Monday 16 August 2021

 वर्षाकाले भोज्यवस्तूनि संरक्षितुम् एताः विद्याः परीक्ष्यन्ताम्- 

ज्योतिलक्ष्मी जे.
 वेदपूर्णपुरी -



          वर्षाकाले स्वास्थ्यसंरक्षणे श्रद्धा न  दीयते चेत् निलीयमानाः रोगप्रसारकाः अणवः अस्माकं शरीरं नाशयेत्। वर्षाकाले महानससंरक्षणे दत्तश्रद्धाःभवेयुः। तदर्थं कानिचन कार्याणि सूच्यन्ते।
           भोज्यवस्तूनि यावन्ति अवश्यकानि  तावन्ति पक्तव्यानि । नूतनभोज्यवस्तून्येव खादव्यानि। शाकादीनि लवणजले शुद्धीकृत्य उपयोक्तव्यानि। आपणाद् क्रेतानि तैलयुक्त- भोज्यवस्तूनि परिवर्जनीयानि। भोज्यवस्तूनि शुद्धवस्त्रेण आवरणं कृत्वा संरक्षितव्यानि। शीतीकरणयन्त्रम् मलिनविमुक्ततया संरक्षितव्यम् ।।