Wednesday 31 August 2022

 गणेशः तथा कुवेरस्य गर्वः

लेखकः - डा.रुरुकुमारमहापात्रः

धनस्य देवता कुवेरः लोकत्रयेऽपि सर्वश्रेष्ठो धनी आसीत्। एकदा तस्य एतदर्थं महान् गर्वः अजायत। त्रिभुवनस्य देवान् भोजयितुम् आमन्त्रयामि इति सः स्थिरीकृतवान्। कुवेरः भगवन्तं शङ्करं सपरिवारम् आमन्त्रयितुं कैलाशं प्राप्तवान्। सः शङ्करमवदत् भवतः अनुग्रहात् मम समीपे सर्वमस्ति। अहं लोकत्रयेष्वपि श्रेष्ठधनी भवामि। सर्वे मम गुणगानं कुर्वन्ति। कृपया मम गृहे भोजनाय भवान् स्वीकृतिं प्रयच्छतु।

भगवान् शङ्करः अवदत्, वत्स! अहं कुत्राऽपि न गच्छामि। देवी पार्वती अपि मां विना कुत्राऽपि न गच्छति। किन्तु यदि भवतः एतादृशाग्रहः वर्तते तर्हि अहं गणेशं प्रेषयामि। 

कुवेरः गोष्ठीभोजनस्य आयोजने अलगत्। सः अतिथिवृन्दस्य इत्थम् आप्यायनं करिष्यामि येन ते सर्वे चिरदिनं स्मरिष्यन्ति इति चिन्तयति स्म। भोजनस्य दिवसः आगतः। त्रिभुवनस्य देवदेव्यः तत्र उपस्थिताः अभवन्। कुवेरः तान् सर्वान् प्रसन्नतापूर्वकं भोजनकक्षम् आनयत्। भोजनकक्षः सुसज्जितः आसीत्। सुगन्धेन कक्षः सुगन्धितः भवति स्म। सेवकैः स्वर्णस्थालिकायाम् अगणितप्रकराणि व्यञ्जनानि परिवेषितानि। विन्घराजः गणेशः भोजनकक्षायामाऽऽसनं स्वीकृतवान्। कुवेरस्य भण्डारे यानि खाद्यानि आसन् गणेशः सर्वान् खादितवान्। तथापि तस्य क्षुधा न अपगता । सः कुवेरं पुनः किमपि खादितुं याचितवान्। किन्तु कुवेरः निरुपायः आसीत्। गणेशः कुवेरं खादितुं धावितवान्। कुवेरः भयभीतः सन् शङ्करस्य समीपं गत्वा तस्य चरणयोः अपतत् । तस्मिन् क्षणे गणेशः तत्र उपस्थितः भूत्वा पितरं शङ्करम् उक्तवान् यत् एषः कुवेरः मां भोजनाय आमन्त्रितवान्, किन्तु मह्यं भोजयितुं सः असमर्थः। किन्तु मे क्षुधा न अपगता। शङ्करः गणेशमवदत् त्वं स्वमातृतः याचित्वा खादतु। एतेन कुवेरस्य धनगर्वं नष्टं जातम्।     

 


Saturday 13 August 2022

 मातृस्तवनदशकम्

त्वमेव पाठ्यञ्च पठ्यं त्वमेव,

त्वमेव नाट्यञ्च नृत्यं त्वमेव।

त्वमेव गीतञ्च गानं त्वमेव,

त्वमेव सर्वं मम मातर्मातः।।१।।

त्वमेव लक्ष्यञ्च चिन्त्यं त्वमेव,

त्वमेव सेव्यञ्च ध्येयं त्वमेव।

त्वमेव लेख्यञ्च काव्यं त्वमेव,

त्वमेव सर्वं मम मातर्मातः।।२।।

त्वमेव रक्तञ्च जीवस्त्वमेव,

त्वमेव बन्धुश्च मित्रं त्वमेव

त्वमेव विद्या च वेद्यं त्वमेव,

त्वमेव सर्वं मम मातर्मातः।।३।।

त्वमेव चित्तञ्च बुद्धिस्त्वमेव,

त्वमेव सत्त्वञ्च शक्तिस्त्वमेव।

त्वमेव कीर्तिश्च कान्तिस्त्वमेव,

त्वमेव सर्वं मम मातर्मातः।।४।।

त्वमेव धर्मश्च कर्म त्वमेव

त्वमेव धार्यञ्च कार्यं त्वमेव।

त्वमेव पुण्यञ्च दृष्टं त्वमेव,

त्वमेव सर्वं मम मातर्मातः।।५।।

त्वमेव भक्ष्यञ्च भोज्यं त्वमेव,

त्वमेव पेयञ्च लेह्यं त्वमेव।

त्वमेव हृद्यञ्च हार्दं त्वमेव,

त्वमेव सर्वं मम मातर्मातः।।६।।

त्वमेव वित्तञ्च सम्पत्त्वमेव,

त्वमेव दत्तञ्च दानं त्वमेव।

त्वमेव शस्त्रञ्च शास्त्रं त्वमेव,

त्वमेव सर्वं मम मातर्मातः।।७।।

त्वमेव कामश्च मोक्षश्च त्वमेव,

त्वमेव माया च मोहस्त्वमेव।

त्वमेव जुष्यञ्च हव्यं त्वमेव

त्वमेव सर्वं मम मातर्मातः॥८॥

त्वमेव वस्त्रञ्च भूषा त्वमेव,

त्वमेव गन्धश्च रागस्त्वमेव।

त्वमेव गात्रञ्च रूपं त्वमेव

त्वमेव सर्वं मम मातर्मातः ॥९॥

त्वमेव पूज्यञ्च पुष्पं त्वमेव,

त्वमेव दीपश्च वर्त्तिस्त्वमेव।

त्वमेव दीव्यञ्च भव्यं त्वमेव

त्वमेव सर्वं मम मातर्मातः ॥१०॥

दीपकवात्स्यः बीहारम्
    "वात्स्यकोशः"

Friday 12 August 2022

  विश्वसंस्कृतदिनम् ॥

निबन्धः

Article No: 20230812

लेखकः-अय्यम्पुष़ हरिकुमारः 

विश्वस्मिन् विद्यमानासु भाषासु अतिप्राचीना भाषा भवति संस्कृम्। एषा सुरभारती, अमृतभारती, देववाणी, अमरवाणी, इत्यादिभिः नामभिः प्रकीर्तिता। वैदिकं लौकिकम् इति अस्याः भेदद्वयं वर्तते। वेदाः वैदिके रामायणादि पुराणानि लौकिके च अन्तर्भवन्ति ॥ सर्वासां भारतीयाभाषाणां जननी संस्कृतभाषा इति मन्यते। 

  भारतस्य २२ राजभाषासु संस्कृतभाषा अन्यतमा भवति। १९६९ तमे भारतसर्वकारेण श्रावणपूर्णिमादिनं संस्कृतदिनत्वेन परिगण्यते। तदनन्तरं प्रतिसंवत्सरं श्रावणपूर्णिमादिनेन सह सप्तदिनानि संस्कृतसप्ताहत्वेन आचरामः।

   जगति विद्यमानासु भाषासु अत्याधुनिकता सम्पूर्णता च संवत्सरात् पूर्वं संस्कृतभाषया समार्जितम्। वैयाकरणदृष्ट्या वैज्ञानिकी भाषा च भवति संस्कृतम्। अत एव सङ्गणकयन्त्रे उपयोक्तुम् अत्यनुयोज्या इति सङ्गणकविद्वांसः अभिप्रयन्ति।

   आधुनिके अन्तर्जालयुगे अपि संस्कृतभाषायाः स्वकीयं विपुलप्रयोगसाधकं स्थानम् अस्ति। तादृशेषु स्थानेषु यू-नालिकावाहिन्यः संस्कृत-अन्तर्जालपत्रिकाः च संस्कृतस्य आधुनिकत्वम् उद्घोषयन्ति। सम्प्रतिवार्ता-पत्रिकायाः अन्तर्जालवार्ताप्रसारणपुटद्वारा यू-नालिका द्वारापि लघुवयस्काः बालिकाबालकाः अपि संस्कृतवार्ताप्रवाचकत्वेन सुप्रसिद्धाः इति संस्कृतस्य गरिमा तथा लखिमा च युगपदेव प्रमाणीक्रियते।

   संस्कृतस्य पोषणेन अस्माकं संस्कृतीनां पोषणं भविष्यति। अस्माकं मनोबलस्य पोषणं भविष्यति। विश्वमानवत्वस्य पोषणं च भविष्यति। अतः अस्माकं सुरक्षित-शान्तिमय-जीवनाय संस्कृतम् अध्येमः। संस्कृतेन चिन्तयामः। संस्कृतेन वदामः। संस्कृतं प्रसारयामः॥

Wednesday 3 August 2022

 ब्रह्मचर्यम्

-डा.गदाधर त्रिपाठी


ऋषयो वेदवेत्तारो ज्ञाननिधयस्तथा च वै।

जीवनं तु मनुष्याणां योजितं तैस्तदा च हि॥1॥


आसीदाश्रमेषु विभक्तं हि ब्रह्मचर्यं सुखदं परम्।

ऊर्जायाः संरक्षणमभवद् ज्ञानार्जनं तथा च वै॥2॥


वेदार्थं यच्च विप्राणामाचरणं ब्रह्मचर्यं हि वै।

स्त्रीस्मरणशून्यत्वं सर्वथा विन्दो:परिरक्षणं तथा॥3॥


स्त्रीणां पुरुषस्मरणराहित्यं

नैव पुरुषान्तरमैथुनसेवनम्।

स्मरणं कीर्तनं केलि पुरुषैरष्टविधि

सर्वदा कामनिवर्तनम्।।4।।


प्राथमिकी चावस्था या रक्ते नायात्यशक्तता।

सामर्थ्यमायाति वीर्ये ह्योजसस्तु मुखमण्डले॥5॥


मरणं विन्दुपातेन जीवनं विन्दुरक्षणम्।

महत्वं ब्रह्मचर्यस्य ऋषिभिः कीर्तितं सदा॥6॥


त्याज्यं भवति गरिष्ठं वै शृंगारञ्चैव च वर्जितम्। 

ज्ञानार्जने गुरुसेवायां श्रद्धयया चैव समर्पणम्॥7॥ 

विनयश्चैव तपश्चैव दर्शनञ्चैव व्रतं हि वै।

मुक्ते:प्रदर्शकमस्ति ब्रह्मचर्यं सनातनम्॥8॥


वानप्रस्थो ब्रह्मचर्यञ्च कलौ नास्ति च स्वीकृतम्।

गृहस्था भिक्षुकाश्चैव भविष्यन्ति खल्वस्मिन् युगे॥9॥