-रीत्या अभिलेखितानां अभ्यासानां, वाङ्मयस्य च माध्यमेन योग-क्षेत्रस्य संरक्षणार्थं विकासार्थं च, महद्-योगदानं कृतवन्तः | प्राचीन-कालात् प्रवर्तमान-दिनं यावत, प्रतिष्ठितानां योगाचायार्णाम् उपदेशैः योगः संपूर्णे अपि विश्वे प्रसृतो जातः | साम्प्रतं प्रत्येकमपि जनः दृढतया विश्वसिति यत् योगाभ्यासेन रोगाणां परिहारो भवति, आरोग्यस्य संवधर्नं सन्धारणं च जायते | कृत्स्ने अपि जगति कोटिशो जनाः योगाभ्यासेन लाभान्विताः जाताः, अपि च, दिनानुदिनं योगाचरणमिदं जगति प्रसरति, जवीयस्या गत्या च समेधते |

 योगस्य मूल-स्वरूपम् -

 कस्यचन देहस्य, मनसः, भावनायाः, ऊजार्याः च स्तराधारेण योगः प्रभवति | अतएव कर्मयोगः, ज्ञानयोगः. भक्तियोगः, क्रियायोगः चेति योगस्य चतुर्धा व्यापकं वर्गीकरणं विहितम् | यत्र वयं देहस्य उपयोगं कुर्मः सः कर्मयोगः; यत्र वयं मनसः उपयोगं कुर्मः सः ज्ञानयोगः; यत्र वयं भावानाम् उपयोगं कुर्मः सः भक्तियोगः; अपि च, यत्र वयं ऊजार्याः उपयोगं कुर्मः सः क्रियायोगः कथ्यते | योगस्य प्रत्येकमपि विधिः, यस्याभ्यासं वयं कुर्मः; आसां श्रेणीनाम् एकाधिक-श्रेणी-विस्तरमेव अस्ति |
        प्रत्येकमपि व्यष्टिः एतेषां चतुर्णां कारकाणां अनुपमा संयुतिः अस्ति | केवलं गुरुरेव प्रत्येकमपि साधकाय आवश्यकं मूल-मार्ग-चतुष्टयस्य समुचित-संयुति-जातं अधिवक्तुम् अर्हति | “सर्वाण्यपि प्राचीनानि योग-भाष्याणि सविशेषं प्रतिपादितवन्ति यत् गुरोः निर्देशानुसारमेव योग-साधनानुष्ठानं नूनम् आवश्यकम् |”

  योगस्य पारम्परिक्यः विचार-धाराः -

 योगस्य विभिन्नानि दर्शनानि, परम्पराः, कुटुम्बाः, गुरु-शिष्य-परम्पराः च, नाना पारम्परिक-विचार-धाराणाम् उद्भव-कारणानि सन्ति | एतासु ज्ञानयोगः, भक्तियोगः, कर्मयोगः, पातञ्जलयोगः, कुण्डलिनीयोगः, हठयोगः, ध्यानयोगः, मन्त्रयोगः, लययोगः, राजयोगः, जैनयोगः, बौद्धयोगः चेत्यादयः अन्यतमाः सन्ति |
           प्रत्येकमपि एषा विचारधारा नैजान् आग्रहान् अभ्यासान् च धारयति ये नाम योगस्य परमं लक्ष्यं ध्येयञ्च प्रति सन्नयन्ति | आरोग्यस्य भद्रतायाश्च कृते यौगिकाभ्यासाः - यमः, नियमः, आसनानि, प्राणायामः, प्रत्याहारः, धारणा, समाधिः, बन्धाः मुद्राः च, षट्-कर्माणि, युक्ताहारः, मन्त्रजापः, युक्तकर्म-प्रभृतीनि योगसाधनायाः अभ्यस्यमानानि व्यापकानि अङ्गानि सन्ति |
              प्रतिबन्ध-युतम् आचरणं नाम यमः, अनुपालनात्मकम् आचरणं हि नियमः | एतौ इतः परमपि योगाभ्यासार्थं प्राग्-अपरिहार्यत्वेन परिगण्येते |
          देहस्य मनसश्च स्थैर्यमापादियतुम् आसनानि सुतरां क्षमन्ते; “कुर्यात् तदासनं स्थैर्यम्”- मनोनिग्रह-पुरःसरं देहस्य नानावस्थानां स्थैर्य-सम्पादकम् आसनं करणीयम् इति, अपि च, एतेषाम् आसनानाम् अभ्यासेन सुदीर्घकालं यावत् देहस्य स्थिरां स्थितिं [ कस्यचिद् देहस्य स्वरूपात्मकस्य अस्तित्वस्य स्थिर-प्रबोधनम् ] सन्धारियतुं शक्यते |
        प्राणायामो हि श्वसन-प्रक्रियायाः स्वेच्छया निग्रहणार्थम्, स्थिति-प्रबोधनार्थञ्च अभ्यस्यते, यतो हि, कस्यचिदपि जीवनस्य कृते प्राण-वायोः श्वसन-प्रश्वसनं परमावश्यकम् | अमुना प्राणायाम-विधिना साधकः मनसो जागर्तिं विकासयितुं साहाय्यम् अवाप्नोति, अपि च, अयं मनसो निग्रहणं प्रतिष्ठापयितुं सहायको भवति | आरम्भे नासिकाभ्यां मुखेन शरीरस्य अन्यैः रन्ध्रैः च श्वसन-प्रश्वसन-प्रवाहस्य अभिज्ञान-विकास-पुरःसरम् अनुष्ठीयते | अनन्तरञ्च, पूरक-कुम्भक-रेचक-इति प्रक्रिया-त्रयेण अयं श्वसन-प्रश्वसन-प्रवाहः नियमन-नियन्त्रण-निभालन-द्वारा परिष्क्रियते, यथा – पूरकावस्थायां श्वासः नियमन-नियन्त्रण-निभालन-द्वारा शरीराभ्यन्तरे पूर्यते, कुम्भकावस्थायां शरीराभ्यन्तरे एव स्थिरीक्रियते, अपि च, रेचकावस्थायां नियमन-नियन्त्रण-निभालन-द्वारा प्राण-वायुः प्रश्वस्यते [ देहाद् बहिः निष्कास्यते ] |
           प्रत्याहारः साधकस्य ज्ञानेन्द्रियेभ्यः चेतनायाः पृथक्करणं सङ्केतयति, एतानि च ज्ञानेन्द्रियाणि बाह्य-विषयैः सह चेतनां संयोजयन्ति | धारणा नाम देहे मनसि च अवधानस्य व्यापकाधार-युतं क्षेत्रं सङ्केतयति, यद्धि, सामान्यतया ‘एकाग्रता’ इत्यवगम्यते | ध्यानं नाम देहे मनिस च अतितरां चिन्तनैकाग्रता, तदवस्थायामेव एकीभवनं हि समाधिः इत्युच्यते | बन्धाः मुद्राश्च प्राणायामावसरे अनुष्ठीयन्ते | एते एताश्च उच्चतर-योगाभ्यासार्थं स्वीक्रियन्ते, मुख्यतया अनेके योग-साधकाः श्वसन-प्रक्रियायाः नियन्त्रणपुरस्सरं काश्चन शारीरिक-मुद्राः अङ्गीकुर्वन्ति | अमुना विधिना उच्चतर-योग-स्थितिं सुलभायितुं मनोनिग्रहणार्थम् इतःपरमपि साहाय्यम् अवाप्यते | परञ्च, ध्यानाभ्यासः योग-साधकम् आत्म-साक्षात्कारं प्रति अग्रेसारयति, योग-साधनायाः परम-लक्ष्यं ध्यानातीतं सच्चिदानन्द-भावं प्रति सन्नयति | षट्-कर्माणि विषापनोदन-प्रक्रियात्वेन प्रवर्त्यन्ते, यानि प्रकृत्या निदानरूपाणि सन्ति, अपि च, देहे समवेतानां विषाणां दूरीकरणार्थं सहायकानि भवन्ति | युक्ताहारः स्वस्थ-जीवनस्य कृते समुचित-खाद्यं समीचीनाञ्च खाद्य-प्रवृत्तिं समर्थयति |
             विशालम् अनन्तञ्च योग-विज्ञानं मन्दधिया मया अत्र सुधीनां विबुधानां च मनोविनोदाय योग-जिज्ञासूनाञ्च प्रबोधाय संक्षेपेण संकलितमस्ति | जगति साम्प्रतं जून-मासे एकविंशतौ दिनाङ्के “अन्ताराष्ट्रिय-योग-दिवसः” आयोज्यते इत्यस्ति शुभोदय-वार्ता | एतदर्थं सर्वेऽपि योग-पथानुयायिनः वन्द्याः वर्धनीयाश्च | श्रीमद्भगवद्गीतायां तु उक्तमेव – “योगो भवति दुःखहा|” ... डॉ.बलदेवानन्द-सागरः Cell- 09810562277 Email- baldevanand.sagar@gmail.com


योगो भवति दुःखहा... ! [२] 

 [ आलेखेsस्मिन् योगसाधनायाः व्यावहारिक-पक्षाः आसनादीनि च वर्णितानि ]
प्रस्तावना-
 योगाभ्यासः हि आवश्यकरूपेण आध्यात्मिकानुशासनं वर्तते यद्धि विशेषतः परिष्कृत-विज्ञानाधृतम् अस्ति | इदं तु स्वस्थ-जीवनस्य कृते कला-विज्ञान-रूपं वर्तते |
    योग-शब्दः संस्कृतस्य ‘युग’-शब्देन निष्पन्नः यः संयोजनं वा समन्वितिं वा द्योतयति। यौगिक-लेखाधारेण योगाभ्यासः साधकस्य व्यष्टि-चेतनां समष्टि-चेतनया संयोजयितुम् अग्रेसारयति येन मनसः शरीरस्य च, मानवस्य प्रकृतेश्च मध्ये भद्रतरं सन्तोलनं सम्भवेत् |
      धर्मस्य विश्वासस्य वा प्राथमिक-व्यवस्थानां प्रादुर्भावात् अपि सहस्रशो वर्षेभ्यः प्राक् योग-विज्ञानम् समुत्पन्नमासीत्| यौगिक-लेखाधारेण, प्रथम-योगी, आदियोगी वा शिवः एव आमान्यते स्म | सः एव शिवः पुराण-प्रथितेभ्यः सप्तर्षिभ्यः स्वीयं गहनं ज्ञानं व्यतरत् | प्राक्-वैदिक-कालादेव योगाभ्यासः अनुष्ठीयते स्म परञ्च आधुनिक-योगस्य जनकः महर्षिः पतञ्जलिः एव प्रथमः आचार्यः आसीत्, यः तदानीन्तनान् अभ्यासान् सूत्राधारेण व्यवस्थाप्य संहिताबद्धं कृतवान् | अनन्तरम्, अनेके योग-गुरवः अस्याः योग-विद्यायाः विकास-संरक्षणयोः कृते स्व-योगदानम् अर्पितवन्तः, अपि च, लोकोपकारकम् आश्चर्यजनकञ्च अभ्यासमेनं प्रसारितवन्तः |
         सम्प्रति योगस्य नाना विद्यालयाः सन्ति येषु ज्ञानयोगः, भक्तियोगः, कर्मयोगः, पातञ्जल-योगः, हठ-योगः, कुण्डलिनी-योगः, ध्यानयोगः, मन्त्रयोगः लययोगः, जैनयोगः, बौद्धयोगः चेत्यादयः समाविष्टाः सन्ति | योगसाधनायाः प्रामुख्येन अभ्यस्यमानासु प्रक्रियासु यमः, नियमः, आसनानि, प्राणायामः, प्रत्याहारः, धारणा, ध्यानम्, समाधिः, बन्धः मुद्रा च, षट्-कर्म, युक्ताहारः, मन्त्रजपः, युक्तकर्म अन्यतमाः सन्ति| योगाभ्यासावसरे योगाभ्यास-कर्ता अत्र निर्दिश्यमान् कांश्चन निर्देशक-सिद्धान्तान् नूनम् अनुपालयेत् |

       अभ्यासात् पूर्वं किं करणीयम् ?

        शान्तिमये आनन्दप्रदे च परिवेशे निश्चिन्तेन शरीरेण मस्तिष्केण च सह योगाभ्यासं कुर्यात् | रिक्तेन वा लघ्वाहारयुतेन उदरेण योगाभ्यासं कुर्यात्, यदि भवता दुर्बलता अनुभूयते चेत्, मधुयुतं ईषदुष्णं जलं पेयम् | शरीरस्य सहज-चेष्टानुष्ठानार्थं भार-रहितानां सौविध्य- युतानां च कार्पास-वस्त्राणां कृते प्राथम्यं प्रदेयम् | कश्चन प्राक्तनः रोगः, पीडा वा हृदय-सम्बद्धा समस्या अस्ति चेत् योगाभ्यासात् प्राक्, कश्चन चिकित्सकः योगचिकित्सकः वा नूनं परामर्शनीयः |

 योगाभ्यासावसरे किं करणीयम् ?
 अभ्यास-सत्राणाम् आरम्भः प्रार्थनया वा वन्दनैः करणीयः यतो हि एवंकरणेन मनसः शान्त्यर्थं सहायि-परिवेशः निर्मीयते| योगाभ्यासः शनैः शनैः, उद्वेग-रहित-पद्धत्या शरीरस्य प्रश्वसनस्य च अवधानेन सहैव करणीयः | -
श्वासः तावदवधि न अवरोधनीयः यावदवधि एवंकरणे सारल्यं नानुभूयते |
 शरीरं आतति-पूर्णं वा आवेगेन साकं नैव धारणीयम् |
 अभ्यासः निज-क्षमतानुसारं करणीयः |
सत्राणां समापनं गहन-मौनेन वा शान्तिपाठेन करणीयम् |
 अभ्यास-सत्रस्य २०-३०-मिनिट्-कालानन्तरम् एव भोजनं स्नानं वा समुचितं भविष्यति |

 साम्प्रतं योग-साधनायाः शुभारम्भः –
 योगज्ञानस्य अनुपमे जगति भवतां स्वागतम् | सहस्रशो वर्षेभ्यः पूर्वं योगाभ्यासः यथा प्रासङ्गिकः लाभप्रदः चासीत् , तथैव साम्प्रतमपि वर्तते | सम्प्रति वयं चलन-क्रियाभिः अर्थात् शिथिलता-अभ्यासैः साकं योग-साधनायाः आरम्भं कुर्मः, एवंकरणेन शरीरे सूक्ष्मरूपेण रक्त-सञ्चारः विवर्धते |

 ग्रीवायाः व्यायामः -
 पुरः पृष्ठे च ग्रीवायाः अवनमनम् |
अतन्द्रित-मुद्रायां उत्तिष्ठेत् |
पादौ अभीष्ट-स्थितौ विस्तार्य [यथाशक्यम् अन्तरालं यावत् ] हस्तौ च कटौ स्थापयेत् |
 श्वासं निष्कासयेत्, अपि च, शिरं शनैः शनैः पुरः अवनमयेत् तथा चिबुकेन वक्षःस्थलं स्प्रष्टुं प्रयतेत |
श्वासम् अन्तः आदाय शिरं यथाशक्यं सौख्येन पृष्ठ-भागं सन्नयेत् , श्वासम् अन्तः सन्धारयन् शिरं पुनः पुरः आनयेत् |
 वामं दक्षिणं च भागं प्रति ग्रीवायाः अवनमनम् | श्वासं निष्कासयेत्, अपि च, शिरं शनैः शनैः दक्षिण-भागं अवनमयेत् तथा कर्णं स्कन्धस्य निकटं यथाशक्यं सन्नयेत् | श्वासम् अन्तः आदद्यात् तथा शिरं सामान्य-स्थितौ आनयेत् | श्वासं निष्कासयेत्, अपि च, शिरं वाम-भागम् अवनमयेत् | श्वासम् अन्तः आदद्यात् तथा शिरं पुनः सामान्य-स्थितौ आनयेत् | श्वासं निष्कासयेत्, अपि च, शिरं सुगमतया दक्षिण-भागं तावत् विपरिवर्तयेत् येन चिबुकं स्कन्धस्य समवर्ति भवेत् | श्वासम् अन्तः आदद्यात् तथा शिरं पुनः सामान्य-स्थितौ आनयेत् | श्वासं निष्कासयेत्, अपि च, शिरं वाम-भागम् विपरिवर्तयेत् | श्वासम् अन्तः आदद्यात् तथा शिरं पुनः सामान्य-स्थितौ आनयेत् | ग्रीवायाः विपरिवर्तनम् | शिरं पुरः अवनमय्य चिबुकेन वक्षःस्थलं स्प्रष्टुं प्रयतेत | श्वासम् अन्तः आनयेत् तथा शिरं घटिकायंत्रस्य सूची-दिशायां विपरिवर्तयेत् , शिरः यदा नीचैः गच्छति तदा श्वासं त्यजेत् | शिरं घटिकायंत्रस्य सूची-दिशायाः विपरीतं परिवर्तयेत् | ग्रीवां परितः आकुञ्चनस्य, ग्रीवायाः सन्धीनां मांस-कोशिकानां च शिथिलितायाः, ग्रीवायाः आततेः च अपाकरणम् अनुभवेत् | ग्रीवा-पीडा-युताः स्पोण्डिलाइटिस-परिदेवकाः च व्यायामम् एनं सौकर्येण कुर्युः | शिरसः अधोभागस्य विपरिवर्तनम् | पादौ अन्योन्यं द्वि-फुट-मितान्तरालेन स्थापयेत् | हस्तौ वक्षसः उच्छ्रिततां यावत् तेन प्रकारेण उत्त्थापयेत् येन हस्त-तल-द्वयं परस्परम् अभिमुखं स्यात् | श्वासं निस्सारयेत्, शरीरं दक्षिण-भागं प्रति तावत् परिवर्तयेत् येन वाम-हस्त-तलं दक्षिण-स्कन्धं स्पृशेत्, श्वासम् अन्तः आददेव परावर्तयेत् | पुनरावृत्तिं विदध्यात् | श्वासं आददेव मन्दं मन्दं विदध्यात् | मेरुदण्डस्य डिस्क-इत्यस्य च सत्यायां समस्यायाम्, मासिक-धर्मावसरे च, व्यायाममेनं नाचरेत् | उत्त्थान-मुद्रायां विश्रमेत् | जान्वोः संचालनम् | श्वासम् अन्तः आदद्यात्, स्वीय-बाहू स्कन्धौ यावत् उत्त्थापयेत् | श्वासं निष्कासयेत्, जानुनी पिदध्यात् तथा च,स्वीय-शरीरं शून्य-मुद्रायां नीचैः आनयेत् | श्वासम् अन्तः आदद्यात् अपि च, शरीरम् आकुञ्चेत् | द्विवारम् आवृत्तिं विदध्यात् | अमुना व्यायामेन जान्वोः नितम्बयोः च सन्धिः दृढतरो भवति | सत्यां विकटायाम् आर्थराइटस्-समस्यायां व्यायाममेनं परित्यजेत् | हस्तयोः नीचैः आनयनावसरे श्वासं निस्सारयेत् |

साम्प्रतं योगासनानि प्रति अग्रेसरामः |
 तालासनम् [ताडासनम्] तालम्” नाम एकः वृक्षः पादौ अन्योन्यं द्वि-इञ्च-मितान्तरालेन स्थापयेत् | अङ्गुल्यः परस्परं दृढतया संयोज्य मणिबन्धान् बहिः विवर्तयेत् | श्वासम् अन्तः सन्नयेत् तथा स्वीय-बाहू उपरि उत्त्थापयत् स्कन्धयोः समवर्तिनौ विधेयौ | पादान्त-भागौ भूमितः उपरि उत्त्थापयेत् अङ्गुष्ठाभ्यां च सन्तोलनं सन्धारयेत् | अस्यामेव स्थितौ १०-तः १५-सेकेण्ड-मितं कालं यावत् सन्तिष्ठेत् | आसनमिदं शरीरं दृढतरं विदधाति, पृष्ठ-भागस्य च अस्थिना संयुक्तानां तन्त्रिकाणां संकुलनं समीचीनं कर्तुं साहाय्यम् उपपादयति, अनुचित-मुद्राः च सम्यक् करोति | श्वासं निस्सारयेत्, पादान्त-भागौ नीचैः स्थापयेत् | अङ्गुलीनां दृढतरं संयोजनं वियोजयेत् , हस्तौ शिरसः अधःभागस्य समानान्तरं नीचैः आनयेत् तथा उत्त्थान-मुद्रायां पुनः सन्तिष्ठेत् |
वृक्षासनम्
 वृक्षः अर्थात् तरुः पादौ अन्योन्यं द्वि-इञ्च-मितान्तरालेन स्थापयित्वा उत्तिष्ठेत् | पुरतः बिन्दुमेकं संलक्ष्य ध्यानं केन्द्रितं कुर्यात्| श्वासं निस्सारयेत्, दक्षिण-पादं पिदध्यात् , अपि च, पादं वाम-जङ्घायाः मध्ये स्थापयेत् | पादान्त-भागः मूलाधारं नैव संस्पर्शेत् | श्वासम् अन्तः सन्नयेत् , बाहू उपरि सन्नयेत् तथा हस्त-तले परस्परं संयोजयेत् | अस्यां स्थितौ १०-तः १५-सेकेण्ड-मितं कालं सन्तिष्ठेत् , तथा सामान्यरूपेण श्वसेत् | अमुना आसनेन तन्त्रिकाणां मांस-कोशिकानां च सामञ्जस्यं समीचीनं भवति, दृढत्वं चैतन्यं च विवर्धेते | अर्थराइटिस्-रोगः स्थूलत्वं वा अस्ति चेत् नायम् अभ्यासः करणीयः | श्वासं निस्सारयेत् हस्तौ दक्षिण-पादं च अधः आनयेत् | आसनं पुनः आवर्तयेत् | वाम-पादं पिदध्यात् तथा पादं दक्षिण-जङ्घायाः मध्ये स्थापयेत् | पादान्त-भागः मूलाधारं नैव संस्पर्शेत् | श्वासम् अन्तः सन्नयेत् , बाहू उपरि सन्नयेत् तथा हस्त-तले परस्परं संयोजयेत् | विश्रम्यताम् |
पाद-हस्तासनम्
 पादः अर्थात् चरणः , हस्तः अर्थात् पाणिः शनैः शनैः श्वासम् अन्तः आदद्यात्, स्वीय-बाहू च उपरि उत्त्थापयेत् | शरीरं कटेः उपरि-भागं प्रति आकर्षयेत् | श्वासं निस्सारयेत् तथा पुरस्तात् तावदवधि नमेत् यावदवधि पूर्णं हस्त-तलं पृथ्वीं नैव स्पृशेत् | एनाम् अन्तिमां स्थितिं १०-तः ३०-सेकेण्ड-कालं यावत् सन्धारयेत् | ये जनाः पृष्ठावरोध-समस्यावन्तः तैः स्वीय-क्षमतानुरूपम् सन्नमनीयम् | साम्प्रतम् अन्तः श्वसेत्, शनैः शनैः अतिर्यक्-स्थितौ सन्तिष्ठेत् , अपि च, बाहू शिरस्य उपरि नीत्वा संकर्षयेत् | निःश्वसेत् तथा शनैः शनैः प्रक्रियाः विपरीतक्रमेण कुर्वन् प्रारम्भिक-स्थितौ आगच्छेत् | विश्रम्यताम् |
  अर्ध-चक्रासनम्
 पृष्ठाय कटेः साहाय्यम् आदद्यात् | निःश्वसेत् , शिरं पश्चभागे अवनमयेत्, ग्रीवायाः मांस-कोशिकाः आकर्षयेत् तथा क्रोड-रज्जोः अधःभागात् पश्च-भागं प्रति सन्नमेत् | सामान्यतया श्वसत् विश्रम्यताम् | अस्यां स्थितौ १०-तः ३०-सेकेण्ड-मितं कालं यावत् सन्तिष्ठेत् | अर्ध-चक्रासनं क्रोड-रज्जुं [मेरुदण्डं] नमनीयं विदधाति, तथा मेरु-तन्त्रिकाः दृढतराः विदधाति | अन्तः श्वसेत् , शनैः शनैः प्रत्यागच्छेत् तथा विश्रम्यताम् | उच्च-रक्त-चाप-रोगिणः सावधानं सन्नमेयुः |
त्रिकोणासनम्
 त्रिकोणः अर्थात् त्रिभुजः पादौ अन्योन्यं सौकर्यरीत्या दूरे स्थापयित्वा सन्तिष्ठेत् | हस्तौ शनैः शनैः प्रान्त-भागात् तावदवधि उत्त्थापयेत् यावदवधि क्षैतिजौ न भवतः | निःश्वसेत् , शनैः शनैः दक्षिण-भागं प्रति सन्नमेत् तथा दक्षिण-हस्तं दक्षिण-पादस्य पश्चादेव स्थापयेत् | वाम-हस्तं दक्षिण-हस्तस्य समवर्तिनं संस्थापयेत् | सामान्य-श्वासैः सह अस्यां स्थितौ १०-तः ३०-सेकेण्ड-मितं कालं सन्तिष्ठेत् | आसनमिदं समतल-पादं वारयति, पिण्डलीः, जङ्घाः, कटेः मांस-कोशिकाः च दृढतराः करोति तथा मेरुदण्डं नमनीयं करोति | अन्तः निःश्वसनेन सहैव शनैः शनैः प्रत्यागच्छेत् | वाम-भागार्थं पुनरावृत्तिं विदध्यात् | स्लिप-डिस्क्-साइटिका-इत्यनयोः उदरस्य च शल्य-चिकित्सानन्तरं नेदम् आसनम् अभ्यसनीयम् | स्वीय-शारीरिक-क्षमतायाः अतिक्रमणं नैव विधेयम् |
भद्रासनम्
 सम्प्रति उपवेशन-युतानां मुद्राणां कृते सन्नद्धाः भवन्तु | भद्रम् अर्थात् दृढम् पादौ अग्रतः विस्तार्य ऋजु-रीत्या [straight] उपविशेत् | हस्तौ नितम्बयोः पार्श्वे स्थापयेत् | इदं दण्डासनम् | साम्प्रतं स्वीय-पादयोः तल-भागं युगपत् स्थापयेत् | निःश्वसेत् तथा स्वीय-हस्तौ पादाङ्गुष्ठाभ्यां दृढतया संयोजयेत् | स्वीय-पादान्तं यथासम्भवं मूलाधारं निकषा समानयेत् | एषा अन्तिमा स्थितिः अस्ति | अस्यां स्थितौ किञ्चित्-कालं यावत् सन्तिष्ठेत् | भद्रासनं शरीरं दृढतरं करोति मस्तिष्कं च स्थिरयति | सम्प्रति स्व-पादौ आकर्षयेत् विश्रमावस्थायां च आगच्छेत् | सत्यां विकटायाम् आर्थराइटस्-साइटिका-समस्यायां अभ्यासोऽयं नैव विधेयः |
वज्रासनम्
 दण्डासनेन भाव्यम् | स्वीय-पादौ आवेष्टयेत् तथा पादमूलयोः उपविशेत् | जङ्घे समीपमेव कृत्वा पादयोः अङ्गुष्ठौ च अन्योन्यं संस्पृशेत् | हस्तौ जान्वोः स्थापयेत् | एतदस्ति- वज्रासनम् | सम्प्रति
अर्ध-उष्ट्रासनं
प्रारभामहे | अर्ध-उष्ट्रासनम् उष्ट्रः अर्थात् क्रमेलः अन्तः श्वसेत् , उत्तिष्ठेत् स्व-जान्वोः आधारेण सन्तिष्ठेत् | निःश्वसेत् , स्व-करतलौ नितम्बयोः तादृक्-रीत्या स्थापयेत् येन अङ्गुलयः अधोमुखं तिष्ठेयुः | कूर्परौ स्कन्धौ च समानान्तरमेव स्थापयेत् | शिरं पश्चभागे अवनमयेत् ग्रीवायाः मांस-कोशिकाः च आकर्षयेत् | अन्तः श्वसेत् , देहं यथाशक्यं सारल्येन पश्चभागे अवनमयेत् | निःश्वसेत् विश्रमेत च | एषा अन्तिमा मुद्रास्ति | साम्प्रतं अन्तः श्वसेत् प्रत्यागच्छेत् च | निःश्वसेत् | स्वहस्तौ अधः स्थापयेत् वज्रासनेन च उपविशेत् | उदरव्रणेषु सत्सु, मूर्च्छावस्थायां गर्भावस्थायां च आसनमिदं नैव करणीयम् |
  शशासनम्
 शशः अर्थात् शशकः [ खरगोश इति भाषायाम् ] जानुद्वयं विस्तारयेत् परञ्च अङ्गुष्ठ-द्वयं परस्परं संस्पर्शयेत् | हस्त-तलौ जान्वोः मध्ये स्थापयेत् | निःश्वसेत् तथा शनैः शनैः सुदीर्घतया प्रश्वसेत् | पुरः अवनमेत् चिबुकञ्च भूमौ स्थापयेत् | भुजौ समानान्तरं सन्धारयेत् | पुरतः अवलोकयेत् मुद्राञ्च सततं सन्धारयेत् | आसनमेतत् उद्वेगं क्रोधञ्च न्यूनीकर्तुं सहायकमस्ति | अन्तः श्वसेत् उत्तिष्ठेत् च | निःश्वसेत् व्रज्रासनेन च प्रत्यागच्छेत् | स्व-पादौ पुनः विश्रामासने स्थापयेत्| ओस्टियो-आर्थराइटिस्-रोगिणः सावधानमिदं कुर्वन्तु | 
वक्रासनम्
वक्रः अर्थात् तिर्यक् वा कुञ्चितम् दक्षिण-जङ्घाम् अवनमयेत् तथा दक्षिण-पादं वाम-जानुना संयोजयेत् | वाम-बाहुं दक्षिण-जानौ आवेष्टयेत् तथा हस्त-तलं दक्षिण-पादं निकषा स्थापयेत् | निःश्वसेत् शरीरं ग्रीवां च दक्षिण-भागं प्रति आवर्तयेत् | अस्यां मुद्रायां विश्रमेत | स्व-शिरं पश्चभागम् आवर्तयेत्, निःश्वसत् स्व-हस्तौ बहिः निष्कासयेत् , पादौ आकर्षयेत् | साम्प्रतं प्रत्यागच्छेत् अपि च,
विश्रमासने
विश्रमेत | आसनमिदं मेरुदण्डस्य नमनीयतां विवर्धयति | एतत् च मलावरोधम् अजीर्णताञ्च दूरीकरोति मधुमेह-प्रबन्धने सहायि भवति | अपर-पक्षार्थम् अस्य पुनरावृत्तिं कुर्यात् | स्व-शिरं पश्चात् आवर्तयेत् , निःश्वसन् स्व-हस्तौ बहिः निष्कासयेत् | पादौ आकर्षयेत् | सम्प्रति प्रत्यागच्छेत् तथा विश्रमासने विश्रम्यताम् | इदानीम् अधोमुखि-मुद्राणां कृते सन्नद्धाः भवेयुः |
भुजङ्गासनम्
 भुजङ्गः अर्थात् सर्पः वा व्यालः उदराधारेण शयनावस्थायां तिष्ठेत् | शीर्षं हस्तयोः स्थापयेत् तथा शरीरं सौख्येन सन्धारयेत् | इदानीं जङ्घे परस्परं संयोजयेत् तथा बाहू आकर्षयेत् | शीर्षं भूमौ स्थापयेत् | इदानीं स्व-हस्त-तले वक्षसः पार्श्वे धारयेत् तथा कूर्परौ उत्त्थापयेत् | अन्तः श्वसेत् तथा चिबुकस्य नाभेः च भागं यावत् उरुम् उत्त्थापयेत् | इदं भुजङ्गासनं वर्तते | आसनमिदं उद्वेगं प्रबन्धयितुं सर्वोत्तमं वर्तते | इदं पृष्ठ-पीडां श्वसन-समस्यां च निवारयितुं सहायकं भवति | निःश्वसेत् , स्व-शिरं भूमौ स्थापयित्वा बाहू चाकर्षयेत् | स्व-जङ्घे विस्तारयेत् , हस्त-तले उच्चैः कुर्यात् तथा स्व-शिरं करतलयोः धारयेत् विश्रमेत च |
शलभासनम्
 शलभः अर्थात् पतङ्गः वा चिश्चिरः उदराधारेण शयनावस्थायां तिष्ठेत् | जङ्घे परस्परं संयोजयेत् | चिबुकं भूमौ स्थापयेत्, हस्तौ शरीरोपान्तं एवंरीत्या धारयेत् येन हस्त-तले उपरि-स्थिते स्याताम् | अन्तः श्वसेत् , जान्वोः आवर्तनं विनैव, स्व-जङ्घे भूमितः उत्त्थापयेत् | बाहू जङ्घे च तादृशेन विधिना विस्तारयेत् येन शरीरं सारल्येन भूमितः उत्त्थापितं स्यात् | अस्यां स्थितौ विश्रमेत | आसनमिदं साइटिका-पीडां पृष्ठस्य अधोभाग-वर्तिनीं वेदनां च परिहरति | एतत् नितम्बयोः मांस-कोशिकाः समीचीनम् आकारयति | इदानीं निःश्वसेत् , जङ्घे च अधः भूमिं प्रति आनयेत् | स्व-बाहू निष्कासयेत् तथा भूमौ विश्रमेत | हृदय-रोगिणः मुद्रामेनां नैव कुर्युः | 
 मकरासनम्
मकरः अर्थात् ग्राहः उदराधारेण शयनावस्थायां एवंरीत्या तिष्ठेत् येन जङ्घे परस्परं वियोजितं स्यातां पादौ च बहिः भवेताम्| बाहू आवर्तयेत् दक्षिण-हस्तं वाम-हस्तोपरि स्थापयेत् | स्व-शिरं हस्तयोः धारयेत् विश्रमेत च | इदं मकरासनं वर्तते | आसनमिदं सर्वास्वपि अधोमुखि-मुद्रासु विश्रमार्थं क्रियते | एतत् पृष्ठस्य अधोवर्ति-भागं विश्रामयति | इदानीं काश्चन उदासीन-मुद्राः प्रति अग्रेसरामः | सेतुबन्धासनम् सेतुबन्धः अर्थात् सेतोः निर्माणम् | जङ्घे परस्परं संयोजयेत् , बाहू च शरीरोपान्तं स्थापयेत् | जङ्घा-द्वयं जान्वोः उपरि आवर्तयेत् पादमूले च नितम्बयोः पार्श्वे आनयेत् | पादमूल-द्वयं दृढतया सन्धारयेत् | अन्तः श्वसेत्,शनैः शनैः च नितम्बौ देहञ्च सेतोः निर्माणार्थं यथाशक्यम् उत्त्थापयेत् | सौख्येन स्थीयेत | एषा एव अन्तिमा मुद्रा अस्ति | आसनमिदं अवसादं व्यग्रताञ्च परिहरति | एतत् पृष्ठस्य अधोवर्ति-भागस्य मांस-कोशिकाः दृढतराः करोति | सम्प्रति निःश्वसेत् , शनैः शनैः मूल-स्थितौ आगच्छेत् विश्रमेत च | पृष्ठाधारेण शयनावस्थायां तिष्ठेत् | कृपया अवधीयताम् ... गर्भावस्थायाः अनन्तरं मासत्रयात्मकावधि-युताः महिलाः आसनमेतत् नैव कुर्युः |  
पवन-मुक्तासनम्
 जानु-द्वयम् आवर्तयेत् जङ्घे च वक्षसः पार्श्वे आनयेत् | अङ्गुल्यः परस्परं दृढतया पिहिताः स्युः तथा जान्वोः नीचैः जङ्घात्राणे सम्यक्तया अभिधारणीये | शिरं स्कन्धौ च उत्त्थापयेत् तथा चिबुकेन जानू स्प्रष्टुं प्रयतेत | इदं पवन-मुक्तासनम् | इदं मलावरोधं दूरीकरोति, उदरवायुं नियमयति तथा पश्चभागस्य मांस-कोशिकाः मेरु-तन्त्रिकाः च सम्यक्-करोति | स्व-शिरं पश्चभागे आनयेत् , निःश्वसेत् च | स्व-जङ्घे आकर्षयेत् विश्रमेत च | उदर-व्रणेषु सत्सु हार्निया-साइटिका-गर्भावस्थासु च सतीषु आसनमिदं नैव अभ्यसेत् |
  शवासनम्
शवः अर्थात् मृत-शरीरम् | आसनमिदं पूर्ण-विश्रामार्थं अभ्यस्यते | स्व-बाहू जङ्घे च विस्तार्य सुखेन पृष्ठाधारेण शयनावस्थायां स्थीयेत | हस्त-तले उपरि स्याताम् | नयने पिधीयताम् | पूर्णमपि शरीरं जागृत-भावेन विश्रामयेत् | प्राकृतिक-श्वसनेन परिचितः स्यात् , श्वसनं लयबद्धं मन्दं च कुर्यात् | उल्लासस्य निश्चिन्ततायाः च अनुभूतिं यावत् अस्यामेव अवस्थायां स्थीयेत | आसनमिदं सर्व-विधम् उद्वेगं परिहरति तथा शरीरं मस्तिष्कं च विश्रामयति | इदं उद्वेगं तत्-परिणामान् च प्रबन्धयितुम् अतितरां सहायकम् अस्ति |
  कपालभाती-
क्रिया एषा क्रिया मस्तिष्कस्य अग्रभागस्य श्वसन-केन्द्राणि उत्तेजयति | ध्यानस्य कस्यामपि मुद्रायां उपविशेत् | नयने पिधातव्ये तथा पूर्णमपि शरीरं विश्रामयेत् | गभीरम् अन्तः श्वसेत् , उरुम् आध्मापयेत् | उदरस्य मांस-कोशिकानां बलवत्-संकुञ्चनेन श्वासं बहिः निष्कासयेत् | शान्त-रूपेण अन्तः श्वसेत् तथा सक्रियं सततं [बहिः] निःश्वसेत् | पुनः एकवारं गभीरं श्वसेत् , शनैः शनैः बहिः निःश्वसेत् तथा विश्रमेत | एतत् कपालभाती-क्रियायाः एकं चक्रं वर्तते | प्रत्येकमपि चक्रान्ते गहनतया श्वसेत् | इदानीं अपरमपि चक्र-द्वयं कुर्यात् | कपालभाती-क्रिया पुरतः स्थिताः वायुनालिकाः स्वच्छीकरोति | अनया कफ-सम्बद्धानां समस्यानां समुपचाराय साहाय्यं लभ्यते | एषा क्रिया शैत्य-रायनाइटिस-साइनोसाइटिस-अस्थामा-श्वसन-सम्बद्धानां रोगाणाम् उपचारार्थं सहायिनी भवति | कृपया एतद् ध्यातव्यमस्ति यत् सत्सु हृदय-सम्बद्ध-उत्पीडनेषु सत्सु च उच्च-रक्तचाप-भ्रामरित्व-माइग्रेन-स्ट्रोक-हार्निया-गैस्ट्रिक्-अल्सरादिषु नैषा अभ्यसनीया |  
प्राणायामः
 नाडीशोधनम् वा अनुलोम-विलोम-प्राणायामः , क्रमशः वाम-नासिकातः वा दक्षिण-नासिकातः श्वसनम्... ध्यान-मुद्रायाम् उपविशेत् | मेरुदण्डः उन्नतः स्यात् , शिरं उच्छ्रितं तथा नयने पिहिते स्याताम् | गहन-श्वसन-पुरस्सरं शरीरं विश्राम-स्थितौ आपादयेत् | वाम-हस्त-तलं वाम-जानौ ज्ञान-मुद्रया स्थापयेत् | दक्षिण-हस्तः नासाग्र-मुद्रायां भवेत् | दक्षिण-अङ्गुष्ठः दक्षिण-नासिका-छिद्रोपरि स्थापयेत् | वाम-नासिका-छिद्रात् अन्तः श्वसेत्, ततःपरं एतत् पिदध्यात्, दक्षिण-नासिका-छिद्रात् निःश्वसेत् | क्रमेण दक्षिण-नासिका-छिद्रात् अन्तः श्वसेत् | दक्षिण-नासिका-छिद्रम् पिदध्यात् तथा वाम-नासिका-छिद्रात् बहिः निःश्वसेत् | इदं नाडीशोधनम् उत वा अनुलोम-विलोम-प्राणायामस्य एकं चक्रं वर्तते | अन्य-पञ्च-चक्राणि पूर्णतां नयेत् | ये अनुलोम-विलोम-प्राणायाम-प्रारम्भकेषु नूतनाः सन्ति ते प्रश्वसन-निःश्वसन-कालं तुल्यमेव धारयन्तु , शनैः शनैः एतेषां कालानुपातं वर्धयित्वा एकस्मात् द्विगुणितो विधेयः | श्वसनं मन्दं स्थिरं नियन्त्रितं च स्यात् | प्राणायामोऽयं उर्जायाः सर्वान् अपि प्रमुख-मार्गान् शुद्धीकर्तुं संलक्षयति, अयञ्च पूर्णमपि शरीरं पोषयति | अयं चित्तं शमयति, एकाग्रताञ्च वर्धयितुं सहायी भवति | अयं प्राण-शक्तिं वर्धयति , आततिं व्यग्रता-स्तरञ्च न्यूनीकरोति | अयं कफ-सम्बद्धान् दोषान् अपि निवारयति |
 भ्रामरी-प्राणायामः
 भ्रमरः अर्थात् भृङ्गः [ अस्मिन् प्राणायामे निःश्वसन-काले यः ध्वनिः भवति, सः भृङ्गस्य भुन्-भुन्-ध्वनि-सदृशो भवति |] नासा-छिद्र-द्वयेन गहनम् अन्तः श्वसेत् | नियन्त्रित-रीत्या गहनं स्थिरञ्च भ्रमरवत् भुन्-भुन्-सदृश-ध्वनिना बहिः निःश्वसेत्| एतच्च, भ्रामरी-प्राणायामस्य एकं चक्रं वर्तते | पुनः आवृत्ति-द्वयं विदधातु | अयं अनिद्रायाः उत्तमौषधिः वर्तते| उद्वेग-सम्बद्धान् विकारान् दूरीकर्तुम् अयं प्रभाव्युपायत्वेन वर्तते | इदानीं भ्रामरीं शन्मुखी-मुद्रया करोतु | स्व-कर्णौ अङ्गुष्ठाभ्यां पिधातव्यौ| इदानीं तर्जनीं स्व-नयनयोः, मध्यमां नासापुटयोः , तथा अनामिकां कनिष्ठिकां च अङ्गुलीं स्व-ओष्ठयोः उपरि स्थापयेत्| स्व-नासा-पुट-द्वयस्य उद्घाटन-पुरस्सरं द्वाभ्यामपि छिद्राभ्यामन्तः निःश्वसेत् | नियन्त्रित-गत्या शनैः शनैः भ्रमरस्य भुन्-भुन्-ध्वनिं कुर्वन् निःश्वसेत् | अयम् एकाग्रतायाः ध्यानस्य च आरम्भार्थं सज्जतायाः प्राणायामः अस्ति|
ध्यानम्
इदानीं ध्यानार्थं सज्जाः भवन्तु | ध्यानं हि अनारतं चिन्तनस्य प्रक्रिया अस्ति | ध्यानस्य कस्याञ्चिदपि मुद्रायां उपविशन्तु | स्वीय-मेरु-दण्डं सुखप्रदायां स्थितौ साक्षात् सन्धारयेत् | ज्ञान-मुद्रां सन्धारयेत् | स्व-हस्तमूले जङ्घयोः उपरिकृत्वा स्थापयेत् | बाहू स्कन्धौ च शिथिलितौ सुखपूर्ण-स्थितौ च स्याताम् | स्व-नयने पिधाय मुखञ्च किञ्चित् उपरि उत्थाप्य उपविशेत् | भवता एकाग्रेण नैव भाव्यम् , केवलं स्व-भ्रुवोः मध्ये किञ्चित् अवधानं करोतु, तथा स्व-श्वसनं प्रति जागरूकेण भाव्यम् | ध्यानं मस्तिष्कं शान्तम् आनन्दमयं च करोति | इदम् एकाग्रतां स्मृतिं विचार-स्पष्टताम् इच्छाशक्तिं च वर्धयति | इदं पूर्णं शरीरं मस्तिष्कं च समुचित-रीत्या विश्राम्य तच्च चैतन्यपूर्णं विदधाति | एतत् रचनात्मक-भावान् जागरयितुं सहायकं भवति | ध्यानं हि अस्मान् आत्मानुभूतिं प्रति अग्रेसारयति | सच्चिदानन्दं चानुभावयति | विशालम् अनन्तञ्च योग-विज्ञानं मन्दधिया मया अत्र सुधीनां विबुधानां च मनोविनोदाय योग-जिज्ञासूनाञ्च प्रबोधाय संक्षेपेण संकलितमस्ति | जगति साम्प्रतं जून-मासे एकविंशतौ दिनाङ्के “अन्ताराष्ट्रिय-योग-दिवसः” आयोज्यते इत्यस्ति शुभोदय-वार्ता | एतदर्थं सर्वेऽपि योग-पथानुयायिनः वन्द्याः वर्धनीयाश्च | श्रीमद्भगवद्गीतायां तु उक्तमेव – “योगो भवति दुःखहा|” ...
 डॉ.बलदेवानन्द-सागरः Cell- 09810562277 Email- baldevanand.sagar@gmail.com

Saturday 4 June 2016

भगवती गङ्गा
दिव्यमुक्तेः पवित्रतायाः च अनन्तः प्रवाहः”
-लेखनम्
भगवतः विष्णोः ज्ञानरूपा भावरूपा क्रियारूपा च तिस्रः शक्तयः वर्तन्ते, ताश्च भगवती लक्ष्मी, भगवती सरस्वती, भगवती गङ्गा चेति विद्वद्भिः निगद्यते
 
एकदा भगवान् विष्णुः भगवतीं गङ्गाम् अकथयत् – “त्वं पृथिव्यां पवित्र-नदीत्वेन भवितासि या हि वसुधा-वासिनाम् अखिलानां प्राणिनां पापानि अपाकरिष्यति सूर्य-वन्शावतन्सः भगीरथः नाम राजा त्वां पृथ्वीं सन्नेष्यति अनन्तरं त्वं भगवतः शिवस्य पत्नीरूपेण कैलास-पर्वतं प्रतिष्ठिता भवितासि
सूर्यवन्शे सगरः नाम नृपतिः अभवत्, स च अश्वमेध-यागस्य अनुष्ठानम् अकरोत् यज्ञ-सम्पूर्ति-हेतोः सगरस्य षष्टि-सहस्रं पुत्राः यागस्य अश्वेन सह पूर्णस्य विश्वस्य पर्यटनं कृतवन्तः परञ्च यथैव ते सागर-तटस्य समीपम् आगताः, यज्ञ-अश्वः सहसा विलुप्तः जातः

कुत्र गतोऽयम् अश्वः ? नृपतेः सगरस्य पुत्राः विलुप्तम् अश्वं सर्वत्र अन्विष्टवन्तः अश्वस्य अन्वेषणार्थं यदा पृथिव्यां न किमपि स्थानम् अवशिष्टम्, तदा ते अन्ततः पाताल-लोकं प्रयाताः तत्र ते अश्वं दृष्टवन्तः अयम् अश्वः गूढ-ध्यानस्थं महर्षिं कपिलं निकषा बद्धः आसीत् वस्तुतस्तु, देवेन्द्रः अमुम् अश्वं चोरितवान् सगर-पुत्राः तथ्यमिदम् अजानन्तः महर्षिं कपिलम् आक्रान्तुं सन्नद्धाः जाताः क्रोधेन आविष्टः महर्षिः स्वीय-नेत्रे उन्मील्य दृष्टि-मात्रेण तान् भस्मीसात् चकार
नृपतिः सगरः विलुप्तान् राजकुमारान् अन्वेष्टुं स्वीयं पौत्रम् ‘अन्शुमन्तं’ प्रेषितवान् अन्शुमान् यदा महर्षिं दृष्टवान् , सादरम् असौ तं नमस्कृतवान् अन्शुमतः विनम्रताम् अवलोक्य प्रसन्नः तपोमूर्तिः कपिलः अश्वं परावर्तितवान् , अवादीत् च, यत् “ सगर-पुत्राणां मुक्तये त्वया भगवती गङ्गा धरातलम् आनेतव्यापरञ्च अन्शुमान् तस्य पुत्रः दिलीपः वा एतत् कार्यं कर्तुं नैव अपारयताम् | तत्रान्तरे, दिलीपस्य आत्मजः भगीरथः राजा अभवत्
भगीरथः भगवतीं गङ्गां धरातलम् अवतारयितुं समैहत सः स्वीय-राज्य-कार्य-भारं निज-मन्त्रिभ्यः दत्वा तपश्चर्याम् आचरितुं हिमालयं प्रति अगच्छत् भगीरथस्य अनेक-वर्षीय-कठोर-तपश्चर्यायाः अनन्तरम् , भगवती गङ्गा तस्य समक्षं प्रत्यक्षीभूता भगीरथस्य श्रद्धया समर्पणेन च तुष्टा भगवती गङ्गा अवोचत् – “ भो भगीरथ ! अहं धरातलम् आगन्तुं सन्नद्धा अस्मि परन्तु भगवान् शिवः एव मम अवतरण-वेगं धारयितुं शक्ष्यति
कृतनिश्चयः भगीरथः भगवन्तं शिवं प्रसादयितुं पुनः तपः आचरितवान् अनेकेषां वर्षाणाम् अन्तरालानन्तरं भगवान् शिवः प्रत्यक्षीभूतः भगीरथस्य कामनां प्रपूरयन् भगवान् शिवः अवादीत् – “स्वर्गतः अवतरन्त्याः गङ्गायाः प्रवाह-वेगं धारयितुं शक्ष्यामि
एवं प्रकारेण, भगवान् शिवः निज-जटा-कलापे स्थातुं भगवतीं गङ्गां सत्कृतवान् तदनु, भगवती गङ्गा कौतुकेन विचारितवती- “मन्ये, भगवान् शिवः सुदीर्घ-कालं यावत् मम प्रवाह-वेगं धारयितुं नैव शक्ष्यति कथं नाहं भगवन्तं शिवम् आत्मना साकमेव पाताल-लोकं नयेयम् ?” परन्तु सर्वज्ञः भगवान् शिवः भगवतीं गङ्गां स्वीय-जटा-कलापे आबद्धवान् अनेक-वर्षाणि यावत् भगवती गङ्गा ततः निष्क्रान्तुं निरर्थकं प्रायतत भगीरथः पुनः भगवन्तं शिवं प्रसादयितुं तपस्याम् अकरोत् भगवान् शिवः स्वीयं जटा-कलापं उन्मोचितवान्, ततः गङ्गा-प्रवाहं पृथ्वीम् अस्पृशत्
पृथिव्यां अवतरितस्य गङ्गा-जलस्य सप्त-धाराः अभूवन् तासु धारा-त्रयं प्राचीं प्रति, अपरं धारा-त्रयं प्रतीचीं प्रति प्रावहत् सप्तमः प्रवाहः भगीरथम् अन्वगच्छत् , अपि च, अन्तिमत्वेन महात्मनः जह्नोः आश्रमं प्राप्तवान् अहङ्कार-पूर्णा भगवती गङ्गा सोत्साहं स्वीय-शक्ति-प्रदर्शनार्थं आश्रमं जलाप्लावितम् अकरोत् अनेन विक्षोभेण क्रुद्धः महात्मा जह्नुः गङ्गायाः अपान्सि पीतवान् , गङ्गां च शोषितवान् भगीरथः महर्षेः पादारविन्दयोः निपत्य याचितवान् यत् – “कृपया गङ्गा-देवीं क्षम्यताम्, हे महात्मन् ! भवान् यदि एनां विमोक्ष्यसि चेत्, मम पूर्वजाः मुक्ताः भवितारः
महात्मा जह्नुः भगीरथे करुणान्वितः सन् गङ्गा-प्रवाहं निज-कर्ण-कुहरात् बहिः निष्कासितवान् ततः प्रभृति देवी गङ्गा जाह्नवी- इति नाम्ना अपि प्रख्याता जाता जाह्नवी अर्थात् जह्नु-मुनेः जाता सरित् वा कन्या
ततः परम्, भगीरथः गङ्गां पाताल-लोकम् अनयत् | यथैव देवी गङ्गा सगर-पुत्राणां भस्मावशेष-स्थलीम् आप्लावितवती, ते सर्वे अपि मुक्ताः सञ्जाताः एवं रीत्या, भगीरथः यत् कार्य-लक्ष्यं निश्चितवान् , तत् पूर्णताम् अनयत् ततः परम्, भगीरथः देवीं गङ्गां सागरं प्रति नीतवान्

अनेक-वर्षाणि व्यतीतानि एकदा नृपतिः शन्तनुः गङ्गा-नद्याः तीरे सुन्दरीं रमणीमेकाम् अपश्यत् वस्तुतः एषा मानव-रूपधारिणी भगवती गङ्गा आसीत्
भो परम-सौन्दर्य-शालिनि महाभागे, ममेदं सौभाग्यम् अभविष्यत्, यदि भवती मम अर्धाङ्गिनी अभविष्यत्”, - शन्तनुः स्वीयां समीहां प्राकटयत् भगवती गङ्गा प्रसन्ना सती उदतरत् –“ससमयं भवता सह विवाहं करिष्यामि कदाचिदपि भवान् मम कार्य-विषयिणीं पृच्छां नैव करिष्यति - इति
राजा शन्तनुः समयमेनं स्वीकृतवान् , अपि च, अनयोः विवाहः महता समारम्भेण वैभवेन च सम्पन्नः किञ्चित्-कालानन्तरम्, ताभ्याम् एकः पुत्रः अजायत भगवती गङ्गा च किम् अकरोत्...? सा तं पुत्रं नद्याम् अक्षिपत् राजा शन्तनुः स्तब्धः एवातिष्ठत् यतो हि तेन स्वीय-पत्न्या सह कृतः समयः परिपालनीयः आसीत् पत्न्याः आश्चर्यकारिणः कार्यस्य विषये स न किमपि प्रष्टुम् अपारयत्
एतावत्-पर्यन्तमेव पर्याप्तं नासीत् सा अपरान् अपि नव-जातान् षट् पुत्रान् नद्याम् अक्षिपत् राजा शन्तनुः स्वीय-दुःखं नियन्त्रितवान् परं निज-पत्नीं न किमपि प्रष्टुम् अपारयत् परञ्च, भगवती गङ्गा यथैव स्वीयम् अष्टमं पुत्रं नद्याम् प्रक्षेप्तुम् उद्यता, राजा शन्तनुः ताम् अवरोधितवान्, प्रार्थितवान् च - “कृपया आत्मजम् एनं जीवितुम् आज्ञापयतस्मिन् क्षणे एव भगवती गङ्गा स्वीय-पुत्रेण साकं तिरोहिता बभूव
अनेक-वर्षाणि व्यतीतानि राजा शन्तनुः यदा मृगयार्थं गतः आसीत्, सः अनुपममेकं दृश्यम् अपश्यत् कश्चन परस्सहस्रं शरौघैः भित्तिं निर्मीय गङ्गा-प्रवाहम् अवरोधितवान् शन्तनुः किञ्चित् अग्रे गत्वा अपश्यत् यत् तत्र एकः बालकः स्थितोSस्ति अयमेव बालकः परस्सहस्रं शरौघैः भित्तिं निर्मीय गङ्गा-प्रवाहम् एवम् अवरोधितवान् शन्तनुः सन्निकटं गत्वा तं द्रष्टुम् ऐच्छत् परञ्च सः तिरोहितः तस्मिन्नेव क्षणे शन्तनुः अन्वभवत् यद् - “ कदाचित् एषः मम पुत्रः सम्भवेत् ?
शन्तनुः सौत्सुक्यं देवीं गङ्गां प्रार्थितवान् भगवती गङ्गा निज-पुत्रेण साकं स्वयमेव उपस्थिता अजायत न्यगादीच्च यत् “अयमेव अस्मदीयः अष्टमः पुत्रः देवव्रतः अस्तिभगवती गङ्गा एतदपि न्यगादीत् यत् “अष्टसु वसुषु अन्यतमः अयं द्यौः अस्ति यः अस्माकं पुत्र-रूपेण पुनर्जातोSस्ति कृपया एनं स्वीकरोतुभगवती गङ्गा शन्तनवे देवव्रतं दत्वा कैलासम् आरूढवती, महाविष्णोः वचनञ्च सत्यापितवती
[३२] एषा अस्ति कथा यत् भारतस्य पवित्रा नदी गङ्गा केन प्रकारेण धरातलम् अवतीर्णा गङ्गायाः पवित्रता-विषये महाभारत-ग्रन्थे लिखितमस्ति यत् “दुष्कर्म-निवृत्यर्थं गङ्गा-जलावगाहनं परमावश्यकम् गङ्गा-जलावगाहनं शत-यागानाम् अनुष्ठान-तुल्यं वर्तते भारतवासिनां कृते गङ्गा केवलं नदी एव नैवास्ति परमेषास्ति – “दिव्य-मुक्तेः पवित्रतायाः च अनन्त-प्रवाहः बलदेवानन्दसागरः....