Monday 17 April 2023

 राष्ट्र-वन्दना 

-कविता

-बलदेवनन्द-सागरः

विश्व-वन्द्यं सुरम्यं परं भारतम्, नौमि पुण्यप्रदं पावनं भारतम् |

सर्व-सन्देह-सन्दोह-संहारकम् स्तौमि माङ्गल्य-मानादरैः भूरिशः॥१॥

अद्भुतं भारतं कल्पितं वै पुरा, पूर्वजैरत्र भावि-प्रजानां कृते।
मित्र ! संश्रूयतां नूतनं जीवनम् दर्शितं भारती-सेवकैः सन्ततम्॥२॥

यत्र सर्वे जनाः सादरं निर्भयम्, जीवनं यापयेयुः विना कल्मषम्।

नापराधो भवेत् कुत्रचित् सज्जने, दुर्जने सन्मतिः सर्वदा सम्भवेत् ॥३॥

सामरस्यादि-भावैः भवेत् साधितम्, विश्व-बन्धुत्व-सन्देशकैः पावितम्।
शान्तिरेधीति- मन्त्रैः समाराधितम्, सम्विधानाधिकारैश्च सम्वर्धितम् ॥४॥

प्राविधीत्यादि-संस्कार-शोभान्वितम्, अन्तरिक्षेऽनुसन्धान-कार्यादिभिः।
ज्ञान-विज्ञान-साहित्य-संसाधनैः, भक्ति-शक्ति-द्वयेनोन्नतिं प्राप्नुयात्॥५॥ 


विग्रहे निग्रहों नाग्रहः संग्रहे यत्र सामाजिकाः राष्ट्र-कार्ये रताः।
लेखकाः बोधकाः शोधकाः शासकाः, ते च प्रामाणिकत्वं भजेरन् सदा॥६॥


प्रीति-रीति-प्रतीति-प्रमाणैः परम्, वेद-वाणी-वितानैः सदा साधितम्
शौर्य-धैर्यादि-भावैः मुदा भावितम्, सर्वदा स्त्रीकुलं रक्षितं सम्भवेत्॥७॥


बालवृन्दं समस्तं विकासं व्रजेत्, प्रोन्नतं शिक्षणं स्याच्च यूनां कृते।
सर्व-धर्मान्वितौ सत्वरं तत्परम्, नागरः सागरः सम्भवेत् सर्वदा॥८॥

----------------------

Monday 3 April 2023

 पद्मम्

चौ दुन्यि  (Zhou Dunyi 1017-1073 ) चीनकविः । 

अनुवादक:- महामहोपाध्याय गो. गङ्गाधरनायरः

बहूनि पुष्पाणि जले स्थले च 

रोहन्ति सर्वाणि प्रियाणि नूनम् । 

जिन्- राजवंशे बत लब्धजन्मा 

ताओयुवान् मिङ् युवराजवर्यः ॥1॥ 

सेवन्तिपुष्पे नितरां हि प्रीतो 

नान्यत्सुमं कामयते स्म प्रीत्या । 

ताङ् वंशकालात् परमत्र सर्वे 

पियोनिपुष्पे रुचिमावहन्ति ॥2॥

एकान्ततः पङ्कजमात्रकामी 

भवाम्यहं राजकुमारभिन्नः । 

पङ्कात्तु निष्क्रान्तमिदं तु पुष्पं 

निष्पङ्कमास्ते स्नपितं जलेन ॥3॥ 


दुष्काममेतन्न करोति चित्ते 

मनोहरं तिष्ठति शोभते च । 

एतस्य वृन्तं तु ऋजु स्वयं त-

च्छून्यान्तरङ्गं न च तत्र पङ्कः ॥ 4 ॥ 

न तस्य शाखास्ति न च प्ररोहः 

सन्तिष्ठते पूर्णशुचि स्वयं तु । 

प्रसारयत् सौरभमेव पुष्पं 

समन्ततः सर्वहितं मनोज्ञम् ॥5॥ 

हस्तेन तद् लालयितुं न शक्यं 

दूरे स्थितास्तु प्रवदेम शंसाम् । 

सेवन्तिका पुष्पमहो मतं मे 

सन्न्यासि पुष्पेष्विति नात्र शङ्का ॥6॥ 

पियोनिपुष्पं खलु राजकीय-

माढ्यं च तद्वद् धनिनां प्रियं च । 

पद्मं तु पुष्पं सुजनः सुमेषु 

मदन्य एतर्हि नु कस्तदिच्छेत् ॥7॥ 


ताओ कुमारात् परमस्ति नैव 

सेवन्तिकायां रतमानसोऽन्यः 

मत्तः परः कोऽस्ति सरोजपुष्ये 

सुप्रीतिमान् वस्तुत एव देशे ॥8॥ 

पियोनिपुष्पाणि समस्तलोके 

समाद्रियन्ते न हि तत्र शङ्का ।

इतःपरं किं न वदामि कष्टं 

सेवन्तिका कुत्र च कुत्र पद्मम् ॥9॥ 

    [भारते इव चीनमहाराज्येऽपि प्राचीनकाले धर्माश्रिता जीवनचर्या एव आद्रियते स्म। चीनदार्शनिक: कोङ्त्सिये (Confucius) महोदय: एव चीनसंस्कृतौ धार्मिकतायाः प्रतिष्ठायां कारणभूतः गुरुः। तस्य उपदेशेषु महता आदरेण पण्डितः कविः दार्शनिकः चौ दुन्यिमहोदयः नव्यकोङ्त्सियेदर्शनं प्रचार्य जनानां जीवनवृत्ते सामाजिकव्यवहारे च धार्मिकनीतिं पुनः स्थापयितुं महान्तं प्रयासं कृतवान्। चीनसंस्कृतौ धार्मिकतायाः चिह्नं भवति पद्मपुष्पम्। धार्मिकतायाः अपचये वैयक्तिकदुर्वृत्तं यद् व्याप्रोति तद् जनप्रियं स्यात् न तु जनहितम्। एषा कविता तु अन्यापदेशरीत्या सांस्कृतिकापचयं सूचयति।)