Thursday 31 August 2023

 

संस्कृतदिनम् - श्रावणपूर्णिमा

महामहोपाध्यायः डा. गो. गङ्गाधरनायर:






      सर्वे संस्कृतज्ञाः जानन्ति श्रावणपूर्णिमा संस्कृतदिनं भवति इति। 1969 तमे वर्षे संस्कृतदिनाचरणस्य आरम्भः कृतः यदा श्रीमती इन्दिरा गान्धी भारतस्य प्रधानमन्त्री आसीत् तदानींतनकाले भारतस्य राजनैतिक नेता तथा शिक्षाविचक्षणाः प्रायेण संस्कृतं प्रति आदरवन्तः, इतरभाषापेक्षया संस्कृतस्य प्राचीनतमत्वं भारतीयसंस्कृतेः संस्कृताश्रितत्वं च जानन्तश्च आसन्। भाषाविज्ञानिनः जानन्ति स्म यद् भारतस्य अधिकाः भाषाः सांस्कृताद् जाताः सर्वाः भारतीयभाषाः संस्कृतेन पोषिताः, तथा बहवः विदेशभाषाः अपि तेन सम्बद्धाश्च इति। परन्तु आधुनिककाले आङ्गलभाषा प्राशासनिक-भाषात्वेन शिक्षामाध्यमत्वेन च स्वीकृता इति कारणेन संस्कृतस्य पठने पाठने च भारतीयानाम् उत्साहः क्षीणः अभवत्। प्रादेशिक भाषाणां विकासः सम्पादनीयः इति, तदर्थं नूतनानां वस्तूनां नामकरणार्थम् आधुनिकानाम् आशयानां प्रतिपादनाय शब्दनिर्माणार्थं च संस्कृतस्य आश्रयणम् अत्यन्तम् अपेक्षितमिति च सर्वे भारतीयाः चिन्तकाः जानन्ति स्म। स्वातन्त्र्यप्राप्तेः अनन्तरं जनाधिपत्यम् अङ्गीकृत्य गणतन्त्रराष्ट्रत्वेन भारतस्य परिणामे क्रियमाणे सति भारतस्य राजभाषा (प्राशासनिकभाषा) का भवतु इति विचारे तदर्थसमित्यां मतग्रहणेन निर्णयावसरे हिन्दी- संस्कृताभ्यां समसङ्ख्यानि मतानि प्राप्तानि। तत्समितेः अध्यक्षस्य विशेषमतेन हिन्दी राजभाषास्थाने चिता। किन्तु संस्कृतशब्दप्रधाना हिन्दी (Sanskritized Hindi) एव अखिलभारतस्तरे राजभाषा भवेत् इति तत्र निर्णीतम् आसीत्। एतत् सर्वं जानतां राष्ट्रहितचिन्तकानां प्रेरणा एव संस्कृतदिनाचरणस्य प्रकल्पनं भारतीयसर्वकारेण मानितं तदर्था व्यवस्था कृता च। बाजपेयी महोदयः यदा प्रधानमन्त्री आसीत् तदा श्रावणपूर्णिमायाः पूर्वाणि त्रीणि दिनानि पराणि त्रीणि दिनानि च योजयित्वा प्रतिवर्षं संस्कृतसप्ताहः विपुलकार्यक्रमैः सह आचरणीयः इति च निर्देशः प्रचालितः॥


श्रावणपूर्णिमा कस्मात् ?

    अस्माकं सनातनसंस्कृतौ शिशूनाम् अक्षरशिक्षणस्य आरम्भाय विद्यारम्भः इति संस्कारः विहितः आसीत्| केरळराज्ये विजयदशमीदिने इदानीम् अपि जाति सम्प्रदायधर्मभेदं विना विद्यारम्भः आचर्यते। पुरातनकाले अधुनातनविद्यालयप्रवेशः इव बालानां शिक्षणस्य सदारम्भाय गुरुकुलं)

 प्रति प्रेषणम् आसीत्। गुरुः बालकं शिष्यत्वेन स्वीकरोति स्म तस्य संस्कारस्य उपनयनम् इति नाम उपनीय शिष्यं गुरुः वेदानां दर्शनानां च प्रथमवाक्यं पाठयति स्म। उपनयनस्य दिनम् आसीत् श्रावणपूर्णिमा। इदानीम् अपि द्विजाः प्रतिवत्सरम् उपनयनस्य अनुकरणरूपेण तस्मिन् दिने (श्रवणनक्षत्रे) वा अनन्तरदिने (धनिष्ठानक्षत्रे) वा उपवीतस्य परिवर्तनं कुर्वन्ति वेदादीनाम् आरम्भवाक्यानि उच्चारयन्ति च। अतः एव मङ्गला तिथिरिति श्रावणपूर्णिमा संस्कृतदिनत्वेन घोषिता । अस्मिन् संवत्सरे आगस्तमासस्य एकत्रिंशः दिनाङ्कः एव।

अस्माकं कार्यम्

   संस्कृतस्य प्रचारणाय विकासाय च जनानाम् उत्साहवर्धनम् एव संस्कृतदिनाचरणेन उद्दिष्टम्। एकदिनस्य वा एकस्य सप्ताहस्य वा उत्सवेन अस्माकं कार्यं सम्यक् सपन्नम् इति वयं निर्वृताः न भवेम। एकवर्षस्य संस्कृतकार्यार्थं वयम् अनेन आवरेण उत्तेजिताः इत्येव संस्कृतसेव अस्माभिः चिन्तनीयम्। संस्कृतसेवकाः इत्युक्ते संस्कृतस्य अध्यापकाः, प्रौढच्छात्राः, संस्कृतसङ्घटनानां सदस्याः, विविधानां संस्कृतपत्रिकाणां चालकाः, संस्कृतलेखकाः, संस्कृतप्रेमिणश्च मया अभिप्रेताः। एकस्मिन् काले भारते तथा समीपराष्ट्रेषु च राज्यानां मिथः व्यवहाराय संस्कृतमेव माध्यमम् आसीत्। सा अवस्था पुनरपि आनेतुं न शक्यते चेदपि भारते सर्वेषु राज्येषु संस्कृतभाषिणां संस्कृतच्छात्राणां संस्कृतसंस्थानां च सङ्ख्यावर्धने अस्माकं सम्भूय प्रयत्नः अपेक्षितः। तेन साकम् अस्माकं परम्परागते ज्ञाने विज्ञानेषु च उपयोगीनि यानि तत्त्वानि सन्ति तानि प्रकाशं नीत्वा सर्वलोकोपकाराय उपयोक्तव्यानि च। विदेशेषु अपि बहवः जनाः सन्ति येषाम् तादृशविषयेषु रुचिः अस्ति। बहुषु विदेशराष्ट्रेषु इदानीम् अपि संस्कृतप्रचारकार्यम् अस्ति। तदपि बहुगुणं करणीयम् ।


     संस्कृतसेवकेषु परस्परविश्वासस्य सहयोगस्य च वातावरणम् अवश्यं निर्मातव्यम्। इदानीं मम प्रतिभाति कानिचन संघटनानि अन्यानि सदृशानि संघटनानि द्वेषस्य दृष्ट्या पश्यन्ति। समानमेव संस्कृतकार्यं कुर्वतां मध्ये द्वेषस्य कः अवकाशः। यदि किञ्चित् संघटनं केवलं कागदे एव अस्ति अध्यक्षादिपदाभिमानार्थम् अथवा किञ्चित् संघटनं देशविरोधि समाजविरोधि वा कार्यं करोति तर्हि तत् संघटनं निश्चयेन विरोद्धव्यम्। तद्भिन्नानां सहयोगेन अस्माकमेव बलं वर्धिष्यते, संस्कृतस्य पुरोगति अपि भविष्यति ।


दुरदर्शनादिमाध्यमानां दायित्वम्

      आधुनिककाले सम्भाषणान्दोलनेन संस्कृतभाषायाः प्रचारः महता प्रमाणेन प्रवृद्धम् इति विषये सन्देहः एव नास्ति। भाषाशुद्धे: स्तरः अधस्तात् गच्छति इति दृश्यते। प्रादेशिकानां भाषाणाम् प्रभावेण भारते एकैकस्मिन् राज्ये कदाचित् तत्रत्य लघुप्रदेशे अपि वर्णानाम् उच्चारणं विकृतं भवति। मम युवावस्थायाम् एवम् एव नास्ति इति मम अनुभवः। तदानीं पञ्जाबस्था वा केरळीयः वा पश्चिमबङ्गस्थः वा उत्कलस्था वा संस्कृतोच्चारणं यथावत् सम्यक् करोति स्म। एकस्मिन् अवसरे पञ्चाशतः वर्षेभ्यः पूर्वं पञ्चाबविश्वविद्यालयस्य संस्कृतप्राचार्यः यज्ञदत्तशर्मा महोदयः मां यदुक्तवान् तद् इदानीमपि अहं स्मरामि- ''विदेशियभाषाणां प्रभावेण अस्माकम् उत्तरभारतीय-भाषासु पदानाम् अन्ते, क्वचित् मध्ये च अकारः लुप्तः। शषसानाम् उच्चारणं मिश्रं भवति। अस्माकं भाग्यं मम भवतः च संस्कृतम् अविष्कृतम्" इति अधुना अहं पश्यामि उत्तरभारते बहवः महान्तः अपि ञ् ङ् इत्यनयोः उच्चारणं न जानन्ति। भारते क्वचित् क्वचित् ऋ इत्यस्य उच्चारणम् अज्ञानेन केचित् रु इति कुर्वन्ति केचित् भाषा इत्यस्य भासा इति उच्चारणं कुर्वन्ति। केरळराज्यस्य उत्तरभागे पण्डिताः अपि तस्मात् प्रचोदयात् इत्यादीनां स्थाने तस्माल्, प्रचोदयाल् इत्यादि वदन्ति। प्रादेशिकभेदे दोषो नास्ति इति वादं कुर्वन्तः वा अन्ये अज्ञानेन वा प्रादेशिकतया प्रसिद्धेषु अर्थेषु संस्कृतशब्दान् प्रयुञ्जते यदि दूरदर्शने वार्तादीनां प्रस्तोताराः तथा आकाशवाण्याम् अवतारकाश्च उच्चारणदृष्ट्या व्याकरणदृष्ट्या च शुद्धान् सरलान् शब्दान् प्रयुञ्जीरन् तर्हि प्रमाणभूतं संस्कृतम्) सर्वत्र समानरूपतया प्रसरेत्। यथा मम बाल्यकाले जनाः बी.बी.सी. इत्यस्य आङ्गलं "मानकम् आङ्गलम्” इति स्वीकृतवन्तः तथा भारतीयाः अपि मानकं संस्कृतम् अङ्गीकरिष्यन्ति। दूरदर्शनस्य आकाशवाण्याः वार्तादीनाम् अवतारकाः कुशलैः अखिलभारतीयदृष्टिमद्भिः संस्कृताभिज्ञैः प्रशिक्षणीयाः। सहस्रेभ्यः वर्षेभ्यः पूर्वं जाता संस्कृतभाषा इदानीम् अपि जनैः अवगम्यमाना जीवति। सा ऊर्जस्वला चिरं जीव्यात्।

संस्कृतेन संस्कृतिस्तया च राष्ट्रनिर्मितिः ॥