Monday 17 April 2017

 Dr. Abhilash J
Research Article No: 20170417
शिक्षया विश्वहितम्     लेखनम्

विद्यया मृत्युं तीर्त्वा विद्यया अमृतमश्नुते इति वेदघोषः। सा विद्या एव प्रकृष्टा या मुक्तिं ददाति। उपनिषदनुसारेण परा अपरा इति विद्ये द्वे स्तः। यया विद्यया लैकिकं ज्ञानं जायते सा अपराविद्या। यया च अक्षरब्रह्मविषयकं ज्ञानं जायते सा परा विद्या। विद्या शब्दस्य अपरं नाम भवति शिक्षा इति।
 
     शिक्षायाः शाब्दिकार्थः- शिक्ष् विद्योपादाने इति धातोः निष्पन्नः शिक्षा शब्दः। यस्य च अर्थः भवति शिक्षणम् अध्ययनं वा। शिक्षायाः अर्थः भवति व्यक्तेः आन्तरिकशक्तेः बहिरानयनं अथवा अन्तस्थशक्तीनां बहिर्निष्क्रमणम्। पुनः शिक्षापदस्य निर्देशः, शिक्षणम्, प्रशिक्षणं, अनुशासनं, पालनपोषणं,संस्कृतिः इत्याद्यर्थाः च प्रतीयन्ते।

     शिक्षायाः व्यापकार्थः- शिक्षायाः व्यापकार्थे शिक्षा नाम आजीवनं प्रचलन्ती काचित् गतिशीला प्रक्रिया भवति। व्यापकार्थे शिक्षायाः कार्यं जीवनपर्यन्तं  प्रचलत् भवति। व्यक्तिः जन्मतः मृत्युपर्यन्तं किमपि किमपि शिक्षते। व्यक्तिः परिवारे , समाजे,बन्धुवर्गे, क्रीडोद्याने, आपणे, यात्रायां, उद्यानादिषु च क्रमशः शिक्षते। एवं शिक्षायाः क्षेत्रम् अतीव विस्तृतं भवति। आधुनिक शिक्षाशास्त्रिणां मते शिक्षा आगर्भात् चितापर्यन्तं प्रचलति इति।

     शिक्षायाः सड्कुचितार्थः- विद्यालये प्रदीयमाने शिक्षा इति अस्याः सड्कुचितार्थः। अस्यामभिप्रायः यत् बालकः निश्चितयोजनानुसारं, निश्चितसमयानुगुणं, निश्चितपाठ्यक्रमानुसारं,निश्चितोद्देश्यमाधारीकृत्य निश्चितविधिमाश्रित्य निश्चितेभ्यः अध्यापकेभ्यः शिक्षां प्राप्नोति। अत्र सर्वमपि पूर्वयोजनानुगुणं भवति।

     शिक्षायाः विश्लेषणात्मकः अर्थः- शिक्षायाः अर्थः विद्यालये प्रदीयमान ज्ञाने सीमिता न भवेत्, परं जन्मसमयादारभ्य मृत्युपर्यन्तं प्रचाल्यमाना क्रिया भवति। शिक्षा बालकस्य जन्मजातशक्तेः विकासार्थं भवति।

     शिक्षायाः वास्तविकार्थः- शिक्षायाः वास्तविकार्थः सर्वाड्गीणविकासः भवति। अर्थात् शिक्षा तादृशी एका प्रक्रिया भवति यया मनुष्यस्य जन्मजातशक्तीनां स्वाभाविकसामञ्जस्यपूर्णविकासः च प्रस्फुटितः भवति। सर्वाड्गीणविकासः इत्युक्ते शारीरिक, मानसिक,संवेगात्मक,सामाजिक,नैतिक,आध्यात्मिकश्च विकासः। एवं सर्वाड्गीणविकासयुक्तः छात्रः समाजस्य सदस्यरूपेण समाजं प्रति राष्ट्रं प्रति च स्वदायित्वस्य निर्वहणे समर्थः भवति। पुनः तस्य व्यवहार विचार आचारादीनां विषये मर्यादानुगुणं परिवर्तनं संभवति। तेन समाजस्य देशस्य तथा विश्वपरिवारस्य च हितं भवति।
--------------------------------

Sunday 9 April 2017

Standard Article No: 20170409
“वैविध्य-समावेशिनी संस्कृत-पत्रकारिता” 
- बलदेवानन्द-सागरः 
   संस्कृत-पत्रकारितायाः वैविध्य-समावेश-स्वरूप-विषये विस्तरेण किमपि कथनात् प्राक् सुधी-पाठकानां पुरस्तात् एतत् स्पष्टीकर्तुं समीहे यत् लोके साम्प्रतं हिन्दी-भाषायाः आङ्ग्लभाषायाः वा अन्यासां प्रचलितानां भाषाणां पत्रकारिता-वैविध्यमिव संस्कृत-पत्रकारितायाः वैविध्य-समावेशः अपि तावता अवधानेन नैव परिचर्च्यते, परञ्च तथ्यमेतत् सूर्य-प्रकाशमिव सुद्योतितमेव यत् अधुनातनेsपि काले भारतस्य प्रायेण सर्वेष्वपि राज्येषु केषुचित् विदेशेष्वपि सुबहु-कालात् अनेक-विधाः वैविध्य-समावेश-स्वरूपान्विताः संस्कृत-पत्र-पत्रिकाः प्रकाश्यन्ते स्म प्रकाश्यन्ते च | 
एताः संस्कृत-पत्र-पत्रिकाः समीक्ष्य एवं वक्तुं शक्यते यत् आरम्भादेव संस्कृत-पत्रकारिता वैविध्य-समावेशिनी प्रावर्त्तत, अपि चैषा, इतः परमपि अधुनातन-जीवनस्य सर्व-विध-वृत्तान्त-समावेशिनी सती बुधानां विबुधानां सहृदयानां सुरभारती-समुपासकानां संस्कृतानुरागिणाञ्च चेतान्सि समाकर्षयिष्यति |

कदा प्रभृति आरब्धा एषा आधुनिकी संस्कृत-पत्रकारिता ? 
   साम्प्रतं प्रश्नोsयं समुदेति यत् विदुषां मतानुसारेण संस्कृत-पत्रकारितायाः शुभारम्भः कदा प्रभृति स्वीकर्तव्योsस्ति ? प्रामाणिक-समीक्षादृशा साम्प्रतं संस्कृत-पत्रकारितायाः वैविध्य-समावेश--विषये किमपि लिलेखिषुरहं न केवलं लेखकधिया, अपि तु विगतेभ्यः द्वाचत्वारिन्शद्वर्षेभ्यः आकाशवाण्याः वार्त्ता-सेवा-प्रभागे, द्वाविन्शत्संवत्सरेभ्यः च दूरदर्शने संस्कृत-वार्त्तानां सम्पादनानुवाद-प्रसारणैः अधिगत-दीर्घानुभवाधारेण वक्तुमुत्सहे यत् व्यवहारे लोक-जीवने च समधिक-प्रयोगाभावेsपि सुरभारती एषा सर्वदैव, साहित्ये वा दर्शने वा शिल्पे वा योगे वा नाट्ये वा आयुर्वेदे वा विविध-विज्ञानेषु वा पत्रकारितायां वा विविध-रूपा सती समावेशात्मिका सती अधिकाधिकानां मनःस्पन्दिनी सती चानारतं व्यराजत विराजते विराजिष्यते च | अत्रास्ति किमपि विशिष्टं कारणमिति परिभावयामि |

 संस्कृत-पत्रकारितायाः संक्षिप्तम् ऐतिह्यम् - 
   यथा अत्रभवद्भिः बहुधा श्रुतं स्यात् यत् -“भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा |” अतः यया रीत्या भारतीया संस्कृतिः वैविध्य-समावेशिनी वर्त्तते तद्वद् संस्कृत-पत्रकारितापि वैविध्य-समावेशिनी सती विजयते | यथैव हिन्दीभाषायाः पत्रकारितायाः आरम्भ-विषये किमपि लिख्यते तदा सर्वप्रथमं हिन्दी-भाषायाः प्रथम-पत्रं “उदन्त-मार्तण्ड”- [ १८२६ ई., सम्पादक- पं. जुगलकिशोर-शुकुल] इति नूनं सन्दर्भ्यते | तद्वद् विदांकुर्वन्तु अत्र भवन्तो भवन्तः यत् संस्कृत-पत्रकारितायाः सार्धैक-शत-वर्षीया सुदीर्घा यात्रैषा गत-ख्रिष्टीयवर्षे [१९१६] मे-मासान्ते पूर्णतां गता | इतः पूर्वं १८६६-तमे ख्रिष्टीय-वर्षे जून-मासे प्रथमे दिनाङ्के काशीतः “काशीविद्यासुधानिधिः” -इति मासिकं पत्रं प्रकाशितमासीत्| संस्कृत-पत्रकारितायाः इतिहासान्तर्गतं प्रकाशितस्य प्रथमस्य संस्कृत-मासिक-पत्रस्य अस्य अपरं नामासीत्– “पण्डित-पत्रिका |” साम्प्रतं विद्वद्भिः स्वीक्रियते यत् अस्मादेव कालात् वैविध्य-समावेशिन्याः आधुनिक-संस्कृत-पत्रकारितायाः शुभारम्भः परिगण्यते चेत् साधु !

   भारतस्य क्षेत्रीय-भाषाणां पत्रकारितायाः इतिहासाध्ययनेन प्रतीयते यत् क्षेत्रेsस्मिन् अनेकासां दैनिक-मासिक-पत्र-पत्रिकाणां राष्ट्रिय-स्वाधीनता-संग्रामे महत्त्वाधायि योगदानम् अवर्त्तत परञ्च केसरी-इति पत्रस्य तत्रान्तरे किमपि विशिष्टं महत्त्वमासीत् | तदा स्वाधीनता-संग्रामावसरे अनेकविधानां काठिन्यानां साम्मुख्यानन्तरं नामजोशी-वर्यस्य व्यावहारिक-कुशलता-पुरस्सरं १८८१-तमे ख्रिष्टीय-वर्षे जान्युआरि-मासे चतुर्थे दिने “केसरी”-इति मराठी-भाषिकस्य साप्ताहिक-पत्रस्य प्रकाशनं प्रतिभौमवासरम् आरब्धम् |

   यं विषयं सोद्देश्यं संकेतयामि सोsस्ति “केसरी”- इति मराठी-साप्ताहिक-पत्रस्य मुख-पृष्ठोपरि प्रकाश्यमानः पण्डितराज-जगन्नाथस्य “भामिनीविलास” इति-ग्रन्थस्य समुपयुक्तः संस्कृत-श्लोकः यो हि ‘केसरी’-पत्रस्य कार्योद्देश्यं द्योतयति | विष्णुशास्त्री-चिप्लूणकरेण चितः ‘केसरी’-मुखपृष्ठोपरि मुद्राङ्कितः श्लोकोsस्ति –
“स्थितिं नो रे दध्याः क्षणमपि मदान्धेक्षण-सखे !, 
गज-श्रेणीनाथ ! त्वमिह जटिलायां वनभुवि |
असौ कुम्भि-भ्रान्त्या खरनखरविद्रावित-महा-
गुरु-ग्राव-ग्रामः स्वपिति गिरिगर्भे हरिपतिः ||” 
   महतो हर्षस्य विषयोsयं यत् संस्कृत-पत्रकारिता स्वीय-आरम्भ-कालादेव वैविध्य-समावेशिनी सती प्राकाश्यम् आगमनात् प्रागेव [ ईस्वी. १८६६-तः प्रागेव ] भारतस्य क्षेत्रीय-भाषासु बीजरूपेण व्यवह्रियते स्म | ममेदं विनम्रं मन्तव्यं यत् तदानीन्तन्याः विविध-भाषाणां पत्रकारितायाः वार्त्ताहराः, पत्रकाराः, लेखकाः, सम्पादकाः, प्रकाशकाः च आधिक्येन संस्कृतज्ञाः संस्कृतानुरागिणः सन्तः संस्कृति-संस्कृतनिष्ठाः चासनम्, पत्रकारितायाः समर्पित-कार्यार्थं संस्कृतस्य समृद्धं साहित्यम् आश्रयन्ति स्म |

   तथ्यमेतत् सुस्पष्टं यत् भारतस्य स्वाधीनता-प्राप्त्यर्थं सामान्य-जनानां भाषासु सम्वादः विचार-सञ्चारः चावश्यकः आसीत् अत एव संख्यादृशा विभिन्नासु भारतीय-भाषासु अधिक-तराः, संस्कृत-भाषायां च न्यूनाः पत्रपत्रिकाः प्रकाशिताः अभूवन् | किन्तु भारतस्य सर्वेभ्योsपि राज्येभ्यः प्रकाश्यमानानां संस्कृत-पत्र-पत्रिकाणां विषयजातं संख्याबलञ्च सन्दर्भयामश्चेत् तदा कस्याश्चन क्षेत्रीय-भाषायाः आहोस्वित् राष्ट्रभाषायाः हिन्द्याः वा उर्दू-आङ्ग्लभाषयोः तुलनायां समग्रतया प्रकाश्यमानानां संस्कृत-पत्र-पत्रिकाणां संख्या अधिकतरा सिद्ध्यति | अनुसन्धानानुसारेण राष्ट्रस्य सर्व-विध-संस्कृत-पत्र-पत्रिकाणां संख्यैषा १२०-तः १३०-पर्यन्तं परिगणयितुं शक्यते |

    लघुकाये आलेखेsस्मिन् वैविध्य-समावेशिन्याः सार्धैक-शती-कालिकायाः संस्कृत-पत्रकारितायाः इतिवृत्तं विस्तरेण वर्णयितुं नैव शक्यते, परञ्च कासाञ्चन प्रमुखाणां संस्कृत-पत्र-पत्रिकाणाम् अध्ययनेन प्रतीयते यत् विविध-स्थानेभ्यः प्रकाशिताः प्रकाश्यमानाश्च एताः पत्रिकाः प्रामुख्येण द्विविधाः लभ्यन्ते | तयोरन्यतराः सन्ति शोध-पत्रिकाः यासु शोधलेखाः, प्राचीन-ग्रन्थाः, पाण्डु-लिपयश्च मुख्यतया प्रकाश्यन्ते स्म प्रकाश्यन्ते च | अपराः पत्रिकाः, सामान्यतया साप्ताहि- क्यः, पाक्षिक्यः, मासिक्यः, द्वैमासिक्यः, त्रैमासिक्यः, षाण्मासिक्यः, वार्षिक्यः, द्विवार्षिक्यश्च सन्ति यासु प्रायेण सर्वेषामपि विषयाणां सामग्री मुद्रिता विहिता विधीयते च | अत एव, “संस्कृत-पत्रकारिता वैविध्य-समावेशिनी” इति सुतरां सुसिद्ध्यति |

   साम्प्रतं पूर्वकालापेक्षया स्थितिः नितरां भिन्ना प्रतिभाति | प्रतीयते यत् संस्कृत-पत्रकारितायाः भविष्यत् उज्ज्वलमस्ति | आश्वस्ति-पुरस्सरं वक्तुं शक्यते यत् आसन्न-प्रायोsयं कालः यदा युवकाः युवत्यश्च आधिक्येन संस्कृतम् अध्येतुं भाषितुञ्च समीहितारः, अपि च, सामाजिक-संचार-माध्यमेषु इतरभाषापेक्षया संस्कृतविद्या अधिकाधिकं प्रयुक्ता भविता |  

स्वाधीनता-संग्रामावसरे संस्कृत-पत्रकारिता सर्वत्र बीजरूपेण सिद्धा -
   बीजरूपेण इतर-भाषा-पत्रकारितायां प्रवर्त्तमाना सती आधुनिक्यैषा संस्कृतपत्रकारिता स्वतन्त्रता-संग्रामस्य विशिष्टोपलब्धित्वेन ख्यापयितुं शक्यते | नवीनविचाराणां सूत्रपातं प्रवर्धयितुं राष्ट्रीयतां विवर्धयितुं चैषा अभूतपूर्वम् अमूल्यञ्च योगदानं व्यदधात् | अनुसन्धानानुसारेण तथ्य-मेतद् स्पष्टीभूतं यत् १८३२-तमे वर्षे बंगाल-एशियाटिक्-सोसाइटीति संस्थया अंग्रेजी-संस्कृत-भाषयोः एका द्विभाषिक-शोध-पत्रिका प्रकाशिता | अस्यां पत्रिकायां संस्कृत-साहित्यस्य अनुसन्धानपूर्णाः गवेषणात्मक-पुरातन-सामग्रीयुताः आलेखाः प्रकाश्यन्ते स्म | अनया पत्रिकया आङ्ग्लभाषा-ज्ञातारः साक्षराः संस्कृतज्ञाः कामपि अभिनवां चेतनामनुभूतवन्तः, अपि च, राष्ट्रं स्वभाषां साहित्यञ्च प्रति गौरवभावमधिगतवन्तः|

    यथापूर्वं लिखितं काशी-स्थितेन गवर्नमेन्ट-संस्कृत-कॉलेज्-इत्यनेन “काशी-विद्यासुधा-निधिः” अथवा “पण्डित-पत्रिका” नाम्नी मासिक-पत्रिका १८६६-तमे ख्रिष्टीय-वर्षे जून-मासे प्रथम-दिनाङ्कात् प्रकाशयितुमारब्धा | तदनु, काशीतः एव, १८६७-तमे ख्रिष्टीय-वर्षे “क्रमनन्दिनी”-नाम्नी पत्रिका प्रकाशिता जाता | विशुद्ध-संस्कृत-भाषया प्रकाश्यमाने इमे पत्रिके प्राचीनानां विविध-विषयाणां संस्कृत-ग्रन्थान् प्रकाशयतः स्म | अत्रेदमपि वक्तुं शक्यते यद् अनयोः पत्रिकयोः विशुद्ध-वार्त्तापत्राणां किञ्चिदपि लक्षणं नैवासीत् | तत्रान्तरे, वर्ष-चतुष्टयानन्तरं १८७२-तमे ख्रिष्टीय-वर्षे एप्रिल्-मासे लाहौरतः “विद्योदयः”- इति नवीन-सज्जा-युतं शुद्ध-वार्त्तापत्रमेकम् अवतारितम् | हृषीकेश-भट्टाचार्यस्य सम्पादकत्वे पत्रमेतत् संस्कृत-पत्रकारितायै अपूर्वं किमपि सम्बलं प्रादात् |ततः परं विद्योदयतः प्रेरणामादाय संस्कृत-भाषायाः अनेकाः नवीनाः पत्र-पत्रिकाः प्रकाश्यमागताः |

   बिहार-राज्यस्य प्रथमं संस्कृत-पत्रं १८७८-तमे ख्रिष्टीये वर्षे पटनातः प्रादुरभवत् | “विद्यार्थी”-नामकं मासिकपत्रमेतत् १८८०-वर्षे पटनातः नियत-कालिकं सत् प्राकाश्यमानीतम्, अनन्तरम् उदयपुरं सन्नीतम्, ततः पाक्षिक-संस्कृत-पत्ररूपेण एतत् प्रकाश्यते स्म | किञ्चित्-कालानन्तरं पत्रमिदं श्रीनाथद्वारा-तः प्रकाश्यते स्म | ततः परं एतत् हिन्दी-भाषायाः “हरिश्चन्द्र-चन्द्रिका” “मोहनचन्द्रिका” चेति पत्रिकाद्वयेन सम्भूय प्रकाशितं जातम् | संस्कृत-भाषायाः प्रप्रथमं पाक्षिक-पत्रमिदमासीत् यद्धि यथानाम विद्यार्थिनां हितानि विविधावश्यकताश्च आलक्ष्य सामग्री-जातं प्रकाशयति स्म | तत्कालीनः सुख्यातः संस्कृत-पत्रकारः पं.दामोदरशास्त्री अस्य पाक्षिक-पत्रस्य सम्पादकः आसीत् | अत एव सप्रमाणमिदं वक्तुं शक्यते यत् संस्कृत-पत्रकारिता वैविध्य-समावेशिनी सती सर्वदैव सर्वत्र च व्यराजत |

   १८८०-तमे वर्षे पटनातः एव मासिकं ‘धर्मनीति-तत्त्वम्’ आरब्धम्, परञ्च नास्य विषये काचित् विशिष्टा सूचना अवाप्यते, न चास्य कश्चन अङ्कोsपि लभ्यते |

   १८८४-तमे वर्षे ओक्टोबर-मासे सप्तदश-दिनाङ्कात् केरल-राज्यस्य कुन्नूर-तः ‘विज्ञान-चिन्तामणिः’- इति मासिकी पत्रिका प्राकाश्यमागाता | किञ्चित्-कालानन्तरं प्रचारातिरेक-कारणात् पत्रिकैषा पाक्षिकी, दशाह्निकी च सती अन्ततः साप्ताहिकी विहितासीत् | नीलकान्त-शास्त्रिणः सम्पादकत्वे पत्रिकेयं संस्कृत-पत्रकारितायाः विकासक्रमे अतितराम् उल्लेखनीया सिद्धा |

   संस्कृतस्य समृद्धि-प्रतिष्ठयोः शिक्षाप्रणाली-परिष्कारस्य च कृते पण्डित- अम्बिकादत्त-व्यासेन १८८७-तमे वर्षे स्थापिता संस्था ‘बिहार-संस्कृत-सञ्जीवन-समाजः’, संस्कृतस्य प्रचार-प्रसारार्थम् अनारतं प्रायतत | अस्याः संस्थायाः प्रथमोपवेशनं १८८७-तमे वर्षे एप्रिल्-मासे पञ्चमे दिनाङ्के सम्पन्नम्, यस्य च आध्यक्ष्यं पॉप्-जॉन्-बेन्जिन्-इत्यनेन निर्व्यूढम् | उपवेशनेs- स्मिन् विभिन्नेभ्यो राज्येभ्यः अनेके संस्कृतानुरागिणः तदानीन्तनाः पत्रकाराः, लेखकाः, कवयः, वार्त्ताहराश्च सहभागित्वं निर्वोढुं सम्प्राप्ताः आसन् | संस्था-सचिवः स्वयं पण्डित-अम्बिकादत्त- व्यासः एवासीत् | अमुना समाजेन १९४०-तमे वर्षे त्रैमासिकस्य ‘संस्कृत-सञ्जीवनम्’- इति पत्रस्य प्रकाशनमारब्धमासीत् | अत एव सप्रमाणमिदं वक्तुं शक्यते यत् संस्कृत-पत्रकारिता वैविध्य-समावेशिनी सती सर्वदैव सर्वत्र च व्यराजत |

   ऊनविन्श-शताब्द्याः अन्तिमे दशक-द्वये अनेकाः पृथग्विधाः संस्कृत-पत्रिकाः प्रकाशिताः जाताः | राष्ट्रिय-आन्दोलन-दृशा एतासु “संस्कृत-चन्द्रिका” “सहृदया” च विशिष्टं स्थानमावहतः स्म | पूर्वं कोलकोतातः कोल्हापुरतश्च प्रकाश्यमाना “संस्कृत-चन्द्रिका” अप्पाशास्त्रि- राशिवडेकरस्य सम्पादकत्वे दिगन्त-व्यापिनीं ख्यातिमार्जयत् | स्वीय-राजनैतिकानाम् आलेखानां प्रकाशन-कारणात् अप्पाशास्त्री नैकवारं कारावासेन दण्डितः आसीत् | संस्कृत-भाषायाः पोषणं, सम्वर्धनं, संस्कृत-भाषावित्सु उदार-मन्तव्याधानस्य प्रचारं, राष्ट्र-हितार्थं सुषुप्त-संस्कृतज्ञानां जागरणं चेत्यादि-लक्ष्याणि अवधार्य “सहृदया” राष्ट्रिय-आन्दोलने महत्त्वाधायिनीं भूमिकामावहत् |

   विन्श-शताब्द्याः आरम्भे लोकमान्यस्य बाल-गङ्गाधर-टिळकस्य नेतृत्वे अशेष-राष्ट्रं स्वदेशि-आन्दोलने सहभागित्वमावहत् | संस्कृत-पत्रकारितायाः कृते एतत् सम्वर्धन-युगमासीत् | तस्मिन्न- वसरे देशस्य विभिन्नेभ्यो भागेभ्यः अनेकाः संस्कृत-पत्र-पत्रिकाः प्रकाशिताः, यासु ‘भारतधर्मः’ [१९०१ ई.], ‘श्रीकाशीपत्रिका’ [१९०७ ई.], ‘विद्या’ [१९१३ ई.], ‘शारदा’ [१९१५ ई.], ’संस्कृत-साकेतम्’ [१९२० ई.] प्रभृतयः प्रमुखाः आसन् | ‘अर्वाचीनसंस्कृतसाहित्या’नुसारं १९१८-तमे वर्षे पटनातः संस्कृत-संजीवन-समाजेन पाक्षिकस्य ‘मित्रम्’-इत्यस्य प्रकाशनमारब्धमासीत् |

   स्वतन्त्रता-संग्राम-दिनेषु अपराः प्रमुखाः संस्कृत-पत्रिकाः आसन् – ‘आनन्दपत्रिका’ [१९२३ ई.], ‘गीर्वाणः’ [१९२४ ई.], ‘शारदा’ [१९२४ ई.], ‘श्रीः’ [१९३१ ई.], ‘उषा’ [१९३४ ई.], ‘संस्कृत-ग्रन्थमाला’ [१९३६ ई.], ‘भारतश्रीः’ [१९४० ई.] चेत्यादयः | १९३८-तमे वर्षे कानपुरतः अखिलभारती- य-संस्कृत-साहित्य-सम्मलेनस्य “संस्कृत-रत्नाकरः”-इति मासिकं मुखपत्रम् आरब्धम् | श्रीकेदारनाथ -शर्मा अस्य सारस्वतः सम्पादकः प्रकाशकश्चासीत् | १९४३-तमे वर्षे राष्ट्रिय-संस्कृत-विद्यापीठेन “गंगानाथ-झा-रिसर्च-जर्नल्”-इति त्रैमासिकी पत्रिका प्राकाश्यमानीता |

   स्वतन्त्रता-प्राप्तेरनन्तरं भारतस्य नाना-भागेभ्यः प्रकाश्यमानासु प्रमुखासु संस्कृत-पत्रिकासु, ‘ब्राह्मण-महासम्मेलनम्’ [१९४८ ई.], ‘गुरुकुलपत्रिका’ [१९४८ ई.], ‘भारती’ [१९५० ई.], ‘संस्कृत-भवितव्यम्’ [१९५२ ई.], ‘दिव्यज्योतिः’ [१९५६ ई.], ‘शारदा’ [१९५९ ई.], ‘विश्व-संस्कृतम्’ [१९६३ ई.], ‘संविद्’ [१९६५ ई.], ‘गाण्डीवम्’ [१९६६ ई.], ‘सुप्रभातम्’ [१९७६ ई.], ‘संस्कृत-श्रीः’ [१९७६ ई.] ‘प्रभातम्’ [१९८० ई.], ‘लोकसंस्कृतम्’ [१९८३ ई.], ‘व्रजगन्धा’ [१९८८ ई.], ‘श्यामला’ [१९८९ ई.] प्रभृतयः परिगण्यन्ते | आसु सर्वासु संस्कृत-पत्र-पत्रिकासु सन्निहितानां विविध-विषयाणां समीक्षणेन सप्रमाणमिदं वक्तुं शक्यते यत् संस्कृत-पत्रकारिता वैविध्य-समावेशिनी सती सर्वदैव सर्वत्र च व्यराजत |

   अस्मिन्नेव अवधौ [१९७०-तमे वर्षे ] संस्कृत-पत्रकारितायाः क्षेत्रे विशिष्टा ऐतिहासिकी घटना समपद्यत यस्याः महानायकः आसीत् – कर्नाटक-राज्यस्य मैसूरू-नगरस्थः सुप्रसिद्धः संस्कृत-विद्वान्, गीर्वाणवाणीभूषणः, विद्यानिधिः, पण्डित-कळले-नडादूरु-वरदराजय्य- ङ्गार्यः, येन मैसूरू-तः “सुधर्मा” इति दैनिकं संस्कृत-वार्त्ता-पत्रं प्रकाश्य विश्व-पत्रकारितायाः मञ्चोपरि संस्कृत-पत्रकारितायाः ध्वजमुत्तोलितवान् | नैक-संवत्सर-पूर्वं दिवङ्गतेsपि पण्डित-कळले-नडादूरु-वरदराजय्यङ्गार्य-वर्ये, अधुनापि तस्यात्मजः श्रीसम्पत्कुमारः सम्पादकत्वेन ‘सुधर्मा’-सातत्यं संधारयति, यद्यपि पूर्वं कदाचित् १९०७-तमे वर्षे जान्युआरिमासे प्रथम-दिनाङ्कात् केरळे थिरुअनन्तपुरम्-तः “जयन्ती”-नामकं दैनिकं संस्कृत-वार्त्ता-पत्रं प्रकाश्य श्रीकोमल-मारुताचार्येण श्रीलक्ष्मीनन्द-स्वामिना च अभूतपूर्वं साहसं प्रदर्शितमासीत् किन्तु धनस्य ग्राहक-पाठकयोश्च अभाव-कारणात् संस्कृत-दैनिकस्य अस्य प्रकाशनं कतिपय-दिनाभ्यन्तरे एव पिधातुं विवशौ जातौ-श्रीकोमल-मारुताचार्यः श्रीलक्ष्मीनन्द-स्वामी च | कालान्तरे, कानपुरतोsपि कतिपय-मासार्थं “सुप्रभातम्”-नामकं दैनिकं संस्कृत-वार्त्ता-पत्रं प्रकाशितं जातं किन्तु पाठक-ग्राहकयोः अभावात् एतदपि अवरुद्धम् |

संस्कृत-पत्रकारितायाः अधुनातनं स्वरूपम् –
   संस्कृतं नाम भारतस्य सांस्कृतिकं रिक्थम् | एतद्देशस्य अभिज्ञानम् | भारतस्य अस्मिता | स्वतन्त्र-भारतस्य भाषा-सम्बद्धायाः नीतेः चक्रव्यूहमुपेक्ष्य पश्यामः चेत् अद्यत्वे संस्कृतपत्रकारितायाः क्षेत्रेsनारतं विधीयमान् विविधान् प्रयोगान् परीक्षामहे चेत्, नूनमेतत् प्रतिभाति यत् विश्वस्य अधिकाधिकाः भाषाः, अमुना वैज्ञानिकेन गणितात्मकेन पूर्णेन च वाणी-विज्ञानेन लाभान्विताः भवन्ति | Computational Linguistic Science-इति विज्ञान-जातं परिपोष- यितुं सम्वर्धयितुञ्च संस्कृतस्य शब्दानुशासनं समधिकं सहायकं जायते | प्रवर्तमाने एतादृशि परिदृश्ये केषाञ्चन विशिष्ट-कारणानां कारणात् मन्दतामापन्ना संस्कृत-पत्रकारिता, आधुनिक-सञ्चार-माध्यमानां सर्वविध-क्षेत्रेषु सामाजिक-सञ्चार-माध्यमेषु च स्वीयां समुपयोगितां प्रभावञ्च सुतरां प्रतिष्ठापयति |

   संस्कृत-पत्रकारितायाः आधुनिक-युगं सुनिश्चेतुं यदि वयं एकविन्श-शताब्द्याः आरम्भ-कालं स्वीकुर्मश्चेत्, किञ्चित्-सिंहावलोकनं कृत्वा विन्श-शताब्द्याः अन्तिम-दशक-त्रये सञ्जातायाः सूचना-क्रान्तेः प्राविधिक-विकास-प्रक्रियायाः च समीक्षा व्यापक-परिधौ परिशीलनीया | अत्रभवन्तः सुधी-पाठकाः मम सङ्केतमवगतवन्तः इति मन्ये |

   वैविध्य-समावेशिन्याः संस्कृत-पत्रकारितायाः विकास-शृंखला-क्रमे अपरैका ऐतिहासिकी घटना घटिता, नूनं सात्र समुल्लेखनीयास्ति | भारत-सरकारस्य सूचना-प्रसारण-मन्त्रालयेन आरम्भे प्रयोगात्मक-रूपेण १९७४-तमे वर्षे जून-मासे ३०-तमे दिनाङ्के प्रातः ९-वादने आकाशवाण्याः दिल्ली-केन्द्रात् राष्ट्रिय-प्रसारणत्वेन संस्कृत-वार्त्तानां पञ्च-मिनिटात्मकं प्रसारणमारभ्य ताः सर्वाः अपि भ्रान्तयोsपाकृताः, ते सर्वेsपि चापवादाः अपसारिताः यत् संस्कृतं नाम भाषित-भाषात्वेन व्यवहर्तुं नैव शक्यते वा प्राविधिकाः विचाराः संस्कृतेन अभिव्यञ्जयितुं नैव शक्यन्ते इति | अस्य राष्ट्रिय-संस्कृत-वार्त्ता-प्रसारणस्य लोकप्रियतां सर्वजन-ग्राह्यताञ्च आलक्ष्य कतिपय-मासानन्तरं अपरमेकं पञ्च-मिनिटात्मकं संस्कृत-वार्त्तानां राष्ट्रिय-प्रसारणं सायं दश-मिनिटधिक-षड्-वादनतः आरब्धम् | नैतावदेव, १९९४-तमे वर्षे ओगष्ट-मासे २१-तमे दिनाङ्के रविवारे दूरदर्शनेन साप्ताहिकं संस्कृत-वार्ता-प्रसारणमारभ्य अभिनवं कीर्त्तिमानं प्रतिष्ठापितम् | ईश्वरानुग्रहेण दूरदर्शनात् प्रथमस्य साप्ताहिक-राष्ट्रिय-संस्कृत-वार्त्ता-प्रसारणस्य शुभावसरः आसां पङ्क्तीनां लेखकेन अवाप्तः | एतदनु, कतिपय-वर्षानन्तरं दूरदर्शनस्य साप्ताहिक-संस्कृत-वार्त्ता-प्रसारणमिदं पञ्च-मिनिटात्मका- वधये प्रतिदिनं प्रातः प्रसारयितुमारब्धम् | अतः सप्रमाणमिदं वक्तुं शक्यते यत् संस्कृत-पत्रकारिता वैविध्य-समावेशिनी सती सर्वदैव सर्वत्र च व्यराजत |

   अस्मिन्नेव काल-खण्डे अपरैका ऐतिहासिकी घटना संवृत्ता यया संस्कृत-पत्रकारितायाः प्रवर्त्तमाना मन्दगतिः तीव्रतरा विहिता | संस्कृतानुरागिणः केचन समुत्साहिनो युवानः एतेषु दशकेषु संस्कृतं भाषित-भाषात्वेन प्रतिष्ठापयितुं संघटनात्मक-रूपेण सक्रियाः सन्तः राष्ट्रव्यापि-अभियानान्तर्गतं संस्कृत-प्रचार-कार्याणि कुर्वन्तः चासनम्, गच्छता कालेन एतानि प्रचार-कार्याणि साम्प्रतम् अन्ताराष्ट्रिय-स्तरे विधीयन्ते | कर्णाटके बंगलूरु-नगरे कार्यरतं “हिन्दू-सेवा-प्रतिष्ठानम्”, अधुनातनरूपेण च “संस्कृत-भारती”, “लोकभाषा-प्रचार-समितिः” “विश्व-संस्कृत-प्रतिष्ठानम्” प्रभृतीनि कानिचित् एतादृन्शि नामानि सन्ति, यैः पत्रकारितायाः अधुनातन-स्वरूपं व्यवस्थापयितुं व्यापकतरञ्च विधातुं महत्-योगदानमनुष्ठितम्, अपि च, प्रत्येकमपि संस्कृतानुरागी समाश्वासितोsस्ति यत् कालोsयं समुपागतः यदा न केवलं भारतीयाः, वैदेशिकाः अपि, धाराप्रवाहेण संस्कृतं भाषिष्यन्ते | अस्म्न्नेव शृंखला-क्रमे “संस्कृत-भारती” १९९९-तमे वर्षे बंगलूरू-तः “सम्भाषण-सन्देशः” इति मासिक-पत्रिकां प्राकाशयत् | मासिक-पत्रिकैषा स्वीय-कलेवर-सज्जायाः, सरल-संस्कृत-भाषायाः विषय-वैविध्यस्य च कारणात् देशे विदेशेषु चातितरां लोकप्रिया प्रवर्त्तते | एवं हि प्रवर्तमानासु विविध-विषयिणीषु आसु पत्र-पत्रिकासु - संवित् [ पाक्षिकं पत्रम् ], संस्कृत-बाल-संवादः [ मासिकं पत्रम् ], गीर्वाणी [ मासिकं पत्रम् ], महास्विनी [ षाण्मासिकं पत्रम् ], आरण्यकम् [ षाण्मासिकं पत्रम् ], संस्कृत-सम्मेलनम् [ त्रैमासिकं पत्रम् ], अर्वाचीन-संस्कृतम् [ त्रैमासिकं पत्रम् ], आर्षज्योतिः [ मासिकं पत्रम् ], संस्कृत-प्रतिभा [ त्रैमासिकं पत्रम् ], संस्कृत-मञ्जरी [ त्रैमासिकं पत्रम् ], संस्कृत-वार्त्ता [ त्रैमासिकं पत्रम् ], संस्कृत-विमर्शः [ वार्षिकं पत्रम् ], अभिव्यक्ति-सौरभम् [ त्रैमासिकं पत्रम् ], अतुल्यभारतम् [ मासिकं पत्रम् ], संस्कृतवाणी [ पाक्षिकं पत्रम् ], संस्कृत-सम्वादः [ पाक्षिकं पत्रम् ], संस्कृत-रत्नाकरः [ मासिकं पत्रम्], दिशा-भारती [ त्रैमासिकं पत्रम् ], देव-सायुज्यम् [ त्रैमासिकं पत्रम् ], संस्कृत-वर्तमानपत्रम् [ दैनिकं पत्रम् ], विश्वस्य वृत्तान्तम् [ दैनिकं पत्रम् ], संस्कृत-साम्प्रतम् [ मासिकं पत्रम् ], निःश्रेयसम् [षाण्मासिकं पत्रम् ], श्रुतसागरः [ मासिकं पत्रम् ], सेतुबन्धः [ मासिकं पत्रम् ], हितसाधिका [पाक्षिकी पत्रिका], दिव्यज्योतिः [ मासिकं पत्रम् ], रावणेश्वर-काननम् [ मासिकं पत्रम् ], रसना [ मासिकं पत्रम् ], दूर्वा [ त्रैमासिकं पत्रम् ], नाट्यम् [ त्रैमासिकं पत्रम् ], सागरिका [ त्रैमासिकं पत्रम् ], ऋतम् [ द्विभाषिकं मासिकं पत्रम् ], स्रग्धरा [ मासिकं पत्रम् ], अमृतभाषा [साप्ताहिकं पत्रम् ], प्रियवाक् [ द्वैमासिकं पत्रम् ], दिग्दर्शिनी [ त्रैमासिकं पत्रम् ], वसुन्धरा [ त्रैमासिकं पत्रम् ], संस्कृत-मन्दाकिनी [ षाण्मासिकं पत्रम् ], लोकप्रज्ञा [ वार्षिकं पत्रम् ], लोकभाषा-सुश्रीः [ मासिकं पत्रम् ], लोकसंस्कृतम् [त्रैमासिकं पत्रम् ], विश्वसंस्कृतम् [ त्रैमासिकं पत्रम् ], स्वरमङ्गला [ त्रैमासिकं पत्रम् ], भारती [ मासिकं पत्रम् ], रचना-विमर्शः [ त्रैमासिकं पत्रम् ], सरस्वती-सौरभम् [ मासिकं पत्रम् ] संस्कृतश्रीः [ मासिकं पत्रम् ], वाक् [ पाक्षिकं पत्रम् ], अजस्रा [ त्रैमासिकं पत्रम् ], परिशीलनम् [ त्रैमासिकं पत्रम् ], प्रभातम् [दैनिकं पत्रम् ], व्रजगन्धा [ त्रैमासिकं पत्रम् ], संगमनी [ त्रैमासिकं पत्रम् ], विश्वभाषा [ त्रैमासिकं पत्रम् ], भास्वती [ षाण्मासिकं पत्रम् ], कथासरित् [ षाण्मासिकं पत्रम् ], दृक् [ षाण्मासिकं पत्रम् ], वाकोवाकीयम् [ षाण्मासिकं पत्रम्], वैदिक-ज्योतिः [षाण्मासिकं पत्रम् ], अभिषेचनम् [षाण्मासिकं पत्रम्], अभ्युदयः [षाण्मासिकं पत्रम्] सत्यानन्दम् [ मासिकं पत्रम् ], संस्कृत-साहित्य-परिषत्-पत्रिका [ त्रैमासिकं पत्रम् ] चेत्यादयः अन्यतमाः सन्ति | आभिः वैविध्य-समावेशिन्याः संस्कृत-पत्रकारितायाः क्षेत्रं समधिकं सक्रियं व्यापकतरञ्च विहितम्|

   एतदतिरिच्य, Hindustan Samachar- इति पृथग् एकं संस्कृत-वार्त्तनाम् अभिकरणं [ न्यूज-एजेन्सी ] अपि प्रवर्त्तते | एते सर्वेsपि संस्कृत-पत्रकाराः संस्कृत-कर्मिणश्च हार्दिकाभिनन्दनेन मंगलकामनाभिश्च वर्धाप्यन्ते !

वैद्युदाणविक-युगे [ Electronic Era ] बहव्यः ई-पत्रिकाः अपि प्रकाश्यन्ते -
   एतासु प्राची प्रज्ञा [मासिकी ई-पत्रिका ], जान्हवी [ त्रैमासिकी ई-पत्रिका ], संस्कृत-सर्जना [ त्रैमासिकी ई-पत्रिका ] सम्प्रति वार्त्ताः [ दैनिकं ई-पत्रम् ], अपि च, सम्प्रति वार्त्ताः-इति दैनिकं [ई-पत्रीय-दृश्यवार्त्ता-प्रसारणम्] चादयः प्रमुखाः सन्ति |

    सुधी-पाठकाः वृत्तमेतत् विज्ञाय सुखदमाश्चर्यम् अनुभविष्यन्ति यत् विगत-वर्ष-त्रयाद् [ online-संस्कृत-radio ] www.divyavanee.in... - इति नाम्ना संस्कृत-भाषिकान् विविधान् कार्यक्रमान् अहर्निशं प्रसारयति | पाण्डिचेरीस्थः श्री-ओरबिन्दो-आश्रमस्य समर्पित-विद्वान् डॉ.सम्पदानन्द-मिश्रः अस्य प्रसारणस्य प्रवर्तकः मार्गदर्शकश्च वर्त्तते |

   राष्ट्रिय-संस्कृत-संस्थान-श्रीलाल-बहादुर-शास्त्री-राष्ट्रिय-संस्कृत-विद्यापीठ-तुल्यानि संस्थानानि विश्वविद्यालयाश्च संस्कृत-पत्रकारितायाः पाठ्यक्रमान् आरभन्त | आशास्यते यत् कतिपय-कालानन्तरम् एतेभ्यः संस्थानेभ्यो निर्गताः प्रशिक्षिताः संस्कृतस्य पूर्णकालिकाः पत्रकाराः वार्त्ताहराश्च नूनं सक्रियाः भवितारः, अपि च, वैविध्य-समावेशिन्याः संस्कृत-पत्रकारितायाः कार्याणि प्रभावञ्च प्रवर्धयितारः | विगत-वर्ष-द्वये केरळे चत्वारि लघु-चलचित्राणि संस्कृत-भाषया विनिर्मितानि, तानि च दर्शकैः अतितरां प्रशंसितानि | थिरुवनंतपुरम्-तः प्रचाल्यमाना मलयालम-भाषिका “जनम्”- दृश्यवाहिनी २०१५-तमे वर्षे ओक्टोबर-मासे द्वितीय-दिनाङ्कात् [ गान्धि-जयन्ती-तः ] नियतरूपेण प्रतिदिनं १५-मिनिटात्मकं संस्कृत-वार्त्ता-प्रसारणमारभत |

   विगत-वर्ष-द्वयात् दूरदर्शनतः प्रसार्यमाणः वार्त्तावलीति साप्ताहिकः संस्कृत-कार्यक्रमः सुतरां लोकप्रियतां भजते | एवं हि, विगत-वर्ष-पञ्चकात् आकाशवाण्याः इन्द्रप्रस्थ-वाहिकातः मासे द्विवारं [ प्रथमे तृतीये च शनिवासरे, रात्रौ सार्ध-नववादने ] प्रसार्यमाणः अर्ध-होरावधिकः “संस्कृत-सौरभम्” इति कार्यक्रमः श्रोतृभिः सुतरां स्पृह्यते | एतानि तथ्यानि परिभाव्य सविश्वासं वक्तुं शक्यते यत् वैविध्य-समावेशिन्याः संस्कृत-पत्रकारितायाः भविष्यत् सकारात्मकं समुज्ज्वलं चास्ति |
डॉ. बलदेवानन्द-सागरः Email- baldevanand.sagar@gmail.com