Sunday, 31 January 2021

 विद्यार्थिसमाजः राष्ट्रस्य एकः शक्तिशाली सङ्घो वर्तते।

        सम्प्रति भारते विद्यार्थिनामुपरि यदा वयं विहङ्गमदृष्ट्या पश्यामः तदा सर्वतो निराशा हि हस्तगता भवति। अद्यतना विद्यार्थिनः प्रायः अनुशासनहीनाः, अकर्मण्याः, पाश्चात्यसभ्यतायां सततं निमग्नाः सन्तः स्वराष्ट्रमपि विस्मृतवन्त इव अवलोक्यन्ते। ते स्वराष्ट्रस्य वस्तूनि इतरराष्ट्राणां वस्तूनि इव मन्येरन्। राष्ट्रियसम्पदः ध्वस्तीकर्तुमपि तत्परा भवेयुः। भारतीयसंस्कृतिम् उपहसेयुः। राष्ट्रस्य कर्णधारिविद्वत्समुदायं प्रति व्यङ्गात्मकदृष्ट्या पश्येयुश्च इत्यादि। ते न समाजेन सामञ्जस्यतां रक्षेयुः, न वा परिवारेण च आस्थां स्थापयेयुः । माता-पिता-गुरूणाम् वचने तेषु विश्वासो नावलोक्यते। अध्ययने तेषाम् अरुचि एवं वेशभूषाणां भक्ता जाता दृश्यन्ते । एतत्सर्वम् अवलोक्य समाजस्य आशङ्का भवति यत् भारतीया विद्यार्थिनो यदि एतादृशेन मार्गेण एव चलेयुः तर्हि इयं पवित्रा भूमिः पुनरपि विदेशिनां हस्तगता भविष्यतीति। सम्पूर्णं राष्ट्रम् अवनत्यभिमुखं चलत् अस्माकं प्राचीनवैभवम्, संस्कृतिः, उद्योगः, वाणिज्यम् इत्यादिकं सर्वमपि अचिरेण हि नश्येदिति।

  अतो राष्ट्रस्य विद्यार्थिभिः सर्वैः सम्भूय ऐक्यमतेन राष्ट्रहितार्थं हि सर्वदा प्रयतनीयञ्चेत् शीघ्रं हि अस्मद्देशः पूर्णतो विकासमुखी, शक्तिमान् च भवितुमर्हिष्यति, कारणं देशोन्नतिः सर्वदा नवयुवकानां विद्यार्थिनामुपरि हि अवलम्बते प्रायः इति।

      
लेखकः- नारदोपाध्यायः असम प्रदेशः वैदिकगण:

Monday, 25 January 2021

 नेताजी-सुभाषचन्द्रबोसस्य बाल्यकालस्य काचिद् घटना।

  नेताजी सुभाषचन्द्रबोसः पञ्चवर्षीयः बालकः आसीत्। जनवरीमासे १९०२ तमे वर्षे तस्य पिता जानकीनाथबोसः विद्यार्जनाय तं कटकनगरे एकस्मिन् मिशनारी-विद्यालये प्रवेशम् अकारयत्। किन्तु केवलं पञ्चमासेभ्यः परम् अर्थात् तस्मिन् वर्षे जुलाई मासे तस्य कश्चन महान् रोगः अभवत्। सार्धपञ्चवर्षीयः बालकः आसीत् सुभाषचन्द्रबोसः।तदानीं कटकनगरे महतां वैद्यानाम् अभावः सर्वजनविदितः आसीत्। तथापि तेषु कैश्चित् उत्तमैः वैद्यैः तस्य चिकित्सा कृता। परन्तु तस्य सुभाषस्य रोगस्य उपशमनं न भवति स्म।अनन्तरं तस्य पित्रा जानकीनाथबोसेन कोलकातानगरस्य वैद्यैः अपि चिकित्सा कारिता चेदपि तस्य रोगस्य उपशमनं न अभवत्।

   जुलायीमासस्य चतुर्थे दिनाङ्के रात्रौ सुभाषस्य अवस्था अत्यन्तं शोचनीया अभवत्। सः जीवनमरणयोः सङ्घर्षं कुर्वन् आसीत्। गृहजनाः सर्वे तदानीं रोदनम् आरब्धवन्तः। रात्रौ नववादने अकस्मात् काषायवस्त्रधारी कश्चन महापुरुषः गृहं प्रविष्टवान्। तं दिव्यपुरुषं दृष्ट्वा चेतनाहीनस्य  सुभाषस्य पितरौ आश्चर्यचकितौ अभवताम्। भावगम्भीरः सः दिव्यपुरुषः तस्य चेतनाहीनस्य सुभाषस्य वक्षःस्थले हस्तेन शनैः शनैः स्पर्शं कृत्वा अनन्तरं निःशब्देन गृहात् बहिः निर्गतवान्। केनापि वार्तालापं न कृतवान्। दशाधिकनववादने सुभाषचन्द्रबोसः चरमावस्थाम् अतिक्रम्य सः यथा पुनर्जन्म अलभत। सः दिव्यपुरुषः आसीत् स्वामी विवेकानन्दः। इतोपि आश्चर्यं यत् तस्मिन्नेव समये १९०२ तमे वर्षे जुलायीमासस्य चतुर्थे दिनाङ्के शुक्रवासरे स्वामी विवेकानन्दः महासमाधिम् अलभत, चिरकालाय च ब्रह्मणि लीनः अभवत्। एतस्याः घटनायाः परं सुभाषचन्द्रबोसः सम्पूर्णरूपेण स्वस्थः अभवत्। एवमपि कथ्यते यत् स्वामिविवेकानन्दस्य आत्मा सुभाषचन्द्रबोसस्य अन्तः प्रविष्टवान् इति।
तथ्यमिदम् इतिहासात् संगृहीतं वर्तते।


रचयिता - प्रदीपकुमार नाथः असम्।
वैदिकगणस्य कार्यकर्ता ।

Thursday, 21 January 2021

 भेदभावः

-कथा

 नेताजी सुभाषचन्द्रमहोदयस्य आजादहिन्दसेनायां हिन्दू-मुस्लिम-सिक्ख सम्प्रदायानां सैनिकाः आसन्। तेषां भिन्ना भिन्ना रन्धनव्यवस्था आसन्। एकदा नेताजी अवदत्, अहं भवद्भिः प्रस्तुतं खाद्यं खादिष्यामि। त्रिधर्मस्य हिन्दू-मुस्लिम-सिक्खसैनिकाः तेषां समूहेन प्रस्तुतं खाद्यमेव ग्रहीतुं नेताजीमहोदयं निवेदितवन्तः। नेताजी ईषत् हसन् अवदत्- अस्तु भवद्भिः प्रस्तुतानि खाद्यानि आनयन्तु। भिन्नायां भिन्नायां स्थालिकायां खाद्यानि आनीय त्रिधर्मस्य सैनिकाः उपस्थिताः अभवन्। नेताजी तेभ्यः स्थालिकाः नीत्वा तत्र तत्र स्थितानि खाद्यानि एकस्यां बृहत्स्थालिकायां संस्थाप्य अमिश्रयत्। त्रिधर्मस्य सैनिकाः एतत् साश्चर्यं पश्यन्ति स्म। नेताजी हसन् अवदत्, अधुना भवन्तः भवतां खाद्यानि भिन्नीकुर्वन्तु। यदा एकस्यां स्थालिकायां सर्वाणि खाद्यानि मिश्रितानि तदा भिन्नीकरणे कोऽपि लाभो नास्ति किल । तथैव यदा वयं सर्वेषां धर्माणां जना मिलित्वा हिन्दुस्थानस्थापनाय चेष्टामहे, तदानीं किं पुनः धर्मभेदेन। अतः समस्तसाम्प्रदायिकमनोभावं परित्यज्य सर्वे भारतीयाः भवन्त्विति अहमिच्छामि। एवम्प्रकारेण नेताजीमहोदयस्य ऐक्यसन्देशः अस्माकं सर्वेषां भारतीयानां कृते सदैव वरीवर्तते।  

लेखकः - डाॅ रुरुकुमारमहापात्रः

अध्यापकः, राष्टियसंस्कृतविश्वविद्यालयः, तिरुपतिः।

Friday, 25 December 2020

 दर्शश्यामास्तुतिः


असावम्बा दीपयन्ती प्रकाशं

विमर्शिनी शम्भुमञ्चेद्धलक्ष्मी:।

प्रसन्नाऽन: सारदा शारदा स्याद्

भूयो भूयो प्रवदान्या परेशी॥१


रमा रामा भैरवी घोरघोरा

श्मशानस्था दक्षिणा भद्रकाली।

क्रीमाहुस्तां शवमालै: शिवाभि-

र्यामीशानं चेतयन्ती नुमस्ताम्॥२


क्रीङ्कारिणीं कालशक्तिं भरन्तीं

भजन्ति यां सर्वसिद्ध्यात्मरूपाम्।

भुक्त्या मुक्त्या मृळयन्तीं प्रपद्ये

समावेशात्मनि वन्द्यां वृणे ताम्॥३


साऽन्तर्बहिर्बहिरन्त: स्फुरन्ती

सा शून्याभा पूर्णिमा पूर्णबिम्बा।

विन्दौ विन्दौ सिन्धुरात्मा वरेण्या

पराम्बिका कापि साऽऽस्तां शरण्या॥४


पञ्चास्यमा पञ्चकृत्यं परेशं

पञ्चास्यं तं भोजयन्त्यर्णपूर्णा।

जीवे जीवे शिवसङ्कल्पजप्ता

जाया शम्भोर्जायतां दर्शदीप्ता॥५


श्यामिकां जगतो हन्त्री 

भद्रा भरतनन्दिनी।

नदन्ती नन्दयन्त्यम्बा 

सिद्धेन्द्राक्षी वृताऽवतात्॥६


वत्स देशराज शर्मा -हिमाचलप्रदेशः ।संपर्कसूत्रम् ८२१९३५९७०६


Thursday, 12 November 2020

 प्रार्थनागीतम् 

कविः – श्री. पन्तलं के. पि.

अखिलाण्डमण्डलं सुविधाय सज्जम्

आनन्ददीपं च तस्मिन् प्रज्वाल्य

परमाणुसारेपि स्फुरसि च नित्यं

परमप्रकाश! भोः शरणं त्वमेव ।

सुरगोललक्षाणि संयोज्य तेषाम्

अविकलसौहृदबन्धं विधाय

आधारमेतेषां परिकल्प्य सर्वं

विजयसे सत्य भोः शरणं त्वमेव ।

दुरितसङ्कुलितेस्मिन् भुवने त्वदीय

परिपूर्णतेजःप्रभावोस्तु नितराम्

एकोस्तु वर्णस्तथा धर्म ईश च

परिशुद्धवेदान्तः सफलोस्तु नित्यम् ।

अखिलाधिनायक! पुरतो वयं ते

प्रणमामः सादरं शरणाय नित्यम् ।

समरादितृष्णाः सकलाश्च त्यक्त्वा

समताञ्च शान्तिञ्च क्षेमञ्च देहि ।

जनता च जनता च हस्तं गृहीत्वा

तज्जातसौभाग्यगीतमुद्गीर्य

नरलोकस्यानन्दमहिमानं प्राप्य

विजयतां तव दिव्यनामानि स्तुत्वा ।। 

....................................

 

संस्कृतानुवादः – मुत्तलपुरं मोहनदासः

Friday, 23 October 2020

पञ्चतन्तन्त्रोपाख्यानम् 

- डा. गदाधरत्रिपाठी



(पञ्चतन्त्रकथाम् अधिकृत्य कविता)


शत्रुभिर्मित्रभिश्चैवोदासीनै: सह सर्वदा।

व्यवहारेण सम्बन्धा निर्धारितास्तथा च वै॥

 सम्बन्धैर्जीवनञ्चैव सुकरं सर्वथा सदा।

व्याख्या तथा च तेनैव प्रस्तुता ऋषिभिस्तथा॥


पञ्चतन्त्रं विशिष्टं हि प्रस्तुतं विष्णुशर्मणा।

विभक्तं पञ्चभागेषु  कविना गुम्फितं तथा॥

 नागनकुलयोश्चैव  सिंहवकुलयोर्हि वै।

मूर्खै:कार्यविपत्तिर्हि मर्कटस्य कथा यथा॥

 ग्रन्थस्यास्य च भेदो हि मित्रभेदश्च वर्तते।

पशवो मनुजाश्चैव  पात्राणि नु तथा हि वै॥

 सम्बन्धेषु सदा चैव मित्रभावः सुकोमलः।

मित्रसंप्राप्तिखण्डे तु मित्रभावः प्रदर्शितः॥

 कथासु पञ्चतन्त्रस्य पशवः पक्षिणस्तथा।

नियोजिता यथा तेन संदेशाः प्रहिता हि वै॥

काकोलूकप्रखण्डे तु  कथं राजा सुचिन्तनम्।

 काकश्चैव सुनीतिं हि स्थापयति यथा तथा॥

 लब्धप्रणाशखण्डे वै  संकेतो निहितस्तथा।

बुद्ध्या प्राप्नोति सर्वं हि बुद्धिहीना: पराजिता:॥

 पञ्चमे चैव खण्डेऽपि संकेतः प्राप्यते यथा।

सर्वं विचार्य कार्यं हि शास्त्राणां नु सुचिन्तनम्॥

 औत्सुक्येन तथा चैव कथा संवलिता हि वै।

तेनैव रम्यता चैव सर्वत्र परिदृश्यते ॥

 वदन्ति पशवश्चैव पक्षिणश्च तथा हि वै।

विज्ञा यथा तथा चैव रोमाञ्चमनुभूयते॥

 देशे चैव विदेशे च ग्रन्थोऽयञ्च समादृतः।

अनेकासु च भाषासु पठन्ति सुधियो जनाः ॥

 यद्यपि चैव ग्रन्थोऽयं बालानाञ्च कृते हि वै।

 तथाप्यस्य च संदेशा: सर्वेषां  नु कृते यथा॥

 सर्वं समादृतञ्चैव सर्वं विज्ञानसम्मतम्।

बालकेभ्यो यथा चैव वरिष्ठेभ्यस्तथा नु वै॥

 संपत्तौ किञ्च कार्यं वै  विपत्तौ किं न वै तथा।

संकेता: पञ्चतन्त्रे हि तेनायमद्भुतो यथा॥

            ---------------------------



Thursday, 3 September 2020

  ‘मनोगतम् [०२.१५] 

‘मनकीबात’प्रसारण-तिथि: ३०–अगस्त-मासः, २०२०  

       [भाषान्तरं – डॉ.श्रुतिकान्तपाण्डेयेन सम्भूय बलदेवानन्द-सागर-द्वारा]


     मम प्रियाः देशवासिनः, नमस्कारः | सामान्यतया कालोऽयम् उत्सवस्य भवति, नैकत्र मेलकानि आयोज्यन्ते, धार्मिक-पूजापाठाः विधीयन्ते | कोरोना-संकट-कालेsस्मिन्  जनेषु उल्लासस्तु अस्ति, उत्साहः अपि वर्तते, किञ्च,  अस्माकं मनान्सि संस्पृशेत्, तादृशम् अनुशासनम् अप्यस्ति |  सुबहु एकरूपेण पश्याम, चेत् नागरिकेषु दायित्वस्य अनुभूतिः अपि अस्ति | जनाः स्वीयावधानं सन्धारयन्तः, अपरेषाम् अवधानं

Friday, 14 August 2020

विघ्नहर्ता गजाननः

 [ऐषमः ऑगस्ट-मासे २२-दिनाङ्के ‘विनायक-चतुर्थी’ति विशेषावसरः | शुभावसरेsस्मिन्   भगवतो गणेशस्य विशिष्टार्चनां सर्वेऽपि भारतीयाः विदधति,  कथम्?  जानन्तु अस्याः कथायाः माध्यमेन ... ]

!!> विघ्नहर्ता गजाननः <!!         

           आदिदेवस्य गणेशस्य विस्मयकारिणः रूपान्तरस्य कथा! 

                   [ सरलया संस्कृत-गिरा वर्णिता ]

कथाकारः - बलदेवानन्द-सागरः

           देवाधिदेवः शिवः स्वीय-अर्धाङ्गिन्या पार्वत्या सार्धं कैलास-पर्वते निवसति। एकदा, महादेवः तत्र नासीत्, तदा भगवती पार्वती स्नानार्थं सज्जा भवन्ती सती सहसा विचारितवती यत् “कदाचित् स्नान-कर्मणि निरतायां मयि कश्चन भवनम् इदं समुपागच्छेत्!”   

           किञ्चित् कालं यावत् गहनं परिशील्य सा समुपायम् एकं निर्धारितवती। स्नानारम्भात् पूर्वं, सा स्वीय-देहे लेपितं हरिद्रावलेपम् अपसार्य तम् एकस्मिन् पात्रे न्यदधात्। ततः परम्, तल्लेप-कर्दमात् सा एकस्य किशोरस्य बालकस्य प्रतिमां निर्मितवती। तदनु, भगवती पार्वती तस्यां प्रतिमायां जीवनम् अस्थापयत्। सा प्रतिमा रमणीय-किशोर-बालकत्वेन रूपान्तरिता जाता। भगवती पार्वती सगौरवं शनैः च अवदत् यत् -  “त्वं मम सुतः! केवलं मामकीनः!!”

          “मात! केन प्रकारेण अत्रभवती सेवनीया?” तस्याः सुतोऽयम् अपृच्छत्। पार्वती तं बालं भवन-प्रवेश-द्वारं सन्नीय लौह-दण्डम् एकं प्रदाय निरदिशत् – “सुत! अत्र प्रहरित्वं विदधातु। मम अनुज्ञां विना न त्वया कश्चन अन्तःप्रवेशार्थम् अनुमन्तव्यः।” 

          तत्पश्चात्, भगवती पार्वती भवनान्तः प्रविष्टा। किञ्चित्-कालानन्तरं कश्चन तत्र आयातः। अनुमिनोतु, कोऽयं सम्भवेत्...? साक्षात् परम-शिवः! 

          यथैव परम-शिवः भवनं प्रवेष्टुं समुद्यतः, तत्रस्थेन किशोरेण असौ अवरोधितः। “मम माता, भगवती पार्वती न कमपि जनम् अन्तःप्रवेशार्थं माम् आज्ञप्तवती।”

         परम-शिवः स्वीय-हास्यम् अवरोद्धुं नैव अपारयत्। “हा...हा...हा... भगवती पार्वती साम्प्रतं पुत्रवती, तच्च, मम अवगमनं विना!”    

         बालकस्य तर्जनामयीं दृष्टिम् उपेक्ष्य परम-शिवः किञ्चित् अग्रेसृतः। तथा हि, अचिन्तनीयं किमपि घटितम्! बालकः लौह-दण्डेन भगवन्तं शिवम् अताडयत्। “अन्तः नैव प्रवेशार्थं मया पूर्वमेव प्रतिबोधितं नासीत् किम्...?”

        भगवान् शिवः अतितरां क्रुद्धः सञ्जातः। किञ्चित् कालं विचिन्त्य ततः निर्गन्तुम् असौ निरणैषीत्। ततः प्रस्थानात् प्राक्, भगवान् शिवः बालकम् अब्रवीत् - “एतादृशः अहङ्कारः! त्वादृशं लघु-बालम् अनुशास्तुं मम गणाः एव अलम्।”

        त्वरितमेव भगवान् शिवः स्वीय-गणान् आकारयत् आदिशत् च, “गच्छन्तु, भवन-द्वारि प्रहरित्वपरम् अहङ्कारिणं बालं सम्यक्तया शिक्षयन्तु।” 

        भगवतः शिवस्य सायुधाः गणाः स्वामिनः आज्ञां पूरयितुं द्रुतमेव भवन-प्रवेश-द्वारं प्रति धाविताः। पार्वत्याः सुतः अमुना बलप्रदर्शनेन न किञ्चिदपि भीतः। गण-प्रमुखः तार-स्वरेण अवदत् – “कथं त्वं भगवन्तं शिवं समाह्वयितुं प्रभवषि? वयं त्वां व्यापादयिष्यामः।” 

       विनैव कमपि उद्वेगम्, पार्वत्याः सुतः तान् अब्रवीत् – “मम मातुः भगवत्याः पार्वत्याः इच्छानुसारम् अहम्, भवतां स्वामिनः आज्ञानुसारेण च भवन्तः आदिष्टाः स्मः। नाहं मनागपि परावर्तिष्ये।”    

       “भगवत्याः पार्वत्याः सुते अस्मिन् आक्रमणमिदं किं समुचितम्?” - इति शिव-गणाः द्वन्दाभिभूताः जाताः। बालके अस्मिन् विनैव किमपि आक्रमणं ते परावर्तिताः। तत्रान्तरे, भगवती पार्वती यत् किमपि घटितमासीत्, तद् अभिज्ञातवती। 

      “परम-शिवस्तु मम पतिः अस्ति, तथ्यम् अपरीक्ष्य एव, सः मम सुतम् आक्रान्तुं प्रायतत, अहं मदीय-पुत्रस्य गौरवं रक्षिष्यामि”– इति सा निर्णीतवती।               

     गणाः भगवन्तं शिवम् उपगम्य सर्वं यत् घटितं तत् वर्णितवन्तः। तत् श्रुत्वा शिवः आदिशत् यत् “यदि वयं परावर्तामहे, सः अस्मान् भीतान् अवगमिष्यति, गच्छन्तु, तं पराजित्य प्रत्यागच्छन्तु।”

    भगवतः शिवस्य सद्यः आदेशं श्रुत्वा, नूतन-बल-सम्पन्नाः गणाः भवनं प्रति द्रुतं प्रयाताः। नन्दिकेशः गणानां प्रमुखः आसीत्। आत्मानं प्रति आगच्छतः गणान् दृष्ट्वा पार्वती-पुत्रः अवोचत् – “अहं तु केवलं मदीय-जनन्याः आज्ञां परिपालितवान्। न मया भवन्तः किञ्चिदपि बाधिताः, तर्हि कथं माम् आक्रमन्ते?” परञ्च गणाः न किञ्चिदपि सम्भाषितुम् उद्यताः आसन्। युद्ध-समाघोषान् घोषयन्तः ते आक्रान्तुम् आरभन्त। एवं हि, भीषणं युद्धं प्रवृत्तम्। यद् अनुवर्तितं तद् आश्चर्यकरं नासीत्! पार्वती-पुत्रस्य एकाकिनः युद्ध-वीरस्य समक्षं स्थातुम् अशक्ताः गणाः सपदि पराजयं स्वीकृतवन्तः। देवाधिदेवः शिवः स्वीयं भवनं प्रवेष्टुं नार्हत् – इति वार्ता देवलोके अपि प्रसृता। समस्येयं केन प्रकारेण समाधेया? पितामहः ब्रह्मा, स्वर्गाधिपः इन्द्रः च, गहनां विचारणां अकुरुताम्। अन्ततः भगवन्तं शिवम् उपगन्तुं तौ निर्णीतवन्तौ।

       पितामहः ब्रह्मा स्वर्गाधिपः इन्द्रः च, परमशिवम् उपगम्य निज-समवेदनां प्रकटितवन्तौ। शिवः तौ निगदितवान् यत् - “देवी-पार्वतीतः पराभवं न स्वीकरिष्यामि।” 

      “अहं स्वपक्षतः प्रयते।” - इति उक्त्वा ब्रह्मदेवः कैलाश-पर्वतं प्रति जगाम। अनेकैः महात्मभिः सहकृतः पितामहः ब्रह्मा ब्राह्मण-रूपेण पार्वती-पुत्रं मेलितुं प्रयातः। ते प्रवीरं बालम् उक्तवन्तः - “प्रियवत्स! त्वया परम-शिवस्य मार्गः नैव अवरोधनीयः आसीत्।”      

       बालकः अविचलितः एव स्थितः। “सम्प्रति भवान् प्रस्थातुं शक्नोति, अहं केवलं निजमातुः आज्ञाम् अनुपालयामि।” 

       बालकेन ब्रह्मदेवस्यापि वचनम् अन्यथाकृतं इति वृत्तम् आकर्ण्य परमशिवः अतिक्रुद्धः जातः। सः निज-सुतं कार्तिकेयं देवेन्द्रं च आकार्य न्यगदत् यत् – “कार्तिकेयः शिवगणान् सन्नयतु, देवेन्द्रः च देव-सेनाः सन्नेष्यति। तं व्यापादयन्तु।” एवं हि, शिवगणाः देवसेनाः च, भवन-प्रवेशं प्रति प्रयाताः।                               

       एतद्-घटना-जातस्य वृत्तम् अवगम्य देवी पार्वती भगवतीं महाकालीं देवीं दुर्गां च आकार्य निरदिशत् यत् – “मम सुतः एकाकी वर्तते। अत्रभवत्यौ द्वेSपि तस्मै साहाय्यं कुरुतात्।”

       यथैव महाकाली आदेशमेनम् अशृणोत्, सा युद्धभूमिं प्रति सपदि प्रयाता। तया देवसेनाः लक्ष्यीकृताः। देवानाम् आयुधानि तया ग्रसितुं आरब्धम्। भीताः सन्तः देवाः पलायिताः। तत्रान्तरे, भगवती दुर्गा शिव-गणानां सेनानां साम्मुख्यं व्यदधात्। तस्याः बलं सोढुम् अक्षमाः निःसहायाः गणाः स्व-जीवित-रक्षार्थम् इतस्ततः पलायिताः।

       एतत्-सर्वं घटितम् अवगम्य भगवान् विष्णुः परमशिवं परामर्शितवान् – “महादेव! न कश्चन सम्मुखात् बालमेनं पराजेतुं शक्नोति। वयं केवलं कपटेन एव तं पराजेतुं शक्ष्यामः।” 

       पार्वती-पुत्रम् आक्रान्तुं महाविष्णुः महादेवः च पृथक्-पृथक् दिशां प्रति प्रयातौ। एकतः, महाविष्णुः बालकस्य सम्मुखम् आक्रमणम् आरभत, अपरतः, महादेवः त्रिशूलेन पश्चभागात् बालकमेनम् आक्रमत। शिवस्य त्रिशूलेन बालकस्य शिरच्छेदः कृतः। युद्धं समाप्तम्। परञ्च परमशिवः दुःखी अभवत्। “अहं देव्याः पार्वत्याः पुत्रं मारितवान्। मम पत्न्याः कृते किञ्चिदपि पीडादायि कार्यं मया नैव करणीयमासीत्।”

       अपराध-बोधाविष्टः परमशिवः देवीं पार्वतीं मेलितुम् अगच्छत्। स्वीय-सुतस्य निधन-वार्तया सा अदम्यं क्रोधम् अनुभवति स्म। “अत्रभवता मम पुत्रस्य जीवनं परावर्तनीयम् - इत्यहं वाञ्छामि। नैतावन्मात्रम्! देवेषु सम्माननीयं गौरव-पदमपि अस्मै प्रदेयमित्यपि वाञ्छामि। ततः परमेव मम क्रोधः अपगमिष्यति” - इति देवी पार्वती चीत्कृतवती। एतत् आकर्ण्य परमशिवः भवनात् बहिः निर्गत्य देवान् आदिशत् – “कृपया उत्तरदिशां प्रति गत्वा प्रथमं सम्मुखीक्रियमाणस्य प्राणिनः शिरश्छेदं कृत्वा च पार्वत्याः सुतस्य जीवनार्थं तत्-शिरःसन्धानं कुर्वन्तु।” देवाः सपदि एव निर्गताः |

       ते सर्वप्रथमं दीर्घ-दन्तिनं गजम् अपश्यन्। ते गजस्य शिरोवधं कृत्वा भवनं प्रत्यागताः। पार्वत्याः सुतस्य जीवनार्थं तस्य देहोपरि ते गजस्य शिरः स्थापितवन्तः। ते गजाननं बालं पार्वतीं उपानीतवन्तः। सा प्रसन्ना जाता। सा तं गजाननं स्वीय-अङ्के उपावेश्य भगवन्तं शिवम् अकथयत् यत् – “अस्मै देवेषु किं पदम् उपायनीक्रियते?”       

       परमशिवः गजाननस्य शिरसि निज-करपल्लवस्य स्पर्श-पुरस्सरं तस्मै आशीराशिं प्रदाय अवदत् – “अद्य प्रभृति बालोऽयं गणान् सन्नेष्यति, अतः गणेशत्वेन अर्थात् गणानां स्वामित्वेन लोकेषु पूजयिष्यते।” 

       भगवती पार्वती अतितरां प्रसन्ना अभवत्। परमशिवः पुनरपि अवदत् यत् - “अस्मदीयोऽयं सुतः विघ्नानि अपाकर्तुम् उत्पादयितुं चापि शक्तिं सन्धारयति। अतः असौ विघ्नेश्वर-रूपेणापि ख्यापयिष्यते। विघ्नानि दूरीकर्तुं केवलं विघ्नेश्वस्य प्रसन्नता अपेक्ष्यते।”  

      एतत् श्रुत्वा देवाः सादरं गण-नायकं गणेशं नमस्कृतवन्तः। प्रसन्नः गजाननः गणेशः सर्वेभ्यः स्मितवदनः सञ्जातः।  

                                  ... डॉ. बलदेवानन्द-सागरः 

                                                   Email -  baldevanand.sagar@gmail.com

Monday, 10 August 2020

राष्ट्रभाषा हिब्रूभाषा” इति सङ्कल्पसाधकं स्वाभिमानि इजरायलम्।


-डा.भारती शर्मा 

-आचार्य: रामकृष्णशास्त्री  च (जयपुरम्)

       द्विसहस्रवर्षेभ्यः यावत् विश्वस्य विविधराष्ट्रेषु इतस्ततः भ्रमणशीलानां यहूदीनां न तु स्वराष्ट्रमासीत्  नापि भूमिः न च संस्कृतिः। परन्तु ते मातृभुवं प्रति दृढसंकल्पाः आसन् यत् यदापि पुनः मेलिष्यामः जेरुशेलमे एव। तस्मिन् काले तान्निकषा इजरायलदेशः यहूदीसंस्कृतिः हिब्रूभाषा च नासन् । स्वसङ्कल्पं साधयितुं ते उत्साहिनोऽस्यां पृथिव्यां भ्रमन्तः यदापि परस्परममिलन् स्वसङ्कल्पमस्मरन् यदस्माकं पुनः मेलनं जेरुशेलमे एव भविष्यति । सङ्कल्पः पूर्णतामयात् । यहूदयः इजरायलदेशं 1948 ई.तमे वर्षे प्राप्नुवन्। विश्वस्य लघुतमेषु राष्ट्रेष्वन्यतमः एष देशः चतसृषु दिक्षु अरबराष्ट्रैः आवृतः निर्जनमरुभूमिः आसीत् । 

मरुस्थलं मरुस्थलमिवासीत्, तथैव मृदा । कालान्तरे इजरायलवासिनां सोत्साहपरिश्रमेण मृदायामद्भुत-परिवर्तनमारब्धम् । मरुभूमेः कृषकराष्ट्रमिदं सम्प्रति विश्वाय उन्नतकृषितकनीकिं विक्रीणाति। प्रतिदिनं नैक 'टन' परिमितं शाकानि फलानि च यूरोपं प्रति प्रेषयति। अद्य या “ड्रिप इरिगेशन सिस्टम” इत्याख्या प्रथिता सेचनप्रणाली जगता उपयुज्यते सा इजरायलेनाविष्कृता। विश्वस्य शक्तिसम्पन्नासु गुप्तचरसंस्थासु इजरायलदेशस्य मोसाड इति नाम्नी गुप्तचरसंस्थान्यतमा वर्तते ।        

इजरायलं स्वाभिमानस्य आत्मविश्वासस्य आत्मसम्मानस्य च प्रतीकमस्ति । तस्य देशस्य जनसंख्या प्रायः अशीतिलक्षमात्रमस्ति । तत्र देशस्य एकायाः सीम्नः अपरां सीमानं गन्तुं घण्टात्रयं चतुष्टयं वा पर्याप्तमस्ति इत्यनेन तत्रत्याः  विकसितपरिवहनव्यवस्था ज्ञायते । पृथिव्याः जलराशेः द्विप्रतिशतं जलमेव तस्य जलसम्पत्तिः। प्राकृतिकसंसाधनानां प्रायोऽभावः। कदाचिद्  भगवतापि तद्राष्ट्रं प्रति समदृष्टिः न धृता यतोहि समीपस्थेषु अरबदेशेषु तैलस्य प्राचुर्यम्, इजरायले तदपि नास्ति। 

इजरायलं राजनीतिकजीवन्ततायाः बोधस्य च पराकाष्ठां धारयति । तस्मिन् लघुराष्ट्रे आहत्य द्वादशराजनीतिकदलानि वर्तन्ते । यद्यपि अद्यावधि न किमपि दलं पूर्णजनमतैक्येन सर्वकारं स्थापयितुं समर्थमभवत् । तथापि तत्र पूर्णतः ऐक्यं दृश्यते- राष्ट्रस्य सुरक्षायै सम्मानाय स्वाभिमानाय हिताय च । एतेषु विषयेषु न तु किमपि दलम् अनुचितपथा सन्धानं करोति न च सर्वकारस्य पतनाय सत्तारूढं संघं भीषयते । इजरायलस्य स्वकीया राष्ट्रियहितावली भवति या सर्वैः दलैः समाद्रियते । 

14 मई 1947 तमे वर्षे इजरायलस्य स्थापनायां सत्यां जगतः सर्वेभ्यः राष्ट्रेभ्यः यहूदयः तत्रागच्छन् । अस्माकं भारतदेशादपि सहस्राणि यहूदयः स्थानान्तरिताः अभूवन् । विविधेभ्यः देशेभ्यः आगन्तॄणां प्रवासिनां भाषाः भिन्नाः आसन् । अतः पश्नः उद्गतः यद्देशस्य भाषा का भवेत्? तेषां हिब्रूभाषा तु प्रायः द्विसहस्रवर्षेभ्यः मृतेवासीत् । अत्यल्पाः जनाः एव हिब्रूम् अजानन् । अनया भाषया रचितस्य प्राचीनसाहित्यस्यापि अल्पतासीत् । नूतनसाहित्यस्य तु सर्वथैव अभावः। अतः केनापि जनेन आङ्ग्लभाषां देशस्य सम्पर्कभाषां कर्तुं स्वमतं प्रकटितम् । परन्तु स्वाभिमानिनः इजरायलवासिनः कथमेतत् सहेरन् ? तैरुक्तम् अस्माकं हिब्रूभाषा एव जनभाषा भविष्यतीति निर्णीतम् । किन्तु व्यावहारिकदृष्ट्या नैकाः समस्याः विस्फारितमुखाः आसन् । अत्यल्पाः जनाः हिब्रूभाषया परिचिताः आसन् अत एव इजरायलसर्वकारेण हिब्रोः ज्ञानाय मासद्वयस्य पाठ्यक्रमः निर्धारितः। तेन  विश्वस्य महतः भाषाभियानस्य प्रारम्भः जातः। यस्य कालावधिः पञ्चवर्षाण्यासन् । एतस्याभियानस्यान्तर्गते सम्पूर्णे देशे ये केऽपि हिब्रूज्ञानिनः आसन् । ते नित्यं प्रातः एकादशवादनादाराभ्य एकवादनं यावत् स्वगृहस्य निकटस्थे विद्यालये  हिब्रूम् अपाठयन्। अनेन प्रकारेण बालाः तु पञ्चसु वर्षेषु हिब्रूं शिक्षिष्यन्ते परं प्रौढानां किमिति । एतस्य समाधानाय पाठशालासु अधीयानैः बालकैः प्रतिदिनं सायं काले पितरौ प्रतिवेशिनः प्रौढाः वृद्धाः च पाठिष्यन्ते इति व्यवस्था कल्पिता। तत्रापि बालाध्यापकानां पाठने त्रुटिः भवितुमर्हतीति स्वाभाविकम् । तन्निराकर्तुं 1947 ई.तमस्य वर्षस्य अगस्तमासतः आरभ्य 1953 ई. वर्षस्य मई मासं यावत् हिब्रूभाषायाः मानकपाठस्य रेडियोमाध्यमेन प्रसारणमभवत् । इत्थं बालेभ्यः पाठनकाले याः त्रुटयः विहिताः तासां त्रुटीनाम् अपाकरणं वयस्काः रेडियोपाठमाध्यमेन सम्यगवगम्य स्वयमेव करिष्यन्तीति निर्धारितम् । अनेन क्रमेण 1953 ई. वर्षेऽभियानस्य सम्पूर्तिकाले केवलं पञ्चसु वर्षेषु इजरायलं हिब्रूभाषायां शतप्रतिशतसाक्षरतामाप्नोत्।

अधुना हिब्रूभाषया नैके शोधप्रबन्धाः प्रकाशिताः। लघ्वस्मिन् राष्ट्रे समग्रराज्यकार्यम्, अभियान्त्रिकि-चिकित्साशास्त्रमित्याद्यः सर्वविधाः उच्चशिक्षाश्च हिब्रूभाषयैव सम्पाद्यन्ते । इजरायलदेशमवगन्तुं ज्ञातुञ्च  अपरेषां राष्ट्राणां छात्राः हिब्रूं पठितुमारब्धाः।

एतादृशं देशमस्ति इजरायलम् । जीवन्ततायाः जिजीविषायाः स्वाभिमानस्य च मूर्तिः।  

भाषासंस्कृत्योः विषयेऽस्माकं का स्थितिः? अद्यापि वयं दैन्येन आङ्ग्लं प्रति दत्तदृष्टयः स्मः। कथं संस्कृतं जनभाषां कर्तुं न क्षमाः वयमिति चिन्तनीयम् ।


Saturday, 4 July 2020


हिमगिरि-श्रृङ्गम् (देश भक्तिगीतम्)
रचयिता- अय्यम्पुष़ हरिकुमारः
गीतस्य यूट्यूब् सूत्रम् - https://youtu.be/33mdYpnlkUA

हिमगिरि-श्रृङ्गम् उत्तुङ्गम्
भारतमातुर्मणि मकुटम्।
गङ्गा-यमुना-सिन्धु-सरस्वती
प्रवहति मातुर्हृदयतटम् ॥

काश्मीरादि महोन्नतदेशे विकसन्त्यधुना कुसुमानि।
गायन्त्यचिरात् तानि सुमानि
वन्देमातरगानानि वन्दे-मातर-गानानि ॥

(वन्दे मातरम् ... मलयज-शीतलाम्)
(हिमगिरि ...)
आरब-वंङ्ग-महोदधिनायुत
हिन्दुसमुन्द्रो स्तौति चिरं ताम्।
तस्य तरङ्गकरेण हारेण
अर्च्यते मम भारतमात ... ॥
(हिमगिरि ... )
-----------------------------