Saturday 10 July 2021

देशप्रेमिहुतात्मनां बलिदानमनुत्तमम्
रचयिता- डा.रुरुकुमारमहापात्रः
अध्यापकः,राष्टियसंस्कृतविश्वविद्यालयः, तिरुपतिः

देशप्रेमिहुतात्मनां बलिदानमनुत्तमम्
उत्तमं हि उत्तमं महनीयं महत्तमम् 
सम्यक् साधु सुशोभनं सत्यं शिवञ्च सुन्दरम् 
प्रेरणातिप्रेरितं झर्झरझरझङ्कृतम् 
डमडमडमडाङ्कृतं चञ्चुरचमूचञ्चितम्
दुर्गमपथे अञ्चितं क्लिष्टकर्मकर्षितम्
मर्मरमारमर्षितं दुर्धरधाराधर्षितम् 
भीषणभयभञ्जितं घनघनघोरगर्जितम् 
वैरिवैरवारितं गर्वितगरगञ्जितम्
खण्डखण्डखण्डितं शत्रुरक्तरञ्जितम् 
नेति नेति नाशितं दर्पदलनदर्पितम् 
रङ्गितरणरञ्जितं स्यन्दितशोणशोणितम्
मण्डलमणिमण्डितं हर्षणपरहर्षितम् 
जनगणमनोरञ्जितं देशभक्तिसञ्चितम् 
मातृदीक्षादीक्षितं मन्त्रभावचोदितम्
जयजयनादनन्दितं हृदये हृदये स्पन्दितम्
गगने पवने ध्वनितं वदने वदने स्वनितम् 
मातरं भोः ! मातरं वन्दे मातरम्
वन्दे मातरं भोः ! वन्दे मातरम्
वन्दे मातरं वन्दे मातरम् 
वन्दे मातरं वन्दे मातरम् ।।



Thursday 1 July 2021

अरण्यजीवाः

द्विधा भवन्ति जीवास्तु पाल्या आरण्यकाश्च वै। 

पशवः पक्षिणश्चैव तेषां चर्या पृथक् पृथक्।।

पृथिव्यां यच्च प्राप्तं वै मनुष्याणां कृते च तत्।वन्यजीवास्तथा चैव मानवानां हिताय वै।।

कूर्दन्ते नु मृगाश्चैव शशकानाञ्च धावनम्।

व्याघ्रा वै हिंसकाश्चैव वनमध्ये वसन्ति च।।

वसन्ति चैव सर्वत्र विचरन्ति च सर्वथा।

पर्वतेषु नदीतीरे शुष्कस्थलेषु प्रायशः।।

भ्रमति केशरी चैव वनराजश्च कथ्यते।

अरण्ये हि तथा चैव भल्लूकोऽपि विराजते।।

वने भवन्ति गावश्च कूर्दन्ति हरयस्तथा। 

नृत्यञ्चैव च केकानां मनोहारि च सर्वदा।।

कोकिलाभिश्च रावैर्वै वनमाकर्षकं सदा।

खगैरन्यैर्नु रावैर्वै वनं संशोभितं तथा।।

संरक्षिता सदा सन्तु वन्यजीवाश्च भूतले।

नियमा विविधा: सन्ति शासनेन निरूपिता:।।

घातका ये च जीवा वै स्वयमेव नियन्त्रिता:।

पर्यावरणरक्षायै महत्त्वञ्च निरूपितम्।।

-डा गदाधर त्रिपाठी -