Friday 23 November 2018

संस्कृतशिक्षकाणां मध्ये ज्ञानेन प्रभुः, चन्द्रशेखरप्रभुः।
     कोच्ची > केरलेषु विद्यालयाध्यापकानां मध्ये चन्द्रशेखर प्रभु इत्याख्यः शिक्षकः अस्ति। अस्मिन् वर्षस्य शर्मा जी पुरस्काराय एषः चितः आस्ति। संस्कृतभारत्या उत्तम संस्कृतशिक्षकाय दीयमानः पुरस्कारः भवति अयम्।

    कोच्ची मण्डले मट्टाञ्चेरी टी डी उच्चविद्यालये संस्कृतशिक्षकः भवति एषः। संस्कृताध्यापकवृन्देषु ज्ञाने प्रभुत्वं प्रदर्शयति च। विनायान्वितः सः सहाध्यापकानां छात्राणां मनांसि सदा प्रभावयति।

   अस्य धर्मपत्नी पुष्पलता भवति। सा अपि केरलसर्वकारविद्यालये संस्कृतशिक्षका भवति। दम्पत्यौ संस्कृतस्य प्रचारणप्रसारणकर्मसु व्यापृतौ वर्तेते।  - सम्प्रतिवार्ता कोच्ची।

संस्कृतेन वृत्तिलाभः। ( Sanskrit for Employment )
ओली अमितः
संस्कृतरसास्वादसमूहस्य संचालकः

मार्गे गमनसमये देवेश: अनिलेन सह मिलति तयोः वार्तालापः।....

देवेश:- भो: अनिल भवान्  कुत्र वेगेन गच्छन् अस्ति?

अनिल:- नमो नमः मित्र। किं वदामि , बहु समस्याग्रस्तः अस्मि। मम PHD अभवत् परञ्च कुत्रापि उद्द्योग: न दृश्यते ।

देवेश:- अरे भवान् कस्मिन् विषये PHD कृतवान् ?

अनिलः- संस्कृतविषये।

देवेश: - अहमपि संस्कृतेन आचार्यपदवीम् अधिगतवान्  अस्मि। परञ्च अहम् उद्द्योगविषये कदापि न चिन्तयामि।

अनिलः- अरे तर्हि भवतः जीवनं कथं चलति?

देवेश: - पश्यतु अहम् अस्मि ब्राह्मणः। कर्मकांडम् अस्माकं कार्यम्, तेन सम्यक् चलति मम जीवनम्। अहं तु वदामि भवान् अपि आगच्छतु मया सह। पौरोहित्यं करिष्याव:।

अनिलः- अरे भवान् तु ब्राह्मणः अस्ति। भवान् तत् कर्तुं शक्नोति। अहं कथं करिष्यामि?

देवेश: - तर्हि  भवतः कृते केवलं शिक्षकस्य उद्द्योग: लप्स्यते। तदपि रामभरोसे रामाश्रये अस्ति।

( एतद्वार्तालापं कश्चन युवक: शृण्वन् आसीत्। सः आगत्य वदति)

युवक: - अरे कः वदति संस्कृतेन केवलं शिक्षकस्य उद्योग: एव प्राप्यते ?

देवेश: - अहं वदामि। भवान् किं मत्तः अधिकं  जानाति?

युवक: - भो: श्रीमन् कूपमण्डूक: मा भवतु।
पश्यतु - संस्कृतमाध्यमेन वयं शिक्षक:,विश्वविद्यालये अधिवक्ता, समाचारप्रवाचक:(news-reader) भारतीयदूतावासे अनुवादक: (translator) पुस्तकप्रकाशकः (publisher) लेखकः(writer) पुस्तकसमीक्षकः (critic) अपि भवितुं शक्नुमः।

अनिलः - अहं तु बाल्यकालात् एव प्रशासनिकक्षेत्रे (administrative field) गन्तुमिच्छामि।

युवक: - भवान् संस्कृतं पठित्वा केवलं NDA विहाय इतरासु सर्वासु प्रशासनिकसेवासु गन्तुम् अर्हति।

देवेश: - अहं तु श्रुतवान् वित्तकोषे कार्यलाभार्थम गणितम् अधिकं पठनीयं भवति?

युवक:- पश्यतु मित्र ! कापि भाषा उद्योगं न

Thursday 22 November 2018

धन्याता           चित्रव्यायाख्या
-बाला चिर्रावूरी 

   जीवकारुण्यमेतद्धि बालासु प्रतिभाति वै।
   बोद्धारो तैव नूनं तु ज्येष्ठानां मार्गदर्शकाः।।

   जीवेन जीविताःसर्वे इति ज्ञानं विना अपि।
   दानानां सात्त्विकं श्रेष्ठं इति ज्ञानं विना अपि।।

   गवामपि च श्रेष्ठत्वं नैव जानन्ति साम्प्रते।
   धन्याता हि निश्चयेन पितरावपि कुलेषु च।।




दिष्ट्या वर्धस्व गोवत्स! तव जन्म तु सार्थकम्।
जलेन जीवेम सर्वेsपि जानामि सततं भवे।।

मनःसरस्युदकपाने गुणाधिकशतं भवेत्।
हरिपद्मपदाम्भोजाज्जाता मन्दाकिनीति च।।

पुराणवचनादेव ज्ञायते न तु लोकते।
हन्त दर्शनमात्रेण त्वय्यक्षान्तिर्हि मे मनः।।

अहमपि एलितुमिच्छामि क्षणमात्रेsपि त्वद्दृशा।
तावन्मात्रेण श्रीकृष्णचरणतीर्थे पुनामि हि।।
   

Monday 5 November 2018

मनोगतम्’ – ४९ ‘मनकीबात’ (49वींकड़ी) प्रसारणतिथि: - २८-१०-२०१८ 
[“मनकीबात”-“मनोगतम्” -इतिकार्यक्रमस्य संस्कृत-भाषिकानुवादः ]  


 - भाषान्तर-कर्ता -डॉ.बलदेवानन्द-सागरः 
          मम प्रियाः देशवासिनः, भवद्भ्यः सर्वेभ्यः नमस्कारः| ओक्टोबर-मासे एकत्रिंशत्तमे दिने अस्माकं सर्वेषां प्रियस्य सरदार-वल्लभभाई-पटेलस्य जयन्ती वर्तते, तथा च, प्रतिवर्षमिव ‘Run for Unity’-इति एकतायै धावनार्थं देशस्य युवजनाः सन्नद्धाः सन्ति | साम्प्रतन्तु ऋतुरपि बहु सुखदः| अयञ्च एकता-धावनस्य कृते उत्साह-वर्धकः| ममाग्रहोsयं यद् भवन्तः सर्वे बृहन्मात्रया एकताधावनेsस्मिन् नूनं सहभागित्वमावहन्तु | स्वाधीनता-प्राप्तेः प्रायेण सार्ध-षण्मासेभ्यः प्राक्, सप्तचत्वारिंशदुत्तरोनविंश-शततमे वर्षे जान्युआरि-मासे सप्त-विंशे दिने, विश्वस्य प्रसिद्धायाः Time Magazine’–इत्यान्ताराष्ट्रिय-पत्रिकायाः प्रकाशित-संस्करणस्य प्रथम-पृष्ठे सरदार-पटेलस्य छायाचित्रं प्रकाशितमासीत्| स्वीये मुख्ये वृत्त-विवरणे पत्रिकया भारतस्य एकं मानचित्रं प्रकाशितम्, अपि चैतत् मानचित्रं तादृशं नासीत् यादृशं वयमद्यत्वे पश्यामः | एतत् तादृशस्य भारतस्य मानचित्रमासीत् यद्धि अनेकधा विभक्तमवर्तत| तदा देशे सार्ध-पञ्चशताधिकानि रियासत-इति वंशभोग्यानि देशज-राज्यानि आसन्| आङ्ग्ल-जनानां भारत-विषयिणी रुचिः समाप्ता आसीत् परञ्च ते देशमिमं छिन्न-भिन्नं कृत्वा त्यक्तुमिच्छन्ति स्म |‘Time-पत्रिकया’लिखितमासीत् यत् भारते विभाजनं, हिंसा,खाद्यान्नसङ्कटं, महार्घता, सत्ता-इति शासनाधिकाराणां राजनीति-सदृशानि सङ्कटानिपरिभ्रमन्ति स्म |ततः परं ‘Time-पत्रिका’ लिखति यत् एतेषु सङ्कटेषु सत्सु देशं एकता-सूत्रेण सन्नद्धुं, व्रणान् च सम्भर्तुं यदि कश्चन क्षमते चेत् सोsस्ति- सरदार-वल्लभभाई-पटेलः |‘Time-पत्रिका’याः विवरणमिदंलौहपुरुषस्य जीवनस्य अपरान् अपि पक्षान् प्रकाशयति | केन प्रकारेण सः विंशत्युत्तरोन- विंश-शततमस्य दशके अमदाबादे समापन्न-जलपूरावसरे साहाय्य-कार्याणां प्रबन्धनमकरोत्| केन प्रकारेण सः बारडोली-सत्याग्रहस्य दिङ्निर्देशनं व्यदधात् | देशस्य कृते तस्य प्रामाणिकता प्रतिबद्धता च तादृशे आस्तां यत् कृषक-श्रमिकोद्योगपति-प्रभृतयः सर्वेsपि तस्मिन् विश्वसन्ति स्म| गान्धि-चरणः सरदार-पटेलम् अकथयत् यत् राज्यानां समस्याः तावत्यो विकटाः सन्ति यत् केवलं भवान् एव एताः समाधातुमर्हति, तथा च, सरदार-पटेलः समस्यानां प्रत्येकं समाधाय देशम् एकतासूत्रेण सन्नद्धुम् असम्भवकार्यं पूर्णतामनयत् | सः सर्वेषामपि वंश-भोग्यानां लघु-राज्यानां भारते विलयम- कारयत्| भवतु तत् जूनागढ़म् आहोस्वित् हैदराबादम्,त्रावणकोरम् वा राजस्थानस्य वंश-भोग्यं राज्यम् – सः सरदार-पटेलः एवासीत् यस्य विवेकेन रणनीतिक-कौशलेन चाद्य वयं एकं हिन्दुस्थानम् अवलोकयितुं पारयामः | एकता-सूत्रेण समन्वितं राष्ट्रमेतं, अस्मदीयां भारत-मातरं दृष्ट्वा वयं स्वाभाविक-रूपेण सरदार-वल्लभभाई-पटेलस्य पुण्य-स्मरणं कुर्मः |ऐषमः ओक्टोबर-मासीये एक-त्रिंशत्तमे दिने सरदार-पटेलस्य जयन्ती तु इतोऽपि विशिष्टा भविता –दिनेsस्मिन्  सरदार-पटेल-वर्याय तात्विक-श्रद्धाञ्जलिमर्पयन्तो वयं Statue of Unity-इति एकता-प्रतिमां राष्ट्राय समर्पयिष्यामः | गुजराते नर्मदा-नदी-तटे स्थापितायाः अस्या प्रतिमायाः उत्तुङ्गत्वम् अमेरिका-देशस्य ‘Statue of Liberty’-इत्यपेक्षया