Wednesday 28 September 2016

देशरक्षा परमोधर्मः                                        कथा 
                                                                                    पुनरालेखनम्  - शान्ति सी
     पुरा काश्मीरेषु नन्दिनीदेवी नामिका काचित् ग्रामीणा वसति स्म। तस्याः चत्वारः पुत्राः आसन्। सर्वेषां शिक्षादिकं विधिवत् दत्वा सा पुत्रान् अपालयत् ।
    राज्यसीमायां कालान्तरे कलहः सञ्जातः। सीमा रक्षणाय सैनिकानांद्वौर्लभ्यम् अभवत्। अतःग्राममुख्यः ग्रामीणान् एवमवदत्‌ "भो ग्रामीणाः देशस्य एषा दुर्दशा अभवत् । देश रक्षार्थम् उपायः एक एव। भवन्तः एकैकं युवानम् अवश्यं देश रक्षायै प्रेषयन्तु " इति।
     ग्राममुख्यस्य आदेशानुसारं नन्दिनीदेवी ज्येष्ठं तनयं प्रैषयत्। एवमेव सर्वाभिः कृतम्। तथापि जन बलेन देशरक्षा अपूर्णोऽभवत्। अतः सा शिष्टान् पुत्रान् आहूय अवदत्  "पुत्राः देशस्य रक्षणम् अस्माकं धर्मः। अतः देशरक्षणाय सीमानं ग्च्छन्तु इति।
सुपुत्राः मातुराज्ञा पालने व्यग्राः खलु ? एकैकः क्रमेण सीमां प्राप्य देशरक्षणकर्मसु व्यापृतः अभवत् । तथापि सैनिकानाम् अपर्याप्तता अभवत् । पुनरपि ग्राममुख्यः ग्रामीणान् सीमारक्षणाय उद्बोधितवान्। एतत् श्रुत्वा नन्दिनीदेवी रोदितुम् आरभत। तदा काचित् तामुपगम्य रोदनकारणमपृच्छत्। "देश रक्षा परमोधर्मः । इतः परं प्रेषयितुं पञ्चमः पुत्रो नास्तीति मे दुःखम्" इति दृढमनसा नन्दिनीदेवी न्यवेदयत् ।

अपि कनकमयी लङ्का न मे रोचते लक्ष्मण।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी॥
----------------------------------------------------------------------------------------

Friday 23 September 2016

 सा न लिखति    -                                गानम्
       

 राज्ञा रविवर्माणा लिखितं चित्रम् 
मृदुमय-किसलये न लिखति सा 
कमलविलोचन अधुनापि।
तरलित-सुन्दर-सुमदल-नयनयोः 
कुसुमितरागं जानामि।

मधुर-मधुराधरात् किमपि न श्रुतम् यथा 
मधुर-मुदित-हासो नाच्छादितः।
मृदुल-मृदुलतर- कपोलयुगे तव 
तारुण्याभां पश्यामि ।
उपमानरहितो तवमनसरसः 
सुमधुर-सुगन्धं जानामि ।
अज्ञात्वा मयि *त्वमहमसि भो!
प्राणात् प्राणतरोसि च भो!।
----------------------------- 

-अय्यंपुष़ हरिकुमारः 
>*त्वं+अहं +असि

Friday 16 September 2016


 कथा
 स्नेहमयी जीवनाशा
 रम्या पुलियन्नूर्
 एस्  एस्  जि एच्  एस्  एस्  कण्टंड़्काली पय्यन्नूर्, कण्णूर् ।
मम प्राप्तिसमये कवाटः पिहितः आसीत् ।
 तत् गृहं वातावरणं च अत्यन्तं पुरातनमिव अभासत। जीवनम् अत्रास्तीत्यस्य कापि कला तत्र दृष्टिगोचरा नासीत्। अड़्कणं न परिमार्जितम्, तत्र तृणानि रूढमूलानि काननच्छायां प्रयच्छन्ति स्म। गृहं च न परिमार्जितम्। धूलिधूसरितम् आसीत्। लूताजालैः निर्मिताः भिन्नभिन्नालड़्कृतयः तत्र तत्रासन्।

दूरदेशोद्योगप्राप्तौ अनन्यगामिकाहम्  एकमात्र बन्धुगृहम् एतत् प्रविष्टा। गृहस्य अन्तः प्रकाशः नास्ति प्रायः । चतुश्शालेत्यतः लभ्यमान प्रकाशेन मार्गाः  ज्ञाताः। महानसस्य पुरतः  विद्यमाने प्रकोष्ठे बन्धुर्मम सा दीपज्वालनाय वर्तिकाः सज्जीकरोति स्म। तस्याः दर्शने ममहृदयं छिन्न भिन्नम् अभवत् । पूर्वं ऐश्वर्यदेवतेव विराजमाना सा सुमड़्गलित्वं सम्यक् अलड़्करोति स्म । अधुना तु कलुषितवस्त्रा कृशगात्री सा केशान् न प्रसाधितवतीति दृष्टा मया।  तस्याः एकमात्रपुत्र्याः भर्तुश्च अपघातेन देहवियोगः मया ज्ञातः आसीत्। तथापि एवंविधम् एतस्य परिवर्तनं न ज्ञातमेव मया।  स्नेहव्यवहारेणैव सा रक्षितुंशक्या इति ज्ञात्वा अहं तत्र दीपं ज्वलितवती। दीपस्य प्रकाशेन अस्वस्थतां प्रदर्शितवती सा पूर्वकर्मस्मरणेन वा वार्तिकायाः सज्जतायां लग्ना आसीत्। समीपं गत्वा 'पेरश्शी ' इति आहूय स्मारितवती। ममाह्वानेन सा किञ्चित् स्मृतवतीव भावं प्रकटितवती। किञ्चितपि समीपस्था भूत्वा तस्याः स्कन्धे हस्तं विधाय अहं निर्मला इति सूचितवती। उद्योगप्रप्तिवृत्तान्तं सर्वं तां सूचितवती। इतः परम् अत्रैव मम वासः इति च । सा अड़्गीकृतवती । तस्मिन् दिने परस्परसम्भाषणं विना मौनभोजनम् आसीत्।

अग्रिमदिने प्रातरुत्थाय गृहस्वच्छतायां व्यपृताहम् । गृहम् अड़्कणं च सम्यक् परिमार्ज्य स्नानं ततः श्रीगृहे दीपज्वलनं च श्रद्धया मया आचरितम् । मम भागवतपारयणं श्रुत्वा सा उत्थितवती । ततः किञ्चिदाश्वस्ता इव स्नात्वा आगत्य मम समीपम् उपविष्टा । ततः महानसे द्वापि मिलित्वा आहारनिर्माणं कृतवत्यौ । मम प्रस्थानावसरे सा भोजनपात्रम् आनीतवती। " नावश्यकं , मध्यह्ने अहम् आगत्य मिलित्वा भोजनं कुर्वः  " इति कथनेन सा सन्तुष्टा अभवत्। जीवनाशा तस्यां स्फुरितेव। मम गमनसमये पुरतः आगत्य स्थितवती। स्वपुत्रीं स्मृत्वा अश्रूणि मुञ्चन्ति दृष्टा मया।

तद्दिने सायंकाले तामपि बहिर्गन्तुं प्रेरितवती। महता कष्टेन तां बहिरानाय्य वाटिकानिर्माणम् आरब्धवती। सापि मम साहाय्यार्थं सन्नद्धा अभवत्। एकघण्टाभ्यन्तरे सुन्दरम् उद्यानं सज्जीकृतवत्यौ। अनन्तरं स्नात्वा सन्ध्यावन्दनाय उपविष्टे।

एवम् एकमासानन्तरं निरन्तरसामीप्यदानेन तस्यां जीवनोत्साहः वर्धितः। समीपस्थाः बालाः तस्याः वाटिकायामगत्य क्रीडां कर्तुमारब्धवन्तः । तेषां निरन्तरकोलाहलैः तत् गृहं मनुष्यगृहं जातम्। सा मध्यपि पुत्रीनिर्विशेषं स्निह्यति स्म। अहमपि स्नेहं दत्वा ताम् पुनः जीवनोन्मुखं कृतवती। आत्मविश्वासेन आश्वस्ता च।
--------------------------------------

Tuesday 6 September 2016

एषा मनीषा मम
नमो नम:।
अध्यापकदिनमपि समागच्छति। डा.सर्वेप्पल्लि राधाकृष्णः भारतस्य प्रथमोपराष्ट्रपतिः आधुनिकदार्शनिकेषु अग्रगण्यः च आसीत् इत्येतन्न तस्य जन्मदिनं अध्यापकदिनत्वेन आचरितुं हेतुभूतं जातं, किन्तु सः अनुगृहीतः आचार्यः , विशिष्ट अध्यापकश्चासीत्। अध्यापकवृत्तिमधिकृत्य तस्य दर्शनं उदात्तम् उत्कृष्टं चासीत्।
अध्यापकशब्दस्य शिक्षकः, गुरुः, आचार्यः इत्यादीनि नैकानि समानपदानि व्यवह्रियन्ते। परन्तु एकैकस्य शब्दस्य अर्थव्याप्तिः विभिन्ना अस्ति, भारतीयसंस्कृतिदृष्ट्या। अतः छात्राणां पुरतः अध्यापकः कस्मिन् स्तरे तिष्ठति इति अत्यन्तं प्राधान्यमर्हति। यतः अध्यापकः उत्तमपुरुषान्तरस्य , उत्कृष्टवंशपरम्परायाः शिल्पी अस्ति;संरचयिता अस्ति!
आधुनिके काले अध्यापकस्य कर्म/धर्मम् अधिकृत्य कालानुसारं परिवर्तनं सञ्जातम्। साहाय्यदाता, मार्गदर्शकः, इत्यादीनि बहूनि व्याख्यानानि सन्ति। सर्वं युज्यते एव। किन्तु अध्यापकः गुरु शब्दस्य आचार्य शब्दस्य च तत्वं सारं मनसि निधाय आदर्शभूतः भवेत्तर्हि स एव उत्कृष्ट अध्यापनवृत्तिः।

Monday 5 September 2016

   कविता

पुत्रे मयि क्षम्यताम्।
हरिप्रसाद् वी टी  कटम्बूर्

एषस्ते तनयोरम्यहं जननि ! त्वत्पादे प्रणम्यप्रियं
सत्यं च त्रपया ब्रवीमि नितरां दुःखेन दुःखात्मिके!
वाक्पुरुष्यमशेषमत्र तनयस्नेहेन मे क्षम्यतां
श्रुत्वैतत् कृपया सुते मयि  सदा कारुण्यमातन्वतु    1

मातास्तावकपुत्रकाः वयमहो त्वत्स्तन्यसंवर्धकाः
नित्यं त्वां परिपीडयाम उपगुप्तेनैव दुष्कर्मणा ।
एवं चेदपि सत्यनिष्ठहृदये !  पुत्रेषु दुष्कर्तृषु
स्नेहेन त्वमतिप्रियेषु सहसे सर्वन्तु सर्वंसहे ।।          2

पापैः पड़्किलमानसाः स्वतनयाः मन्देतरं मातरं
त्वां  विक्रिय स्वकीयसौख्यनिरताः काड़्क्षन्ति शं स्वात्मनः।
वृक्षच्छादितकेशभारनिकुरं विच्छिद्य विच्छिद्य ते
त्वामम्बामपि कारयन्ति विकृतामप्रकृतां मुण्डिताम्।3

सद्वृत्तामपि माननीयचरितां पुत्रोद्य तन्मातरं
कर्तुं वाच्छति वैपरीत्यविधिना चारित्र्यहीनां क्षणात्।
पुत्रप्रेमविशालशुद्धहृदया त्वां हि प्रियत्वादहो!
तूष्णीं प्राप्य सुते सदा कुचरिते शश्वत्सुखं  शंससि ।। 4

पाथोनाथसुवासशुभ्रवसने !त्वां वस्त्रहीनां बत!
कृत्वा पुत्रक पापशिष्टहृदयः संदृश्यते नग्नताम्।
तोषेणैव पयोधरान् गिरिवरान् संक्षोद्य संक्षोद्य तद्-
रूपे  वैकृतमातनोति नितरां दाक्षिण्यभावं विना।।   5


एवं दुःखशतैरपि प्रतिदिनं संक्लिश्यमाना भव-
न्नेत्राभ्यां जननि! च द्रष्टुमसमर्थोस्म्यश्रुपातं शुभे!
पुत्रोस्ति प्रियमातरि कुचरितः किन्तु प्रियत्वात्सदा
पुत्राणामविवेकानां विकृतयो माता स्वयं क्षाम्यति।  6

पीडां पुत्रकृतां स्वयं परिचयात्सोढुं समर्थे भव-
च्चित्ते सम्प्रति दुःखलेशकणिका नास्तीत्यसौ मन्यते ।
प्रेमप्रस्रवणप्रसन्नहृदयम्बोजे कदाप्यन्तरं
कालुष्यस्य च कल्मषस्य च नहि क्रोधस्य संलक्ष्यते।।7

अम्ब!त्वत्सहनं जनाः कुमतयस्त्वच्छक्तिराहित्यमि-
त्यत्युत्साहमबोधपूर्वमधुनाप्याचष्टिरे कुत्सया  ।
तेषु प्रस्नुतपुत्रवत्सलसुधापूर्णस्तने! साम्प्रतं
साशंसं प्रकटीकरोषि भवतां स्नेहं कृपार्द्रं मुदा ।। 8

यत्किञ्चितद्दपभाषते सुतजनः स्नेहं विना निर्द्दयं
यत्किञ्चिद् कुरुते सदा जननि त्वन्नाशाय कापुत्रकः ।
तत्सर्वं दयया वागण्य निजपुत्रोत्कर्षबुद्ध्या स्वयं
या सर्वं सहते विवकेसुधिया तस्यै जनन्यै नमः  ।।  9
 कथा


प्रतीक्षा
सुजा के पी
जिविएस् एस् चर्प तृश्शिवपेरूर्


भवता आहूयमाना संख्या परिधौ नास्ति......। दिनद्वयतः पुत्रस्य दूरवाण्या इयमेव आयाति इति विषादपूर्णया वाचा सगद्गदं प्रलपन्ती शारदा मम वक्षसि मुखं निहितवती। किं वक्तव्यमिति ममापि भ्रान्तिः जाता।

एक पुत्रः सुन्दरः गुणवान् च। बाल्ये सर्वे वदन्ति स्म यत्  " एतादृश पुत्रलाभार्थं तपः करणीयम्  " इति....। तस्य अष्टमजन्मवार्षिकस्य आचरणवेलायां मम मित्रं राधाकृष्ण एवमुक्तवान् - " भवान्  ग्रामीणविद्यवये पुत्रं पाठयित्व तस्य 'फ्यूचर्'  किमर्थं  नाशयति ? नगरम् आगच्छतु। तत्र उत्तम विद्यलये पाठयतु, प्रवेशन क्लेशः स्यात्  । चिन्ता मास्तु , व्यवस्थां करिष्यामि वासव्यवस्थायामपि चिन्ता न करणीया  ।  "

किन्तु पितरौ " मम चिन्ता जाता ।
किं भो! इदानीं भवतः पुत्रस्य भविष्यमेव प्रधानं ननु? वासरान्तेषु अत्र आगत्य पित्रो क्षेमान्वेषणं कुरु " तदेव उत्तममिति  शारदायाः अपि मतमासीत्। हरितमयानि क्षेत्राणि जीर्णमपि शान्तिपूर्वं मन्दिरं च त्यक्त्वा तथा सदा जपन्तम् अश्वत्थं विस्मृत्य अपरिचिते नगरे वासः। राम! राम! इति मातुः आह्वानं कदाचित् एव शृणुयाम्।समूलम् उत्पाट्य अन्यत्र रोपणम्। !! तत्र सामञ्जस्ये कति दिनानि आवश्यकानि भवेयुः । मम विविधाः चिन्ताः आसन्।

किन्तु  नगरी तु काचित् अभिसारिका इव। तस्याः करवलये बद्धः चेत् सर्वमपि विस्मरति। न गृहं , न ग्रामः न बान्धवाः । तस्याः सौन्दर्ये मुग्धः न किमपि स्मरन्ति...। मोहयितुं सा जानात्यपि......।

नगरजीवितम् आरब्धम् । ग्रामस्य व्ययात् दशगुणितः व्ययः । कदलीपत्रमपि धनेनैव लभ्यम्। तद्वत् अन्याः आवश्यकताः सञ्जाताः। "सर्वेषु गृहेषु परिचारिकाः सन्ति। एका अत्रापि भवतु। नो चेत् अस्माकम् अपमानः" शारदायाः परिभवः । कथञ्चित् परिचारिकायाः व्यवस्थाम् अकरवम्। पुत्रस्य इच्छानां तु सीमा एव नासीत्। एकस्यानन्तरम् अन्यत्...... । द्विचक्रिका, जड़्गमदूवाणी, सड़्गणकम्..... एवमेवम् आवलिः प्रवृद्धा ।

" भवान् छात्रः खलु इदानीं किमर्थम् ? " अपृच्छम् । " " " पितः! सर्वेषां मम मित्राणां हस्ते अस्ति।
भवान् कस्मिन् युगे जीवति ? " प्रश्नभावेन शारदां दृष्टवान् । " ददातु रे " , तस्याः नेत्रे स्पष्टम् अवदताम् ।
भवतु अस्माकम् उण्णिः खलु  अनयस्मै कस्मै न इति विचचिन्त्य तामपि इच्छां पूरितवान्। सड़्गणकं गृहमानीतम् । उण्णिः तु सर्वदा तस्य  पुरतः एव । पठनार्थमेव उपयोगः इति तस्य वचने तु आवयोः संशयलेशोऽपि नासीत्।

एकस्मिन्दिने दृरवाणी आगता । पुत्रस्य विद्यालयात् ।
" शीध्रम् आगन्तव्यम्  " । किं स्यात् एतावत्याः त्वरयाः कारणम् ?
प्राचार्यस्य प्रकोष्ठं प्रविष्टः । क्रोधस्फुरनेत्राभ्यां किमपि लिखन् प्राचार्यः । समीपे निद्रामग्नः इव उण्णिः । प्राचार्यः वक्तुमारब्धवान् - पश्यतु भवतः पुत्रस्य पठनवस्तूनि ....  उत्पीठिकां प्रदर्शितवान् ।


रक्तवर्णेन अड़्कितं प्रगतिपत्रम्, श्वेतचूर्णयुक्तानि लघुपलास्तिकपोटलिकाः , काचित् सान्द्रमुद्रिका.....  एवमेवं ..... व्यक्तं किल? इदमपि पश्य , सान्द्रमुद्रिकां सड़्गणके संस्थाप्य सः चलचित्रं दर्शितवान् ..... मम अधस्तात् भूमिः चलिता इव पाताले मग्नः इव अभवम्। चित्रे मम पुत्रः परिचारिका च .... अहो किं किं दृष्टं मया .... मम शिरोभ्रमणं जातम्। प्रचार्यः पुनरपि कथयन्नासीत्। आरक्षकाः न्यायवादः अधिवक्ता एवमेवं...। उण्णिः गृहमानीतः। शारदा रोदितुमारभत। पुत्रस्य स्कन्धे स्ववक्षसि च पुनः पुनः ताडयन्ती सा किमपि प्रलपन्ती आसीत्। क्रुद्धः सः मां  स्वमातरम् अपि ताडयितुम् उद्युक्तः।

प्रातिवेशिकस्य अध्यपकस्य साहाय्येन उन्मादविमुक्तक्रन्दं नीत्वा चिकित्सा ....... वर्षाणां प्रयत्नेन सः मादकवस्तुभ्यः विमुक्तः ।  " स्वकृतेभ्यः  पापेभ्यः मोचनं प्राप्तुमिच्छामि । पापनिवारिणीनां तीर्थानां वक्षसि अश्रूणि मुञ्चन् पूतो भविष्यामि ..."आवयोः मौनम् अनुमतिं मत्वा सः प्रस्थितः .... मासद्वयं अतीतम्। एकवारं कावेर्यामस्मीति दूरवाणी आसीत्। परन्तु ततः परं कापि वार्ता नास्ति। तम् आह्वयामश्चेत् परिधौ नास्तीति वचनमेव।
राम... ...  राम.......  जानकीजाने   येशुदासस्य मधुरस्वनः । रामचन्द्रः झटिति स्वप्नात् जागरितः । दूरवाणी!! मह्यं दूरवाणी !! उण्णिः स्यात् । शारदा अपि दूरवाणीं स्वीकृतवान्। अपरस्मात् पार्श्वात् ध्वनिः आगतः। राम ! किमर्थं भवान् न आगच्छति ? श्वः जन्मदिनं तव ...... आयाहि । आवामत्र भवदागमनं प्रतीक्ष्यमाणौ स्वः ।

मातुः सकम्पवचनं श्रुत्वा किमपि स्मृत्वा इव रामचन्द्रः भार्यया सह झटित्येव गृहं प्रतिष्ठित । यात्रावेलायामपि शारदा पुत्रम् आह्वयितुं प्रयतमाना आसीत्। तदापि सा एव वाणी...   " भवता आहूयमाना संख्या परिधौ नास्ति "।
---------------------------------------
कर्मन्यासप्रतिषेधः अपलपनीयो भवति वा?
नमो नम:।
अस्य राष्ट्रस्य विकसनवेगं मन्दीकर्तुम् एव समर्थः आसीत् अखिलभारतीयकर्मरोधप्रतिषेधः। कोटिशः रूप्यकाणां नष्टम् एव राष्ट्राय अनेन सञ्जातम्।
प्रतिषेधाय सर्वेषाम् अर्हता अस्ति। किन्तु सः राष्ट्रस्य अभिवृद्धिकर्मणि तालभङ्गं सृष्ट्वा न भवेत्। पुरोगमनचिन्तनानि वाचि इव कर्मणि अपि आचरितुं सर्वैः राजनैतिकदलैः प्रयतितव्यः।
विनष्टं प्रभावं प्रत्यानेतुं प्रयत्नः एव स्वतन्त्रतालब्धेः आरभ्य भारतीयजनतत्या अनुष्टीयते। विभिन्नाः राजनैतिकविश्वासिनः विभिन्नाः धर्मानुयायिनः वा भवन्तु , क्रियमाणानि सकलानि प्रवर्तनानि राष्ट्रपुरोगतिं लक्ष्यीकृत्य भवितव्यानि।
अतः एतादृशः कर्मरोधः निरर्थकः निराकरणीयश्च इति बोद्धव्यः।

Sunday 4 September 2016

  मातृवन्दनम्                                       -गानम् 
- अय्यंपुष हरिकुमारः , कोच्ची  

हिमगिरि शृङ्गम् उत्तुङ्गम् 
भारतमातुर् मणिमकुटम्।
गङ्गा यमुना सिन्धु सरस्वति  
प्रवहति मातुर्हृदयतटम्।।

काश्मीरादि महोन्नददेशे 

विकसन्त्यधुना कुसुमानि
गायन्त्यचिरात् तानि सुमानि  
वन्दे-मातर-गानानि ।।
वन्दे मातरं........ वन्दे मातरम् ........

आरब- वङ्ग-महोदधिनायुत
हिन्दु-समुद्रो स्तौति चिरं ताम् ।
तस्य तरङ्गकरेण हारेण 

अर्च्यते मम भारत माता ।।
---------------------------

Saturday 3 September 2016

जयतु संस्कृतं जयतु भारतम् ।
नमो नम:।
अस्मिन् वर्षे बहुषु स्थानेषु संस्कृतदिवसस्य आयोजनम् अभवत् ।परस्परम् अपि संस्कृतेन सन्देशानाम् आदानप्रदानम् अभवत् । तत् तु शोभनम् ।
किन्तु भाषाभ्यासाय श्रवणम् आवश्यकम् ।यत्र यत्र सन्दर्भः भवति तत्र तत्र आग्रहपूर्वकं संस्कृतं श्रोतव्यम् ।आरम्भे अर्था: स्पष्टा: न स्युः शनै:शनै: मस्तिष्कस्य रचना निर्मिता भवति तदा अर्था:स्पष्टा:भविष्यन्ति। भाषायाः अभ्यास: सम्भाषणेन भवति। ये संसकृतं जानन्ति ते यदि संस्कृतेन वार्तालापं कुर्वन्ति तर्हि: द्विविध लाभः १.स्वस्य भाषापरिष्कार: भवति २.अन्येषां श्रवणाभ्यास: च भवति। तस्मात् संस्कृतेन सम्भाषणं कुरु जीवनस्य परिवर्तनं कुरु ।
भाषाभ्यासाय चत्वारि कौशलानि आवश्यकानि क्रमश: १श्रवणम् । २ सम्भाषणम्। ३ पठनम् ।४ लेखनम् । इदानीं कौशलविकासस्य प्रारम्भ: भवेत् । परस्परसहयोगेन सर्वे मिलित्वा एतत् कार्यं वर्धयाम।
जयतु भारतम् । जयतु संस्कृतम्।
जयतु संस्कृतं चिरम्। गृहे गृहे च पुनरपि।