Monday, 27 August 2018

‘मनोगतम्’ – ४७  ‘मन की बात’
(47 वीं कड़ी)            प्रसारणतिथि: - २६-०८-२०१८
 [“मन की बात”- “मनोगतम्” - इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]                                 
                             - भाषान्तर-कर्ता -  डॉ.बलदेवानन्द-सागरः 
     मम प्रियाः देशवासिनः!  नमस्कारः | अद्य अशेष-देशः रक्षाबंधन-पर्व आयोजयति| अस्मिन्  पावन-पर्वणि सर्वेभ्योsपि देशवासिभ्यः भूरिशो मङ्गल-कामनाः | रक्षाबंधन-पर्व नाम भगिनी-भ्रात्रोः पारस्परिकं         प्रेम्णः विश्वासस्य प्रतीक-रूपम् | पर्वेदं सहस्राब्देभ्यः सामाजिक-सौहार्दस्य बृहदुदाहरणत्वेनापि प्रवर्तते | देशस्य इतिहासः अनेकाभिः तादृशीभिः कथाभिः सम्भरितोsस्ति, यस्यां हि एकेनैव रक्षासूत्रेण पृथक्-पृथक्-राज्य-द्वयस्य वा धर्म-द्वयस्य जनाः विश्वास-सूत्रेण संयुक्तीकृताः |  सद्यः कतिपय-दिनानन्तरं जन्माष्टमी-पर्व  अपि आगन्तास्स्ति | अशेष-परिवेशः ‘हाथी, घोड़ा, पालकी – जय कन्हैयालाल की, गोविन्दा-गोविन्दा’ इति जयघोषैः गुञ्जायमानो भविता | भगवतः कृष्णस्य रङ्गेण रञ्जितानां समुल्लास-सन्दोहवतां सहजानन्दः किञ्चित् पृथगेव भवति | देशस्य अनेकेषु कोणेषु विशेषेण च, महाराष्ट्रे दही-हाँडी-इति दधि-घटानां सज्जतां क्रियमाणाः अस्मदीयाः युवानो भवेयुः | सर्वेषामपि देशवासिनां कृते रक्षाबन्धन-जन्माष्टमी-पर्वणोः हार्दिक्यः शुभकामनाः | 
    प्रधानमन्त्रि-महोदय ! नमस्कारः | अहं चिन्मयी, बेंगलुरु-नगरे विजयभारती-विद्यालये दशम-कक्ष्यायां पठामि | अद्य संस्कृत-दिनमस्ति | संस्कृतं सरलम् इति सर्वे वदन्ति | वयमत्र बहवः संस्कृत-सम्भाषणमपि कुर्मः | अतः संस्कृत-विषये

Wednesday, 15 August 2018

डा. प्रियव्रतमिश्रविरचितम्-  
          अहङ्कारशतकम्    ( ग्रन्थपरिचयः)
DR. Dhanya P V
 Article  No: 20180815 
 ग्रन्थपरिचयः
डा. धन्या पि वि
पोस्ट् डोक्टरल् फ़ेल्लो
राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपति।

     ह जगतीतले संस्कृतवाङ्मयम् अनन्यसाधारणं वैशेष्यं समश्नुत। सुरभारत्याः संस्कृतसरस्वत्याः अलङ्कारभूतानि सन्ति बहूनि काव्यतल्लजानि । यद्यपि गीर्वाण्या वाण्या तावदसङ्ख्यातानि सन्ति काव्यानि तथापि तत्र अनन्यसाधारणोऽयं डा. प्रियव्रतमिश्रविरचितः ग्रन्थः "अहङ्कारशतकम्"। ग्रन्थकारोऽयं बिहारराज्यस्थ दरभङ्गाप्रदेशस्थ श्रीरामसुन्दरसंस्कृतविश्वविद्याप्रतिष्ठाने, व्याकरणविभागे सहायकाचार्यत्वेन वृत्तिनिरतः। सुरभारतीसमाराधनैकव्रतस्य अस्य  कारिकामुखः, प्रयुक्ताख्यातमञ्जरी, उमराव जान् इत्यादीनि पुस्तकानि एवं चाटुश्लोक-शास्त्रलेख-कवितादीनि हृद्यानि च अनेकानि सन्ति। राष्ट्रियसंस्कृतसंस्थानं, राजीवगान्धीपरिसरः, शृङ्गेरीद्वारा "लेखविशारदः" अपि च दिल्लीसंस्कृत अकादमीद्वारा "नवोदितकविः" इत्यादि उपाधिभाजः डा. प्रियव्रतमिश्रः आधुनिकसंस्कृतकविषु अनन्यस्थानं समावहति।

       आधुनिकाः मानवाः आत्मानं श्रेष्ठं मन्यन्ते। उक्तं च भगवद्गीतायां "अहङ्कारविमूढात्मा कर्ताहमिति मन्यते " इति । तादृश अहङ्कारपूरितजगतः चित्रणं प्रददाति कविः स्वीयकाव्ये अहङ्कारशतके। एवं च
"असारे संसारे सकलविषयो नश्वरपरो
दिवारात्रो लोको जननमिह मृत्युं च लभते।
न किञ्चिन्नित्यं वै न खलु मनुजो बुध्यति पुनः
मदोन्मत्तो लोकस्त्वहमहमिकायां विहरते॥ "(अहङ्कारशतकम्)

वेदान्तपरिप्लुतः सन्नपि अहङ्कारे  मानवाः विहरन्ति इति सत्यं कविः स्मारयति।  अहङ्कारजन्यक्लेशान् ज्ञात्वापि लोकः अहङ्करोतीति कविवचनं चिन्तोद्वीपिकैव।  मदान्धकारस्य तीक्ष्णावस्थाम् एवं प्रदर्शयति

"मदोन्मत्तावस्था ननु च मनुजं प्रेरयति भोः!
तदा नासौ धूर्तो निशमयति कस्यापि वचनम्।
त्वहं जाग्रस्त्येनं न हि खलु विजानाति पुरुषो
मदोन्मत्तो लोकस्त्वहमहमिकयां विहरते ॥"(अहङ्कारशतकम्) इति ।

    तथा काव्ये निगदितानां व्यावहारिकतत्वानां वाचनावसरे काव्यास्वादकस्य, कवेः च समन्वयो बहुत्र भवति। कवेः श्लोकरचनाशैली हृद्या एवं सर्वास्वाद्ययुक्ता। अपि च श्लोकानां हिन्दी-आङ्गलभाषाभावार्थाः संस्कृतानभिज्ञानपि सुरभारतीकामुकान्, सुरवाण्याः उपसेवने समायोजयन्ति इत्यत्र नास्ति शङ्का। ’शिखरिणी’वृत्तम् (रसैरुद्रैश्छिन्ना यमनसभलागः शिखरिणी) अनुज्ञातः कविः आशतकम् अमुं वृत्तं स्व्यकरोत्। "This meter (शिखरिणी) is most suitable for the expression of strong feeling." इति टि.के रामचन्द्र अय्यर्, ’लघुवृत्तरत्नाकरे’ अभिप्रैति। अस्य वचनस्य सार्थकता अहङ्कारशतकस्य पठनेनोपजायते। अलङ्काराणां प्रयोगेपि कविः स्वीय काव्योत्कर्षता बहुत्र व्यादिशति।अस्मिन् ग्रन्थे प्रतिश्लोकः मुक्तकवत् भाति तथापि श्लोकधारा सुबद्धा। वाचकेभ्य कविः प्रायोगिकवेदान्तस्य प्रयोगस्यावश्यकता, मानवस्य तथा समाजस्य अहङ्कारोन्मत्तता च प्रकृतार्थे प्रयच्छति।

     अपायोपेतस्य अहङ्कारस्य अतिरेकः लोके सर्वत्र दरीदृश्यते। अहङ्कारः क्षणभङ्गुरस्यास्य जीवनस्य परमलक्ष्यार्थं, ईश्वरप्राप्त्यर्थं भवेत् इति समाख्यापयति काव्यकुसुमैः कविः। शतश्लोकान्वितस्यास्य काव्यस्य अहङ्कारशतकस्य काव्यास्वाद्यतां सहृदयेभ्यः सुचारुरीत्या प्रददाति नवदेहलीस्थ मान्यताप्रकाशनं नाम पुस्तकप्रकाशकसंस्था। ईदृशकाव्यकुसुमैः भूयो भूयो सेव्यमाना भवतु  संस्कृतसरस्वतीत्याशास्महे।

Monday, 30 July 2018

मनोगतम् – ४६ 
‘मन की बात’ (4६वीं कड़ी) प्रसारण तिथि: 29.07.2018
[“मन की बात”- “मनोगतम्” - इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]                               
                     - भाषान्तर-कर्ता -  बलदेवानन्द-सागरः
          मम प्रियाः देशवासिनः, नमस्कारः ! एतेषु दिनेषु अनेकेभ्यः स्थानेभ्यः समीचीनायाः वर्षायाः वृत्तानि अधिगम्यन्ते | कुत्रचित्तु समधिकायाः वर्षायाः कारणात् चिन्तायाः अपि वृत्तानि अवाप्यन्ते| अपि च, केषुचित् स्थानेषु साम्प्रतमपि जनाः वर्षां प्रतीक्षन्ते| भारतस्य विशालता, विविधता च स्तः, कदाचित् वर्षापि रुचित्वम् अरुचित्वं च प्रदर्शयति, परन्तु कथं वयमत्र वर्षायाः दोषम् अभिमन्यामहे?  मनुष्यः एवास्ति यो हि प्रकृत्या साकं संघर्षस्य मार्गं अवाचिनोत् | अस्य परिणामत्वेन एव कदाचित् प्रकृतिरेषा रुष्टा भवति |  तथा च, एतस्मादेव कारणात् अस्माकं सर्वेषामपि दायित्वं भवति यत् वयं प्रकृति-प्रेमिणः भवेम, वयं प्रकृति-रक्षकाः स्याम, वयं  प्रकृतेः सम्वर्धकाश्च भवेम, एवमाचरिते सति यानि प्रकृतिदत्त-वस्तूनि सन्ति तेषु स्वतः एव सन्तोलनं सन्धारितं भवति |

       विगतेषु दिनेषु तादृशी एवैका प्राकृतिका- पदायाः घटना अशेष-विश्वस्य ध्यानमाकर्षयत्,  मानव-मनांसि च प्राकम्पयत् | भवद्भिः सर्वैरपि दृश्यवाहिन्यां दृष्टं स्यात्, थाईलैंड-देशे द्वादशानां किशोराणां पाद-कन्दुक-क्रीडकानां वृन्दं, तेषां च प्रशिक्षकः भ्रमणार्थं गुहायां गताः |  तत्र प्रायेण गुहायां प्रवेशार्थं ततः निर्गमनार्थं च, कतिपय-होरावधिकः कालः अपेक्षते | परञ्च तस्मिन् दिने दैवेन किमपि अन्यदेव निर्णीतमासीत् | यदा ते गुहायाः सुबहु आभ्यन्तरं प्रविष्टाः –  सहसा मूसलाधार-वृष्टिकारणात् गुहायाः उपद्वारम् अतिमात्रम् जलं सञ्चितं जातम् | तेषां बहिः निर्गमनस्य मार्गः अवरुद्धो जातः |  न कश्चन अपरो मार्गः लब्धः एतस्मात् ते गुहान्तर्वर्तिनि एकस्मिन् लघु-केदारे अवस्थिताः –  तच्च न केवलं एक-द्वि-दिवसार्थं –  अष्टादश-दिन-पर्यन्तम् ! किं भवन्तः कल्पयितुं शक्नुवन्ति यत् किशोरावस्थायां यदा पुरतः एव मृत्युः अवलोक्यते तदा प्रतिपलं युगायते इति ! एकतः ते संकट-प्रतीकारं कुर्वन्तः आसन्,  अपरतश्च अखिलेsपि विश्वे मानवता एकीभूय ईश्वर- दत्तान् मानवीय-गुणान् प्रकटयति स्म | विश्वस्मिन् विश्वे जनाः एतान् बालकान् सुरक्षितान् एव बहिः निष्कासयितुं प्रार्थना-निरताः आसन् |     

        एतदवगन्तुं सर्वविधोsपि प्रयासः विहितः यत् बालकाः सन्ति कुत्रेति? कस्यां दशायाञ्च वर्तन्ते?  केन प्रकारेण ते बहिः निष्कासयितुं शक्यन्ते? यदि सुरक्षाकार्यं काले एव न सञ्जातं चेत् तर्हि प्रावृट्-ऋतौ कतिपय-मास-पर्यन्तं तेषां बहिः निष्कासनं शक्यं नाभविष्यत् | अस्तु ! यदा शुभ-वृत्तं प्राप्तं तदा अशेष-विश्वं शान्तिमन्वभवत्, सन्तोषोsजायत, परञ्च पूर्णमेनं घटनाक्रमम् अपरेण मन्तव्येन अपि विचारयितुं मम मानसमभिलषति यत् कृत्स्नमपि सुरक्षा-साहाय्य-कार्यं केन प्रकारेण प्रचालितम्? प्रत्येकमपि स्तरे यो दायित्वानुभवः जातः सोsद्भुतः आसीत् | सर्वेsपि,  भवतु नाम तत् प्रशासनं वा एतेषाम् निरुद्धानां बालानां पितरौ,  भवन्तु वा तेषां कुटुम्ब-जनाः वा सञ्चार-माध्यमानि, भवेद्वा सः देशस्य नागरिकः –  प्रत्येकमपि शान्तेः धैर्यस्य च अद्भुताचरणम् अकरोत् | सर्वेsपि ‘संगछध्वं संवदध्व’मिति कृत्वा समूह-भावेन एकीभूय स्वकार्येsस्मिन् संलग्नाः आसन् |  सर्वेषामपि संयमितो व्यवहारः! – अवगच्छामि यत् शिक्षणस्य विषयोsयम्,  अवगमनस्य पाठ-सदृशः| एवं नासीत् यत्तेषाम् पितरौ दुःखितौ नाभविष्यताम्, एवमपि नासीत् यत् जनन्याः अक्ष्णोः अश्रूणि नैव निरगच्छन्, परन्तु धैर्यम्, संयमः,  सम्पूर्णस्यापि समाजस्य शान्तचित्त-व्यवहारः – एतत्सर्वमेव सर्वेषामपि अस्माकं कृते शिक्षणीयं वर्त्तते |  अस्मिन् पूर्णेsपि सुरक्षा-साहाय्य-कार्ये थाईलैंडस्य नौसेनायाः अन्यतमः सैनिकः हुतात्मः सञ्जातः | कृत्स्नमपि विश्वम् आश्चर्यचकितमस्ति यत् एतादृशीषु कठिन-परिस्थितिषु सतीषु जलपूरितायाम् अन्धकार-पूर्णायां च गुहायां एतावता साहसेन धैर्येण च साकं ते निजाशां नैव त्यक्तवन्तः | एतत्तु नूनं प्रमाणयति यत् मानवता यदा सम्भूय पुरो याति,  अद्भुत-वस्तूनि सम्पद्यन्ते | केवलमिदमेव अवधेयं यद् वयं शान्त-स्थिर-मनसा निजलक्ष्यमादध्याम,  तदर्थं कार्यनिरताः च भवेम|

       विगतेषु दिनेषु अस्माकं देशस्य प्रियः कविः नीरजः अस्मान् विहाय प्रयातः|नीरज-कवेः अनन्य-तमा विशेषतासीत् - आशा, विश्वासः, दृढसंकल्पः,

Wednesday, 18 July 2018

।। महाकालज्योतिर्लिङ्गकथा।।
(शिवपुराणान्तर्गतकथा)
---- सुनीश् नम्बूतिरि


      पुराणवर्णितानि द्वादशज्योतिर्लिङ्गानि भारते अद्यापि प्रसिद्धानि। तेषु तृतीयम् उज्जयिन्यां महाकालज्योतिर्लिङ्गम् इति सुप्रसिद्धं वर्तते। 

       पुरा एव अवन्ती नगरी शिवभक्तानां बाहुल्येन प्रसिद्धा पावनी च आसीत्। तत्र परमशैव एकः वेदनिष्ठायुक्तो ब्राह्मणः पार्थिवलिङ्गस्य नित्यम् अर्चनं करोति स्म। परमज्ञानी सः ब्राह्मणः शरीरयात्रावसाने शिवलोकं जगाम। तस्य महात्मनः चत्वारः पुत्राः देवप्रियः प्रियमेधः सुकृतः धर्मवाही ते च पितसदृशा: परमशिवभक्ता एवासन्। जनकेन अनुष्ठितं शिवपूजनं तेऽपि भक्त्या अनुष्ठानं कृतवन्तः। अनेन तेषां कीर्तिः सर्वत्र प्रसृता जाता। एवम् अवन्ती च ब्रह्मतेजोमयी जाता।। 


     अथैकदा ब्रह्मदेवात् वरं सम्पाद्य दूषणः नामकः एको महासुर: भूलोके धर्मक्षयाय प्रयत्नं कुर्वन् आसीत्। धर्मतेजोमयी नगरी अवन्ती इति श्रुत्वा अवन्त्याः विषये तस्य मनसि आश्चर्यम् जातम्। अनेकेषां महापराक्रमशालिनां वधं कृतवानहं कथं शरीरबलहीनाः ब्राह्मणाः तत्र अधुनाऽपि निर्भयेन वैदिकधर्मपालने शक्ताः भवन्ति इति चिन्ता तं बाधते स्म। सैन्येन सह अवन्त्याः नाशं कर्तुं निश्चितवान् सो महाखलः तत्र गत्वा साधुजनानां हननम् आरब्धवान्।।
भयभीताः जनाः आत्मरक्षणार्थं शिवार्चनतत्पराणां ब्राह्मणपुत्राणां समीपं गतवन्तः। शिवे अचञ्चलां भक्तिं कुर्वन्तः ते सर्वे नामसङ्गीर्त्तनं कृत्वा पार्थिवलिङ्गं परितः उपविष्टवन्तः। यथा दुष्टः दूषणासुर एतेषां शिवभक्तानां वधार्थम् आक्रोशं कृतवान् तावता महता शब्देन पार्थिवलिङ्गस्य स्थाने एको गर्तो जातः ततः विकटरूपधारी महाकाल इति ख्यातो  भगवान् परमेश्वर आविर्भूतः। सूर्योदयेन यथा अन्धकारस्य सम्पूर्णः नाशः जायते तथा दुष्टराक्षसानां नाशो जातः। क्षणाभ्यन्तरे दुष्टानां भस्मीकरणं परमात्माना महाकालेन कृतम्। आकाशात् हरिब्रह्मादयदेवाः पुष्पवृष्टिं चक्रुः। तदानीं द्विजाः विविधैः स्तोत्रैः शङ्करं नमस्कृत्य एवं प्रोक्तवन्तः।। 

महाकाल महादेव दुष्टदण्डकरप्रभो।
मुक्तिं प्रयच्छ नः शम्भो संसाराम्बुधितः शिव।।

अत्रैव लोकरक्षार्थं स्थातव्यं हि त्वया शिव।
स्वदर्शकान्नरान् शम्भो तारय त्वं सदा प्रभो।।

      तेषां भक्त्या प्रसन्नः भगवान् शिवः तेभ्यः मुक्तिं दत्त्वा तस्मिन्नेव गर्ते भक्तानां रक्षणार्थं विलयं गतवान् तदेव महाकालेश्वरस्य ज्योतिर्लिङ्गं जातम्। अद्यापि उज्जयिन्यां महाकालेश्वरस्य दर्शनादेव सर्वाभीष्टसिद्धिं पापनाशं तथा अन्ते शिवलोकञ्च प्राप्स्यन्ति इत्येव भक्तानां विश्वासः।। 

Monday, 16 July 2018


ऐतिहासिककाव्येषु आङ्गलसाम्राज्यम्।
डा. रोहिणी के.

Research Article  No: 20180716 

 अनुसन्धानाध्ययनम्
Dr. ROHINI K.
Guest Lecturer 
Dept. of Sanskrit
Sree Krishna college, Guruvayoor.


कैरलीभाषाया: व्यवस्थापक:, युगप्रभाव: केरलपाणिनि: इति नाम्ना प्रसिद्ध: ए. आर्. राजराजवर्मा महोदय:। अनेन विरचितमिदं काव्यं चरितमहाकाव्येषु अद्वितीयस्थानमर्हति। आङ्गलभारतचरित्रमेव वर्ण्यविषय:। अन्यचरितकाव्यापेक्षया आङ्गलसाम्राज्यस्य वर्णना नदीप्रवाहरूपेणैव भवति। आङ्गलभारतचरितं विशदरूपेण प्रतिपादित एका एव संस्कृतकृतिरस्ति आङ्गलसाम्राज्यम्।
लण्टन् नगरवर्णनया काव्यस्यास्य आरम्भ:। ‘ब्रिटीष् ईस्ट् इन्ट्या कम्पनी’ नाम संघटनाया:, 1900 तम भारताङ्गलचरितं च अत्र विशदरूपेण प्रतिपादयति। काव्येस्मिन् 23 सर्गेषु 1900 श्लोका: सन्ति। आङ्गलसाम्राज्ये 1911 श्लोका: सन्ति, किन्तु 11 श्लोका: कवि: तस्य एव ‘पञ्चाशत्पूर्तिपञ्चाशिका’ नामक काव्यात् स्वीकृता: भवन्ति। मातुल: ‘केरलकालिदास:’ इति प्रथित: केरलवर्मा वलियकोयितम्पुरान् महाभागस्य निर्देशानुसारमेव काव्यस्यास्य रचना कृता इति 1897 जूण् मासस्य दैनिक्यां लिखितमासीत्। ग्रन्थस्य अवतारिका ए. शेषय्या शास्त्रिमहोदयेन, लघुटिप्पणी टि. गणपतिशास्त्रिणा च लिखितं वर्तते। 1901 तमे वर्षे ग्रन्थस्यास्य प्रकाशनमभवत्। काव्येस्मिन् स्थल-कथापात्र-नदीनां नामानि स्थूललिप्या लिखिता वर्तते। प्रत्येकपुटस्य वामभागे तत्र वर्णितमुख्यविषयस्य वर्षस्य च विवरणमपि दत्तमस्ति।
अस्ति प्रशस्तेष्वतलान्तिकाब्धि-
क्षिप्तेषु विष्वक्पुरमाङ्गलेषु
तिंसा नदीतीरवतंसभूतं
भूमण्डनं लण्टननामधेयम्।।22 (आ. सा. 1/1)
एतेन श्लोकेन लण्टन् नगरस्य वर्णनया ग्रन्थारम्भ: भवति। कुमारसभ्मवस्य शैली एव अत्र प्रयुक्त: इति एतेन काव्येन ज्ञायते। प्रथमसर्गस्य नाम इन्ट्याप्रवेश: इत्यस्ति। काव्येस्मिन् 29 छन्दसां प्रयोग: कविना कृत:।
‘आद्यचरितानुवर्णना’ नामकस्य द्वितीयसर्गस्य 77 श्लोकेषु भारते आर्याणाम् आगमनकालत: मुगलचक्रवर्तीनां शासनपर्यन्तविस्तृतकालस्य रूपरेखा कृता वर्तते। क्लैव् वर्यस्य नायकत्वेन दक्षिणभारते आङ्गलानाम् आधिपत्यस्य शाक्तीकरणमेव ‘कर्णाटकास्कन्दनं’ नामके तृतीयसर्गे प्रतिपाद्यविषय:। चतुर्थसर्गस्य ‘परङ्गिनिष्कासनम्’ इति नाम अन्वर्थमेव। भारते फ्रञ्च् आधिपत्यस्य पतनमेव अस्मिन् सर्गे प्रतिपाद्यते। ‘कालगर्तरात्रिवृत्तम्’ इति पञ्चमसर्गस्य नाम, वङ्गविजय: एव षष्ठसर्गस्य नाम। बंगाल् कलापविवरणं तथा बंगाल् गवर्णर् पदव्यां क्लैव् वर्यस्य अवरोधनम् इत्यादय: सप्तमे सर्गे वर्णिता:। अष्टमे तु वारन्हेस्टिङ् वर्यस्य भरणपरिष्कार: रेगुलेटिंग् आक्ट्, पिट् वर्यस्य इन्ट्या आक्ट् इत्यादय: विषया: प्रतिपादिता:। नवमे सर्गे मराठाचरितं, दशमे मैसूर् चरितं च उपवर्णितम्। अनन्तरसर्गत्रये तथा चतुर्दशसर्गस्य पञ्चविंशतिश्लोकपर्यन्तं टिप्पुसुल्तान् राज्ञ: वर्णना च भवति। चतुर्दशसर्गस्य शिष्टश्लोकै: वेल्लस्लीप्रभो: शासनवर्णना कृता वर्तते। पञ्चदश सर्गे मरात्ताराज्ञां पराजय:, षोडशसर्गे ब्रिटीष् शासकै: विहितशासनक्रम: चित्रित:। मध्यभारतोधृति: च सप्तदशसर्गे:, आम्हेस्ट् बेन्टिक् आक्लन्ट् इत्यादयानां भरणाधिपानां भरणक्रम: अष्टादशे सर्गे च उपवर्णित:। डेल्हौसे: नयतन्त्रै: जायमानं सिक् पतनमेव नवदशसर्गस्य प्रतिपाद्यविषय:। डेल्हौसी प्रभो: रेल् व्यवस्था, पत्रालयव्यवस्था, विद्याभ्यासपरिष्कार: च विंशे सर्गे प्रतिपादित:। प्रथमस्वातन्त्र्यसंग्रामवर्णना एव महासमुप्पिञ्चिलं इत्यस्मिन् एकविंशे अध्याये वर्ण्यते। राजश्रीपरिग्रहमिति द्वाविंशसर्गस्य नाम। यद्यपि आङ्गलसाम्राज्यस्थापनमिति काव्यस्येतिवृत्तम् एषु अध्यायेषु समाप्तं याति, तथापि विक्टोरिया राज्ञ्या: भरणस्वीकारोद्घोष: तत्कालीनभरणक्रम: इत्यादि विषयान् प्रवक्तुं साम्राज्यसिद्धिरिति त्रयोविंशसर्गस्य विनियोग: कविना विहितं वर्तते।
      विषयदृष्ट्या आङ्गलशासनप्रशंसनमेव कवे: मुख्यलक्ष्यमित्यत: कालिकप्रसक्तिरेव वर्तते। रचनाशैल्या: मनोहारितया ऐतिहासिकप्रधानतया च आङ्गलसाम्राज्यमिति अस्य काव्यस्य महत्तमं स्थानं चरितकाव्यप्रस्थाने वर्तते इत्यत्र नास्ति सन्देह:।
 गज्जलिका          कविता

-अंकित शर्मा 'इषुप्रिय'

का हृदि आगच्छ, विक्षुब्ध करोति माम्।
का स्मृत्यां विहरन् सति, स्तम्भयति मम गाम्।
पिबन् सुधां प्रेमस्य, तथाप्यतृप्तोऽहम्।
दग्धोरस्य व्यथामथ, वदतु वदामि काम्।
अंतस्थ तिमिरस्य ,शरद्चन्द्रवत् या।
करोति प्रीत्या नाशं दृष्ट्यां वासं याम्।
सुरभिर्श्वासे श्वासे रोमे रोमे स्पर्शं।
पश्यामि सर्वत्र खञ्जननयनां ताम्।
वचने वार्तालापे कार्ये यस्या वृत्ति।
नात्मनः बोधं मे सर्वं हि तस्याम्।
सरितावन्मम हृदयं नेत्रसागरे याति।
यौवनजलेऽभिषिक्ता मे प्रत्यावस्थां।
मोहाधरयोः च लटपाशे सम्बिध्दं।
मुक्तिर्लभामि न कष्टमिदं मधुरम्।

Wednesday, 20 June 2018

 जपः                                                 कविता
                                                        -डा गदाधर त्रिपाठी
अव्यक्तस्यावतारा अभवन् समये समये सदा सदा।
मनुष्याणां कल्याणायाधारो नाम्नस्तदा तदा ।।
ध्वनिरीशः स आद्यः हि ऊॅ शब्देन व्याकृतश्च वै।
 रोगान्मुक्ति:  शान्तिश्चाशु प्राप्नोति नरजीवने।।
शयनात् पूर्वं रात्रौ वा प्रातरुत्थाय वा पुनः।
अंगुष्ठमध्यमयोर्मध्ये मालां गृह्णातु सर्वदा।।
आवश्यकी मालाशुद्धिः शरीरशुद्धिस्तथैव च वै।
गुरुं गणपतिं वन्दित्वा सर्वदा जपं कुर्यात् सर्वथा।।
श्रद्धा यस्मिन् देवे हि सा माला ग्राह्या सदा।
संकल्पसहिता निष्ठा पद्मासनञ्चासनम्।।
महिमा भगवतोर्नाम्नः सर्वत्रैव च गीयते।
मुक्तिः पापान्निश्चितास्ति जपतो नास्ति पातकम्।।

                               
 अक्षयतृतीया                                       

अक्षयो विधिसृष्टौ नास्ति खलु सर्वं कालभोजनम्।
अक्षयः काल एवास्ति स आगतस्तृतीया दिवसे यथा।।
आरम्भः सत्ययुगस्याद्य त्रेतायास्तथैव च वै।
ब्रह्मणः पुत्रो$क्षयकुमारश्चाद्यैव जातस्तथा।।
वस्त्रावतरणमद्यैव लज्जा चैव च रक्षिता।
सुदामाकृष्णयोर्मेलनमद्यैवाभवदाश्रमे।।
कपाटयोरुद्घाटनं बद्रीनाथस्याद्यैव भवति सर्वदा।
क्षेत्रे वृन्दावने$द्य पददर्शनं राधाकान्तस्य तथा हि वै।
यः कोष अपहृत आसीत् कुवेरेणाद्य प्राप्तश्च वै।
कौरवपाण्डवयोर्युद्धमद्यैव सम्पन्नतां जगाम हि खलु।।
अवतरितान्नपूर्णा वै धरायामस्मिन्दिने।
ऋषिणा परशुधरेणैव मण्डिता धरिणी तथा।।
तिथिरियं पावनी कथिता कार्याणि सिध्यन्ति सर्वदा।
तेनैव शुभकार्याणि सम्पादितानि भवन्ति च वै।।

                  --------------------------

Saturday, 2 June 2018

               गीतम्
तव  दर्शनं  मम  प्राणाधारं दुसह्यावकासं।
केलिस्मृत्येः नैव सम्भवं कुतोऽपि निकासं।
क्व   विस्मृत्य   गतस्तव   हृदयं  कृत्वाकुलं  माम्।
क्रन्दनमश्रुतमात्मानस्कृत  एति  न  दया     त्वाम्।
निशीथतिमिरमिवजीवनमभूतःनहि किंचित्प्रकाशं।
तव   दर्शनं   मम   प्राणाधारं   दुसह्यावकासं।।१।।
तन्नूपुरनादं      स्पर्शं    मृदु    हृद्याभास्यमानं।
चित्तान्तस्तव   तरन्सुवासं  सम्भवति  विक्षोभं।
प्राप्नोति   प्रतिदिनं   तद्प्रेमांकुरं  सतत्विकासं।
तव  दर्शनं  मम  प्राणाधारं दुसह्यावकासं।।२।।
स्मृत्यांके  द्वे  स्वप्नौ  तव   संरक्षितौ   मयि।
त्वत्विनायात् युगं एकाकिन् मे ह्यवसत्त्वयि।
प्रिययागच्छ   सामीप्ये  क्षयनात्पूर्वैव  श्वासं।
तव  दर्शनं  मम   प्राणाधारं   दुसह्यावकासं।
              अंकित शर्मा 'इषुप्रिय'
      रामपुर कला, सबलगढ,मुरैना(म.प्र.)
               पिनकोड-476229
              मो.- 8827040078

Sunday, 13 May 2018

राजा परिक्षीत्                                कथा
-सन्तु घोष्
          पुरा एकस्मिन् दिने वनविहारेण परिश्रान्तः सन् राजा परिक्षीत् महर्षेः शमीकस्य आश्रमं      प्राप्तवान् | परन्तु ऋषिः शमीकः तदा ध्याने निमग्नः आसीत् | राजाभिमानेन ध्यानमग्नं ऋषिं  दृष्ट्वा राजा रुष्टोऽभवत् | तदा राजा किमपि मनसि कृत्वा भूमौ पतितं मृतसर्पं महर्षेः शमीकस्य गण्डदेशे स्थापयित्वा स्वप्रासादं प्रतिगतवान् | एतस्मिन् क्षणे महर्षेः पुत्रः श्रृङ्गी तपःप्रभावेन सर्ववृत्तान्तं ज्ञात्वा शपितवान् – आगमिनि सप्तमे दिने मम पितुः गण्डे मृतसर्पं स्थापितवन्तं राजानं तक्षकः दङ्क्ष्यति |  एतत् शापवृत्तान्तं ज्ञात्वा सुलभशान्तः महर्षिः शमीकः पुत्राय शृङ्गिणे क्रुधित्वा अवदत् – भो पुत्र ! एवं शापकार्यं न कर्तव्यं भवता | वयं शमगुणप्रधानाः ऋषयः, सः परिक्षीत् अस्माकं राजा | राजा भगवत्सदृशः भवति | राजाऽपि स्वप्रासादं गत्वा चिन्तयति – अद्य मया महर्षिम् अपमानं कृत्वा दुष्कार्यमेकं कृतम् | तस्मात् दुष्कार्यात् मृत्युरपि श्र्येयः एतस्मिन् समये राजाऽपि शापवृत्तान्तं श्रुत्वा तत्क्षणादेव राज्यं परित्याज्य गङ्गातटं समागत्य महर्षिं वैयासखिं निवेदयति स्म – भो भगवन्! आगमिनि सप्तमे दिने मम मृत्युः भविष्यति |  येन केन प्रकारेण मां मृत्युभयात् रक्ष |   तदा महर्षिः शुकदेवः अवदत् राजन्! श्रीमद्भागवतमहापुराणं श्रृणोतु | भगवतां लीलाकथा श्रवणेन मृत्युभयं दूरीभूतं भविष्यति |  तस्मात् दिनात् आरभ्य अस्माकं जगति श्रीमद्भागवतमहापुराणसप्ताहयज्ञः प्रचलितोऽभवत् | एवं क्रमेण सप्तमदिनात् अन्ते राजा परिक्षीत् शापप्रभावेन अभयेन शरीरं परित्याज्य वैकुन्ठधामं प्राप्तवान्॥
--------------------------------------------------------------------

Thursday, 29 March 2018

 कृतयुगम्             ( कविता )   डा. गदाधर त्रिपाठी
अबाधितोऽस्ति कालो हि यद्यपि गणना भवति न वै।
स्थापनाय व्यवस्थाया: परिकल्पितानि युगानि च।।
विभाजनं यद्यपि च वेदेषु स्पष्टं नैव कृतञ्च वै।
स्मृतिषु च पुराणेषु स्पष्टरूपेण कालगणना कृताभवत्।।
दिवसोऽक्षयतृतीया हि खल्वादिदिवसश्च व्याकृतः।
ज्ञानं ध्यानं तपश्चरणं प्रमुखान्यासन् तदा हि वै।।
प्रतिष्ठा कर्मणासीत् कर्मणा च कृतकृत्यता।
तेनैवायं कृतयुगोऽस्ति सर्वे सत्पथगामिनः।।
चतुर्णामीशावताराणां पुराणेषु चर्चा कृता।
मत्स्यकूर्मवराहनृसिंहादयश्च ह्यासन् तेषु च वै।।
धर्मशास्त्रं मनोः रचितं प्रामाणिकमासीत्तदा हि वै।
तीर्थं पुष्करमासीत् प्रचलिता मुद्रा स्वर्णमयी तदा।।
प्रचलनं स्वर्णपात्राणां पूर्णं पुण्यं हि जीवने।
पापकर्मणामभावश्च कृतयुग आसीत् सर्वदा।।
आयु: सहस्रवर्षाणां मनुष्यस्यासीत्तदा हि वै।
लम्बमानं शरीरञ्च वै सन्तोषस्याधानं मुखम्।।
ब्राह्मणानां प्रतिष्ठा चासीद्धि कृतयुगे तथा।
विद्याया: प्रकाशश्चादरणीयोऽभवत्तदा।।
समाप्ते कलियुगे चैव कल्किर्भगवान् भविष्यति।
स्थापयिष्यति कृतयुगं सुखं प्राप्स्यन्ति मानवाः।।
कपिलमुनिः            कविता                     डा गदाधर त्रिपाठी

जातेयं कथं सृष्टिः को$स्याश्च सर्जको हि वै।
कानि सन्ति च तत्त्वानि जिज्ञासेयमादितः सदा।।
देवहूतिकर्दमयोः पुत्रो विधातुर्मनसा तदा।
आचार्यः सांख्यशास्त्रस्य च विष्णोरवतारो$यम्।।
कपिलवस्तुनामकं नगरमस्ति रत्नाकरतटे स्थितम्।
सगरपुत्रास्तु तत्रैव हि भस्मीभूतास्तदाभवन्।।
वेदेषु कर्मकाण्डस्य महिमासीद्वर्णितः।
सांख्यशास्त्रे तु ज्ञानस्य प्राधान्यमुपवर्णितम्।।
आसुरिरासीत् शिष्यस्तु कपिलस्य महात्मनः।
कृष्णेन कथितमासीत् सिद्धानां कपिलो मुनिः।
उपनिषदि स्वीकृत आत्मा स्वीकृत ईशो$पि च वै।
प्रकृतिश्च पुरुषश्चैव कपिलेन स्थापितौ तदा।।
रचयति प्रकृतिः पुरुषस्तु  साक्षी निस्पृहस्तथा।
रचनायां तु सृष्टौ हि नास्तीशस्य कामना।।
अज्ञानाद् बन्धनमस्ति ज्ञानं मुक्तेर्भावना।
त्रिगुणरूपैका प्रकृतिः पुरुषाः सर्वजन्तवः।।
सांख्यसूत्रेषु यद्यपि च नास्तीशश्च स्वीकृतः।
ईश्वरकृष्णकाले तु स्वीकृत ईशो वर्तते।।

Monday, 26 March 2018

मनोगतम् – ४२ ‘मन की बात’ 
 प्रसारण तिथि: 25.03.2018
[“मन की बात”- “मनोगतम्” - इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]                                  
                     - भाषान्तर-कर्ता -  बलदेवानन्द-सागरः

मम प्रियाः देशवासिनः!  नमस्कारः |
    अद्य रामनवमी - इति पावनं पर्व वर्तते | रामनवम्याः पवित्र-पर्वणि देशवासिनां कृते मम अनेकाः शुभकामनाः | पूज्य-बापू-वर्यस्य जीवने ‘राम-नाम्नः’ शक्तिः कियती आसीद्- इति तस्य जीवने प्रतिपलं सुसिद्धम् | विगतेषु दिनेषु जान्युआरि-मासे षड्-विंशे दिनाङ्के यदा [ASIAN]आसियान-देशानां सर्वे प्रतिनिधि-महानुभावाः अत्र आसन्, तदा स्वीयानि सांस्कृतिक-वृन्दानि सहैव आनीतवन्तः तथा च विषयोsयम् अतितरां गौरवास्पदं यत् तेषु अधिसंख्यं देशाः रामायणमेव अस्माकं समक्षं प्रस्तुवन्ति स्म | अर्थात् रामः रामायणञ्च, न केवलं भारते अपितु विश्वस्य अस्मिन् भूभागे ASIAN-देशेषु च, अद्यापि तावतीमेव प्रेरणां तावन्तमेव च प्रभावमुत्पादयतः | अहं पुनरेकवारं भवद्भ्यः सर्वेभ्यः रामनवम्याः शुभकामनाः व्याहरामि |
   मम प्रियाः देशवासिनः !  प्रति-वारमिव साम्प्रतमपि अहं भवतां सर्वेषां बहूनि पत्राणि, email-सन्देशान्, phone-call-इति दूरभाषाकारणाः, विविधाश्च टिप्पणीः प्राप्तवान्|
  कोमल-ठक्कर-जी ! MyGov-इत्यत्र संस्कृतस्य on-line courses-इति सद्यस्कः पाठानाम् आरम्भार्थं भवतः निवेदनम् अहं पठितवान् | भवान्  IT professional - इति सूचना-प्रविधि-व्यवसायी, युगपदेव,  संस्कृतं प्रति भवतः प्रेमाणं दृष्ट्वा मोमुद्यते मम मानसम् | अस्यां दिशि विधीयमानानां प्रयासानां विषये भवन्तं सूचयितुम् अहं सम्बद्ध-विभागं निरदिशम् | ‘मन की बात’- प्रसारणस्य श्रोतारः ये संस्कृत-विषये कार्यरताः सन्ति, तान् अपि अनुरुन्धे यत् तेsपि विषयमेनं परिशीलयन्तु परामर्शयन्तु च यत् केन प्रकारेण कोमल-ठक्कर-महोदयस्य परामर्शस्य कार्यान्वयनं भवेदिति|
       बिहार-राज्यस्य नालन्दा-जनपदस्य बराकर-ग्रामतः श्रीमान्  घनश्याम-कुमारः Narendra- ModiApp- इत्यत्र निज-विचारान् अलिखत्, तान् अहम् अपठम्| भूम्यन्तः अपचीयमानं जल-स्तरम् अधिकृत्य भवता या चिन्ता प्रकटिता, सा निश्चित-रूपेण अतितरां महत्वपूर्णास्ति |
       कर्नाटकतः श्रीमान् शकल-शास्त्री-जी, भवान् शब्दानां सुतरां सुन्दर-सामञ्जस्येन अलिखत् यत् ‘आयुष्मत् भारतम्’ तदैव भविष्यति यदा ‘आयुष्मती भूमिः’ भविता, तथा च, ‘आयुष्मती भूमिः’ तदैव भविता यदा वयं भूमौ निवसतां प्रत्येकमपि प्राणिनां विषये चिन्तयिष्यामः| ग्रीष्मर्तौ पशु-पक्षिणां कृते जल-पात्राणि स्थापयितुमपि भवान् सर्वान् साग्रहं निवेदितवान् | शकल-महोदय ! भवतः एताः भावनाः सर्वेभ्यः श्रोतृभ्यः ज्ञापितवान्|
      श्रीमान् योगेश-भद्रेश-जी, भवतः आग्रहः अस्ति यद् अस्मिन् क्रमे अहं यूनां स्वास्थ्य-विषये तैः सम्भाषणं कुर्याम् | सः आमिनोति यत् एशिया-राष्ट्रैः साकं तुलनां करवाम चेत्, अस्मदीयाः युवा

Monday, 12 March 2018

ग्रन्थिबन्धनम्
ग्रन्थाभिमतः - अभिषेक् पर्गाई।
           ग्रन्थिबन्धनम् इति नाम श्रवणेनेव सकलजनस्यापि मनसि जिज्ञासा जायते यत् (ग्रन्थिबन्धनम्) ग्रन्थिनाम्+बन्धनम् किमिति ।“तर्हि ग्रन्थिबन्धनम् महाकाव्यमिदम्” महाकाव्यमिदम् महाकाव्यस्य श्रेण्यां नूतनमेव मार्गं प्रदर्शयति । महाकाव्येस्मिन् प्राचीन परिपाट्यामेव नूतन उपस्करणेन सह कथा उपलब्धास्ति। पात्र-घटनादीनां वर्णनं समयानुसारमेव कल्पितमस्ति । आधुनिकेस्मिन् युगे याः घटनाः जनैः सर्वदा सम्मुखीक्रियन्ते तामेव काव्यरुपेण अत्र प्रस्तुतमस्ति । अद्यत्वे समाजे यौतुकम् (याचनं उत् दानं) अभिशापं वर्तते । एनमेव विषयमाधारीकृत्य काव्यस्वरुपं प्रदत्तम्।   
      यौतुकमेव अस्य महाकाव्यस्य मूलाधारचक्रं वर्तते । कुत्रचित् सहृदयैः अनुभूयते यत् अत्र महाकाव्यस्य लेखने पुरातन विधीनां उल्लंघनं कृतं वर्तते । परञ्च नात्र तथा परञ्च नूतन मार्गस्यैव श्रीगणेशः वर्तते । यथा परिवर्तनमेव जगतः शाश्वतं सत्यं काले-काले विचारधाराषु परिवर्तनं स्वाभाविकमेव वर्तते । तदवतेव महाकाव्येऽस्मिन्नपि महाकाव्यजगति परिवर्तनमानेतुं प्रयासः विहितः । षोडश सर्गेषु उपनिबद्धम् महाकाव्यमिदम् भाषावगमादिदृष्ट्या सामान्यजनानां कृतेऽपि अत्यन्तमुपादेयं वर्तते । महाकाव्येऽस्मिन् श्रृंगाररसमङ्गिनं विधाय अन्येऽपि रसाः अङ्गतयाः यत्र तत्र प्रतिपादिताः सन्ति ।

      छन्दोदृष्ट्याऽपि अनुष्टुप-उपजाति-वंशस्थ-वसन्ततिलका-द्रुतविलम्बित-मालिनी-पञ्चचामर-शार्दूलविक्रीडितादीनां मनोहारी प्रयोगो दृश्यते । अलङ्काराणां चित्तचोरिणी छटा बलादेव जनान् रससागरे निमज्जयति । यथा यमाकानुप्रासयोः उदाहरणमेकं प्रस्तूयते –
“नवरसालरसालसमानसं सुमनसां मनसामपि मार्दवम्
हरति हन्त वसन्तवशंवदो मनसिजो मनसः श्रियमाहरन्।
न विषमाशुगवीर्यविदारणं न विषमाशुगवीर्यविघातकम्
विषमाशुगवीर्यविधायकं त्रितयवाक्यमिदं शुकविक्रिया”॥
महाकाव्येस्मिन् विप्रयोगस्य संयोगस्य च सकलस्यापि वर्णनं नवीनरीत्या कृतं वर्तते । कवेः प्रकृति अत्र प्राचीनमार्गस्य नव्यरीत्या प्रस्तुतिकरणं परिलक्ष्यते । महाकाव्येऽस्मिन् प्राच्य-नव्ययोः द्वयोरपि अद्भुतं सङ्गमो विलोक्यते । नैषधीयचरित इव अस्मिन् महाकाव्येप्येकः शुको वर्तते । यो नायकं नायिकां चान्तरा सेतुवत् कार्यं करोति । परञ्च एषः शुकः प्राचीनमार्गनिरपेक्षतया  नवलमार्गमाश्रित्य कार्यं विदधाति ।
सुभाषितानि स्वर्गसुधामपि तिरस्कृत्य विभान्त्यधिवसुधमिति जानन्त्येव तञ्ज्ञाः । तदवतेव अस्मिन् महाकाव्येपि नैकाः सूक्तयः काव्यशोभां समेधयन्तो विलोक्यन्ते । उदाहरणार्थं –
*आत्मरक्षा विधाने को नोद्यमी धरणीतले ।
* अन्विष्यन्ति सदाश्चर्यं चित्रान्वेषणपण्डिताः।
महाकाव्यस्यास्य प्रथमे सर्गे तपोवनवर्णनं,सुकन्या(नायिकायाः) वर्णनं,सुकन्यायाः वन विहरणं तत्रैव सुकन्या द्वारा कस्यचित् युवकस्य दर्शनं,सुकन्या द्वारा पालितस्य शुकस्य कुत्रचित् अन्यत्र गमनमस्ति । पञ्चदशे षोड्शे च सर्गे विधिपूर्वकं यौतुकम् विनैव द्वयोः ग्रन्थिबन्धनम् कारयित्वा महाकविना डा निरञ्जन मिश्र महोदयेन मध्यस्थेष्वऽपि सर्वेषु सर्गेषु समाजहिताय तथा च वर्तमानिकालिक समस्यानां यथोचितं वर्णनं विहितमस्ति। महाकाव्यमिदम् सत्यम् पब्लिशिंग हाऊसत: प्रकाश्यते ।

Sunday, 11 February 2018

          द्रौपदी
डा. गदाधर त्रिपाठी
जीवनञ्च मनुष्याणामद्भुतं रोमाञ्चकं तथा।
तेष्वपि च जीवनं स्त्रीणामत्यद्भुतं दृष्टं तथा।।
द्रौपदी पाञ्चाली कृष्णा सैरन्ध्री याज्ञसेनी तथा।
ख्याता नामभिश्च या आसीत् पञ्चभिर्वै पतिभिर्युता।।
अर्जुनेन स्वयम्वरसमये हि विप्रवेषः कृतो हि वै।
पत्नीरूपेण प्राप्ता च स्वयम्वराद् द्रौपदी विधिवत्तदा।।
कथेयमद्भुता दृष्टा च मातुराज्ञाभवत्तदा।
पञ्चभिर्भ्रतृभिः सहिता पत्नीरूपेण स्वीकृता।।
कथेयं प्रचलिता अस्ति शिवप्रसादाद् वै अभवदिदम्।
परञ्च शिवप्रसादादेव कन्यारूपेण स्वीकृता।।
आसीदासक्तिरस्या: कर्णं प्रति तदा हि वै।
विवाहः सूतपुत्रेण सम्भवो नाभवत्तदा।।
वस्त्रापहरणकाले हि आर्ता आसीदरक्षिता।
भगवता रक्षिता आसीत् स एव परमरक्षकः।।
                     -------------------
                             
                        युधिष्ठिरः
 डा गदाधर त्रिपाठी।
युधिष्ठिरदुर्योधनयोर्मध्ये विपरीता आसीत् संस्कृतिः।
न्यायप्रियः खलु सत्यवादी च तदा वै आसीद् युधिष्ठिरः।।
कुन्त्या आहूतो धर्मराजा तेनाभवद् युधिष्ठिरः।
इच्छापूर्तये रुचिर्नासीन्न चैवासत्यभाषणे।।
यद्यपि क्षत्रिय आसीद् वै हिंसाया विरतो महान्।
दुर्योधनस्य विनाशाय मतिरपि तेन कृता न वै।।
शकुनेर्या धूर्तता आसीत्तेन अज्ञोऽयं जनः।
द्यूते प्रवृत्तो$भवद्  हि तेन काले विचक्षणः।।
अश्वत्थामा मृतो नरो वा कुञ्जरो वा च हि।
कृष्णेन प्रेरितस्तेन असत्यं नैव भाषितम्।।
स्वर्गस्यापि इच्छा च न वै कृता श्वानं विना।
शत्रुहस्ताद् दुष्टोऽपि दुर्योधनो हि रक्षितः।।
पाण्डवानां भ्राता कर्ण इति ज्ञात्वा दुःखितोऽभूत्।
शापिता माता तेन न गोप्यं भवितेति च वै।।
भातृन् नरके दृष्ट्वा पत्नीं दृष्ट्वा तथैव च।
निवासः स्वर्गस्यापि युधिष्ठिरेण न स्वीकृतः।।
               
                  -------------------

Saturday, 20 January 2018

 जलवायु-परिवर्तनं पर्यावरण-संरक्षणं च 
                             
  ... बलदेवानन्द-सागरः 
 जलवायु-परिवर्तनस्य प्रत्यक्ष-प्रभावः
       समेधमानायाः जन-संख्यायाः कारणात् खाद्य-संसाधनानाम् आवश्यकताः अपि समेधन्ते | अमुना कारणेन प्राकृतिक-संसाधनेषु आपीडः अपि सततं वर्धते | जलवायु-परिवर्तनस्य प्रत्यक्ष-प्रभावः कृषौ समापतति, यथा हि तापमानेन, वृष्ट्यादौ परिवर्तनेन, मृदा-क्षमतायाः अपक्षयेण, सामान्य-स्तराद् आधिक्येन कीटाणूनां रोगाणां च प्रसारेण एतत् सुस्पष्टं भवति । जलपूराणां अनावृष्ट्यादि-घटनानां च पौनःपुन्येन आवृत्ति-कारणात् अतितरां सञ्जायमानं जलवायु-परिवर्तनं कृषिं प्रतिकूलतया प्रभावयति, एतस्मात् कारणात् शस्यादीनां उत्पादन-मितिः अपक्षीयते | जलवायु-परिवर्तनस्य कारणात् अनेकाः प्रजातयः अपि विलुप्ताः सन्त |

जलवायु-परिवर्तनस्य कारणानि                                   
            विगतेभ्यः कतिपय-वर्षेभ्यः जलवायौ बृहन्मात्रिकं परिवर्तनं दृग्गोचरीभवति | एतानि कारणानि प्राकृतिकानि मानव-निर्मितानि चेति द्विधा विभक्तुं शक्यते |

प्राकृतिकानि कारणानि
            महा-द्वीपानां प्रस्खलनानि, ज्वालामुखि-प्रस्फोटनानि, सामुद्रिकाः तरङ्गाः, पृथिव्याः परिभ्रमणम् चेत्यादीनि प्राकृतिकानि कारणानि सन्ति यानि जलवायु-परिवर्तने हेतुतां भजन्ते |

मानव-निर्मितानि कारणानि 
             कार्बन्-डाइऑक्साइड् - [ अङ्गाराम्लवायुः ], मीथेन-नाइट्रस्-ऑक्साइड् - [ पुष्कल्य-भूयीय-अम्लवायुः ] - सदृश्यः ग्रीन्-हाउस्-वातयः प्रामुख्येण जलवायु-परिवर्तनस्य मानव-निर्मितानि कारणानि वर्तन्ते | एतासु कार्बन्-डाइऑक्साइड् - [ अङ्गाराम्लवायुः ] उच्च-उत्सर्जन-शीलः परिगण्यते | यदा वयं तैल-कृष्णाङ्गार-प्राकृतिकवाति-प्रभृतीनां ईन्धनानाम् उपयोगं कुर्मः, अथवा वृक्षाणाम् उच्छेदनं कुर्मः तदा कार्बन्-डाइऑक्साइड् - [ अङ्गाराम्लवायुः ], पर्यावरणे मिश्रीयते | औद्योगिक-कारणैः विविधैः वाहनैः च उत्सृष्टस्य धूम्रस्य पर्यावरणे सञ्जायमानं   सम्मिश्रणं हि जलवायुं पर्यावरणञ्च दूषयति |        

पर्यावरणस्य परिभाषा
          पृथ्वी-जल-तेजोवायु-आकाशेति पञ्चमहाभूतानि अस्मान् परितः प्रवर्तन्ते | एतेषां पञ्च-महाभूतानां समवायः एव परिसरः आहोस्वित् ‘पर्यावरणम्’ इति पदेन व्यवह्रीयते। एवमपि अवगन्तुं शक्यते यत् मनुष्यो यत्र निवसति, यत् खादति, यत् वस्त्रं धारयति, यज्जलं पिबति, यस्य पवनस्य सेवनं करोति, तत्सर्वं पर्यावरणम् इति शब्देन अभिधीयते। अधुना पर्यावरणस्य समस्या न केवलं भारतस्य अपितु समस्तविश्वस्य समस्या वर्तते। यज्जलं यश्च वायुः अद्य उपलभ्यते, तत्सर्वं मलिनं दूषितं च दृश्यते |

             भौतिक-पर्यावरणं प्रकृत्या प्रदत्तं प्राणतत्त्वं रक्षा-कवचं च वर्तते । जीवमात्रस्य विकासाय पर्यावरणशुद्धिः आवश्यकी वर्तते । एवमपि अवगन्तुं शक्यते यत् "परितः आवृणोतीति पर्यावरणम् ।" अस्मान् परितः भूमण्डलं जलराशिः वायुवृत्तं तेजोमण्डलं नभोमण्डलं चेति पञ्चमण्डलानि

Friday, 19 January 2018


पातञ्जलयोगसूत्रे अन्तरायाः
फिलोमिना टि एल्
अनुसन्धानाध्ययनम्
 Research Article No: 20180119
फिलोमिना टि एल्
शोधछात्रः
श्री शङ्कराचार्य विश्वविद्यालयः,  कालटी।


   भारतवर्षो ऋषीणाम्  अन्वेषणफलत्वेनैव दर्शनशाखाः अविर्भवन्। तासु दर्शनेषु अन्यतमं  भवति योगदर्शनम्। अस्य योगदर्शनस्य प्रणेता भवति पतञ्चलिः।  अधिकारिकं ग्रन्थं च भवति पातञलं योगसूत्रम्। योगसूत्रे चत्वारः पादाः सन्ति। ते च समाधिपादः साधनपादः विभूतिपादः कैवल्यपादः। अत्र प्रथमम् समाधिपादे समाहितचित्तस्य सोपायं योगं प्रतिपादयति। अनन्तरं द्वितीयं साधनापादे  व्युत्थितचित्तस्य कथम्‌ उपायाभ्यासपूर्वकः योगाः साध्यः इति तत्साधनानुष्ठानः क्रिया योगः प्रतिपादयति। विभूति इति तृतीयपादे संयमत्वादिनां* कथम् अस्य लोकस्य नाशम् इति प्रतिपादयति। चतुर्थः कैवल्यपादे कथम् पूर्वोक्तैः उपायैः कैवल्यम् अश्नुते इति प्रतिपादयति।
           पातञ्जलयोगसूत्रम् अथ योगानुशासनम् इतिसूत्रेण आरब्धम्। योगो नाम चित्तवृत्ति निरोध:। वृत्तीनां प्रमाण-विपर्यय-विकल्प-निद्रादीनां स्मृत्यादीनां निरोधः योगः इत्युच्यते। अन्तरायाऽभावे एव योगः सम्भवति अत्र अन्तरायाः विशदीकुर्वन्ति।

अन्तरायाः
          ततः प्रत्यक् चेतनाऽधिगमोऽप्यन्तरायाभावश्च* इति ईश्वर प्रणिधानात् आत्मस्वरूपज्ञानं तथा विघ्नानां निवर्तिः च संभवति इति प्रतिपादितं भवति। तत्र व्याधिस्त्यानसंशय-प्रमादाऽऽलस्याऽविरतिभ्रान्ति दर्शनाऽलब्धभूमिकत्वाऽनवस्थितत्वानि चित्त विक्षेपास्तेऽन्तरायाः* इति पातञ्जलयोगसूत्रे समाधि पादे अन्तरायाः चिन्तयन्ति। ते अन्तरायाः रजस्तमो गुणानां बलात् प्रवर्तमानं चित्तस्य विक्षेपाः भवन्ति। तैः अन्तरायैः एकाग्रता विरोधित्वेन चित्तं प्रव

Friday, 12 January 2018

नवोत्थाननायक: महर्षिदयानन्दसरस्वती।
डा. रोहिणी के.

Research Article  No: 20180112  

 अनुसन्धानाध्ययनम्
Dr. ROHINI K.
Guest Lecturer 
Dept. of Sanskrit
Sree Krishna college, Guruvayoor.

                          ज्ञताया: अन्धकारे मग्ने स्वसमाजे ज्ञानस्य प्रकाशं दर्शयन् महर्षिदयानन्द: आधुनिकनवोत्थाननायकेषु प्रमुख: अभवत्। ऊनविंशतितमशतकस्य उत्तरार्धे 1825 फेब्रुवरि 12 तमे दिनाङ्के लब्धजन्मोयं समाजस्य अनाचारान् प्रति स्वजीवनं समर्पितवान्।
                       तस्मिन् काले भारते अनाचारा: अन्धविश्वासा: च प्रचलिता: आसन्। तदवसरे आसीत् दयानन्दसरस्वतीवर्यस्य जननम्। सामाजीकपरिष्करणाय राष्ट्रनवीकरणाय च अहर्निशं प्रयत्नमकरोत् अयं संन्यासीवर्य: स्वतन्त्रभारतम् इति आशयस्य प्रचारकश्चासीत्। भारतीयानां जीवनरीतय: विश्वासा: च वेदाधिष्ठितं भवति इति तै: उद्घोषितम्।
               गुजरात् राज्यस्य कतियवार् देशे टङ्कारनगरे अयं जनिमलभत। बाल्ये तस्य नाम मूलशङ्कर: इत्यासीत्। दयाल्जी इति गृहे तम् आह्वयति स्म। संन्यासदीक्षाया: स्वीकरणानन्तरमेव दयानन्द: इति प्रशस्तो%भवत्। बाल्यादेव सामाजिकोन्नमनाय प्रयत्नमकुर्वन्। मूलशङ्करस्य बाल्यं दुरितपूर्णमासीत्। भगिन्या: तथा पितृसहोदरस्य च देहवियोग: दयानन्दं चिन्तामग्नमकरोत्। तत: मोक्षमार्गमन्विष्य यात्रा: आरब्धा:। स्वगृहमुपेक्ष्य विविधदेशेषु यात्राम् अकरोत्। महर्षिणमुपगम्य मोक्षमार्गम् अपृच्छत्। किन्तु तेषाम् उपदेशेषु अतृप्त: स: पुनरपि बहुदूरम् अटति स्म। अन्ते स: परमानन्दसरस्वती महाभागात् संन्यासदीक्षां स्वीचकार। तत: दयानन्दसरस्वती इति नाम स्वीचकार। तदनन्तरं योगशास्त्रादि विषयान् पठित्वा वादप्रतिवादान् अकरोत्। दुराचरान् प्रति विरोधं प्रकटयति स्म। महर्षिवर्य: मोक्ष-पुनर्जन्म-कर्मफलसिद्धान्तादि विषयान् अङ्गीकृतवान्।
                    त्रैतवाद: आसीत् तस्य सिद्धान्त:। साधारणजना: अपि तस्य सिद्धान्तं अजानन्। 1875 एप्रिल् 10 तमे दिनाङ्के आर्यसमाजम् अस्थापयत्। आर्यसमाजस्थापनाय दयानन्द: महान् प्रयत्न: अकरोत्। आर्यसमाजेन वेदा: सत्यप्रमाणत्वेन अङ्गीकृता:। 1883 ओक्टोबर् मासस्य 31 दिनाङ्के दीपावल्यां समाधिं प्राप।
त्रैतवाद:।
                     त्रैतवात: दयानन्दस्य तत्त्वशास्त्रं भवति। तन्मते ईश्वर:, आत्मा, प्रकृति: च तत्त्वत्रयं भवति। एते क्रमश: निमित्त-साधारण-उपादानकारणत्वेन कल्पिता:। अचेतनप्रकृते: चेतनवस्तुकारक: शक्तिविशेष: ईश्वर:। स: ईश्वर: सच्चिदानन्द:, निराकार:, सर्वशक्त:, न्यायकारी, दयालु:, जन्मरहित:, सर्वव्यापि, सर्वान्तर्यामी, जरादिरहित:, अनश्वर:, निर्भय:, नित्य:, पवित्रश्च। उपादानकारणात् प्रकृते: पञ्चेन्द्रियानुभवयोग्यवस्तूनि सञ्जातानि, साधारणकारणरूप आत्मना तानि उपभुज्यन्ते।
                श्रीशङ्करस्य अद्वैतदर्शनमिव न क्लिष्टमिदं नास्त्यत्र कर्मज्ञाननिषेध: अपि च अद्वैतापग्रथने त्रैतवादसमन्वये अद्वैतं च द्रष्टुं शक्यते। अत्र अयमेव भेद: - शङ्करमते माया प्रधाना, महर्षिदयानन्दमते सर्वं सत्यम्, माया अप्रधाना च।
आर्यसमाजस्य स्थापनम्।
                         आर्यसमाजद्वारा महर्षि: लोकान् पुनरुद्बोधयत्। निर्मितेषु नियमेषु 1932 वैक्रमाब्दस्य चैत्रशुक्ल पञ्चमी तिथौ बुधवासरे तदनु 1975 ईसवीयवर्षस्य एप्रिल् मासस्य दशमे दिनाङ्के सायं सार्धपञ्चवादने मुम्बई नगरस्य गिरगांवोपवसतिसम्भागे श्री डा. मणिक्चन्द्रमहोदयस्य वाटिकायाम् आर्यसमाजस्य स्थापनमभूत्। श्रीगिरिधारीदयास् दास् कोठारि महोदयश्च आर्यसमाजस्य प्रथम सभापतिरूपेण तथा श्रीसेवककृष्णदास्महाभाग: मन्त्रित्वेन च नियुक्त:। तदानीम् एकशतसंख्यकाश्च सदस्या: आसन्। सर्वजनाग्रहेणा%पि किमपि पदमस्वीकुर्वन् महर्षिणा साधरणसदस्यरूपेणैव स्थित:। पूर्वम् आर्यसमाजेन अष्टाविंशति संख्यका: नियमा: निर्धारिता आसन्। परं यदा लाहोर् नगरे आर्यसमाजस्य संस्थापनमभवत् तदा दश संख्याका एव नियमा: निश्चिता:।
तियोसफिकल् सोसाइटि
                     1875 वर्षस्थनवम्बरमासस्य सप्तदशतारिकायां मैडमब्लैवट्स्कीकर्नल अल्काटमहोदयश्चोभौ तियोसफिकल् सोसाइटिसंस्थापयताम्। संस्थाया: संस्थापनं सम्पन्नं परं तौ हि स्वकर्मभिरतितरां कुख्यातावास्ताम्, तयोर्भोजनप्राप्तिरपि दुर्लभा%भवत्। तत्रावासो%प्यसम्भव आसीत्, अतस्तौ हि भारतवर्षं प्रत्याशान्वितावभवताम्। भारतवर्षे पदमारोपयितुं कस्यचित् शक्तिमतो महापुरुषस्याश्रयो%पेक्षित आसीत्। श्रीहरिश्चन्द्रचिन्तामणिमहोदयात् श्रीअल्काटमहाशयो महर्षेर्दयानन्दस्य परिचयं प्राप्नोत्।
                एवं तियोसफिकल् सोसाइटि संस्था तदार्यसमाजेन समं स्वसम्बन्धं समायोजयत्, यदा हि अमेरिकावासिन: संस्थासञ्चालका: स्वश्वोभोजनप्राप्तिविषये%पि सन्देहयुता आसन्। तत्र ते%तितरां कुख्याता: दुःखिताश्चासन्। पर्याप्तपत्रव्यवहारानन्तरं तियोसफिकल् सोसाइटि युगलमिदं 1879 तमवर्षस्य जनवरिमासे मुम्बईनगरमागच्छत्।
महर्षिदयानन्दसरस्वतीकृतग्रन्थावलि:
                सत्यार्थप्रकाश:,  ऋग्वेदादिभाष्यभूमिका, वेदभाष्याणि,    संस्कारविधि:, आर्याभिविनयम्, गोकरुणानिधि:, पञ्चमहायज्ञविधि:, संस्कृतवाक्यप्रबोधम्, व्यवहारभानु, काशीशास्त्रार्थम्, वेदविरुद्धमतखण्डनम्, ब्रह्मोछेदनम्, भ्रान्तिनिवारणम्, सत्यधर्मविचार:, आरोद्देश्यरत्नमाला, वेदाङ्गप्रकाश: इत्यादय: दयानन्दसरस्वते: कृतय: भवति।

                

Monday, 1 January 2018

“मनोगतम्”  [सोपानम् ३९] 
 - नरेन्द्रमोदी        
    
[“मनोगतम्” - “मन की बात”- इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ] 
(प्रसारण-तिथि:- 31.12.2017)                          
 - भाषान्तर-कर्ता -  डॉ बलदेवानन्द-सागरः (संस्कृत वार्ता प्रसारकः)

            मम प्रियाः देशवासिनः ! नमस्कारः | इदं ‘मन की बात’-प्रसारणं हि, अस्य वर्षस्य अन्तिमोऽयं कार्यक्रमः, तथा च संयोगं पश्यन्तु यत् अद्य, सप्तदशोत्तर-विंशति-शत-तमस्य वर्षस्य अपि अन्तिमो दिवसोऽस्ति | सम्पूर्णेsपि वर्षेऽस्मिन् अनेके विषयाः अस्माभिः भवद्भिः च संविभाजिताः | ‘मन की बात’-प्रसारणस्य कृते भवद्भिः प्रेषितानां बहूनां पत्राणाम्, अनेकासां टिप्पणीनां, विविधानां च विचाराणाम् आदान-प्रदानम्, मम कृते तु सदा नूतनायाः ऊर्जायाः प्रदायकं सिद्ध्यति | 
      कासाञ्चन होराणाम् अनन्तरं वर्षमिदं परिवर्तिष्यते, परञ्च अस्मदीयः एषः कथा-क्रमः इतः परमपि एवमेव प्रवर्तिता | आगमिष्यमाणे वर्षे वयं, नवीनाः कथाः करिष्यामः, नूतनान् अनुभवान् च संविभाजयिष्यामः | भवद्भ्यः सर्वेभ्यः अष्टादशोत्तर-विंशति-शत-तम-वर्षस्य कृते भूरिशो मङ्गल-कामनाः | नातिचिरं डिसेम्बर-मासे पञ्चविंशति-तमे दिनाङ्के अशेष-जगति क्रिस्मस्-पर्व सोत्साहम् आमानितम् | भारतेsपि जनैः सोत्साहं पर्वेदम् आमानितम् | क्रिस्मस्-पर्वणि वयं ईसा-मसीहस्य बहुमूल्यान् उपदेशान् स्मरामः, तथा च, ईसा-मसीहेन यस्मै विषयाय सर्वाधिकं बलं प्रदत्तम्, सः आसीत्  - “सेवा-भावः” | सेवा-भावनायाः सारं वयं बाइबले अपि पश्यामः |  “The Son of Man has come, not to be served, But to serve, And to give his life, as blessing, To all humankind.”   अर्थात् मानव-पुत्रः समायातः, सेवा-प्राप्तये नैव, अपि तु सेवा-कार्यार्थम्, आशीर्भूतं स्वीयं जीवनं मानवतायै अर्पयितुम्” 
        इदं द्योतयति यत् किं नाम सेवायाः माहात्म्यम् ? भवतु नाम विश्वस्य काचिदपि जातिः, कश्चन अपि धर्मः, परम्परा, वर्णः वा, परञ्च सेवाभावो हि मानवीय-मूल्यानाम् अनुपम-अभिज्ञानत्वेन प्रवर्तते | अस्मदीये देशे ‘निष्काम-कर्म’-विषये सुबहु श्रूयते अर्थात् तादृशी सेवा या हि काञ्चिदपि अपेक्षां विना क्रियते | अस्माकं ग्रन्थेषु तु प्रोक्तमेव– “सेवा परमो धर्मः” | ‘जीव-सेवा एव शिव-सेवा’ तथा च, गुरुदेवः रामकृष्ण-परम-हंसः तु कथयति – शिव-भावेन जीव-सेवां कुर्यात् अर्थात् विश्वस्मिन् विश्वे एतानि सर्वाणि मानवीय-मूल्यानि तुल्यानि एव सन्ति | आगच्छन्तु, वयं सर्वे एतान् महापुरुषान्, पवित्र-दिवसान् च स्मरन्तः, अस्मदीयायै अस्यै महत्यै मूल्य-परम्परायै नूतनां चेतनां, नवीनाञ्च ऊर्जाम् आनयेम तथा च,