Showing posts with label utsava:. Show all posts
Showing posts with label utsava:. Show all posts

Tuesday, 8 October 2019

गणेशोत्सवः             -लघुनिबन्धः
-डाॅ. दर्शना वरगंटीवारः
यवतमाल, महाराष्ट्रम्

 





 हैन्दवीयानाम् आराध्यदैवतमस्ति गणेशः। प्रतिपूजायां प्रथमं वन्दनं पूजनं च गणेशाय भवति। धार्मिककार्यः निर्विघ्नं भवेत् तदर्थं सर्वे गणेशं पूजयन्ति।

वक्रतुंडमहाकाय सूर्यकोटिसमप्रभ।
निर्विघ्नं कुरू मे देव सर्वकार्येषु सर्वदा।।
श्लोकोऽयम् प्रसिद्धः।
गणेशं विघ्नहर्ता अपि वदन्ति जनाः। गणेशः बुद्धेः देवतास्ति । प्रतिहिन्दुजन-हृदयेषु गणेशं  प्रति अत्यादरो वर्तते। भाद्रपदमासस्य शुद्धचतुर्थ्यां तिथौ गणेशोत्सवं प्रारभते। हैन्दवाः   आनन्देन सोत्साहेन चैतन्येन च अयमुत्सवस्यायोजनं  सम्पूर्णभारतवर्षे  कुर्वन्ति। गणेशागमनस्य सज्जता जनाः बहूनां दिनानां पूर्वमेव कुर्वन्ति। स्व स्व प्रान्तानुसारं तस्य पूजनं देशे प्रचलति। क्व एकार्धदिवसस्य क्व  पञ्चदिवसस्य क्व दशदिनात्मकं च  पार्थिव गणेशस्य प्रतिष्ठापनं कुर्वन्ति जनाः।


गणेशमूर्तिः

   
गणेशस्य मूर्तिः मृत्तिकायाः स्यात् एषो नियमः।  कृष्णमृत्तिका भवेत् चेत् वरम्।अधुना प्लॅस्टर् ऑफ् पॅरिस् इती वस्तुम् उपयुज्य कृत्रिमरीत्या अत्यंतमनोहरं  मूर्तिनिर्माणं कुर्वन्ति कलाकाराः। किन्तु तत्तु पर्यावरणपूरकं नास्ति अतः सर्वथा त्यजनीयम् खलु। पर्यावरणस्य रक्षणं तु अस्माभिः करणीयमेव। तदर्थं मृत्तिकायाः पार्थिवगणेशपूजनं भवेत् इति अस्माकमपि आग्रहं स्यात्।

प्रतिष्ठापना पूजनं च

    प्रतिष्ठापनासमये पार्थिवगणेशमूर्तेः आवाहनं पूजनम् अभिषेकं  च कृत्वा सुगन्धितद्रव्येन दूर्वादलं कलहारिपुष्पं जपाकुसुममं च अर्पयन्ति। गणेशाय मोदकं  रोचते अतः नैवेद्यं विशेषत्वेन मोदकानां वर्तते। अन्ते धूपदीपारतीं  कृत्वा मन्त्रपुष्पाञ्जलीं  समर्पयन्ति। अयं क्रमो वर्तते  गणेशपूजनस्य।

पुराणेषु कथा
   माता पार्वती एकदा  स्नार्थं गच्छति। तदा स्नानगृहस्य बहिर् मृत्तिकया रक्षकं कृत्वा तन्मध्ये प्राणान् प्रक्षिप्य वदति च कोऽपि अन्तः नागन्तव्यम् इति। तदैव शंकरः आगच्छति रक्षकः तमवरुण्धि। शंकरः तस्मै क्रुध्यति तथा च शिरच्छेदमपि करोति। अत्रान्तरे मातापार्वती स्नानं कृत्वागच्छति। एतद् दृश्यं दृष्ट्वा सा बहु कुप्यति। तस्याः कोपशमनार्थं शंकरः सेवकान् वदति गच्छन्तु तथैव मार्गे यः कोऽपि प्राप्स्यते तस्य शिच्छेदं कृत्वा शीघ्रमेवानयथ। गच्छन्तः सेवकाः गजं पश्यन्ति तस्यैवशिरच्छेदं कृत्वा आनयन्ति। शंकरः गजशिरः मृतरक्षकस्य शरीरे रोपणं करोति। तद्दिनमासीत् भाद्रपदमासस्य शुक्लचतुर्थी ।

सार्वत्रिकः गणेशोत्सवः
   लोकमान्य बालगङ्गाधर तिलकेन तदानीन्तन् समस्त भारतीयान् सम्मिलिताः कर्तुं तथैव विचाराणाम् आदानप्रदानार्थं अस्योत्सवस्य प्रारम्भः कृतः आसीत्। अद्यापि महाराष्ट्रे विशेषरूपेण गणेशोत्सवस्यायोजनं कुर्वन्ति जनाः। किन्तु इदानीन्तनकाले अस्योत्सवस्य स्वरूपपरिवर्तनं जातं खलु। मूलोद्देशैव आघातः जातः वा इति आशङ्कते मनः। ध्वनिप्रक्षेपकाणाम् उच्चध्वनिः बीभत्सं विकृतम् अङ्गविक्षेपणं कृत्वा नर्तनं एतत् सर्वं नास्ति उचितम्। मूलोद्देशं विस्मृत्य केवलं प्रदर्शनमेव कुर्वन्ति जनाः। अयमेव दुःखस्य विषयोऽस्ति। अतः अस्माभिरेव प्रयेतनीयम् यत् तिलकेन येन्नोद्देशेन अस्योत्सवस्यः प्रारम्भः कृतोऽस्ति सः सफलं भवेदिति।

विसर्जनम्
   पार्थिवगणेशमूर्तेः विसर्जनं दशदिनानन्तरम् अन्तचतुर्थीं कुर्वन्ति जनाः। तदा प्रायः भावपूर्णहृदयेन प्राणप्रियगणेशम् आपृच्छनं कुर्वन्ति। पुनः अग्रिमवर्षे शीघ्रमेव आगच्छतु  इति गणेशम् उक्त्वा जनाः पार्थिवगणेशं जले निमज्जयन्ति। महाराष्ट्रे जनाः वदन्ति 'गणपतीबाप्पा मोरया पुढच्यावर्षी लवकर या' इति।
 *गणेशाय नमः*

Wednesday, 11 November 2015

दीपावलिः

दीपावलिः
दीपावलिः भारतवर्षस्य अतिमहत्वपूर्ण: उत्सवः अस्त्ति। दीपावलि इत्युक्ते दीपानाम् आवलिः। कार्तिकमासस्य कृष्णपक्षस्य त्रयोदशीत: आरभ्य कार्त्तिकशुद्धद्वितीयापर्यन्तं ५ दिनानि यावत् आचर्यते एतत् पर्व। सायंकाले सर्वे जनाः दीपानां मालाः प्रज्वालयन्ति। दीपानां प्रकाशः अन्धकारम् अपनयति। एतत्पर्वावसरे गृहे, देवालये, आश्रमे, मठे एवं सर्वत्रापि दीपान् ज्वालयन्ति। प्रतिगृहं पुरत: आकाशदीप: प्रज्वाल्यते। दीपानां प्रकाशेन सह स्फोटकानाम् अपि प्रकाश: भवति। पुरुषाः, स्त्रियः, बालकाः, बालिकाः च नूतनानि वस्त्राणि धरन्ति। शुभमुहूर्ते जनाः लक्ष्मीं पूजयन्ति मिष्टान्नानि च आस्वादयन्ति । सर्वे जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति, सुधया लिम्पन्ति सुन्दरैः च चित्रैः भूषयन्ति। ते स्वमित्रेभ्यः बन्धुभ्यः च मिष्टान्नानि प्रेषयन्ति। बालकाः बालिकाः च क्रीडनकानां मिष्टान्नानां स्फोटकपदार्थानां च क्रयणं कुर्वन्ति। अस्मिन् दिवसे सर्वेषु विद्यालयेषु कार्यालयेषु च अवकाशः भवति। भारतीयाः इमम् उत्सवं प्रतिवर्षं सोल्लासं मन्यन्ते। अस्य पर्वण: दीपालिका, दीपोत्सव:, सुखरात्रि:, सुखसुप्तिका, यक्षरात्रि:, कौमुदीमहोत्सव: इत्यादीनि नामानि अपि सन्ति। अस्मिन्नवसरे न केवलं देवेभ्य: अपि तु मनुष्येभ्य: प्राणिभ्य: अपि दीपारतिं कुर्वन्ति। दीपावली भारतस्य चिन्तनस्य प्रतिनिधित्वं करोति। भायां रत: स: भारतीय:। अत: सर्वे भारतीया: प्रकाशपूजका:।
ब्रह्मानंदः कुलकर्णी 
संस्कृतभारती कार्यकर्ता
अहमदपूरतः