Monday 26 June 2017

“मनोगतम्” [33] ‘मन की बात’ [33]
 (प्रसारण-तिथि: 25.06.2017)     

[“मनोगतम्” - इति “मन की बात”-कार्यक्रमस्य द्वितीयः  संस्कृत-भाषिकानुवादः ]
                                 -   संस्कृत-भाषान्तर-कर्ता -                                                     
                                                              -  डॉ.बलदेवानन्द-सागरः

  
 
मम प्रियाः देश-वासिनः ! नमस्कारः |
 ऋतुः परिवर्तते | अस्मिन् वर्षे निदाघस्य तापः अपि अधिकः आसीत् | परञ्च सुखदम् इदं वृत्तं  यत् वर्षर्तुः काले एव सम्प्राप्तः | देशस्य अनेकेषु स्थानेषु मूसलाधार-वृष्टि-कारणात् सुदिनानि सञ्जातानि | वर्षायाः अनन्तरं प्रवहमानैः शीतलैः मन्द-समीरैः विगत-दिनानां आतापात् मुक्तिः अनुभूयते | अस्माभिः सर्वैः अपि अनुभूतं यत् जीवने कियती अपि व्यग्रता भवेत्, कियती अपि आततिः स्यात्, भवतु नाम वैयक्तिकं जीवनं वा सार्वजनिकम् - वर्षायाः आगमनं हि अस्मदीयां मनसः स्थितिम् अपि परिवर्तयति |
अद्यत्वे भगवतः जगन्नाथस्य रथयात्रा-समुत्सवः देशस्य नाना-भागेषु राष्ट्रवासिनः सोल्लासं सश्रद्धञ्च समायोजयन्ति | साम्प्रतन्तु जगतः अपि केषुचित् स्थानेषु भगवतः जगन्नाथस्य रथयात्रा-महोत्सवः आमान्यते | अपि च, भगवता जगन्नाथेन साकमेव राष्ट्रस्य निर्धन-जनः  संयुक्तोsस्ति | ये जनाः डॉ.बाबा-साहेब-अम्बेडकरस्य जीवनम् अधीतवन्तः, ते नूनम् अनुभूतवन्तः यत् सः भगवतः जगन्नाथस्य मन्दिरं एतद्-विषयिणीः परम्पराः च अतितरां प्रशंसति स्म | यतो हि अत्र सामाजिक-न्यायः, सामाजिकी च समरसता अन्तर्निहिते स्तः | वस्तुतस्तु भगवान् जगन्नाथः निर्धनानां देवता | तथा च, आङ्ग्ल-भाषायाम् एकः शब्दः अस्ति - juggernaut | मन्ये, न्यूनाः एव अवगताः स्युः यत् अस्य अर्थः भवति- एतादृशः भव्यः रथः यस्य गतिः अप्रतिहता भवति, न कश्चन अपि एनम् अवरोद्धुं पारयति | juggernaut इति शब्दस्य शब्दकोशीयेन अर्थेण अपि ज्ञायते यत् जगन्नाथस्य रथ-साम्यत्वेन juggernaut इति शब्दः समुद्भूतः | अत एव वयम् अवगन्तुं शक्नुमः यत् भगवतः जगन्नाथस्य यात्रैषा अशेष-संसारेण स्व-स्व-प्रकारेण कियता महता माहात्म्येन स्वीक्रियते | भगवतो जगन्नाथस्य रथयात्रायाः शुभेsस्मिन् अवसरे सर्वेभ्योsपि राष्ट्रवासिभ्यः शुभ-कामनाः वितरामि, भगवतो जगन्नाथस्य श्रीचरणेषु अपि प्रणामाञ्जलीन् निवेदयामि |
     अस्ति भारतस्य विविधता हि अस्य विशेषता | भारतस्य विविधता चास्ति भारतस्य शक्तिरपि | रमज़ानस्य पवित्रमासः पवित्र-भावैः प्रार्थनाभिः च सर्वैः समाचरितः | सम्प्रति वर्तते ईद्-पर्व | ईद्-उल्-फ़ितर्-पर्वणः अवसरे मम पक्षतः सर्वेभ्यः भूरिशः मङ्गल-कामनाः | रमज़ान-मासः पुण्य-दानस्य मासत्वेन ख्याप्यते, प्रसन्नतायाः वितरणस्य मासः अस्ति, यावन्-मात्रिकं प्रसन्नता-वितरणं भवति, तावन्त्यः प्रसन्नताः विवर्धन्ते | आगच्छन्तु, वयं सर्वे मिलित्वा एतेभ्यः पवित्र-समुत्सवेभ्यः प्रेरणाम् आदाय प्रसन्नता-प्रवाहान् वितरेम, देशञ्च अग्रेसारयेम  !!
रमज़ानस्य पवित्र-मासावधौ उत्तर-प्रदेशस्य बिजनौरस्य मुबारकपुर-ग्रामस्य एका महती प्रेरिका घटना मम दृष्टिपथमागता | प्रायेण सार्ध-त्रि-सहस्रं अस्मदीयाः मुस्लिम-समुदायस्य भगिन्यः भ्रातरः चात्र लघु-ग्रामे निवसन्ति, अत्र आधिक्येन मुस्लिम-समुदायस्य जनाः वर्तन्ते | रमज़ान-मासावधौ ग्रामवासिनः मिलित्वा शौचालयानां निर्माणार्थं निर्णीतवन्तः | अपि च, वैयक्तिक-शौचालयानां निर्माणार्थं सर्वकार-पक्षतः अपि साहाय्यं प्रदीयते | एतेभ्यः ग्रामवासिभ्यः प्रायेण सप्त-दश-लक्ष-रूप्यकाणि साहाय्य-रूपेण प्रदत्तानि | एतद् ज्ञात्वा भवन्तः सुखदम् आश्चर्यम् आनन्दं चापि अनुभविष्यन्ति | अस्मदीयाः सर्वेsपि मुस्लिम-भ्रातरः भगिन्यः च, रमज़ान-मासावधौ सर्वकाराय तां सप्तदश-लक्ष-रूप्यकात्मिकां राशिं परावर्तितवन्तः | अपि च, ते एवम् उक्तवन्तः यत् वयं स्वश्रमेण स्वीय-रूप्यकैः एव निज-शौचालयान् निर्मास्यामः | सप्त-दश-लक्ष-रूप्यकात्मिका एषा राशिः ग्रामस्य अन्य-सौविध्यार्थम् उपयुक्तः स्यात् | रमज़ानस्य पवित्रावसरः समाजस्य लाभार्थं उपयुक्तः इति कृत्वा अहं मुबारकपुरस्य सर्वान् अपि ग्रामवासिनः अभिनन्दामि | तेषां प्रत्येकमपि निर्णयः अतितरां प्रेरकः अस्ति | अपि च, सर्वतोsधिकतरम् अवधेयमिदं यत् तैः मुबारकपुरम् अनावृत-शौचाचरणात् मुक्तं विहितम् | वयं जानीमः यत् सिक्किम-हिमाचल-केरळ-इति राज्य-त्रयं पूर्वतः एव अनावृत-शौचाचरणात् मुक्तं घोषितम् | सप्ताहेsस्मिन् उत्तराखण्ड-हरियाणा-इति राज्य-द्वयमपि ODF- इति अनावृत-शौचाचरणात् मुक्तं घोषितम् | एतत्-कार्य-पूर्त्यर्थम् अहम् एतेषां पञ्चानां राज्यानां प्रशासनाय, शासनाय, विशेषेण च, जनता-जनार्दनाय साधुवादान् व्याहरामि |
वयं संयुक्तया जानीमः - व्यक्तेः जीवने, समाजस्य जीवने च यत् किमपि समुचितं करणीयम् अस्ति चेत्, अतितरां कठोरः परिश्रमः करणीयो भवति | यदि अस्माकं हस्त-लेखः सम्यक् नास्ति, स च सम्यक् करणीयः चेत् तदा सुदीर्घ-कालं यावत् अतितराम् अवधानतया प्रयतनीयं भवति | तदनु एव, शरीरस्य मनसः च अभ्यासः परिवर्तते | स्वच्छतायाः विषयोsपि एतादृशः एवास्ति | कानिचित् व्यसनानि अस्मदीय-स्वभावस्य अङ्गरूपाणि सञ्जातानि | एतानि अस्मदीयाचरणस्य अङ्गत्वेन वर्तन्ते | एतानि अपसारयितुम् अविरतं अस्माभिः नूनं प्रयतनीयम् | वारं वारं एतद्विषयकं स्मरणमपि करणीयम् | प्रत्येकमपि जनस्य ध्यानाकर्षणमपि विधेयम् | समीचीनानां प्रेरिकाणां च घटनानां पौनःपुनिकं स्मरणमपि करणीयम् | तथा च, प्रसीदामितराम् यत् अद्यत्वे स्वच्छता-विषयः सर्वकारीय-कार्यक्रमत्वेन एव नैव प्रवर्तते | अयं तु जन-सामान्यस्य जन-समाजस्य च आन्दोलनत्वेन सततं परिणमते | शासनारूढाः जनाः अपि यदा जन-सह-भागितया कार्यमेनत् अग्रेसारयन्ति, तदा अतुलनीया शक्तिः विवर्धते |
विगतेषु दिनेषु एका उत्तमा घटना मम ध्याने उपस्थिता यामहं भवतां समक्षं नूनं वर्णयिष्यामि | एषास्ति घटना आन्ध्रप्रदेशस्य विजयनगरम्-जनपदस्य | तत्रत्य-प्रशासनेन जन-सह-भागितायाः बृहदेकं कार्यं आरब्धम् | मार्च-मासे दश-दिनाङ्कात् प्रातः षड्-वादनात् आरभ्य चतुर्दश-दिने प्रातः दशवादनं यावत् अर्थात् शत-होरावधिं यावत् अनारतम् अभियानम् | लक्ष्यं किमासीत् ? शत-होरावधौ एक-सप्ततौ ग्राम-पञ्चायतेषु दश-सहस्रं गृहाभ्यन्तरीणानां शौचालयानां निर्माणम् |
अयि भोः मम प्रियाः देशवासिनः ! वृत्तमेनत् ज्ञात्वा भवन्तः प्रसन्नाः भविष्यन्ति यत् जनता-जनार्दनेन शासनेन च सम्भूय शतं होरासु दश-सहस्रं शौचालयानां निर्माणं सफलतया पूर्णतामानीतम् | एक-सप्ततिः ग्रामाः ODF- इति अनावृत-शौचाचरणात् मुक्ताः जाताः | अहं शासनाधिरूढान्  शासनिकाधिकारिणः विजयानगरम्-जनपदस्य एतान् ग्राम-नागरिकान् च भूरिशः वर्धापयामि यत् ते परिश्रम-पराकाष्ठां स्वीकृत्य उत्तमं प्रेरकोदाहरणम् उपस्थापितवन्तः |
एतेषु दिनेषु ‘मन की बात’ इति कार्यक्रमे सततम् अहं जनता-जनार्दनस्य पक्षतः परामर्शान् अवाप्नोमि | एते च, NarendraModiApp- इत्यत्र  MyGov.in- इत्यत्र पत्राणां माध्यमेन, आकाशवाणीतः चाधिगम्यन्ते |
श्रीमान् प्रकाश-त्रिपाठी आपातकालं स्मारयन् अलिखत् यत् जून-मासीयं पञ्च-विन्शतितमं दिनं लोकतन्त्रस्य इतिहासे कालुष्य-पूर्ण-काल-खण्ड-रूपेण वर्तते | श्रीप्रकाश-त्रिपाठिनः लोकतन्त्रं प्रति एषा जागृतिः प्रशंसनीया वर्तते | लोकतन्त्रं न केवलम् एका व्यवस्था, एतच्च संस्कारत्वेन अपि विराजते | Eternal Vigilance is the Price of Liberty - लोकतन्त्रं प्रति अनारतम् अवधानता नितराम् आवश्यकी अत एव लोकतन्त्रस्य आघातकराणि तथ्यानि अपि स्मरणीयानि, तथा च, अस्माभिः लोकतन्त्रस्य समीचीन-तथ्यान्वितायां दिशि अग्रेसर्तव्यम् | विगते शताब्दे पञ्चसप्तति-तमे वर्षे जूनमासे पञ्च-विन्शतितमा रात्रिः तादृशी कालुष्यपूर्णा आसीत्, यां न कश्चन अपि लोकतन्त्र-प्रेमी विस्मर्तुं शक्नोति | न कश्चन भारतवासी एनां विस्मर्तुं पारयति | एकप्रकारेण अशेष-देशः कारागृहत्वेन परिवर्तितः आसीत् | विरोधि-स्वरः दमितः | जय-प्रकाश-नारायणेन सह राष्ट्रस्य गण-मान्याः नेतारः कारासु बन्दिनो विहिताः | न्याय-व्यवस्था अपि आपातकालस्य भीकर-रूपस्य छायया आच्छादिता आसीत् | वार्तापत्राणि तु पूर्णरूपेण प्रतिबद्धानि आसन् | पत्रकारिता-जगतः विद्यार्थिनः, लोकतन्त्रस्य कर्मकराः च लोकतन्त्रस्य तं कालुष्यपूर्णं कालखण्डं स्मरन्तः लोकतन्त्रं प्रति अवधान-संवर्धनाय सततं प्रयासान् अनुतिष्ठन्तः आसन् | अपि चैतद् नूनं करणीयम् | तदा अटल-बिहारि-वाजपेयि-वर्यः अपि कारायां पिहितः आसीत् | यदा वर्षावधिकः कालः यापितः तदा तेन कारायामेव एका कविता लिखिता, अस्यां कवितायां तेन तत्कालीना मनःस्थितिः वर्णीता अस्ति -   
झुलसाता जेठ मास,
शरद चाँदनी उदास,
झुलसाता जेठ मास,
शरद चाँदनी उदास,

सिसकी भरते सावन का,
अंतर्घट रीत गया,
एक बरस बीत गया,
एक बरस बीत गया ||

सीखचों में सिमटा जग,
किंतु विकल प्राण विहग,
सीखचों में सिमटा जग,
किंतु विकल प्राण विहग,

धरती से अम्बर तक,
धरती से अम्बर तक,
गूंज मुक्ति गीत गया,
एक बरस बीत गया,
एक बरस बीत गया ||


पथ निहारते नयन,
गिनते दिन पल-छिन,
पथ निहारते नयन,
गिनते दिन पल-छिन,
लौट कभी आएगा,
लौट कभी आएगा,
मन का जो मीत गया,
एक बरस बीत गया ||
लोकतन्त्रस्य प्रेमिणः कठिन-तरं युद्धं सम्मुखीकृतवन्तः | भारतं नाम विशालं राष्ट्रम्, प्राप्ते सति काले भारतस्य प्रत्येकमपि जनस्य चेतसि लोकतन्त्रं कियत् व्यापकं विराजते - इति निर्वाचन-माध्यमेन सा लोक-शक्तिः प्रदर्शितास्ति | प्रत्येकमपि जनस्य चेतसि परिव्याप्तस्य अस्य लोकतन्त्रस्य भावः अस्मदीयः अमृतः रिक्थः वर्तते | अस्माभिः  रिक्थोsयम् इतः परमपि दृढतरः करणीयः | 
        मम प्रिया देशवासिनः ! प्रत्येकमपि भारतीयः अद्यत्वे शिरान्सि उन्नमय्य गौरवम् अनुभवति | वर्षेsस्मिन् जून-मासे एकविन्शतितमे दिने सम्पूर्णमपि विश्वं योगमयं जातम् | जलतः पर्वत-पर्यन्तं जनाः प्रभाते एव योगाभ्यास-माध्यमेन भगवतः सूर्यस्य किरणानां स्वागतम् अकुर्वन् | कश्चन नाम वा भारतीयः भवेत् यो एतद्विषये नूनं गौरवमनुभवेत् | एवं नास्ति यत् योगाचरणं पूर्वमपि न क्रियते स्म | परन्तु अद्यत्वे यदा योगसूत्रेण बद्धाः स्मः, योगः विश्वं संयोजयितुं कारणत्वेन विराजते | विश्वस्य प्रायेण सर्वेsपि देशाः योगस्य अवसरमेनं स्वीयावसर-रूपेण स्वीकृतवन्तः | चीन-देशे The Great Wall of China - इत्यत्र जनाः योगाभ्यासम् अकुर्वन् | अपरत्र, Peru-देशे World Heritage Site- इति  माचू-पिच्चू-स्थले यद्धि समुद्र-तलात् चतुःचत्वारिन्शत्-शत-मीटर-मितेन ऊच्चैः वर्तते, तत्रापि जनाः योगाभ्यासम् अकुर्वन् | फ़्रांस-देशे  एफिल-टॉवर-इत्यत्स्य छायायां जनाः योगमाचरितवन्तः | UAE-इत्यत्र Abu Dhabi-नगरे चतुःसहस्राधिकाः जनाः सामूहिक-योगमाचरितवन्तः I अफगानिस्ताने  हेरात-स्थले India Afghan Friendship Dam- इति सलमा-जलावष्टम्भे योगाभ्यासं  कृत्वा जनाः भारतस्य सख्याय अभिनवम् आयामं प्रादुः | सिंगापुर-सदृशे लघुनि  स्थाने सप्तत्यधिकेषु स्थलेषु कार्यक्रमाः अभूवन्, अपि च, ते सप्ताहावधिकम् अभियानमेकं प्रवर्तितवन्तः | संयुक्त-राष्ट्र-संघेन अन्ताराष्ट्रिय-योग-दिवसम् आलक्ष्य दश प्रैष-मुद्राङ्काः प्रसारिताः | संयुक्त-राष्ट्र-संघस्य मुख्यालयेषु   Yoga Session with Yoga Masters- इति कार्यक्रमः आयोजितः | संयुक्त-राष्ट्र-संघस्य अधिकारिणः, कार्मिकाः, अशेष-जगतः कूटनीतिज्ञाः चेति सर्वेsपि अत्र सहभागित्वं निरवहन् |
       साम्प्रतं पुनरेकवारं योगेन विश्वस्य आभिलेख्यमपि अर्जितम् | गुजराते अमदावादे प्रायेण पञ्च-पञ्चाशत्-सहस्रं जनाः युगपदेव योगाभ्यासं कृत्वा अभिनवं विश्व-कीर्तिमानं विरचितवन्तः | अहमपि लखनऊ-नगरे योग-कार्यक्रमे सहभागित्वस्य अवसरं प्राप्तवान्, परञ्च, प्रथमवारं वर्षायां योगाभ्यासस्य सद्भाग्यं प्राप्तम् | अस्माकं सैनिकाः सियाचिन्-पर्वत-शिखरे यत्र विंशति-पञ्चविंशति-चत्वारिंशत्-डीग्रीमितं न्यूनं तापमानं भवति, तत्र योगाभ्यासं कृतवन्तः | अस्मदीयाः सशस्त्र-बलस्य, सीम-सुरक्षा-बलस्य, ITBP-बलस्य, केन्द्रीयारक्षितारक्षि-बलस्य, CISF-इति बलस्य चेति प्रत्येकमपि स्वीय-कर्तव्येन सहैव योगाभ्यासं स्वीयाङ्गत्वेन अङ्गीकृतवत् | एतद्-योग-दिवसावसरे अहम् उक्तवान् यत् संतति-त्रयम्, यतो हि तृतीयोsयम् अन्ताराष्ट्रिय-योग-वर्षीय-दिवसः, अतः कुटुम्बस्य सन्तति-त्रयं युगपदेव योगाभ्यासं कुर्वदेव तच्चित्रं प्रेषयेत् | काश्चन दृश्य-वाहिकाः अपि तथ्यमेनत् प्रचारितवत्यः | अवसरेsस्मिन् अनेकानि चित्राणि मया लब्धानि, तेषु कानिचन चितानि चित्राणि NarendraModiApp- इत्यत्र संयोजितानि सन्ति | येन प्रकारेण अशेष-जगति योगः परिचर्च्यते, तस्मात् एकं लाभकरं तथ्यमेतत् समुद्भवति यत् अद्यतनः स्वास्थ्य-जागरूक-समाजः समीचीनतातः अनारोग्यतां प्रति अग्रेसरति | ते इदम् अनुभवन्ति यत् समीचीनतायाः महत्त्वं तु अस्त्येव, परञ्च, अनारोग्यतायाः कृते योगः उत्तमः मार्गः अस्ति |
   “आदरणीय ! प्रधानमन्त्रि-महोदय ! अहं डॉ.अनिल-सोनारा, अमदवादतः वदामि | महोदय ! मम जिज्ञासा वर्तते | नातिचिरं केरळे वयं भवन्तं श्रुतवन्तः | विभिन्नेषु स्थलेषु उपहारत्वेन पुष्प-गुच्छाः प्रदीयन्ते | एतत्-स्थाने अस्माभिः स्मृति-उपहारत्वेन पुस्तकानि प्रदेयानि | एतद्विषयकः शुभारम्भः भवान् गुजराते निज-कार्यकाले विहितवान् | साम्प्रतं नैतत् अस्माभिः दृश्यते | so can we do something  ? किं वयं सन्दर्भे अस्मिन् किमपि कर्तुं पारयेम ? येन देश-व्यापिना स्तरेण अस्य कार्यान्वयनं स्यात् |”
       विगतेषु दिनेषु अहं मम प्रियतमेषु अन्यतमे कार्यक्रमे सहभागित्वस्य अवसरं लब्धवान् | केरळे सुष्ठु-कार्यक्रमः प्रचलति | कतिपय-वर्षेभ्यः श्री-पी-एन्-पण्णिकर-प्रतिष्ठानेन कार्यक्रमोsयं प्रचाल्यते यस्मिन् जनानां पठनाभ्यासः स्याद्, जनाः पठनं प्रति जागरूकाः स्युः चेति कृत्वा reading day, reading month- इत्युत्सवः आयोज्यते | अस्य कार्यक्रमस्य शुभारम्भार्थम्  अहं तत्र गतवान् | तत्र मह्यम् एतत् सूचितं यत् ते पुष्प-गुच्छं नैव परञ्च पुस्तकं ददति | मह्यम् इदं रोचते स्म | मया यत् विस्मारितमासीत्,   झटिति तत् पुनः स्मरणाधीनं जातम् | यतो हि, यदा अहं गुजराते आसम्, तदा मया प्रशासने एका परम्परा प्रवर्तिता आसीत् यत् वयं पुष्प-गुच्छं नैव, पुस्तकानि दास्यामः, आहोस्वित् करवस्त्रेण स्वागतं करिष्यामः | अपि च खादी-करवस्त्रेण एव, येन खादी-वस्त्राणां संवर्धनं स्यात् | यावत्पर्यन्तं गुजराते आसम्, अस्माकं सर्वेषां अभ्यासः जातः, परम्, अत्रागमनस्य अनन्तरं सः अभ्यासः अपगतः | किन्तु केरळ-गमनेन सः अभ्यासः पुनः जागृतः तथा च, अहं तु प्रशासने पुनः एतत् सूचयितुम् आरभम् | वयमपि शनैः शनैः तादृशं स्वभावं विकासयितुं शक्नुमः | तथा च, पुष्प-गुच्छस्य आयुः तु अत्यल्पं भवति | एकवारं स्वीकृत्य परित्यजामः | परन्तु, पुस्तकं दीयते चेत् तत्तु गृहस्य कुटुम्बस्य च   अङ्गत्वेन परिभाव्यते | खादी-कर-वस्त्र-प्रदानेन अपि अनेकेषां निर्धनानां साहाय्यं भवति | व्ययः अपि न्यूनः भवति, समुचित-रूपेण तस्य उपयोगो भवति | यदा एतत् अहं वर्णयामि तदा संस्मरामि यत् एतादृश-व्यवहारस्य बहुमात्रिकम् ऐतिहासिकं महत्वं भवति | गते वर्षे यदा अहं UK-देशं गतवान् तदा London-नगरे Britain-साम्राज्ञी, Queen Elizabeth मां निमन्त्रितवती | तत्र मातृ-सहजः परिवेशः आसीत् | आत्मीय-प्रेम्णा सा भोजनमपि कारितवती, परञ्च अनन्तरं सा मां सादरं अतितरां भावात्मक-स्वरेण सूत्रैः ग्रथितं लघु  खादी-करवस्त्रं दर्शितवती, तदा तस्याः नयनयोः अलौकिकं  ज्योतिः व्यराजत, सा उक्तवती यत् यदा मम विवाहः सञ्जातः तदा एतत् कर-वस्त्रं महात्म-गान्धी मङ्गल-कामना-उपहारत्वेन मह्यं प्रेषितवान् | कति वर्षाणि व्यतीतानि ? परञ्च, Queen Elizabeth-महाभागया   महात्म-गान्धिना प्रदत्तम् एतत् handkerchief-इति कर-वस्त्रं सम्भालितमस्ति | तथा च, सा मां दर्शयन्ती अस्ति- इति कृत्वा सा आनन्द-सन्दोहं अनुभवति स्म | अपि च, यदा अहं तत् पश्यन् आसं तदा सा साग्रहं माम् उक्तवती यत् स्पृष्ट्वा एतत् अनुभवेयम् | महात्म-गान्धिना प्रदत्तः अल्पीयान् अपि उपहारः तस्याः जीवनस्य अङ्गत्वेन अजायत, तस्याः इतिवृत्तस्य अविभाज्यः भागः अभवत् |    

         अहं विश्वसिमि यत् एताः कुरीतयः सहसा नैव परिवर्तन्ते | तथा च, यदा हि वयम् एतादृशं किमपि आलपामः, जनाः आलोचनामपि कुर्वन्ति | एवं संजायमाने सत्यपि तथ्ये, अस्माभिः सततं प्रयतनीयम् | कुत्रचित् गच्छामि, तत्र कश्चन पुष्पगुच्छम् उपाहरति चेत् तस्य प्रतिषेधं नैव करिष्यामि, परञ्च परिष्कारार्थं तु सततं प्रयतिष्यामहे |
    मम प्रियाः देशवासिनः ! प्रधानमन्त्रिणः दायित्व-कारणात् अनेक-प्रकारकाणि कार्याणि मया करणीयानि भवन्ति | पञ्जिकासु मग्नाः भवामः, परञ्च, अहं स्वस्मै अभ्यासमेकं विकासितवान् यत् मम कृते यानि पत्राणि लभ्यन्ते तेषु कानिचित् अहं प्रतिदिनं पठामि | एवं हि अहं सामान्य-जनैः सह संपृक्तो भवामि | अनेक-प्रकारकाणि भवन्ति एतानि पत्राणि | पृथक्-पृथक् जनाः एतानि पत्राणि लिखन्ति | एतेषु दिनेषु एकं तादृशं पत्रं पठितुम् अवसरं लब्धवान् यत् अवश्यं मया तद्विषये भवतां समक्षं विवर्णनीयम् | दूरे सुदूरे दक्षिण-प्रदेशे तमिलनाडु-राज्ये स्थितस्य मदुराई-नगरस्य एका गृहिणी अरुल-मोझी-सर्वनन् मह्यं पत्रमेकं प्राहिणोत् | सा अलिखत् यत् कुटुम्बस्य बालानां शिक्षणार्थं मया किञ्चित् आर्थिक-कार्य-जातं विधातुं विचारितम् | अतः मया ‘मुद्रा-योजना’-माध्यमेन बैङ्कात् किञ्चित् धनम् आदत्तम्, विपणीतः च, सामग्रीम् आनीय आपूर्ति-कार्यम् आरब्धम् | एतादृश्यां स्थितौ मया अवगतं यत् सर्वकारः Government E-Marketplace- इत्याख्यां काञ्चित् व्यवस्थां प्रावर्तयत् | मया अन्विष्टम् यत् किमेतत् ? केचन जनाः मया पृष्टाः| तदनु अहम् आत्मानं तत्र पञ्जीकारितवती |
      अहं देशवासिनः सूचयितुं इच्छामि  यत् भवन्तः अपि लब्धे सति अवसरे Internet- इति अन्तर्जाले E-GEM - इत्यत्र अवलोकयन्तु | एषा नूतना लाभप्रदायिनी व्यवस्था वर्तते | यः कश्चन प्रशासनाय किमपि वस्तु-जातम् आपूरयितुं वाञ्छति, लघु-लघूनि वस्तूनि प्रेषयितुं इच्छति, यथा विद्युद्दीपान्, अवकर-कण्डोलिकाः, मार्जनीः, आसन्दिकाः, आधार-पटलानि च प्रेषयितुं वा विक्रेतुं वाञ्छति, सः अत्र स्वीय-पञ्जीकरणं कर्तुं शक्नोति | वस्तूनां गुणत्वं विलिख्य मूल्यादिकं निर्दिश्य च सूचयितुम् अर्हति | सर्वकारीय-विभागानां कृते एतत् अनिवार्यं वर्तते यत् ते नूनम् एतत् प्रेषितं सर्वं विवरणम् अवलोकयेयुः, अनन्तरं सर्वं सम्यक् अस्ति चेत् तद्वस्तु-प्रेषणाय आदेष्टव्यम् | एवंरीत्या ये मध्यस्थाः भवन्ति तेषामत्र हस्त-क्षेपो नैव भविता | सर्व-विधं पारदर्शित्वं समापन्नम् | प्रविधि-माध्यमेन एव सर्वं संजायते | अतः E-GEM- इति व्यवस्थायाः अन्तर्गतं ये जनाः पञ्जीकरणं कुर्वन्ति, तान् सर्वकारस्य सर्वे अपि विभागाः अवलोकयन्ति | मध्यस्थाः जनाः नैव भवन्ति इति कृत्वा वस्तूनि महार्घाणि नैव भवन्ति |  अधुना अरुल-मोझी-महाभागा सर्वकारस्य अन्तर्जाल-वाहिकां प्रति यां यां सामग्रीं प्रेषयितुं शक्नोति तासां सर्वासां पञ्जीकरणं विहितवती | तस्याः पत्रमिदम् अतितरां रुचिकरं वर्तते | सा अलिखत् यत् एकतः मया ‘मुद्रा’तः धनं लब्धम्, मम व्यापारः आरभत | E-GEM- इत्यस्याः अन्तर्गतं किं किम् अहं प्रेषयितुं प्रभवामि, तद्विषयिणी सूची स्थापिता, तथा च, PMO- इति प्रधानमन्त्रिणः कार्यालयात् आदेशः अवाप्तः |
         मम कृते अपि नवमिदं वृत्तमासीत् यत् PMO-इत्यनेन किम् आदिष्टम् | सा अलिखत् यत् PMO-इत्यनेन थर्मोस्-इति उष्णता-रक्षक-द्वयं क्रीतम्, तदर्थं षोडश-शतं रूप्यकाणि अपि मया लब्धानि | एतदस्ति - शक्ती-करणम् | एषः चास्ति उद्यमिनां प्रोत्साहनावसरः | यदि अरुल-मोझी मां पत्रं नैव अलिखिष्यत् तदा अहमपि एतदर्थं निध्यातुं नैव अपारयिष्यम् | एषा अस्ति देशस्य शक्तिः | अत्र पार-दर्शित्वमपि वर्तते, शक्तीकरणमपि उद्यमित्वमपि चास्ति |           
      मम प्रियाः देशवासिनः ! एकतः वयं योग-विषयकं गौरवम् अनुभवामः, अपरतः वयं अन्तरिक्ष-विज्ञाने अस्मदीयाः अधिगतोपलब्धीः अभिलक्ष्यापि गर्वम् अनुभवितुं शक्नुमः | इयमेवास्ति भारतस्य विशेषता | यदि अस्माकं पादौ योगाधृतौ भूमौ स्तः, अपरतः अस्मदीयानि स्वप्नानि  सुदूरे गगनस्य सीमानम् अतिक्रान्तुं वर्तन्ते |
      विगतेषु दिनेषु भारतेन क्रीडासु विज्ञाने चापि सुबहु अनुष्ठीय प्रदर्शितम् | अद्यत्वे भारतं न केवलं भूमौ, अन्तरिक्षे अपि स्वीयं ध्वजं उत्तोलयति |     दिवस-द्वय-पूर्वमेव ISRO-इति भारतीयान्तरिक्षानुसन्धान-संघटनेन  ‘Cartosat-2 Series Satellite’-इत्यनेन साकं त्रिन्शत् Nano-Satellites-यानानि प्रक्षिप्तानि | एतेषु उपग्रहेषु भारतमतिरिच्य  फ्राँस, जर्मनी, इटली, जापान, ब्रिटेन, अमेरिका-प्रभृतयः प्रायः चतुर्दश देशाः समाविष्टाः सन्ति | nano-उपग्रहाभियानेन कृषि-क्षेत्रे, कृषकाणां कार्येषु, प्राकृतिकापत्सु चापि महत्-साहाय्यम् अवाप्स्यते | प्रत्येकमपि भारतीयः एतद्-गौरवमपि अनुभवितुं शक्नोति यत् कतिपय-दिवसेभ्यः प्राक्, ISRO-इत्यनेन ‘G-SAT-19’-इत्यस्य सफ़लं प्रक्षेपणं विहितम् | अपि च, भारतेन अधुनावधि प्रक्षिप्तोपग्रहेषु सर्वाधिकं भारयुतं अवर्तत |  अस्माकं देशस्य वार्तापत्रैः तु अस्य भार-तुलना गज-भारेण सार्धं विहितासीत् | भवन्तः कल्पयितुं शक्नुवन्ति यत् अस्मदीयाः वैज्ञानिकाः अन्तरिक्षे कियत् बृहत् कार्यं कृतवन्तः इति |  जूनमासे ऊनत्रिंशति दिने ‘मार्स-मिशन’ इति कार्यक्रमस्य सहस्रं दिनानि पूर्णतां गतानि |  सहस्र-दिनानन्तरमपि अस्मदीयं मङ्गल-यानं कार्यं करोति, चित्राणि प्रेषयति, सूचनाः प्रेषयति, scientific data-इति वैज्ञानिक-विवरणं च प्राप्यते | इयं हि अन्तरिक्ष-क्षेत्रे अस्मदीया महत्वाधायिनी सिद्धिः वर्तते |
       एतेषु दिनेषु क्रीडासु अपि अस्मदीयानां यूनां प्रवृत्तिः रुचिश्च समेधेते इति वयं पश्यामः |
साम्प्रतं एतद् अवलोक्यते यत् अध्ययनेन सहैव क्रीडास्वपि अस्माकीनाः युवानः स्वीयं प्रशस्तं भविष्यत् परिभावयन्ति | तथा च, अस्माकं क्रीडकानां कारणात्, तेषां पुरुषार्थेण, तेषाञ्च सिद्धि-कारणात् राष्ट्रस्य नामापि कीर्ति-युतं भवति |  नातिचिरमेव, भारतस्य बैडमिंटन्-क्रीडकः किदाम्बी-श्रीकांतः   इंडोनेशिया-मुक्त-स्पर्धायां विजयश्रियं अवाप्य राष्ट्रस्य गौरवम् अवर्धयत् | अस्यै उपलब्ध्यै तं तस्य प्रशिक्षकाय च हृदयेन अभिनन्दामि | कतिपय-दिनेभ्यः प्राक्,  पी.टी.उषा-इति सुख्यातायाः धाविकायाः Usha School of Athletics- इत्यस्य Synthetic Track- उद्घाटन-समारोहे समुपस्थितेः अवसरः लब्धः | वयं क्रीडाः यावतीः विवर्धयिष्यामः तावन्तः एव क्रीडा-भावाः, तावत्यः स्पर्धा-भावनाः च विवर्धिष्यन्ते | क्रीडाः व्यक्तित्वस्य विकासार्थमपि अतितरां महत्वाधायिनीं भूमिकां निर्वहति | सर्व-विध-व्यक्तित्व-विकासाय खेलानां अतिमाहात्म्यं वर्तते | देशे प्रतिभानां किञ्चिदपि नैयून्यं नैव वर्तते | यदि अस्माकं कुटुम्बे अपि बालानाम् अभिरुचिः खेला-विषयिणी अस्ति चेत् तेभ्यः ताभ्यश्च नूनम् अवसराः प्रदेयाः | तान् ताश्च क्रीडा-क्षेत्रेभ्यः समाकृष्य कक्षेषु पिहित्वा पुस्तक-पठनाय च विवशीकरणं नैवास्ति समीचीनम् | ते ताश्च पठन्तु नाम, तस्मिन् क्षेत्रे अपि अग्रेसरन्ति चेत्, नूनम् अग्रेसरन्तु | परञ्च क्रीडासु तेषां सामर्थ्यम् अस्ति, अभिरुचिः वर्तते चेत् तदा, विद्यालयस्य, महाविद्यालयस्य, कुटुम्बस्य परिपार्श्व-वर्तिनः, सर्वे अपि जनाः तान् समर्थ्य प्रोत्साहयेयुः |  भाविनीनां Olympic-स्पर्धानां कृते प्रत्येकमपि जनेन स्वप्नायितुं शक्यते |
पुनरेकवारम्, मम प्रियाः देशवासिनः ! वर्षर्तुः, अनारतं उत्सवानां परिवेशः च परमार्थेन - एतत्-सर्वा कालखण्डस्य नूतना एव अनुभूतिः भवति | अहं पुनरेकवारं भवद्भ्यः सर्वेभ्यः मङ्गल-कामनाः व्याहरन् आगामि मनोगतम् इति ‘मन की बात’ इत्यस्य समये पुनः संभाषिष्ये | नमस्कारः !!!
                        “मन की बात” [३३] -प्रसारण-तिथि - २५-जून’२०१७ 
                      संस्कृत-भाषान्तरकर्ता
                         - डॉ.बलदेवानन्द सागर
                            Cell- 9810 5622 77                           
                  Email - baldevanand.sagar@gmail.com