Thursday 25 November 2021

॥ दूरभाषकासुर:॥



रचयिता - युवराजभट्टराई

(शैशवे महदस्ति दूरभाषकस्य संकटम्। तदेव आलक्ष्य अद्य प्रस्तूयते नूतना बालबोधनपरा एका सुललिता कविता )


मुहुर्मुहु: विलोक्यते किमर्थमत्र कार्टुनम्, 
कदा तु पुस्तकस्य दर्शनाय चापि यत्यताम्। 
त्वदीयहस्तगं न भाति दूरभाषयन्त्रकम्, 
सुते! परामृशामि ते न पश्य दूरभाषकम्।।१ 


न वेत्सि दूरभाषकं तु नेत्ररोगजं भृशम्, 
तथास्ति तस्य दर्शनं स्वचेतना विलोपकम्। 
करोषि केवलं वृथा स्वकालयापनं कथम्? 
पुन: पुनः प्रबोधितापि नेच्छसीह वेदितुम्।।२


अनारतं हि दूरभाषयन्त्रकेण खेलनम्,  
स्वभाव एव तेऽभवत् शृणोषि नैव मातरम्।
तत: कदापि मुक्तये प्रिये! सुते! प्रयत्यताम्, 
त्वया न मन्यते किमर्थमत्र मे प्रबोधितम्।।३ 

यथा यथा स्वभाव एष वर्धते तथा तथा, 
विमर्शितुं न शक्यतेऽत्र साध्वसाधुपथ्यता। 
न तिष्ठ दूरभाषकेण सर्वदापि योजिता,
हितं भवेत् सुते! यतो भणाम्यहं सदिच्छया।।४ 

यदात्र दूरभाषयन्त्रवागुरासु पत्यते, 
सुबुद्धिरत्र लुप्यते भृशं मनोऽपि भ्रश्यते। 
मति: न निश्चिनोति किं त्वयाधुना विधीयते, 
त्यजे: स्वदूरभाषकं प्रणोदयामि हे सुते! ।।५

चिकित्सकै: प्रमाण्यते मृषा न वच्मि साम्प्रतम्, 
बहुत्र बोधितापि मन्यते न तद्गभीरताम्।
समस्तलोकत: समागतं समग्रकल्मषम्, 
तदत्र दूरभाषकेण नीयते स्व-मानसम्।।६ 

हृदा सुधारये: सदा ददामि सन्मतिं शुभे! 
न चात्र दूरभाषकेण खेल सर्वदा शुभे!।
प्रयत्यते शुभाय ते न लक्ष्यते कथं सुते?, 
विवश्यतां गतासि केन दूरभाषके सुते।।७ 

निरुद्धदृष्टिरस्ति ते सदैव दूरभाषके, 
तदेव रोधने रतोऽस्मि न त्वया निशम्यते।
निपातितासि दूरभाषकासुरेण शैशवे, 
निरस्य तत्र रञ्जनं मन: करोतु पुस्तके।।८ 

समग्रविश्वदर्शकं कराङ्गुलीविहारकम्, 
नृणां मनोविकारकं विलासवस्तुपूरकम्। 
लयस्वरेण गायकं पवित्रचित्तदूषकम्, 
सुते! जहीहि तादृशं द्रुतं हि दूरभाषकम्।।९

तदेव लोकनेन वै गतासि चिन्तनीयताम्,
न रोचते सुतेऽत्र ते स्वदूरभाषरोधनम्।
अलं सुदूरभाषखेलनेन ते वदाम्यहम्,
कथं न बुध्यते त्वया मदाशय: प्रबुध्यताम्।।१०