Thursday 25 August 2016

शास्त्रपरिचयः
कल्पशास्त्रम्
एन् के रामचन्द्रः
वेदाड़्गेष्वन्यतमस्य कल्पशास्त्रस्य वेदहस्तः  इति प्रसिद्धिः । हस्तौ कल्पोऽथ पठ्यते इति पाणिनीयशिक्षायामुक्तम्। वेदोक्तकर्मणामानुपूर्व्येण कल्पनं कल्पः। कल्पो वेदविहितकर्मणामानुपूर्व्येण कल्पना इति ऋक्प्रातिशाख्ये। इदं वेदाड़्गं प्रत्यक्षतः ब्राह्मण्य सम्बद्धम्। कल्पसूत्रं श्रौतसूत्र- गृह्यसूत्र-कर्मसूत्र-धर्मस्त्र शुल्बसूत्रभेदात् चतुर्थाविभक्तम्।

श्रौतसूत्रम्
कल्प इति वेदाड़्गस्य मुख्यविभागत्वेन कल्प्यन्ते इति श्रौतसूत्राणि। वेदेन श्रुत्य सम्बद्धत्वात् श्रौत इति नाम वेदोक्तानां  यागादिनां क्रमबद्धाध्यनमेव श्रौतसूत्रेषु प्रतिपाद्यते। दर्श- पूर्णमास- पिण्डपितृ-आग्रायणेष्टि- चतुर्मासनिरूढपशुर्बन्ध सोमयाग-सत्र-गवानयन-वाजपेय-राजसूय- सौत्रामणि-अश्वमेध-पुरुषमेध-अहिनादीनां यागानां यथाक्रमं विवेचनम् अत्र लभ्यते। अत्र प्रतिपादितानि कर्माणि नित्यकर्माणि,नैमित्तिककर्माणि, काम्यकर्माणि इति त्रिधा विभक्तानि  भवन्ति।
नित्यकर्माणि- अवश्यं कर्तव्यानि कर्मण्येव नित्यकर्माणि। अग्निहोत्रादयः नित्ययागः। तावत्ज्जीवम् अग्निहोत्रं जुह्यदिति विधिः दर्श- पूर्णमासादीनि मासिकानि पाक्षिकानि वा यागानुष्ठानानि च नित्यकर्मसु अन्तर्भवन्ति।

 नैमित्तिककर्माणि- विवाहः जातकर्मः उपनयनं श्राद्धम् इत्यादयः संस्काराः नैमित्तिककर्मसु अन्तर्भवन्ति।एतानि प्रत्येकं सन्दर्भे अनुष्ठीयानेव।

 काम्यकर्माणि- पुत्रकर्म वृष्टिःगो समृद्धिः इत्यादिकम् इच्छद्भिः तदर्थमनुष्ठीयानि कर्माणि काम्यकर्मासु अन्तर्भवन्ति।  प्रतिवेदं  पृथक् पृथक्  प्रातिशाख्यं विद्यन्ते।अश्वलायनं शाख्यनमिति ऋग्वेदस्य द्वे प्रातिशाख्ये। अनयोः प्रथमम् ऐतरेयब्राह्मणं द्वितीयं शाख्यायनब्राह्मणं चानुसरति। यजुर्वेदीये श्रौतसूत्रे ब्रह्मावर्तमिति प्रसिद्धे कुरुक्षेत्रे विद्यमानैः ब्राह्मणैः अनुतिष्ठमानानां यागादीनां कर्मणां विवरणमेव मुख्यप्रतिपाद्यम्। कठ- मैत्रायणी- तैत्तरीयाख्ये वेदे मन्त्रभागाः ब्राह्मण भागश्च सम्मिश्ररूपेण तिष्ठन्ति। अतः अस्य कृष्णयजुर्वेदः इति संज्ञा। अनन्तरकालिके वाजसनेययजुर्वेदाख्ये मन्त्रभागः एकत्र ब्राह्मणभागाः इतरत्र च इति व्यवस्था।
अतः अस्य शुक्लयजुर्वेदः इति  संज्ञा। कृष्णशुक्लयजुर्वेदयोः पृथक् पृथक् श्रौत्रसूत्राणि सन्ति। कृष्णशुक्लयजुर्वेदीये बौधायन- वाधूल-भरद्वाज- आपस्तम्भ-सत्यारण्य हिरण्यकेशी वैख्यनसांख्यानि श्रौतसूत्राणि। शुक्लयजुर्वेदीये कात्यायन श्रौतसूत्रमेक एव।
सामवेदीये लाट्यायनं द्राह्यायनं जैमिनीयम् आर्षेयकल्पं निदानमिति पञ्च श्रौतसुत्राणि। अथर्ववेदस्य वैतायनाख्यम् एकमेव श्रौतसुत्रम्।

गृह्यसूत्राणि ।
गृहे भवं गृह्यम्। गृहस्य कर्म  सम्बद्धं यत्कर्म तादृश कर्मनिरूपकं भवति गृह्यसूत्रम्। चतुषु आश्रमेषु गृहस्थाश्रमं महत्तमिति विश्वास्यते। गृहस्त एव पञ्चमहायज्ञान् निर्वोढुमर्हः। गृहस्थेन अनुष्टेयानाम् आचराणां कर्माणां च प्रतिपादनं श्रौतसूत्रेषु दृश्यन्ते। श्रुतिलक्षणकर्मणि आचारलक्षणकर्मणि च विद्यन्ते। तयोः आद्यं श्रौतसूत्रेषु व्याख्यातम्। द्वितीयं तु आचारलक्षणकर्म गृह्यसूत्रेषु विव्रियते। तानि च यज्ञकर्माणि देवपितृकर्म समिदाधानं तर्पणं वर्षानुसृतकर्मणि भवननिर्माणावसरे क्रियमाणानि कर्माणि भूकर्षणावसरे क्रियमाणानि कर्मणि, कृष्यारंभकर्मणि,श्राद्धकर्म च भवन्ति । षोडशसंस्काराः अस्मिन्नेव अन्तर्भवन्ति। श्रौतसूत्राणि गृह्यसूत्राण्यपि वेदसंबद्धीनि भवन्ति। ऋग्वेदीये द्वे गृह्यसूत्रे उपलब्धे । आश्वलायनं साख्ययनं च।

शौनकं - शाल्यं- ऐतरेयं- बह्वृचं- भारवीयं- पाराशरं- पैड़्गमिति सप्तनष्टप्रायाणि। शुक्लयजुर्वेदीये द्वे- पारस्करं वाचसनेयं च।
कृष्णयजुर्वेदीयानि नव उपलभ्यन्ते। तानि बौधायनं- भारद्वाजम् - आपस्तम्बं- हिरण्यकेशी-वैखानसं-अग्निवेश्यं - मानवं-काठकं-वराहञ्च। सामवेदीयानि चत्वारि- गाभिलं-खादिरं ( द्राह्यायनं)जैमनीयं कौथूमञ्च। अथर्ववेदीयमेकमेव कौशीकगृह्यसूत्रम्। तच्च शौनकशाखासंबद्धम्।

धर्मसूत्राणि

धर्मपदस्य नियमः- प्रशिक्षणं - उपयोगः - आचारनिष्ठाशीलं- कर्तव्यं- सदाचारः- इत्यादयोऽनेके अर्थाः सन्ति। धर्मसूत्रेषु धर्माश्रमिणां कर्तव्यानि प्रतिपादितानि। धर्मस्य निर्वचनेन साकं अर्थभेदांश्च एषु विवृण्वन्ति। धर्मसूत्राणि गद्यरूपेण  लिखितानि सन्ति। एषु एकैकं प्रश्नाध्यायखण्डरूपेण विभक्तम्। अद्य उपलभ्यमानाः धर्मसूत्रग्रन्थाः -----------------------चत्वारः एव। गौतमधर्मसूत्रं, बौधायनधर्मसूत्रं, आपस्तम्बधर्मसूत्रं, वासिष्ठधर्मसूत्रञ्च। अपि च हिरण्यकेशी, विष्णु, पारीतादीनि अपि सन्ति इति केचन वदन्ति। इतराण्यपेक्ष्य धर्मसूत्राणि सर्ववेदसंबद्धानि भवन्ति।

धर्मस्वरूपं चतुर्णां वर्णानाम् आचाराः, कर्तव्यानि, जीवितवृत्तयश्च चतुर्णामाश्रमाणाम् आचाराः , सपिण्डनं, पापप्रायश्चित्तानि मतानां नियमाः, आशौचं, न्यायव्यवहारं, राजधर्माः, स्त्रीधर्माः, पुत्रविचाराः , स्त्रीधनं , दायव्यवस्था, विवाहभेदाः इत्यादीनि धर्मसूत्रे प्रतिपादितानि।

शुल्बसूत्रम्-

शुल्बं नाम रज्जुः। अतः मापननिर्धारणं श्रौतसूत्रसंबद्धं साहित्यं भवति शुल्बसूत्रम्। संहितासु विद्यमानाः गणितविषयाः संगृह्य यागवेद्यदिषु कथम् उपयोक्तुं शक्यन्ते इति शुल्बसूत्राणि विशदयन्ति।

कात्यायनः, आपस्तम्बः, बौधायनः , सत्याषाढः , मानवः, वाराहः, मैत्रायणि इत्येतानि शुल्बसूत्रणि अद्य उपलभ्यन्ते। यागशालायाः घटना, यागवेदिः , अग्निकुण्डम् इत्यादीनि क्षेत्रगणितणमनुसृत्यैव कल्पितानि। क्षेत्रगणितस्य अड़्कगणितस्य च  सूचनाः शुल्बसूत्रेषु उपलभ्यन्ते। विविधानां यागानां वेदिकानिर्माणं कथंभवेदिति शुल्बसूत्रग्रन्थेषु  विव्रियते।




गणितानाम् आधारतत्वानि प्रमाणसूत्राणि तथा वर्गमूलं दशांशः इत्यादीनां सूचनाः
शुल्बसूत्रेभ्यो लभ्यन्ते। गृह्यसूत्रेषु धर्मसूत्रेषु शुल्बसूत्रेषु च प्रतिपादितानि नित्यनैमित्तिक काम्यकर्माणि अनुष्ठानानि गणितक्रिया चेत्यादयः अद्यापि मानवजीवने समाजे च प्रमाणतया स्वीक्रियन्ते।
एवं भारतीयजीवने अस्य कल्पशास्त्रस्य अत्यन्तमुपादेयता दृश्यते। वेदोक्तकर्मणां प्रतिपादनात् कल्पः वेदपुरुषस्य हस्तरूपेण कल्प्यते। कल्पनामनादरे वेदो खण्डितहस्तो भवेत्। भारतीयजीवनपद्धतेः दर्पणायते इदं कल्पशास्त्रम्।
----------------------------------------------------------------------------------------


लोका: समस्ताः सुखिनो भवन्तु ।

डो. पि के शड़्करनारायणः
अकवूर् उच्च विद्यालयः,
श्रीमूलनगरम् ।

" पुत्रा: .....अप्पुट्टा ...... अम्मिणि...... सर्वे आगच्छन्तु ၊ अहमेकां कथां कथयामि ၊ " श्रावणमासस्य शैत्यसंयुते प्रभाते पूर्वस्मिन् दिने समाहृतानि  पष्पाणि उपयुज्य गृहाङ्णे पुष्पावरणनिर्माणसमये आसीत् मातामह्याः आह्वानम्।

" एषा मातामही सर्वदा एवमेव । उत्साहेन उत्साहेन किमपि कर्तं यदा दर्वीं चालयित्वा आगच्छति । " पारुकुट्ट्याः एतत् भाषणम् अप्पुट्टाय बहु अरोचत ।

" श्....... श्...... मा वदतु ज्येष्ठे एवम्। मातामही किल । स्नेह एव तस्याः सम्पाद्यम् इति अम्बा  सर्वदा वदति खलु "।

" सत्यं सत्यं ..... " अम्मिणिकुट्टी अवदत् । वदतु ,वदतु मातामहि !  वयं श्रुणुमः । ते सर्वे उत्साहेन मातामह्याः समीपं गत्वा उपाविशन् ।

' पुरा........ पुरातनकाले एकत्र एकं विशिष्टं राष्ट्रम् आसीत् '। ताम्बूलचर्वणं कुर्वती सा अवदत् ।
हुं .........  विशिष्टं राष्ट्रम् । तर्हि  तत्रत्य महाराजस्य विशेषः अपि स्यात् । उच्यतां  मातामहि उच्यताम् ' अप्पुट्टः उत्साहेन अपृच्छत् ।

" आ......आ.........  अ अ तत्रैव खलु विशेषः " मातामही सावधानं गत्वा किञ्चिद् दूरं दीर्धं निष्ठीवनम् अकरोत् ।

" हुं  वदामि श्रुणोतु, तस्मिन् राज्ये नृपः नासीत् । सर्वेऽपि नृपाः । सर्वेषामपि सर्वत्र अधिकारः आसीत् ।
 शासननिर्वहणे अपि सर्वेषाम्  अधिकारः। शिक्षाविधिं निर्णेतुं शिक्षां स्वीकर्तुं च तस्मिन् राज्ये केऽपि न आसन् ।  सर्वाण्यपि कार्याणि सुबद्धं प्रचलन्ति स्म तत्र । समत्वसुन्दरं राज्यम्  ' । मातामही साभिमानं दीर्धनिश्वासम् अकरोत् ।


" हन्त ! कष्टम् ! तर्हि तत्र आरक्षकाः भटाः वा न आसन् ? "  अम्मिणिकुट्टी अड़्गुल्या नासिकाग्रं स्पृष्ट्वा साकाड़्क्षं पृष्टवती ।

" नास्ति पुत्राः...... तदेव किल वदामि । तत्र चौर्यं नासीत् ।  धनिकाः निर्धनाः  वा न आसन्  । स्वामि-भृत्य - भावना वा न आसीत्। तत्र न केऽपि मद्यपानं कुर्वन्ति स्म । "

' उत्तमं राज्यम् । समीचीनम् । बहुविशिष्टम् । वदतु वदतु पुनः किम् ? अन्ये विशेषाः.......? ' अप्पुट्टः उपविश्यैव किञ्चिद् अग्रे सरन्नपृच्छत् ।

मातामही किञ्चिदालोच्य दीर्धनिश्वासं कृत्वा वक्तुम् आरब्धवती । तस्मिन् राज्ये सर्वेऽपि स्वस्य परिसरं प्रतिदिनं स्वच्छीकुर्वन्ति स्म । तत्र रुग्णाः न आसन् । तत्र दिनाचरणानि , इदानीं प्रचलन्ति खलु ग्रामे ग्रामे विद्यालये च, न.... न ..... तस्मिन् थाज्ये न सन्ति तादृशानि आचरणानि । सर्वं सर्वे जानन्ति स्म तत्र । परस्परसाहाय्येन सर्वेऽपि आवसन्। '

" ओ..........अरे ........... एतत् विशिष्टं राज्यमेव ' पारुकुट्याः   नेत्राभ्याम् आनन्दाश्रूणि प्रावहन् ।

' न समाप्तं पुत्राः । तत्र जनाः स्वस्य कृते आवश्यकानि वस्तूनि स्वयं निर्मन्ति स्म । शिशवः सदा सन्तुष्टाः आसन् । मातरः पितरः वा तान् न अपीडयन् । '

'आ........कारणं स्यात्..........। मातामही ! बालाः तत्र परस्परं न विवदन्ते स्म । एवं खलु  ' अम्मिणिकुट्टी सोत्साहमपृच्छत् ।

'हुं ..........सत्यं सत्यं ........' सा  शिरः अचालयत् । पारुकुट्टी अम्मिणीं नेत्रभ्यां भायितवती  ।

किं  ? मातामहि ! तस्य राज्यस्य नाम किम् ?
अप्पुट्टस्य आसीत् प्रश्नः । सर्वे साकुलं मातामहीं स्पृष्ट्वा अपश्यन् ।

ह  ह  ह मातामही तुला तोलनमिव चलित्वा हासमकरोत् । अवदत् च । तस्य राज्यस्य नाम नास्ति।एवं किञ्चित् राज्यमेव नास्ति भोः । तत्र सर्वे सुखिनः।शाश्वतप्रेम एव सर्वेषाम् । अथवा ........ अथवा ....... स्नेहः  इति स्यात् तस्य राज्यस्य नाम । श्रावणाचारणस्य स्मरणाः प्रददति तत् राज्यम् । पुरातनं राज्यम्....... ह ..... पुरातनम्.....' । मातामही नामजपेन मन्दं मन्दं महानसं लक्ष्यीकृत्य गतवती । कुत्रचित् श्रुतपुर्वं सुभाषितमपि सा वदति स्म ।

न राज्यं न राजासीत् न दण्ट्यो न च दाण्डिकः ।
धर्मेणैव प्रजाः सर्वाः रक्षन्ति स्म परस्परम् ।।

भूमिमातरं पालयाम हे।

कविता

भूमिमातरं पालयाम हे।      विमला एस् जि वि एस् एस् करमना


पश्यतु बाले! प्रकृतिमातरम्
सर्वसहां तां भूमिमातरम्
वयमुपास्महे प्रपञ्चमातरम्
भूमिमातरं रक्षयाम हे  ।।       1

मृत्तिकां  जलं वायु चैव
मालिन्यात् तं रक्षेम
धरिणः शुष्का ऊषरत्वेन
प्रकृतिः सर्वदा विलपति स्म  ।।  2

केदारनिर्माजनं वननशीकरणम्
सिकताखननं च निवारयाम भो
पलास्तिकादीनां प्रकृतिदूषणात्
भूमिमातरं पालयाम हे ।।            3

भविष्यति काले  जातशिशून्
अत्र निवासं शक्यम् वा ?
सागर नद्यः  वनमित्यादि च
मालिन्यात् तां रक्षणीयाम हे  ।।   4

प्रकृतिमातरं पूजयाम रे
काननं सदा पालयाम रे
बालकाः ! तरून् रोपयाम रे
भूमिमातरं पालयाम रे         ।।    5

जीवितं सदा भवतु निर्मलम्
वायुमण्डलं भवतु पावनम्
वृक्षरक्षणं धर्म एव नो
रक्षकाश्च नः पालयन्तु ते        ।।   6

दर्शयन्तु सदा सौम्यां प्रकृतिम्
नीचकर्मणि त्यजन्तु मानवाः
विकसनं सर्वें प्रगत्यैः भवतु
लोकसृष्टेः  श्रेष्ठतायै भवतु    ।।    7

    --------------------------

Tuesday 23 August 2016

।। संस्कृतं तथा आयुर्वेदः ।।

।।   संस्कृतं तथा आयुर्वेदः  ।। Dr. P. K. Dharmapalan MD( Ay ) , FIIM, PhD
PROFESSOR &HOD,Dept. Of Kayachikatsa
Vaidyaratnam Ayurveda College & Hospital
Ollur-Thaikkattussery, Thrissur-680322, Kerala.
e-mail  : aswininilayam@yahoo.co.in


संस्कृतभाषायाः प्रधानं तथा अनिवार्यता आधुनिककाले प्रतिदिनं न केवलं पण्डितानां  सदसि अपि तु   सामान्यजनानां मध्ये अपि वर्धते । भारतदेशस्य भाषा भारती अर्थात् संस्कृतभाषा भवति। भारतवर्षे  विराजमाना भारती नानाशास्त्रावगहाय अत्यन्तम् अनुपेक्षणीया भवति। अतः संस्कृतभाषायां विना आयुर्वेदपठनं चिन्तयितुं श शक्यते। अर्थात् संस्कधतभाषायां विना आयुर्वेदशास्त्रपठनं युक्तिपूर्वं न भवति इति।

अयम् आयुर्वेदः अक्षरमधिकृत्य,  वागधिकृत्य,तन्त्रयुक्तिम् अधिकृत्य, पर्यायपदमधिकृत्य, तथा अनुक्तार्थज्ञानं च अधिकृत्य गुह्यरीत्य प्रतिपादितं महत् आरोग्यशास्त्रं भवति।

चरकाचार्यः  विमानस्थाने स्रोतोविमानाध्याये घोषणं करोति - " ये भविष्यन्त्यलम् अनुक्तार्थज्ञानाय ज्ञानवतां, विज्ञानाय च अज्ञानवताम्  " इति । अर्थात् अस्मिन् स्रोतोविमानध्याये प्रत्यक्षज्ञानरीत्य  किञ्चित् न प्रतिपादयति, परन्तुविशेषज्ञानरीत्या तथा परोक्ष ज्ञानरीत्या रचनाशरीरं वर्णयति इति। निगूढरीत्य प्रतिपादितानि एतानि सर्वाणि आयुर्वेदतत्वानि सम्यक् रीत्य अवगन्तुं संस्कृतभाषा अतीव अनिवार्या   भवति ।
कानिचित् उदाहरणानि अत्र सुचयित्वा अहम् एतं विषयं प्रवक्तुम् इच्छामि।

1.   अक्षरम् अधिकृत्य/अवयवार्थम् अधिकृत्य प्रधान्यम्।

हृदयम्
हृ - हरति  , आहरति
द - ददाति
य - याति
यत् हरति ,  आहरति ददाति याति इति हृदयम्।

फुफ्फसम्
फु - फूत्कारम्  ,
फ्फू  - फूत्कारम्
स     - सरति
यत् फूत्कारे सरति तत् फुफ्फुसम् ।

वृक्का
 वृ   -  वर्कते, ग्रहणं करोति
क्का - कं कं , जलम्।
यत् जलं ग्रहणं करोति तत् वृकका।

2 वागधिकृत्य वाक्यार्थम् अधिकृत्य अर्थात् निरुक्तिः अधिकृत्य प्राधान्यम्।
हृदि  अयं तिष्ठति इति हृदयः।
अत्र अयं शब्दः ईश्वरम् अधिकृत्य चिन्तनीय इति श्रीमद्भगवत्गीता प्रबोधयति।
' ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ' ।
श्रीमद्  भगवद्गीता ।
यत् कृन्तनं करोति अर्थात् यत् कर्तयति तत् यकृत्। यत् प्लीनाति हायते इति प्लीहा ।


3. तन्त्रयक्तिम् अधिकृत्य प्राधान्यम्।
मलम्
मलशब्दः त्रिदोषधारेण तथा मूत्रपूरिषाधारेण सन्दर्भानुसारं चिन्तनीयः।

ग्रहाः
ग्रहशब्दः नवग्रहमधिकृत्य, भूतम् अधिकृत्य, तथा औपसर्गिकभूतम् च चिन्तनीयः।

हृदयम्
स्तनयोर्मध्ये अधिष्ठायोरस्यामाकाशद्वारं सत्वरजस्तसाधिष्ठानं हृदयं नाम। ( सु. श. 6 )
बुद्धेनिवासं हृदयं प्रदूष्य। (  च चि 1 उन्मादचिकित्स   )

4 पर्यायपदम् अधिकत्य प्राधान्यम्।
दोषः  -  स्थूणाः - स्थिरीकरणात्।
धातवः - धारणात् ।
मलाः -  मलिनीकरणात्, आहारमलत्वात्।
दोषाः - दूषणस्वभावात्।
हृदयम् - महत् , अर्थः।
अत्र महत् तथा अर्थाशब्दः Brain रीत्या चिन्तनीयम्।
रोगः -  रोगः  - रुजति इति रोगः  ।
पाम्पा   - सर्वे रोगाः पापस्य कर्मणः फलमिति ।
ज्वरः  -  ज्वर्यते अनेन इति ज्वरः । सर्वकायमनः सन्तापकत्वं ज्वरः ।
व्याधिः  -  विविधम् आधिम् - दुःखम् , आदधाति शरीरे मनसि चेति  -  व्याधिः ।
विकारः  -  बुद्धीन्द्रियमनः शरीरिणां विकृतिम्   -  अन्यथात्वं  , जनयतीत्यर्थः ।

दुःखम् -  दुःखम् इति अनेन उपतापकत्वम् अनुभवं गमयति ।
आमयः - आमसमुत्थाः सर्वे व्याधयः ।
यक्ष्मा  -  यक्ष्मा रोगसमूहानाम् ।
आतड़्कः  - आतड़्क इति " तकि कृच्छ्रजीवने।
गदः - गद इव गदोऽनेककारणजन्यत्वात् ।
आबाधः  -  आबाधः इति आसमन्तात् कायमनसोर्बधनं  - पीडेत्यर्थः।

4. अनुक्तार्थज्ञानम् अधिकृत्य ।
वामं च पार्श्वम्
जघन्यम्
वंक्षणम्
अत्र वामं च पार्श्वं फफ्फुसं रीत्य , जघन्यम्   Brain  ( Central Nervous System ) रीत्या , वंक्षणं वृक्का रीत्या च चिन्तनीयम्।
अत्र उपरि निर्दिष्टानि सर्वाणि शास्रतत्वानि ज्ञातुं संस्कृतभाषा आयुर्वेदपठने तथा पाठनसन्दर्भे अत्यन्तम् अनुपेक्षणीया भवति ।
उपरि निर्दिष्टानि एतानि शास्त्रतत्वानि सम्यक् रीत्या अवगमनार्थं संस्कृतभाषायाः प्रधान्यं महत्तररीत्या वर्तते इति अहं मन्ये।
धन्यवादः।

संस्कृतिक-पुनर्जागरणार्थं संस्कृतम्


संस्कृतिक-पुनर्जागरणार्थं  संस्कृतम्                              डा . बलदेवेनन्दसागरः
Sanskrit in Cultural Renaissance                  संस्कृतवार्ताप्रचारकः, आकाशवाणी/दूरदरशनम्



शुभेऽस्मिन् अवसरे वेदिकोपरि विराजमानाः मान्याः अध्यक्षाः , आदरणीयाः च केरलराज्यस्य सामान्यशिक्षाविभागीयाः अधिकारिणः कोषिक्कोट्नगरस्य टागोर शताब्द सभागृहे समुपस्थिताः अत्रभवन्तो भवन्तः संस्कृतसेवाव्रतिनः विद्वांसःसंस्कृतानुरागिणः च केरलराज्यस्य संस्कृतशिक्षकाः !!

भवद्भ्यः सर्वेभ्यः सविनयं प्रणम्य निवेदयामि यत् एकदिवसानन्तरम् एव राष्ट्रियराजधान्यां दिल्यां सुख्याते अक्षरधाम्नि भारतीयसंस्कृत- पत्रकार संघेन द्विदिवसीया पञ्चमी राष्ट्रियसंस्कृतपत्रकारसंगोष्ठी आयोज्यते तदुपकल्पनेषु अतितरां व्यापृतोहं मित्रवर्येण श्रीमता सनल् चन्द्रेण अत्रागमनार्थं साग्रहं सूचितः । कतिपयहोरार्थमेव आगन्तव्यमिति राष्ट्रियमिदं केरलसंस्कृतशिक्षकसम्मेलनमिति च परिभाव्य आगन्तव्यम् । एतद् आमन्त्रणार्थं हार्दिकान् साधुवादान् व्यवहरामि ।

भवतां सर्वेषां स्नेहाकृष्टोहं समुपस्थितोमि । आनन्दसन्दोहञ्च अशुभवामि। भवन्तो जानन्ति एव भारतनामेदं राष्ट्रं अतिविशालम्। भारतराष्ट्रे वर्तन्ते अनेकानि राज्यानि तेषु केरलं अन्यतमम्। एष पावना समृद्धा च केरलभूमिः सर्वैरपि  वन्द्यते अभिनन्द्यते च।

भारतस्य वर्णनं कुर्वन् कविकुलगुरुः कालिदासः स्वीये रमणीये महाकाव्ये कुमारसम्भवे आद्ये श्लोके निगदति-


अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः।
पर्वापरौ तोयनिधिं वगाह्य स्थितः पृथिव्या  इव मानदण्डः।।
देवाः अपि  अस्य राष्ट्रस्य यशोगीतानि गायन्ति। भवद्भिः श्रुतं स्यात् यदिह विष्णुपुराणे प्रोक्तम्
गायन्ति देवाः किस गीतकानि
धन्यास्तु ते भारतभूमि भागे ।
स्वर्गापवर्गस्पदमार्गभूते भवन्ति
भूयः पुरुषाः सुरत्वात् ।।

अस्याः भारतभूमेः रात्रिः रम्या, दिवसः दिव्यकर्मप्रेरकः, सन्धा सौन्दर्यमयी, प्रभातश्च प्रमोदकः। अत एव प्रतिदिनं प्रभाते भवन्तः श्रुण्वन्तु -  इयम् आकाशवाणी, सम्प्रता वार्त्ताः श्रूयन्तां........ प्रवाचकः ........
अयमेव सः   सुरभारतीसेवकः।

जगति विदिततरमिदं यत् भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्था संस्कृतं विना भारतं नाहि भारतम्।
किं नाम संस्कृतं  का नाम संस्कृतिः च?
एतत् अवगम्य एव सांस्कृतिक-पुनर्जागरणे वयं संस्कृतस्य महत्वम् आवश्यकतां च अवगन्तुं शक्ष्यामः।
कानिचित् एतानि लघु लघूनि सूत्राणि भवद्भिः श्रुतानि स्युः। भूमा वै सुखं नाल्पे सुखमस्ति, तेन त्यक्तेन भुञ्जीथाः ,  चरन्  वै मधु विदन्ति,  चरैवेदि, रूपं रूपं प्रतिरूपो बभूव सह वीर्यं करवावहै , संगच्छध्वं संवदध्वं,  वसुधैव कुटुम्बकम् एतानि सूक्तानि भारतीय प्रज्ञायाः वैदिकमनीषायाः च हार्दं भावं प्रकटयन्ति। एषा अस्ति भारतीया संस्कृतिः । उत वा वक्तुं शक्यते यत् एतदस्ति भारतीयसंस्कृतेः आभ्यन्तरीणं रूपम्।

अपि च मातृदेवो भव  , पितृदेवो भव , आचर्यदवो भव, अतिथिदवो भव , स्वाध्याय प्रवचनाभ्यां न प्रमदितव्यं यानि अस्माकं सुचरितानि तानि त्वया उपन्यासानि नेतराणि।
एतदस्ति भारतीयसंस्कृतेः बाह्यस्वरूपं यत्र वयं सर्वमपि  शिक्षणं प्रशिक्षणं च संस्कारत्वेन परिभावयामः। अत एव सर्वे वदन्ति संस्कृतं
 संस्कारयति विश्वम्  । अत एव भारतीयः ऋषिः उद्बोधयति -
एतद्देशप्रसूतस्य सकाशादग्रजन्मनः ।
स्वं स्वं चरित्रं शिक्षरन् पृथिव्यां सर्वमानवाः।।
( मनुस्मृतिः )
अद्वतीयायाः अस्याः भारतीयसंस्कृतेः प्रकाशिका संवाहिका च अभिव्यक्तिरूपा अस्ति संस्कृतभाषा......!!!

न केवलं  एषा भाषा, अपि तु ध्वनि विज्ञानम् इति आधुनिकाः अपि भौतिकविज्ञानो वदन्ति। अत एव सड़्गणकविज्ञानार्थम् अतितरां समुचिता समुपयोगीनि वर्तते संस्कृतभाषा।

एवमस्ति चेत् कथं नैषा , विद्यालयेषु  आरम्भादेव पाठनीया शिक्षणीया च? ज्ञानं विज्ञानं कला शिल्पं  साहित्यं चेत्यादि विषयाः न कदापि कस्यापि वर्गविशेषस्य जातिविशेषस्य चाधिकारक्षेत्रे प्रवर्तन्ते। अत्र तु स्वयमेव मृगेन्द्रता इति विभावनीयम्। काले काले शुभासु स्वस्थासु दिव्यासु च परस्परासु  विकारः भवति , कालप्रभावात् युगप्रभावात् चैवं भवत्येव। गीतायां प्रोक्तं-
काम एष क्रोध एष रजोगुण समुद्भवः....
अत एव रजोगुणमयं परिदृश्यं प्रतीकर्तुं सत्वगुणमयं च परिवेषं विवर्धयितुं सुदृढीकर्तुं चापि संस्कृतस्य शिक्षणं प्रशिक्षणं चावश्यकम्।
केरलप्रशासनं संस्कृतस्य कृते भूरिशः प्रयतते इति  वृत्तान्तं मोदावहम् । परञ्च यदि अत्र केरले एका केरलसंस्कृत-अकादमीं स्थाप्यते चेत् राज्ये संस्कृतजीवनं सज्जीवनं तत् सर्वेषामपि कृते लाभप्रदं सेत्स्यति इति मे मतिः । भवतां सर्वेषामपि सर्वविधं शुभं कामयमानः  पुनः पुनः साधुवादान् वितरामि इति शम्।
जयतु भारतम्.... जयतु  संस्कृतम् ।।

Sunday 21 August 2016

शिक्षाशास्त्रम्।


शिक्षाशास्त्रम्।
विपिन् जि नायर्
के जि वि जि यु पि एस् कुण्टरा।

वैदिकानां शब्दानाम् उच्चारणमधिकृत्य प्रवृत्तं शास्त्रं भवति शिक्षाशास्त्रम्। शास्त्रमिदं वेदेड़्गेषु अन्यतमत्वेन प्रथितम्।
छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते।
ज्योतिषामयनं चक्षुः निरुक्तं श्रोत्रमुच्यते ।।
शिक्षा ध्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् ।
तस्मात् साड़्गमधीत्यैव ब्रह्मलोके महीयते।।
इति पाणिनीयशिक्षागतश्लोकप्रामाण्येन षडपि वेदाड़्गानि वेदपुरुषस्य अवयवत्वेनाद्रीयन्ते चेत् शिक्षात्मकम् अड़्गं तत्र ध्राणस्वरूपमिति ज्ञातुं शक्यते।
शिक्षायायः ध्राणत्वप्रतिपादनेन तस्याः वेदेध्ययने अतीवावश्यकत्वम् अड़्गीक्रियते। यद्यपि व्याकणं शरीरस्थोच्चस्थानं मुखस्वरूपं भवति तथापि नासिकायाः मुखोपरि स्थित्या तत्स्थानपन्ना शिक्षैव सर्वोपरि  वरीवर्ति। पदसाधुत्वमात्रविधायकं व्याकरणम् उच्चारणादिविधिविहीनं तत् नासिका विरहितं मुखमिव न शोभते इति शिक्षयाः वेदपुरुषनासिकात्वव्यवहारं सयुक्तिकं सम्पादयति। स्वरवर्णाद्युच्चारणप्रकारो यत्र शास्त्रो शिक्ष्यते, उपदिश्यते सा शिक्षेति सायणाचार्यस्य ऋग्वेदभाष्यभूमिकायामुक्तं दृश्यते।  अनेनावगम्यते यत् येन शास्त्रेण  वेदमन्त्रणाम् उच्चारणं शुद्धं सम्पाद्यते तच्छास्त्रं शिक्षाशास्त्रमिति। वेदे स्वरस्य प्राधान्यं तु सर्वविदितमेव। स्वरज्ञानं च शिक्षामूलकमेव।अत एवेदं शिक्षाशास्त्रं वेदाड़्गत्वेन कल्प्यते। मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह।
स वाग्व्रजो यजमानं हिनस्ति।
यथेन्द्रशशत्रुसावरतोऽपराधात्।।
इति शिक्षावचनं वेदमन्त्रणामुच्चारणे शिक्षाशास्त्रस्य प्राधान्यं प्रमाणयति।

आख्यायिकेयं प्रसिद्धा - विश्वरूपसंज्ञिते
त्वष्टुः पुत्रे इन्द्रेणापहृते सति रूष्टस्त्वष्टा इन्द्रस्य हन्तारं पुत्रमुत्पादयितुमाभिचारपूर्वकं कञ्चन यागं चकार। तत्र इन्द्रशत्रुवर्धस्व इति पदप्रयोगः तत्पुरुषसमासयुक्तः मन्त्रे ऊहितः। तस्मिन्  मन्द्रे तत्पुरुषसमासोक्त अन्तोदात्तत्वे कर्तव्ये बहुव्रीहिप्रयुक्तः अद्युदात्तस्वरः ऋत्विजा प्रयुक्तः।  अतः शब्दस्यार्थान्तराभिधानात् इन्द्रेण इन्द्रहननार्थं त्वष्टजनयितः वृत्रासुरोऽपि हतः।

अतः मन्त्रेषु स्वरदोषो वर्णदोषो वा कथमपि न भवेदिति ज्ञायते। स्वरतः स्वरेण वर्णतः वर्णेन अक्षरेण वा हीनः रहितः मन्त्रः मिथ्या प्रयुक्तः सन् तमभीप्सितमर्थं नाह। सः मन्द्रः वाग्व्रचो भूत्वा यजमानं हिनस्ति हन्ति। यथा स्वरस्य अपराधात् इन्द्रः शत्रुः इति शब्दः यजमानं हिंसितवानिति शिक्षावचनस्य तात्पर्यम्।  अद्यत्वे नैके शिक्षाग्रन्थाः प्रकाशितत्वेन चोपलभ्यन्ते।  बादरायणशिक्षा , पाणिनीयशिक्षा,  नारदशिक्षा, कौडिन्यशिक्षा इत्येवमादयो ग्रन्थास्तत्र प्रमुखाः।  शिक्षाग्रन्थेषु सर्वविदितं प्राशस्त्यं पाणिनीय शिक्षायेव आवहन्ति।  यतो हि पाणिनीयं व्याकरणं न केवलं लौकिकमात्रम् अपि तु वैदिकानमपि शब्दानां साधुत्व कल्पकमेव।  अतः पाणिनीयस्य लौकिकवैदिकेत्युभयविधव्याकरणस्य व्युत्पादकत्वेन तत्सम्बन्धा शिक्षा इतरशिक्षाग्रन्थेभ्यः प्रसिद्धिमलभत।

शिक्षाशास्त्रे प्रतिपाद्यतया बहवो विषयाः उपतिष्ठन्ते। तत्र वर्णानां भेदः उदात्तानुदातस्वरितभेदाः अनुनासिकानामनुनासिकाभेदाः ह्रस्वदीर्धप्लुतभेदाः वर्णोत्पत्तिः वर्णभेदानाम् उच्चारणस्थानानि वर्णनामाभ्यन्तर बाह्यप्रयत्नभेदाः इत्येते अंशाः मुख्यभूताः वर्णानां भेदाः-
मुखसहितनासिकया उच्चार्यमाणः वर्णः अनुनासिकः।

पाणिनीयशिक्षायां वर्णानां भेदमधिकृत्यैवमुच्यते
द्विषष्टिः चतुषष्टिर्वा वर्णाः शम्भुमते मताः।
प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयंभुवा
स्वराः विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः
यादयश्च स्मृता ह्यष्टौ  चत्वारश्च यमाः स्मृताः।
अनुस्वारो विसर्गश्च ख फौ चापि पराश्रितौ
दुःस्पृष्टश्चेति विज्ञेयो लृकारः प्लुत एव च।। इति।

संस्कृतभाषायां स्वरः सन्ति एकविंशतिः । अ इ उ ऋ इत्येते चत्वारः वर्णाः ह्रस्वदीर्धप्लुतभेदात् द्वादश सन्ति। ए ऐ ओ औ इतीमे वर्णाः चत्वारः दीर्धप्लुत भेदात् अष्टौ तेषां ह्वस्वभावात्। लृकारो ह्रस्वः एक एव इति मते लृकारः एक एव। संकलनया स्वरवर्णाः एकविंशतिर्जाता। ककारादरभ्य मकारपर्यन्तं स्पर्शाख्या पञ्चविंशति वर्णाः सन्ति। यमसंज्ञकाः चत्वारः वर्णाः प्रातिशाख्ये प्रसिद्धाः। वर्गेषु अद्यानां चतुर्णां पञ्चमे परे मध्ये पूर्वसदृशाः वर्णाः यमाख्याः। अनुस्वारविसर्गौ इति द्वौ। क फ इति कफाभ्यां प्रागर्धविसर्गसदृशौ जिह्वामूलीयोपध्मानीयौ द्वौ। द्वयोर्स्वरयोरध्ये वर्तमानः लकारः दुःस्पृष्टाख्यः। अन्यः एकः इति आहत्य त्रिषष्टिः वर्णाः संस्कृतभाषायाम् विद्यन्ते इति पक्षे चतुःषष्टि वर्णाः बोध्याः भाषायाम्। लृकारस्य प्लुतभेदे प्लुतलृकारोऽपि पृथक् वर्णः शिक्षायाम् अच् वर्णानाम् उदात्त अनुदात्त स्वरित अशुनासिक अननुनासिकधर्माः अपि उच्यन्ते। ताल्वादिषु उच्चारण स्थानेषु ऊर्ध्वभागे निष्पन्नः अच् उदात्तसंज्ञः। आये मित्रावरुणा इत्यृचि अकारः एकारश्च उदात्तः । तल्वादिषु उच्चारणस्थानेषु अधोभागे निष्पन्नः अजनुदात्तसंज्ञः स्यात्। अर्वाड़् यज्ञसंक्राम इत्यृचि आद्यः अकारः अनुदात्तः। उदात्तत्वानुदात्तरूपवर्णधर्मौ यस्मान्नचि विद्येते सः अच् स्वरितसंज्ञो भवति। मुखसहितनासिकया उच्चार्यमाणः वर्णः अनुनासिकः
केवलं मुखेनैवोच्चार्यमाणो वर्णः अनुनासिकसंज्ञः इति अनुनासिकाननुनासिकयोर्भेदः। वर्णानां ह्रस्व दीर्ध प्लुतभेदे तादृशानां वर्णानाम् उच्चारणकाल एव निमितभूतो भवति। एकया मात्रया उच्चार्यमाणो वर्णः ह्रस्वः , द्विमात्रकालिको वर्णः दीर्धः , त्रिभिः मात्ररूपकालैः उच्चिर्यमाणो वर्णः प्लुतसंज्ञकः इति तत्र विवेकः।

वर्णोत्पत्तिक्रमः - शिक्षायां वर्णोत्पत्तिमेवमाह -
आत्मा बुद्ध्या समेत्यर्थान् मनो भुड़्क्ते विवक्षया
 मनः कायाग्निमाहन्ति स प्रेरयति मारुतम्।
 सोत्तीर्णो मूर्ध्न्यभिहतो वक्त्रमापद्य मारुतः वर्णाञ्जनयते तेषां विभागः पञ्चधा स्मृतः । इति आत्मा संस्काररूपेण स्वागतान् घटपटादि पदार्थान् स्ववृत्त्या एकबुद्धिविषयान् कृत्वा स्वस्मिन् संस्काररूपेण स्थितपदार्थबोधनेच्छया मनः स्वस्यैव परिणामविशेषं युक्तं करोति। तदनु मनः जठराग्निम् अभिहन्ति। सः जठराग्निः जठरस्य वायुम् ऊर्ध्वं गन्तुं प्ररयति। यदा कायाग्निना प्रेरितः वायुः ऊर्ध्वदेशं संप्राप्य वर्णोच्चारणस्थानानि स्पृशति , तदा तत्तद्वर्णाः मुखान्निस्सरति।

वर्णानामुच्चारणस्थानानि
 अष्टौ स्थानानिवर्णानामुरः कण्ठः शिरस्था।
जिह्वामूलञ्च दन्ताश्च नासिकौष्ठौ च तालु च।।
वर्णानामुच्चरणस्थानानि शिक्षायमेवमुच्यते।
अकारस्य कवर्गस्य हकारविसर्गयोश्च उच्चारणस्थानं कण्ठो भवति। इकारस्य चवर्गस्य यकारशकारयोश्च उच्चारणस्थानं तालुर्भवति । ऋकारस्य टवर्गस्य रेफषकारयोः च उच्चारणस्थानं दन्ताः भवन्ति ।
उपूपध्मानीयानां ओष्ठौ भवतः। ञमणड़णनानां नसिका च स्थानत्वेन प्रख्यायते । एकार ऐकारौ कण्ठातालुस्थानीयौ, वकारस्य दन्तोष्ठम्। जिह्वामुलीयस्य जिह्वामूलं नासिका अनुस्वारस्य स्थानं भवति। एवं शिक्षायां वर्णोच्चारणस्थानानि स्पष्टमुक्तानि ।
शिक्षाशास्त्रस्य अध्ययनमद्यत्वेऽपि  जनेभ्यः अत्यन्तम् उपकुरुत एव । यतो हि प्रादेशिकभाषासु उपयुज्यमानेषु शब्देषु इमे एव वर्णाः आदृताः । परन्तु इदानीं विद्यलयेषु वर्णानाम् अध्यापनाध्ययनव्यवस्था आधिक्येन प्रमादान्विता भवति । अत एव तद्वर्णयुक्तानां शब्दानामुच्चारणमपि त्रुटिं गच्छन्ति। छात्राः महाप्रणान् वर्णान् अल्पप्राणत्वेन अल्पप्राणान् वर्णान् महाप्राणत्वेन वा उच्चारयन्ति । नो चेत् तान् तथा उच्चारयितुम् अध्यापकाः प्ररयन्ति च। किन्तु शिक्षाशास्त्रस्य अध्ययनेन इयं रीतिः परिवर्तमानयोग्य इव भवति।

निरुक्तम्
 निरुक्तमिति नाम्ना प्रथितं शास्त्रं वेदाड़्गेष्वन्यतमं भवति।
छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते।
ज्योतिषामयनं चक्षुः निरुक्तं श्रोत्रमुच्यते।।
शिक्षा ध्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् ।
तस्मात्  साड़्गमधीत्यैव ब्रह्मलोके महीयते।।  इति

शिक्षाग्रन्थवचनेन षडपि वेदाड़्गानि वेदपुरुषस्य अवयवत्वेन प्रकल्प्यन्ते। तत्र निरुक्तात्मकमड़्गं वेदपुरुषस्य श्रोत्रत्वेन गण्यते। श्रोत्रं नाम कर्णः । शब्दानां श्रवणद्वारे तदर्थज्ञानं श्रोत्रेणैव अस्माकं सम्भवति। यथा श्रोत्रमन्तरेण शब्दानां श्रवणं तेषामर्थमवगमश्च असम्भव एव, तथा वैदिकानां  शब्दानाम्  अर्थज्ञानमपि निरुक्तादृते असाध्यमेव। अत एव निरुक्तरूपं शास्त्रंवेदपुरुषस्य श्रोत्रत्वेन निर्णीयते। किञ्च शास्त्रस्यास्य अध्ययनेन ब्रह्मलोकप्रप्तिरपि सेत्स्यतीति शिक्षावचनमिदं शास्त्रमेतद्  अधिजिघांसमानन् स्मारयति।

निरुक्तशब्दव्युत्पत्तिः-
निरुच्यन्ते निश्शेषेण उपदिश्यन्ते वैदिकाः शब्दाः तदर्थावबोधनाय यत्र तन्निरुक्तमिति निरुक्तशब्दस्य व्युत्पत्तिः।
वेदे विद्यमानानाम् अर्थकथनापेक्षायुक्तानां शब्दानां सड़्कलनं तावत् निघण्डुः इति नाम्ना प्रथिते वैदिके कोशे कृतमस्ति। तस्य भाष्यत्वेन नो चेत्क टीकारूपतावेन वा विरचितः ग्रन्थो भवति निरुक्तम्। निघण्डौ तु केचन वैदिकाः शब्दाः परिगणिता एव। निरुक्ते तावत् तेषां शब्दानां सविस्तरं विवेचनं क्रियते। अर्थात् प्रकृति प्रत्ययविभागानुसारेण अर्थज्ञानाय प्रक्रिया वर्णिता अस्ति।
अर्थावबोधे निरपेक्षतया पदज्ञानं यत्रोक्तं तन्निरुक्तमिति ऋग्वेदभष्यभूमिकायां सायणाचर्यः निरुक्तं निर्वक्ति । किञ्च एकैकस्य पदस्य सम्भाविताः अवयवार्थाः यत्र निश्शेषेण उच्यन्ते तदपि निरुक्तमित्यपि केचन निरुक्तशब्दमाचक्षते। एवं नानाविधनिरुक्तनिर्वचनैः निरुक्तशब्देन निघण्टुः निरुक्तञ्च इत्युभयोऽपि ग्रन्थाराशिः स्वीक्रियते इति ज्ञायते।

निरुक्ताकारः यास्कः-
बृहस्पतिः, काश्यपः, औपमन्यवः इत्यदयः सन्ति बहवो निरुक्तकाराः । तथापि यास्काचार्यस्य निरुक्तमेव अद्यत्वे समुपलभ्यते । तस्मात् निरुक्तशब्दश्रवणे तत्प्रवर्तकत्वेन यास्क एव स्मृतिपथमारोहितः। तस्य निरुक्तग्रन्थादेव तत्र प्रवृत्तानां इतरेषामार्याणां नामानि श्रूयन्ते । यास्काचार्यादपि पूर्वं निघण्टुग्रन्थः आसीत् , तथापि तस्य परिष्कार एव तेन कृतः। तथा च
 स्वपरिष्कृतस्य  निघण्टुग्रन्थस्य भाष्यमेव निरुक्तशब्देन व्यपदिश्यते। एवञ्च स्वपरिष्कृतनिघण्टुसम्मुल्लसितयास्कीयनिरुक्तग्रन्थ एव अद्यतत्वे निरुक्तेभिधीयते।

यास्कस्य कालः-
यास्कस्य कालस्थानयोर्विषये विदुषां मते यास्कस्य कालः प्रायः क्रिस्तोः पूर्व॔ सप्तमशदाब्दिः  (700 क्रि. पू. ) इति कल्प्यते। यास्कः पाणिनोः प्राच्यो भवतीति ऐतिहासिकानां मतम्। यतो हि तदीयसिद्धान्ताः पाणिनिनापि स्वीकृताः। यास्कस्य निरुक्तस्यान्ते पारस्कर इति नाम विद्यते । तेन विद्वंसः ऊहन्ते  यत् सः पारस्कदाशीय इति। तस्य गोत्रस्य नाम भवति यास्क इति गोत्रनाम्नैव सः संप्रत्यपि अभिधीयते।

निघण्टुः निरुक्तञ्च -
यास्केन परिष्कृते निघण्टुग्रन्थे  शब्दाः सड़्ग्रहीताः सन्ति। ते शब्दाः अध्यायपञ्चके विभक्ताः। गवादिदेवपत्न्यन्ताः वैदिकाः शब्दाः तत्रोक्ताः । तेषां शब्दानां निरुक्तिः द्वादशाध्याययुक्ते निरुक्तग्रन्थे यास्केन कृता । तत्र परिशिष्टत्वेन अध्यायद्वयमपि योजितमस्ति। एवञ्च आहत्य चतुर्दशाध्यायाः निरुक्ताख्ये ग्रन्थेस्मिन् दृश्यन्ते। अस्य ग्रन्थस्य विषये यास्कः स्वयमेव वदतीत्थम्-समाम्नायः समाम्नातः सः व्यख्यातव्यः इति । अर्थात् अस्मिन् ग्रन्थे निघण्टौ आम्नाय शब्दाः एव समाहृताः तेषां विवरणमत्र क्रियते इति।
उदाहरणतया स्वर्गपर्यायस्य नाकः इति शब्दस्य व्युत्पत्तिः निरुक्तकारेण एवं प्रदर्शिता - कै शब्दे इत्यस्मत्द्धतोः कायन्ति, आनन्दोत्सवध्वनिं कुर्वन्ति यस्मिन्नित्यर्थे कमिति शब्दः सुखार्थे निष्पादित न कं अकमिति सुखविरोधि दुःखमित्यस्मिन्नर्थे बहुव्रीहिमाश्रित्य नलोपं अकृत्वा सवर्णदीर्धे च नाकः इति शब्दः व्युत्पद्यते। दुखेन   अमिश्रितं सुखं यत्रोपलभ्यते सः नाकः स्वर्गः इति नाकशब्दार्थः।

निरुक्तकाराणां मौलिकाः सिद्धान्ताः-
निरुक्तकारः यास्कः समानपि   शब्दान् नाम आख्यात उपसर्ग निपातत्वेन चतुर्था विभजते। तत्र नामाख्यातयोः वाचकत्वरूपमर्थम् उपसर्गनिपातानान्तु द्योतकत्वरूपमर्थमपि अकल्पयत्।

भावप्रधानमाख्यातमित्यनेन वाक्येषु तिड़न्तानां प्राधान्यं, धातुलभ्यव्यापारर्थस्य विशेष्यत्वं  व्यापारमुख्यविशेष्यकशाब्दबोधकथनप्रकारोनपि तैः स्वीकृतः। इमामेव  सरणीं वैयाकरणाः अपि अनुवर्तन्ते।

सत्वप्रधानानि नामानि इत्युक्त्वा नामासु द्रव्यस्य प्राधान्यञ्च निर्णीतम्। शब्दाः रूढि- योगिक-
 योगरूढ भेदेन त्रिधा विभक्ताः
येषां  शब्दानां प्रकृतिप्रत्ययरूपव्याकरणप्रकियां विना अर्थात् अवयवार्थं विना साक्षात् अर्थकथनेन प्रयोगो विहितः, ते योगरूढशब्दाः इत्युच्यन्ते। स्तम्भादयः  शब्दाः तत्र उदाहृताः। ये च तावत् प्रकृति प्रत्ययविभागपरत्वेन निष्पाद्य कस्मिश्चिदर्थे रूढाः भवन्ति ते रूढिशब्दाः इत्युच्यन्ते। पड़्कजादिशब्दास्तत्र लक्ष्यन्ते। पड़्कात् जायते इति अर्थकथनपुरःस्सरं पड़ूकात् इत्युपपदपूर्वकात् जनि प्रादुर्भावे इत्यस्माद्धातोः डप्रत्यये कृते पड़्कजशब्दः कमलरूपार्थे व्युत्पद्यते। तत्रावयवार्थे सत्यपि कृमिकीटादिषु पड़्कजशब्दो न प्रवर्तते। अवयवार्थसहकृतरूढ्यर्थः एव अत्र आश्रीयते। नतु अवयवार्थ एव।

एषां शब्दानां प्रकृतिप्रत्ययरूपविभागपरकत्वेन अर्थकथनं दृश्यते ते शब्दाः यौगिकाः इत्युच्यन्ते। तेषां तु अवयवार्थ एव स्वीक्रियते। पाचकादयः शब्दास्तत्रोपतिष्ठन्ते। अत्र पाककर्ता इत्यवयवार्थ एव आश्रियते। न तु  चेदपि सर्वाणि नामानि आख्यातजानि ( धातुजानि  ) इति प्रकृतिप्रत्ययविभागपरत्वेन अर्थकथनयोग्याः इत्येव निरुक्तकाराणां समयः। किन्तु गार्ग्यदयः विमतिं प्रदर्शयन्ति। एवं सति निरुक्तकाराणामेव मतं समीचीनमिति निरुक्ते सयुक्तिकं निरूपितम्।

सुखमिति शब्दः विकारर्थकत्वेनैव कैरल्याम् उपतिष्ठते। किन्तु तस्य अवयवार्थसहकृतस्वार्थः निरुक्तकारस्य पन्थानमेव अनुगच्छति । सु इत्यव्ययं समीचीनमर्थकं खं नाम आकाशं तच्च मनःप्रतिरूपकम्। तथा च समीचीनतया विद्यमानां मानसिकीं अवस्थां सुखशब्दः आचष्टे इति। सुखशब्दात् एतावानर्थः आदेय इति चिन्ता न कस्यापि प्रादेशिकभाषागतशब्दप्रयोक्तुः उदिता स्यात्।
एवं केषाञ्चन शब्दानां निर्वचनं श्रूयताम्। आचार्यः आचारं ग्रहयति आचिनोत्यर्थानिति वा। अर्थः- अर्थ्यते स्वसम्बन्धितया इष्यते इत्यर्थः। अर्थः ( धनार्थकः अर्थशब्दः  )- अरणे( ऋ धातोः ल्युडन्तम्  )गमने अत्रैव तिष्ठति न तेन सह गच्छति परलोकं प्राप्तं स्वामिनं नानुगच्छतीत्यर्थः । सर्वषां मन्त्राणामर्थवत्वं पूर्वपक्षनिराकरणपुरःसरं निरुक्ते व्यवस्थापितम्। अर्थो न बुध्यते इत्यत्रेदं समाधानम् - न हि स्थाणोरपराधः यदेनमन्धो न पश्यति पुरुषापराधः सः अर्थावगमनेन निरर्थकाः मन्त्राः इति यस्को निरूपयति। एवम् अद्यत्वेऽपि निरुक्तकारपदं बहवः प्रादेशिकाः  शब्दाः अनुसरन्तीति तस्य गरिमानमेधयति।

 निरुक्तस्य प्रयोजनम्।
वेदानमध्ययनार्थम् अवश्यं वेदाड़्गानाम् अध्ययनमपेक्षितमेव। अतः वेदाड़्गानि वेदास्य कुञ्चिकेत्युच्यते । लोके तु कुञ्चिकया कार्यद्वयं सम्पाद्यते । एकं रक्षणम् अन्यच्च उद्घाटनम्।। इत्थमेव वेदाड़्गान्यपि वेदमन्त्राणां रक्षां कुर्वन्ति। अपि च यस्तु वेदमन्त्राणामर्थाभिलाषी तस्मै वेदार्थस्य उद्घाटनमपि कारयन्ति अड़्गानि। तथा च वेदमन्त्राणां यथावत् रक्षणे अर्थोद्घाटने च निरुक्तस्यापि अध्ययनमहेयमिति निश्चप्रचम्।

अर्थप्रधानं निरुक्तं शब्दप्रधानं व्याकरणम् इति हेतोः व्याकरणज्ञानस्य परिपूर्णता निरुक्तस्याध्ययनेनैव सम्पद्यते।

यास्केनैव शास्त्रस्यास्य प्रयोजनमित्थमुच्यते-
अथापीदमन्तरेण मन्त्रेष्वर्थप्रत्ययो न विद्यते। अर्थात् शास्त्रस्यास्य अध्ययनेन विना वेदमन्त्राणाम् अर्थज्ञानं न सम्भवति। यतो हि शास्त्रेऽस्मिन्नेव प्रकृतिप्रत्ययविभागपुरस्कारं वैदिकानां शब्दानाम् अर्थविवेचनं कृतं दृश्यते। मन्त्रगतशब्दार्थज्ञानस्य प्रयोजनं चोक्तं-
योऽर्थज्ञः सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा इति-
यः अर्थज्ञः सः एव मड़्गलं प्राप्नोति नान्य इति।
वैदिकानां शब्दानां निरुक्तकारेणकश्चन नियत अर्थः प्रस्तुतः। ते एव वैदिकाः शब्दाः भारतीयप्रादेशिकभाषासु नैके निपतिताः। सुख दुख अक्षरादिशब्दाः तत्र उदाहार्याः।

सुखमिति शब्दः विकारर्थकत्वेनैव कैरल्याम् उपतिष्ठते। किन्तु तस्य अवयवार्थसहकृतस्वार्थः निरुक्तकारस्य पन्थानमेव अनुगच्छति । सु इत्यव्ययं समीचीनमर्थकं खं नाम आकाशं तच्च मनःप्रतिरूपकम्। तथा च समीचीनतया विद्यमानां मानसिकीं अवस्थां सुखशब्दः आचष्टे इति। सुखशब्दात् एतावानर्थः आदेय इति चिन्ता न कस्यापि प्रादेशिकभाषागतशब्दप्रयोक्तुः उदिता स्यात्।
एवं केषाञ्चन शब्दानां निर्वचनं श्रूयताम्। आचार्यः आचारं ग्रहयति आचिनोत्यर्थानिति वा। अर्थः- अर्थ्यते स्वसम्बन्धितया इष्यते इत्यर्थः। अर्थः ( धनार्थकः अर्थशब्दः  )- अरणे( ऋ धातोः ल्युडन्तम्  )गमने अत्रैव तिष्ठति न तेन सह गच्छति परलोकं प्राप्तं स्वामिनं नानुगच्छतीत्यर्थः । सर्वषां मन्त्राणामर्थवत्वं पूर्वपक्षनिराकरणपुरःसरं निरुक्ते व्यवस्थापितम्। अर्थो न बुध्यते इत्यत्रेदं समाधानम् - न हि स्थाणोरपराधः यदेनमन्धो न पश्यति पुरुषापराधः सः अर्थावगमनेन निरर्थकाः मन्त्राः इति यस्को निरूपयति। एवम् अद्यत्वेऽपि निरुक्तकारपदं बहवः प्रादेशिकाः  शब्दाः अनुसरन्तीति तस्य गरिमानमेधयति।

-----------------------------------------------

कृष्णस्य बाललीलाः


[ सरलया संस्कृत-गिरा वर्णिताः ]                              डॉ. बलदेवानन्द-सागरः
भारते यदुवंशः प्रमुखेषु राजवंशेषु अन्यतमः आसीत् अस्य वंशस्य अनुवर्तिनो यादवाः गोपालकत्वेन विख्याताः जाताः ते सुख्याते सुरम्ये प्रदेशे गोकुले निवसन्ति स्म यादवानां प्रमुखः नन्द-गोपः तस्य पत्नी यशोदा च, आनन्द-सन्दोहं कृष्णं दत्तक-पुत्रत्वेन स्वीकृत्य तं गोकुलम् आनीतवन्तौ गोकुलस्य अनेन नूतनेन संयोगेन यादवानां प्रसन्नता द्विगुणिता जाता
कृष्णः गोकुल-वासिनां जीवनेषु अतुल्यं परिवर्तनम् अकरोत् प्रेम्णा स्नेहेन च गोपाल-इति नाम्ना ख्यातः कृष्णः अतितरां चञ्चलः सर्वैः साकं लीलया व्यवहरति स्म।  यद्यपि तस्य चञ्चल-बाल-लीलाभिः नैकवारं प्रतोदिताः सन्तोऽपि ते सर्वे गोपालाय स्निह्यन्ति स्म
अनुमिनोतु , गोपालाय अधिकतमं किं रोचते स्म ? भवतु, दुग्धं नवनीतं च प्रायेण प्रतिदिनमेव, यदा वत्सः निज-मातुः दुग्धं पातुम् उपक्रमते स्म , तद्-दृश्यं रमणीयं भवति स्म
दुग्ध-पानानन्तरं कृष्णः गोवृन्दस्य पश्च-भागे निलीयते स्म यदा यादव-स्त्रियः गो-दुग्धाहरणार्थम् आयान्ति स्म, कृष्णः गोः पुच्छं सहसा आकर्षयति स्म
भवता किं कदाचित् एवं श्रुतं यत् कश्चन गोः पुच्छम् आकर्षयति चेत् तदा किं गौः स्थिरा अभविष्यत् ? नैव... एषा स्यात् कूर्देत् ... दुग्ध-पात्रं च, आस्फा लयेत्...! एतत् सर्वं दृष्ट्वा कृष्णः प्रमुदितः सन् मुक्त-मनसा हसति दूरे पलायते स्म
एकदा कृष्णः अतितरां चाञ्चल्य-पूर्णां लीलाम् अकरोत्सः निजगृहस्य दुग्ध-भण्डारण-कक्षं गतवान्, यत्र दुग्धं मृत्तिका-पात्रे बालैः अप्राप्ये उन्नते स्थाने आधीयते स्म | किं जानाति भवान् कृष्णेन किम् आचरितम् ? सः पार्श्व-स्थात् कक्षात् चूर्णिका-प्रस्तरमेकम् लोठयित्वा तत्रानीय तस्योपरि च स्थितवान्
अहो काठिन्यम्...! साम्प्रतमपि सः दुग्ध-पात्रं स्प्रष्टुं नैव अपारयत् सः कानिचित् काष्ठानि प्रकीर्ण-लकानि च समेत्य मिथः संयोज्य प्रस्तर-खण्डोपरि स्थापितवान् तदुपरि महता प्रयासेन पादाङ्गुलिभिः आधृतः सन् दुग्ध-पात्रं बलात् स्प्रष्टुम् अपारयत्
सहसा काष्ठानि प्रकीर्ण-लकानि च अवपतितुम् आरभन्त कृष्णः पात्र-रज्जुं धृत्वा “ अम्ब ! अम्ब !! कृपया आगच्छतु ... !!! साहाय्यं करोतु... अम्ब...!” इति सोत्कण्ठं मातरम् आकारयत्
तस्मिन् स्थले सर्व-प्रथमं कृष्णस्य भ्राता, बलरामः प्राप्तः, नभसि दोलायमानं कृष्णं
दृष्ट्वा बलरामः सानन्दं मातरम् आकारयत् , “मात ! सपदि आगच्छ ! कृष्णः नभसि दोलायते .... हा... हा... हा...!”
एतत्-संक्षोभं श्रुत्वा यशोदा, राधया तत्-सखीभिः च साकं धावन्ती तत्र आगता राधा कृष्णस्य सखी आसीत् कृष्णं दृष्ट्वा यशोदा साश्चर्यं अवदत् – “उद्धत ! बाल ! , अहं दुःखितास्मि त्वत्तः... !”
कृष्णः यदा अधः अपश्यत् , सः राधां तस्याः अन्यसखीः च अपश्यत्, तदा सः समधिकेन तार-स्वरेण अवदत् – “अम्ब ! कृपया ... अम्ब !! कृपया ... साहाय्यं करोतु...अम्ब...! मां नीचैः अवतारयतु ...!!
इदं श्रुत्वा कृष्णे कृतदया यशोदा तम् अवातारयत् परञ्च, कृष्णः साम्प्रतमपि हताशः आसीत् , अतः यशोदा किम् अकरोत् ? अस्तु ... किञ्चित् नवनीत-पिण्डं दत्वा तं प्रसादितवती
एकदा , कृष्णस्य अन्यतमः सखा बलरामम् उपगम्य अवदत् , “राम ! पश्यतु , कृष्णः मृत्तिकां खादति !” अयं कृष्णस्य ताडनं वाञ्छति स्म निश्चयेन, मृत्तिकां खादन्तं कृष्णं यदि यशोदा पश्यति चेत् नूनं सा तं ताडयेत् ! इदमेव असौ सखा ईच्छति स्म
बलरामः विनैव काल-यापनम् , धावन् एव यशोदाम् उपगम्य तां वार्ताम् इमाम् अश्रावयत्रुष्टा यशोदा बलरामेण साकं कृष्णम् अन्वेष्टुं निर्गता तैः दूरं नैव गमनीयम् आसीत् सः तत्रैव आसीत् ! तम् उपगम्य यशोदा अपृच्छत् , कृष्ण ! कथय मां, किं त्वया मृत् भक्षिता ?” नैव मात...! नैव भक्षिताकृष्णः अवदत्
यद्यपि यशोदा तं पुनः पुनः पृष्टवती, कृष्णः तुल्यमेव उत्तरं प्रादात् परञ्च, यशोदा तस्मिन् विश्वासं नैव कृतवती ! कृष्णस्य हस्तौ दृढं तस्य पृष्ठभागे बद्ध्वा अपृच्छत् , “कृष्ण ! मुधा मा वद ! यदि त्वम् अलीकं वदिष्यति, ताडयिष्यामि मुखम् उद्घाटय तव मुखान्तं निरीक्षेकृष्णः सस्मितं निज-मुखम् उदघाटयत् यशोदा अतितराम् आघाताहता जाता मुखाभ्यन्तरं तया यद् अवलोकितम्, सा नासीत् मृत्तिका, परञ्च वसुधा, सूर्यः, चन्द्रमा, नक्षत्राणि..., किम्बहुना, समग्रं जगत्
इदं सर्वं दृष्ट्वा किञ्चित् स्थिरताम् अवाप्तुकामा यशोदा कृष्णस्य मुखे गोकुलम् अवालोकयत् अपि च, कृष्णस्य अनावृत-मुखस्य सम्मुखं स्थिताम् आत्मानमपि विलोकितवती परम-दुःखिता यशोदा कृष्णं सोत्कण्ठम् आश्लिष्य प्रार्थितवती. “ कृष्ण ! कृपया निजमुखं पिधातु ... अनावृतम् इदं स्वीयं मुखं पिधातु कृपया... ! सस्मैरं कृष्णः स्वकं मुखं पिहितवान्
एकदा यदा यशोदा दधि-मन्थनं करोति स्म, तदा कृष्णः कक्षाभ्यन्तरम् आगतःप्रिय-वत्स ! किं नवनीतं वाञ्छसि ...?” यशोदा अपृच्छत् कृष्णेन मूर्धावधूननं कृत्वा न्यक्कृतम् कृष्णः स्व-मातुः दुग्धं पातुम् इच्छति स्म ततः परम् , यशोदा तं दुग्धं पाययितुम् आरभत किञ्चित् कालानन्तरमेव यशोदा ज्ञातवती यत् चुल्लिकोपरि प्रक्वथनार्थं स्थापितं दुग्धं पात्राद् बहिः निस्सरति सा सहसा उत्थाय कृष्णं दूरे अपसारितवती भवान् कल्पयितुं शक्नोति यत् कृष्णः कियान् रुष्टः सञ्जातः ? क्रोधाविष्टः सः तत्रस्थं सर्वमपि नवनीतं रंहसा खादितवान् इतोऽपि अधिकतर-रुष्टः कृष्णः पार्श्वस्थं क्षीर-पात्रं विकीर्य मार्जारं क्षीर-पानार्थम् अनुज्ञातवान् ततः परमसौ गृहात् तूर्णं निःसृतः
परावर्तितवती यशोदा अवालोकयत् यत् विकीर्णं दुग्धं मार्जारः अवलिहति स्म, नवनीतं किञ्चिदपि अवशिष्टं नासीत् यशोदा वस्तुतः क्रुद्धा अजायत, “गोपालेन अतितरां तोदिताSस्मि, नूनमसौ सम्यक्तया ताडनीयोSस्ति ततः परमेव सः सुशिष्टो भविता”- सा विचारितवती यशोदा गृहात् बहिः निर्गता पूर्वतोऽपि भयङ्करं दृश्यम् अपश्यत् सा अपश्यत् यत् कृष्णः अवशिष्टं नवनीतं कपिभ्यः खादयति स्म यशोदा क्रोधाग्निना ज्वलिता यशोदा रज्जुना कृष्णं बद्ध्वा रज्जोः अपरान्तं उलूखलेन सार्धम् अबद्ध्नात् ! “ उत्पातकारिन् बाल ! अधुना त्वं किं कर्तुं प्रभवसि – इति ज्ञास्यामि ! किञ्चित् कालार्थं अत्रैव तिष्ठ !!”
प्रमुदितः बलरामः तन्मित्राणि च तत्र आगतानि ते कृष्णं उपाहसन् ततः परं क्रीडितुं निर्गताः वराकः कृष्णः ! सः अतितराम् एकाकी अवर्तत !!
किञ्चित् कालानन्तरं कृष्णः सत्यं हि अतिरुचिम् अभजत किं भवान् जानाति यत् तेन किं कृतम् ? सः पश्चवर्तिनम् उलूखलम् आकर्षयन् चलितुम् आरभत ततः प्रचलन् कृष्णः पार्श्वस्थं वृक्ष-द्वयम् अपश्यत् किं भवान् इदं ज्ञातुं नितरां उत्सुकः नास्ति यत् ततः परं कृष्णेन किम् आचरितम् ? सः केवलं वृक्ष-द्वयस्य मध्यात् प्राचलत् ! अपिच, उलूखलः तयोः मध्ये अवरुद्धः कृष्णः मन्थरतया उलूखलम् आकर्षयत् आह्... ! ओह् ...!! उलूखलः साम्प्रतमपि अवरुद्धः एव आसीत् कृष्णः स्व-पूर्ण-शक्त्या उलूखलम् आकर्षयत्अपि च, ततः परं किं घटितम् ? वृक्षद्वयमपि उन्मूलितं जातम् ! अनुवर्तिनि क्षणे उन्मूलित-वृक्ष-द्वयात् देवौ समुत्पन्नौ एतौ देवौ वृक्ष-योनौ समुत्पन्नार्थं शापितौ आस्ताम् कृष्णः स्व-लीलया एव तौ शापमुक्तौ व्यदधात् कृष्णाय निज-कृतज्ञतां समर्प्य तौ स्वर्गं परावर्तितौ वृक्षयोः उन्मूलनस्य महारावं श्रुत्वा गोकुलस्य प्रत्येकमपि निवासी धावन्निव तत्रागतः कृष्णः प्रहसन्निव तत्र स्थितः आसीत् ! नन्दगोपः कृष्णम् उन्मोचितवान्
किम् अद्भुतं घटितम् ? द्वौ विशालौ वृक्षौ अप्रतिहतौ, सहसा उन्मूलितौ जातौइदन्तु कस्यचित् अभिशापस्य उत्पात-जातम्अनेके यादवाः विचारितवन्तःअस्मात् आत्मानं रक्षितुम्, अस्माभिः किं करणीयम् ? स्थानमेतत् परित्यजेम ?” एवं हि, यादवाः गोकुलं परित्यज्य वृन्दावनं प्रति याताः
दिनानि व्यतीतानि कृष्णः बलरामः च पशु-पालन-योग्यौ सञ्जातौ तौ अपि अन्यैः गोपालकैः सह गोचारणार्थं प्रयातुम् आरभताम् तयोः अम्बा मध्याह्न-भोजनार्थं प्रतिदिनं ताभ्यां दधि-मिश्रितम् ओदनं ददाति स्म ते गोपालाः आदिनं पशुभिः सार्धं परितः परिभ्रमन्ति स्म
यदा गावः गोचारण-भूमौ चरन्ति स्म, कृष्णः तस्य सखायः च क्रीडन्ति स्म, उत वा, वृक्षाणां छायासु विश्रमन्ते स्म कृष्णः तदा स्वीयं वेणुं वादयति स्म कृष्णस्य वेणु-स्वरं श्रुत्वा प्रत्येकमपि प्राणी परिवेश-जातं विस्मरन्ति स्म एतादृशं मधुरं सङ्गीतम् ! गावः ग्रास-चरणं विस्मृत्य सङ्गीत-माधुर्ये निमग्नाः अभूवन् पक्षिणः सङ्गीतमेतत् श्रोतुम् उद्डीय कृष्णं निकषा आयान्ति स्म मयूराः हरिणः च आनन्द-सन्दोह-भरिताः तं परितः नृत्यन्ति स्म
एकदा, किञ्चित् अतितरां अद्भुतं घटितम् कृष्णस्य केचन सखायः गावः च विलुप्ताः जाताः ! एते कृष्णस्य वेणुगानं श्रोतुं तस्य समीपम् उपयान्ति स्म ते सर्वेऽपि कुत्र प्रयाताः ? निज-वंशीं वादयन् कृष्णः विलुप्तानि मित्राणि गाः च अन्वेष्टुम् आरभत
सुदीर्घ-कालं यावत् अन्वेषणानन्तरमपि सः न कमपि प्राप्तवान् तदा कृष्णः अन्वभवत् यत् ब्रह्मदेवः प्रवञ्चनया एवं क्रीडति ! ब्रह्मा, येन समग्रमपि ब्रह्माण्डं सृष्टम् सः कृष्णं परीक्षितुं गोपालान् गाः च गोपायितवान् किं भवान् जानाति ? तदा कृष्णेन किम् आचरितम् ?
निज-विलुप्तानां मित्राणां गवां च स्थाने सः तेषां तासां च प्रतिकृतीः विरचितवान् सायङ्काले कृष्णः प्रतिदिनमिव निज-मित्रैः गोभिः च साकं गृहं प्रतिनिवृत्तः ब्रह्मदेवः असमञ्जसताम् अन्वभवत् कृष्णं परीक्षितुं गोपायितानां गवां गोपालानां च विषये अधुना मया की करणीयम् ?”
दिनानि व्यतीतानि अन्ततः, ब्रह्मदेवः कृष्णस्य समक्षम् उपस्थाय न्यवेदयत् , “ कृपया मां क्षम्यताम् केवलं भवन्तं परीक्षितुं वाञ्छामि स्म अत एव मया गोपालाः गावः च चोरिताः गोपायिताः च एवम् इदम् आचरितम् ! अहं जानामि – भवान् साक्षात् पुरुषोत्तमस्य नारायण-विष्णोः अवतारः
सस्मितः कृष्णः ब्रह्मदेवं न्यगादीत् – “भगवन् ! भवता मम मित्राणि पशवः च गोपायिताः, परं मया तु सायम् एते साकमेव गृहं नेतव्याः आसन् अत एव, मया एते पुनः सृष्टाः सन्ति
एतत् श्रुत्वा, ब्रह्मदेवः अभिघोषितवान्– “अहं स्वीयं पराजयं स्वीकरोमि गोपायिताः सर्वाः गावः गोपालाश्च मया प्रत्यानीताः परञ्च विशङ्के यत् भवता प्रकल्पितानां गवां गोपालानां च किं भविष्यति इति ?”
कृष्णः सस्मितं अङ्गुलिं निर्दिशन् न्यगादीत् –“पश्यतु !” ततः परं ब्रह्मदेवेन किं दृष्टम् ? कृष्णेन प्रकल्पिताः सर्वाः अपि गावः यादवाश्च स्वयं भगवतो विष्णोः स्वरूपतां परिणताः  प्रत्येकमपि विष्णोः नाभितः कमलं प्रादुरभूत् प्रत्येकमपि कमले ब्रह्मदेवस्य प्रतिमूर्तिः उपविष्टा आसीत् आश्चर्यचकितः ब्रह्मदेवः एतत् सर्वं संवीक्षते स्म ततः परं सः बद्ध-कराञ्जलिः कृष्णाय प्रणिपातं व्यदधात् अनुवर्तिनि क्षणे, विष्णोः सर्वाण्यपि प्रतिरूपाणि एकस्मिन् समन्वितानि सन्ति कृष्णे विलीनानि कृष्णाय आदराञ्जलीन् अर्पयित्वा ब्रह्मदेवः प्रतिनिवर्तितः भगवतः विष्णोः अवतारः, भगवान् कृष्णः स्मितं व्यदधात् परःसहस्रं सूर्य-प्रभाभिः प्रकाशितः अवर्तत
कृष्णः न कमपि किञ्चिदपि अवदत् यत् किं किं घटितम् इति वृन्दावने सर्वं यथावत् सञ्जातम्, तथा च, कृष्णः सर्वैः निज-मित्रैः सह सुखम् आनन्दम् च अनुभवन् व्यराजत


Cell- 9810 5622 77
email- baldevanand.sagar@gmail.com