Saturday 16 November 2019

 -डा गदाधर त्रिपाठी
कालदर्शिनी
 -डा गदाधर त्रिपाठी।
  सीमा निर्धारिता नैव कालो हि दुरतिक्रमः।
सीमा निर्धारिता नैव सर्वेषां भक्षकश्च वै।।1।।
 कालश्च कलयत्यायुर्हि सर्वान् सर्वथा तथा।
जनकश्चैव कालो हि सर्वेषामाश्रयः सदा।।2।।
 ब्रह्मणश्च स्वरूपो$यं नित्यो हि व्यापकस्तथा।
आसीदस्ति भविष्यच्च कल्पना च कृता यथा।।3।।
 दिवसेषु च मासेषु वर्षभागे तथा हि वै।
पक्षेषु च क्षणांशेषु क्षणेषु नु तथा हि वै।।4।।
 स्वीकृतं हि तथाचैवासीद् व्यवहारकल्पनम्।
प्रकारैर्विविधैर्जातं कालस्य ज्ञापनं परम्।।5।।
 छायया तु कृतञ्चैव कालज्ञानं तदा हि वै।
घटिका निर्मिता नैव तस्मिन् काले यथा तथा।।6।।
 षड्ऋतुषु तथा चैव त्रिष्वथवा विभाजनम्।
कालस्य चैव ज्ञानाय  व्यवस्था नु कृता हि वै।।7।।
 एवमेव च सूर्येण कालज्ञानं कृतं हि वै।
अग्नेश्च ज्वलनं द्रष्ट्वा प्रतिबिम्बेन चैव हि।।8।।
 संचालने च हेतुर्वै मुख्या चावर्तकक्रिया।
  तयैव घटिकाश्चैव चलन्ति सर्वथा सदा।।9।।
 'सेल'द्रव्येण प्रायश्च विद्युच्छक्त्या तथा हि वै।
चलन्ति घटिका:सर्वा: कण्ठे हस्ते च धारणम्।10।।
 996चैव वर्षे ह्यांग्लदेशे खलु निर्मिता।
सा परमाणुशक्त्या च  चलति सर्वथा यथा।।11।।
 भित्तिकासु च यानेषु घटिकारोपणं यथा।
दूरभाषणयन्त्रेष्वधुना संयोजनं तथा।।12।।
 आकृतिभिरनेकैर्वै  चलन्ति घटिका यथा।
ज्ञापनाय हि कालस्य प्रदर्शनाय  वा तथा।।13।।
                 ------------------