Showing posts with label लेखनम्. Show all posts
Showing posts with label लेखनम्. Show all posts

Monday, 2 May 2022

गुरुरेव गरीयः

मम दिग्दर्शकः, गुरुः, सर्वस्वम्... श्री. प्रोफ. आर्. वासुदेवन् पोट्टी। 


-डा. मनोजः बी. (भावना)


   प्री-डिग्रीं समाप्य मया निर्णीतं यत् इतःपरं मम अर्हतानुगुणं यत्किमपि कर्म करोमीति। यतो हि यावदध्येतव्यं तावदधीतम् इत्यासीत्  मूर्खस्य मम विचारः। किन्तु मम पितुः अभिलाषः उच्चस्तरीयः आसीत्। सः साधारणः कश्चन मानवः आसीत् यः प्रतिदिनं अष्टादश किलोमीट्टर् पर्यन्तं द्विचक्रिकां चालयित्वा कर्म कृत्वा अस्माकं कुटुम्बं संरक्षति स्म। स्वस्य कार्याय कदापि त्रिचक्रिकया यात्रां न कृतवान् सः एकस्मिन् दिने त्रिचक्रिकया गृहमागत्य मां अवदत् – शीघ्रं सज्जो भव। तव कृते श्रीशङ्कराचार्यसंस्कृत-सर्वकलाशालायां बी. ए. अध्ययनाय अवसरः प्राप्यते इति। किंकर्तव्यतामूढः अभवम् अहम्। यतो हि तावत् पर्यन्तं संस्कृतम् इति पदं केवलं

Sunday, 15 August 2021

 वास्तविकं स्वातन्त्र्यम् 


  लेखकः-  दीपककुमारचौधरी (दीपकवात्स्य:)

     अस्मदीयं राष्ट्रं भारतं सप्तचत्वारिंशदुत्तरनवदशतमाब्दस्य अगस्तमासस्य पञ्चदशके दिनाङ्के स्वातन्त्र्यमलभत।स्वतन्त्रताप्राप्त्यर्थं नैके राष्ट्रैसेवाव्रतिनो भारतीसपुत्रा नैजान् प्राणान् अत्यजन्। तेषां राष्ट्राय हुतात्मनां त्यागशौर्यबलिदानादिकं नितरां स्मृतिपटले सदास्मदीयहृच्चेतनासु "इदं राष्ट्राय इदं न मम"इति श्रुतिवचनं स्मारयेत्तथा राष्ट्राय समर्पणभावं जागरयेदित्यादिकं लक्ष्यीकृत्य भारतसर्वकारेण तद्दिनं राष्ट्रियपर्वत्वेनोद्घुष्टमथ च समग्रभारते "स्वतन्त्रतादिवस:" "स्वातन्त्र्योत्सव:" समायोज्यते।अनेन लक्ष्यीक्रियते महत्काठिन्येन यल्लब्धं स्वातन्त्र्यं तत्पुन: पारतन्त्र्ये परिवर्तितं न स्यात्।अत्र मनसि नैका: जिज्ञासा: समुद्भवन्ति।  तद्यथा-
१.किं नाम स्वातन्त्र्यम्?
२.किमर्थं स्वातन्त्र्यम्?
३.स्वातन्त्र्यस्य वास्तविकं स्वरूपं किम्?
४.कथं वा परिरक्षितं स्याद्भारतीयं स्वातन्त्र्यम्?
                   तत्र सर्वादौ विचारयामो वयं "किन्नाम स्वातन्त्र्यम्"।स्वातन्त्र्यमिति पदं स्वतन्त्रपदान्निष्पद्यते। यत्कृते आङ्गलभाषायाम् "Freedom"इति पदं प्रयुज्यते।इदञ्च स्वातन्त्र्यपदं "स्वम् (आत्मीयम्),तन्त्रं( प्रधानं सिद्धान्तो विस्तारो वा)इति द्वाभ्यां पदाभ्यां नैकविधव्युत्पत्तिद्वारा व्युत्पादयितुं शक्यते।स्वस्य तन्त्रमिति षष्ठीसमासव्युत्पत्त्या आत्मन: प्राधान्यमित्यर्थ:" तन्त्रं प्रधानं सिद्धान्त"इति  कोशवचनात्।स्वं तन्त्रं यत् तत् स्वतन्त्रम् इति  कर्मधारायसमासव्युत्पत्त्या आत्मीयशासनमात्मशासनं वेत्यर्थ:"तन्त्रं शासनम्"इति वचनात्। स्वं तन्त्रं यस्येति बहुव्रीहिसमासव्युत्पत्त्या स्वतन्त्रोऽर्थात् स्वाधीन: प्रमुखो जनविशेष इत्यर्थ:।इत्थं स्वस्य प्राधान्यं यस्मिन् शासने राष्ट्रे वा तत् शासनं राष्ट्रं वा स्वतन्त्रम्। यस्य प्राधान्यं स जन: सिद्धान्तो वा स्वतन्त्र:।स्वतन्त्रस्य भाव: स्वातन्त्र्यम् इति।
            साम्प्रतं "किमर्थं स्वातन्त्र्यम्" इति विचारयाम:-कस्यचिद्व्यक्ते: शारीरिक-मानसिक-आध्यात्मिक-शैक्षिक-धार्मिक-नैतिक-भौतिकादिविकासान् अभिवर्धयितुं तथा कस्यचिदपि राष्ट्रस्य सर्वविधौन्नत्यर्थसम्पादनार्थं राष्ट्रगौरवसंस्कृतिसभ्यतादीनां संरक्षणार्थञ्च स्वातन्त्र्यं नितरामावश्यकम्।यतोहि पारतन्त्र्ये (बन्धने पराधीनतायां वा) कस्यचिज्जीवाय राष्ट्राय च स्वोन्नतिविकासावसरो नोपलभ्यते। अतो जीवमात्रस्य राष्ट्रस्य च उन्नत्यै स्वातन्त्र्यमतीवावश्यकम्।
                    अधुना भारतीयपरिप्रेक्ष्ये  स्वातन्त्र्यस्य वास्तविकं स्वरूपं परिशीलयाम:। भारते स्वातन्त्र्यस्य वास्तविकं स्वरूपं विश्ववन्द्या भारतीया संस्कृतिर्वर्तते।तत्रैते मुख्यबिन्दवो मन्मतौ अन्तर्भवन्ति
१.सर्वेषामधिकार: स्वतन्त्रता।
२.सर्वधर्मसमादर:।
३.जीवनशैली आचारव्यवहार: लौकिकपरम्पराश्च।
४.भाषा-वेशभूषा-भोजनादिकम्।
५.सभ्यता शाशनव्यवस्था च।
६.आध्यात्मिकैतिहासिकभौतिकसमृद्धय:।
७.समृद्धसाहित्यम् ।
८.विश्वबन्धुत्व-लोकहितचिन्तन-जनकल्याणादिभावना।
       एते समेऽप्यंशा: स्वातन्त्रस्य वास्तविकं स्वरूपं बोधयन्ति। 
                   साम्प्रतं विचारयाम:" कथं वा परिरक्षितं स्यात्  स्वातन्त्र्यम्" इति।
१.वेदबोधिताचारलक्षणधर्मपुरस्सरं नैतिकव्यवहारेण स्वातन्त्र्यं परिरक्षितं स्यात्।२.कामक्रोधलोभमोहादिवर्जनपुरस्सरं मनसानिशं स्वहितपरहितचिन्तनेन।येन स्वप्नेऽपि कस्यचिज्जीवस्याहितं न स्यात्।यत: तस्य स्वातन्त्र्यं नश्येदिति चिन्तनेन।
३.निजस्य स्वातन्त्र्यरक्षणाय अन्येषां स्वातन्त्र्यं न हन्यात्। अर्थात् निजस्वातन्त्र्यरक्षणक्रमेअपरेषामपि स्वातन्त्र्यं परिरक्षणीयम्।येन एषा व्यवस्था परिरक्षिता स्यात्।
                  महद्दौर्भाग्यं वर्तते यदद्यत्वे वयं भारतीया: निजप्राणभूतत्त्वं विश्ववन्द्यां भारतीयां संस्कृतिं सन्त्यजन्त: पुन: पारतन्त्र्यपथे नित्यं वर्धमाना नित्यं पाश्चात्यसंस्कृतिम् अनुकुर्म:।तत्र चिन्त्या अंशा:-
१.सर्वप्राचीनभारतीयसभ्यतां विस्मृत्य  पाश्चात्यसभ्यताया: गुणगानं कुर्म:।
२. परधर्मं निन्दाम:।
३. स्वजीवनशैलीं विस्मरन्त: पाश्चात्यजीवनशैलीमाचाराम:।तद्यथा-
अर्धनग्नवस्त्रं धराम:, स्नानपूजादिकं विनैव भोजनं कुर्म:,मदिरादिपानं कुर्म:,परस्परं विद्विषामहे,
मातृपित्रादिकं सन्त्यजाम:, वारम्वारं निजपत्नीं सन्त्यज्य परपत्न्या सहामर्शनं कुर्म:,विवाहात्पूर्वमेव स्त्रीसंसर्गं कुर्म:, प्रेमदिवसादिकमायोजयामश्च।
४.निजभाषां विहाय पाश्चात्यभाषां भाषमाणा गौरवमनुभवामः।
५.आध्यात्मिकैतिहासिकभौतिकसमृद्धी: न गणयाम:।
६.निजशासनव्यस्थाया विखण्डनं कुर्म:।
७.निजसाहित्यसम्पदायां दोषं दर्शयाम:।
८.विश्वबन्धुत्वादिभावं न स्मराम:।
९.स्वार्थसिद्धौ पराहितं कुर्म:। 
              इत्थं वक्तुं शक्यते यद् वयं स्वतन्त्रा: सन्तोऽपि वस्तुतो मानसिकरूपेण परतन्त्रा अद्यापि। अनिशं वयं पारतन्त्र्यपथे वर्धमाना: स्म:। यदा भारतीयनागरिका मानसिकरूपेण स्वतन्त्रा: भविष्यन्ति तदैव वस्तुतो नागरिका:  स्वतन्त्रा:, अस्मदीया शासनव्यवस्था स्वतन्त्रा अस्मदीयं राष्ट्रञ्च स्वतन्त्रम् इति शम्।
    __________________________

Monday, 24 May 2021


 संस्कृतं किमर्थम् आवश्यकम् ? केन वा सरल-प्रकारेण एतत् शिक्षितुं शक्यते? 

  

 

...    -डॉ.बलदेवानन्द-सागरः
      संस्कृत-विषये कश्चन मां पृच्छति यत् किमर्थं संस्कृतम् आवश्यकम् ? अथवा साम्प्रतम् एकविंशे शताब्दे संस्कृतस्य किं नाम उपयोगित्वम्? तदा अहन्तु इदमेव उत्तरामि यत् यथा जीवनार्थं जलं श्वसनं चावश्यके भवतः तद्वदेव अस्माकं भारतीयानां सनातन-वैदिक-धर्मावलम्बिनां च कृते संस्कृतानुसरणं संस्कृताङ्गीकरणं संस्कृतावलम्बनं चावश्यकम् |

      विषयेsस्मिन् नात्र मम कश्चन दुराग्रहः | अहन्तु अनुभवाधारेण वदामि | आकाशवाण्यां दूरदर्शने च संस्कृत-वार्ता-प्रसारणनिरते एतावति ४५-वर्षावधिके काले अनेके तादृशाः अनुभवाः अभवन् यत् नाहं संस्कृत-वार्ता-प्रसारकः अभविष्यं चेत् ममास्तित्वमेव नाभविष्यत् | ‘अस्माकं भारतीयानां सनातन-वैदिक-धर्मावलम्बिनां च कृते संस्कृतानुसरणं...’ इत्यत्र ‘सनातन-वैदिक-धर्मावलम्बिनां’ इति शब्दाः साशयं लिखिताः सन्ति |

      कश्चन एवमपि प्रष्टुं शक्नोति यत् किं ये भारतीयाः न सन्ति वा वैदिक-सनातन-धर्मावलम्बिनो नैव भवन्ति, किं ते जीवितुं वा श्वसितुं वा नैव शक्नुवन्ति? अवश्यम्, नात्र कश्चन सन्देह-लेशोsस्ति | परन्तु येन विधिना वयं भरत-वंशिनः आर्य-श्रेष्ठाः देवपूज्याः जगद्गुरु-पदवी-धारिणः च सन्तः सम्पूर्ण-जगतः शुभाकाङ्क्षिणः च भवन्तः सुदीर्घ-काल-पर्यन्तां विश्वजनीन-यात्रां वा लोक-लोकोत्तर-यात्रां विहितवन्तः, तदेव वैशिष्ट्यम् अस्मदीयम् | अत एव अस्माकं भारतीयानां सनातन-वैदिक-धर्मावलम्बिनां च कृते संस्कृतानुसरणं संस्कृताङ्गीकरणं संस्कृतावलम्बनं चावश्यकम् | 

इतोऽपि अनेकानि अपराणि कारणानि सन्ति यानि अस्मान् तथ्यमिदं दृढतया स्वीकर्तुं प्रेरयन्ति यत् संस्कृतं विना अस्माकम् इतरत् प्रेयः श्रेयः  चाभिज्ञानं नैवास्ति |

      नात्र केवलं संस्कृत-महिम्नो गानम् अभीष्टं मम | अहन्तु केवलं निजानुभवाधारेण विवच्मि | जगति साम्प्रतं स्फुटमिदं तथ्यं यत् महर्षेः पतञ्जलेः अष्टाङ्ग-योगाभ्यासः सर्वेषामपि लाभाय कल्पते, तद्वद् आयुर्वेदानुसरणं समेषामपि कृते लाभप्रदम् | भवेद्वा सः भारतीयो वा भारतीया आहोस्वित् वैदेशिको वा वैदेशिकी | सर्वेषामपि कृते संस्कृताध्ययनं योगायुर्वेदवदेव परमं लाभप्रदम् | 

      संस्कृतमधिकृत्य स्वामिना विवेकानन्देन उक्तमस्ति यत् संस्कृतशब्दानां प्रौढिः मधुरिमा अर्थसम्पुष्टिः च अन्यभाषाशब्दानां न सन्त्येव इति | बौद्धमतस्य अधःपतनस्य एकं कारणम् अपि तेषां संस्कृतावगणनम् एव | राष्ट्रपुरोगतये भरणसारथ्यं कर्तुं संस्कृतज्ञाः एव शक्ताः इति | महर्षि-अरविन्द-लोकमान्य-टिळक-स्वामिचिन्मयानन्द-श्रीरामचन्द्रडोंगरे-मोरारीबापू-रमेशभाई-ओझा-अमृतानन्दमयीत्यादिभिः अनेकैः आचार्यैः अनेकैः वाक्यैः अनेकेषु सन्दर्भेषु च संस्कृताध्ययनस्य अनिवार्यत्वं प्रस्तुतम् | डॉ. मैक्समूलर-गेथे-प्रभृतयः पाश्चात्यविपश्चितः अपि संस्कृताध्ययनस्य महत्वं सुतरां  प्रतिपादितवन्तः| एनां भाषां विना अथर्ववेदतः आरब्धस्य आयुर्वेदस्य सुष्ठु अध्ययनम् असाध्यम् | ज्यौतिषे महाशास्त्रे संस्कृतेतरच्छात्राणां प्रवेशाधिकारः नास्ति | वेदान्तादिसकलशास्त्राणाम् अध्ययनाय संस्कृतमनिवार्यम् | काव्यरसास्वादकैः अवश्यम् अध्येयं भवति संस्कृतम्| भाषान्तरानुवादाभ्यां यत् पठनं भवति तत्तु पूर्णास्वादने रसभङ्गहेतुत्वेन समुपकल्प्यते | भूभृत् शब्दस्य भूमिं भरति इति शब्दार्थः शास्त्रतत्त्वार्थश्च अनुवादे उक्तेन माउण्टेन् [mountain] इति शब्देन 

कथं ज्ञातुं शक्यते ? यया भाषया लिखितं तया एव पठनीयं भवति काव्यम् | उत्तमोत्तम-काव्यानि संस्कृते एव सन्ति यानि अपठित्वा काव्यास्वादनं पूर्णं न भवति | अतः संस्कृतं काव्यास्वादकैः अपि पठनीयम् | भारतेतिहासं ज्ञातुं ये इच्छन्ति तेषां प्रबलं साधनम् एषा एव भाषास्ति | तैः वेदेतिहास-पुराणादीनाम् आश्रयः करणीयः। शास्त्रकारैः तन्त्रज्ञैः भाषाशास्त्रज्ञैः च संस्कृताध्ययनेन महान् लाभः अधिगम्यते इति समुदीरितं नैकत्र | सर्वोपरि व्यक्तित्वविकासेच्छुः यः सोऽपि संस्कृताध्ययनशीलः स्यात् ।

      एषः विज्ञानस्य तन्त्रज्ञानस्य च युगः । अस्य महादानं कम्प्यूटर्-यन्त्रम् । तत्रापि अतितरां समुपयोगिनी सहजभाषा संस्कृतभाषा एवेति तज्ज्ञानाम् अभिमतम् । महामुनेः पाणिनेः काले तादृशं वा किञ्चित् कम्प्यूटरयन्त्रम् आसीत् इति चिन्तनमुद्दीपयति तस्य सूत्रशैली। अहं स्वीयेषु ‘संस्कृतं पठ : आधुनिको भव [Learn Sanskrit : Be Modern] – इति शृङ्खला-व्याख्यानेषु पौनःपुनिकं सबलञ्च कथयामि यत् महामुनिना पाणिना संस्कृत-व्याकरणं शब्दानुशासनत्वेन व्यापकं सुव्यवस्थितं गणितात्मकं वैज्ञानिकम् अनुशासनात्मकं च विधातुम् ‘अष्टाध्यायी’ति ‘सोफ्टवेयर’-निर्माणं कृतम् |       

      एवं च, संस्कृति-साहित्य-विज्ञान-तन्त्रज्ञानादिषु सर्वत्र विराजमाना संस्कृतभाषा स्वाभिमानं स्वाश्रयं स्वराष्ट्रस्नेहं सहिष्णुतां संस्कृतिं सम्पत्तिं च सततं सम्वर्द्धयति । अत एव संस्कृतं राष्ट्रस्य प्राणवायुः सनातनधर्मस्तु राष्ट्रस्य जीवात्मा चेति कथ्यते । भारतराष्ट्रस्य अस्मिता रक्षणीया चेत् संस्कृताध्ययनं हि परमावश्यकम् । महामुनिना पतञ्जलिना व्याकरण-महाभाष्ये प्रोक्तम् - "एकः शब्दः सम्यग् ज्ञातः सुप्रयुक्तः च स्वर्गे लोके च कामधुक् भवति” इति प्रमाणेनैव संस्कृताध्ययनस्य महत्त्वं समुपयोगित्वञ्च सरलतया अवगन्तुं शक्यते |

      साम्प्रतं प्रश्नः समुदेति यत् केन वा सरल-प्रकारेण एतत् शिक्षितुं शक्यते? अस्तु, प्राचीना अध्ययन-शैली तु प्रायेण गुरुकुल-पद्धतिरेव आसीत् | गच्छता कालेनात्र अनेकविधं परिवर्तनं जातं जीवन-पद्धतौ शिक्षा-पद्धतौ च | एवमपि वक्तुं शक्यते यत् साम्प्रतं संस्कृत-शिक्षणं पूर्व-कालापेक्षया सरलतरं सञ्जातम् | सामान्यतया संस्कृत-शिक्षणं हि पारम्परिक-संस्कृत-पाठशालासु, वैदिक-पाठशालासु, विद्यालयेषु, महाविद्यालयेषु, विश्व-विद्यालयेषु च विधीयते एव | परञ्च साम्प्रतिके समुन्नते सूचना-प्रविधि-काले सङ्गणक-अन्तर्जाल-माध्यमेन अध्ययन-अध्यापनयोः परिधिः व्यापकतरः सुगमश्च सम्वृत्तः | वयं साम्प्रतम् अनेकविधैः विद्युदाणविकैः [electronic] बह्वायाम-युतैः सञ्चार-माध्यमैः [multi-media] सामाजिक-सञ्चार-माध्यमैः [social media] चापि संस्कृत-शिक्षणं कर्तुं पारयामः | अधुनातनैः समुपायैः [यथा- युट्युब्-ह्वाट्स्-अप्-फेसबुक्-ट्विटर्-इन्स्ट्राग्राम्-ऑन्लाइन[सद्यस्कः]-वेब्साइट्-ब्लॉग-प्रभृति-समुपकरणैः] सरलतया संस्कृतं शिक्षतुं शक्नुमः।

  -   डॉ.बलदेवानन्द-सागरः

दूरभाषः -   ९८१० ५६२२ ७७                         

अणुप्रैषः  - baldevanand.sagar@gmail.com

Sunday, 24 May 2020

कोरोनाकाले 

-च मू कृष्णशास्त्री

spf
सम्पूर्णं भारतं विश्वं च कोरोनाग्रस्तम्। एतत् कोरोनाप्रकरणं कियत्कालं प्रचलेत् इति विषये कस्य अपि स्पष्टज्ञानं नास्ति। सर्वैः कोविदकोविदैः ऊह्यते यत् वर्षद्वयं यावत् एषा गम्भीरा चिन्ताजनिका स्थितिः अनुवर्तेत। कदाचित् ततोधिककालम् अपि स्यात् तथा च अस्माभिः कोरोनया सह जीवनस्य अभ्यासः करणीयः इति। सद्यः तु जून-जुलै-अगस्ट-मासेषु तु भारते कोरोनारोगवतां सङ्ख्या शिखरं प्राप्नुयात्। तदा अन्तिमवर्षीयाणां छात्राणां परीक्षाः कथं करणीयाः, नूतनशैक्षिकवर्षस्य आरम्भः केन प्रकारेण स्यात्, छात्राणां के क्लेशाः स्युः इति विषये बहवः

Tuesday, 8 October 2019

गणेशोत्सवः             -लघुनिबन्धः
-डाॅ. दर्शना वरगंटीवारः
यवतमाल, महाराष्ट्रम्

 





 हैन्दवीयानाम् आराध्यदैवतमस्ति गणेशः। प्रतिपूजायां प्रथमं वन्दनं पूजनं च गणेशाय भवति। धार्मिककार्यः निर्विघ्नं भवेत् तदर्थं सर्वे गणेशं पूजयन्ति।

वक्रतुंडमहाकाय सूर्यकोटिसमप्रभ।
निर्विघ्नं कुरू मे देव सर्वकार्येषु सर्वदा।।
श्लोकोऽयम् प्रसिद्धः।
गणेशं विघ्नहर्ता अपि वदन्ति जनाः। गणेशः बुद्धेः देवतास्ति । प्रतिहिन्दुजन-हृदयेषु गणेशं  प्रति अत्यादरो वर्तते। भाद्रपदमासस्य शुद्धचतुर्थ्यां तिथौ गणेशोत्सवं प्रारभते। हैन्दवाः   आनन्देन सोत्साहेन चैतन्येन च अयमुत्सवस्यायोजनं  सम्पूर्णभारतवर्षे  कुर्वन्ति। गणेशागमनस्य सज्जता जनाः बहूनां दिनानां पूर्वमेव कुर्वन्ति। स्व स्व प्रान्तानुसारं तस्य पूजनं देशे प्रचलति। क्व एकार्धदिवसस्य क्व  पञ्चदिवसस्य क्व दशदिनात्मकं च  पार्थिव गणेशस्य प्रतिष्ठापनं कुर्वन्ति जनाः।


गणेशमूर्तिः

   
गणेशस्य मूर्तिः मृत्तिकायाः स्यात् एषो नियमः।  कृष्णमृत्तिका भवेत् चेत् वरम्।अधुना प्लॅस्टर् ऑफ् पॅरिस् इती वस्तुम् उपयुज्य कृत्रिमरीत्या अत्यंतमनोहरं  मूर्तिनिर्माणं कुर्वन्ति कलाकाराः। किन्तु तत्तु पर्यावरणपूरकं नास्ति अतः सर्वथा त्यजनीयम् खलु। पर्यावरणस्य रक्षणं तु अस्माभिः करणीयमेव। तदर्थं मृत्तिकायाः पार्थिवगणेशपूजनं भवेत् इति अस्माकमपि आग्रहं स्यात्।

प्रतिष्ठापना पूजनं च

    प्रतिष्ठापनासमये पार्थिवगणेशमूर्तेः आवाहनं पूजनम् अभिषेकं  च कृत्वा सुगन्धितद्रव्येन दूर्वादलं कलहारिपुष्पं जपाकुसुममं च अर्पयन्ति। गणेशाय मोदकं  रोचते अतः नैवेद्यं विशेषत्वेन मोदकानां वर्तते। अन्ते धूपदीपारतीं  कृत्वा मन्त्रपुष्पाञ्जलीं  समर्पयन्ति। अयं क्रमो वर्तते  गणेशपूजनस्य।

पुराणेषु कथा
   माता पार्वती एकदा  स्नार्थं गच्छति। तदा स्नानगृहस्य बहिर् मृत्तिकया रक्षकं कृत्वा तन्मध्ये प्राणान् प्रक्षिप्य वदति च कोऽपि अन्तः नागन्तव्यम् इति। तदैव शंकरः आगच्छति रक्षकः तमवरुण्धि। शंकरः तस्मै क्रुध्यति तथा च शिरच्छेदमपि करोति। अत्रान्तरे मातापार्वती स्नानं कृत्वागच्छति। एतद् दृश्यं दृष्ट्वा सा बहु कुप्यति। तस्याः कोपशमनार्थं शंकरः सेवकान् वदति गच्छन्तु तथैव मार्गे यः कोऽपि प्राप्स्यते तस्य शिच्छेदं कृत्वा शीघ्रमेवानयथ। गच्छन्तः सेवकाः गजं पश्यन्ति तस्यैवशिरच्छेदं कृत्वा आनयन्ति। शंकरः गजशिरः मृतरक्षकस्य शरीरे रोपणं करोति। तद्दिनमासीत् भाद्रपदमासस्य शुक्लचतुर्थी ।

सार्वत्रिकः गणेशोत्सवः
   लोकमान्य बालगङ्गाधर तिलकेन तदानीन्तन् समस्त भारतीयान् सम्मिलिताः कर्तुं तथैव विचाराणाम् आदानप्रदानार्थं अस्योत्सवस्य प्रारम्भः कृतः आसीत्। अद्यापि महाराष्ट्रे विशेषरूपेण गणेशोत्सवस्यायोजनं कुर्वन्ति जनाः। किन्तु इदानीन्तनकाले अस्योत्सवस्य स्वरूपपरिवर्तनं जातं खलु। मूलोद्देशैव आघातः जातः वा इति आशङ्कते मनः। ध्वनिप्रक्षेपकाणाम् उच्चध्वनिः बीभत्सं विकृतम् अङ्गविक्षेपणं कृत्वा नर्तनं एतत् सर्वं नास्ति उचितम्। मूलोद्देशं विस्मृत्य केवलं प्रदर्शनमेव कुर्वन्ति जनाः। अयमेव दुःखस्य विषयोऽस्ति। अतः अस्माभिरेव प्रयेतनीयम् यत् तिलकेन येन्नोद्देशेन अस्योत्सवस्यः प्रारम्भः कृतोऽस्ति सः सफलं भवेदिति।

विसर्जनम्
   पार्थिवगणेशमूर्तेः विसर्जनं दशदिनानन्तरम् अन्तचतुर्थीं कुर्वन्ति जनाः। तदा प्रायः भावपूर्णहृदयेन प्राणप्रियगणेशम् आपृच्छनं कुर्वन्ति। पुनः अग्रिमवर्षे शीघ्रमेव आगच्छतु  इति गणेशम् उक्त्वा जनाः पार्थिवगणेशं जले निमज्जयन्ति। महाराष्ट्रे जनाः वदन्ति 'गणपतीबाप्पा मोरया पुढच्यावर्षी लवकर या' इति।
 *गणेशाय नमः*

Wednesday, 15 August 2018

डा. प्रियव्रतमिश्रविरचितम्-  
          अहङ्कारशतकम्    ( ग्रन्थपरिचयः)
DR. Dhanya P V
 Article  No: 20180815 
 ग्रन्थपरिचयः
डा. धन्या पि वि
पोस्ट् डोक्टरल् फ़ेल्लो
राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपति।

     ह जगतीतले संस्कृतवाङ्मयम् अनन्यसाधारणं वैशेष्यं समश्नुत। सुरभारत्याः संस्कृतसरस्वत्याः अलङ्कारभूतानि सन्ति बहूनि काव्यतल्लजानि । यद्यपि गीर्वाण्या वाण्या तावदसङ्ख्यातानि सन्ति काव्यानि तथापि तत्र अनन्यसाधारणोऽयं डा. प्रियव्रतमिश्रविरचितः ग्रन्थः "अहङ्कारशतकम्"। ग्रन्थकारोऽयं बिहारराज्यस्थ दरभङ्गाप्रदेशस्थ श्रीरामसुन्दरसंस्कृतविश्वविद्याप्रतिष्ठाने, व्याकरणविभागे सहायकाचार्यत्वेन वृत्तिनिरतः। सुरभारतीसमाराधनैकव्रतस्य अस्य  कारिकामुखः, प्रयुक्ताख्यातमञ्जरी, उमराव जान् इत्यादीनि पुस्तकानि एवं चाटुश्लोक-शास्त्रलेख-कवितादीनि हृद्यानि च अनेकानि सन्ति। राष्ट्रियसंस्कृतसंस्थानं, राजीवगान्धीपरिसरः, शृङ्गेरीद्वारा "लेखविशारदः" अपि च दिल्लीसंस्कृत अकादमीद्वारा "नवोदितकविः" इत्यादि उपाधिभाजः डा. प्रियव्रतमिश्रः आधुनिकसंस्कृतकविषु अनन्यस्थानं समावहति।

       आधुनिकाः मानवाः आत्मानं श्रेष्ठं मन्यन्ते। उक्तं च भगवद्गीतायां "अहङ्कारविमूढात्मा कर्ताहमिति मन्यते " इति । तादृश अहङ्कारपूरितजगतः चित्रणं प्रददाति कविः स्वीयकाव्ये अहङ्कारशतके। एवं च
"असारे संसारे सकलविषयो नश्वरपरो
दिवारात्रो लोको जननमिह मृत्युं च लभते।
न किञ्चिन्नित्यं वै न खलु मनुजो बुध्यति पुनः
मदोन्मत्तो लोकस्त्वहमहमिकायां विहरते॥ "(अहङ्कारशतकम्)

वेदान्तपरिप्लुतः सन्नपि अहङ्कारे  मानवाः विहरन्ति इति सत्यं कविः स्मारयति।  अहङ्कारजन्यक्लेशान् ज्ञात्वापि लोकः अहङ्करोतीति कविवचनं चिन्तोद्वीपिकैव।  मदान्धकारस्य तीक्ष्णावस्थाम् एवं प्रदर्शयति

"मदोन्मत्तावस्था ननु च मनुजं प्रेरयति भोः!
तदा नासौ धूर्तो निशमयति कस्यापि वचनम्।
त्वहं जाग्रस्त्येनं न हि खलु विजानाति पुरुषो
मदोन्मत्तो लोकस्त्वहमहमिकयां विहरते ॥"(अहङ्कारशतकम्) इति ।

    तथा काव्ये निगदितानां व्यावहारिकतत्वानां वाचनावसरे काव्यास्वादकस्य, कवेः च समन्वयो बहुत्र भवति। कवेः श्लोकरचनाशैली हृद्या एवं सर्वास्वाद्ययुक्ता। अपि च श्लोकानां हिन्दी-आङ्गलभाषाभावार्थाः संस्कृतानभिज्ञानपि सुरभारतीकामुकान्, सुरवाण्याः उपसेवने समायोजयन्ति इत्यत्र नास्ति शङ्का। ’शिखरिणी’वृत्तम् (रसैरुद्रैश्छिन्ना यमनसभलागः शिखरिणी) अनुज्ञातः कविः आशतकम् अमुं वृत्तं स्व्यकरोत्। "This meter (शिखरिणी) is most suitable for the expression of strong feeling." इति टि.के रामचन्द्र अय्यर्, ’लघुवृत्तरत्नाकरे’ अभिप्रैति। अस्य वचनस्य सार्थकता अहङ्कारशतकस्य पठनेनोपजायते। अलङ्काराणां प्रयोगेपि कविः स्वीय काव्योत्कर्षता बहुत्र व्यादिशति।अस्मिन् ग्रन्थे प्रतिश्लोकः मुक्तकवत् भाति तथापि श्लोकधारा सुबद्धा। वाचकेभ्य कविः प्रायोगिकवेदान्तस्य प्रयोगस्यावश्यकता, मानवस्य तथा समाजस्य अहङ्कारोन्मत्तता च प्रकृतार्थे प्रयच्छति।

     अपायोपेतस्य अहङ्कारस्य अतिरेकः लोके सर्वत्र दरीदृश्यते। अहङ्कारः क्षणभङ्गुरस्यास्य जीवनस्य परमलक्ष्यार्थं, ईश्वरप्राप्त्यर्थं भवेत् इति समाख्यापयति काव्यकुसुमैः कविः। शतश्लोकान्वितस्यास्य काव्यस्य अहङ्कारशतकस्य काव्यास्वाद्यतां सहृदयेभ्यः सुचारुरीत्या प्रददाति नवदेहलीस्थ मान्यताप्रकाशनं नाम पुस्तकप्रकाशकसंस्था। ईदृशकाव्यकुसुमैः भूयो भूयो सेव्यमाना भवतु  संस्कृतसरस्वतीत्याशास्महे।

Monday, 16 July 2018


ऐतिहासिककाव्येषु आङ्गलसाम्राज्यम्।
डा. रोहिणी के.

Research Article  No: 20180716 

 अनुसन्धानाध्ययनम्
Dr. ROHINI K.
Guest Lecturer 
Dept. of Sanskrit
Sree Krishna college, Guruvayoor.


कैरलीभाषाया: व्यवस्थापक:, युगप्रभाव: केरलपाणिनि: इति नाम्ना प्रसिद्ध: ए. आर्. राजराजवर्मा महोदय:। अनेन विरचितमिदं काव्यं चरितमहाकाव्येषु अद्वितीयस्थानमर्हति। आङ्गलभारतचरित्रमेव वर्ण्यविषय:। अन्यचरितकाव्यापेक्षया आङ्गलसाम्राज्यस्य वर्णना नदीप्रवाहरूपेणैव भवति। आङ्गलभारतचरितं विशदरूपेण प्रतिपादित एका एव संस्कृतकृतिरस्ति आङ्गलसाम्राज्यम्।
लण्टन् नगरवर्णनया काव्यस्यास्य आरम्भ:। ‘ब्रिटीष् ईस्ट् इन्ट्या कम्पनी’ नाम संघटनाया:, 1900 तम भारताङ्गलचरितं च अत्र विशदरूपेण प्रतिपादयति। काव्येस्मिन् 23 सर्गेषु 1900 श्लोका: सन्ति। आङ्गलसाम्राज्ये 1911 श्लोका: सन्ति, किन्तु 11 श्लोका: कवि: तस्य एव ‘पञ्चाशत्पूर्तिपञ्चाशिका’ नामक काव्यात् स्वीकृता: भवन्ति। मातुल: ‘केरलकालिदास:’ इति प्रथित: केरलवर्मा वलियकोयितम्पुरान् महाभागस्य निर्देशानुसारमेव काव्यस्यास्य रचना कृता इति 1897 जूण् मासस्य दैनिक्यां लिखितमासीत्। ग्रन्थस्य अवतारिका ए. शेषय्या शास्त्रिमहोदयेन, लघुटिप्पणी टि. गणपतिशास्त्रिणा च लिखितं वर्तते। 1901 तमे वर्षे ग्रन्थस्यास्य प्रकाशनमभवत्। काव्येस्मिन् स्थल-कथापात्र-नदीनां नामानि स्थूललिप्या लिखिता वर्तते। प्रत्येकपुटस्य वामभागे तत्र वर्णितमुख्यविषयस्य वर्षस्य च विवरणमपि दत्तमस्ति।
अस्ति प्रशस्तेष्वतलान्तिकाब्धि-
क्षिप्तेषु विष्वक्पुरमाङ्गलेषु
तिंसा नदीतीरवतंसभूतं
भूमण्डनं लण्टननामधेयम्।।22 (आ. सा. 1/1)
एतेन श्लोकेन लण्टन् नगरस्य वर्णनया ग्रन्थारम्भ: भवति। कुमारसभ्मवस्य शैली एव अत्र प्रयुक्त: इति एतेन काव्येन ज्ञायते। प्रथमसर्गस्य नाम इन्ट्याप्रवेश: इत्यस्ति। काव्येस्मिन् 29 छन्दसां प्रयोग: कविना कृत:।
‘आद्यचरितानुवर्णना’ नामकस्य द्वितीयसर्गस्य 77 श्लोकेषु भारते आर्याणाम् आगमनकालत: मुगलचक्रवर्तीनां शासनपर्यन्तविस्तृतकालस्य रूपरेखा कृता वर्तते। क्लैव् वर्यस्य नायकत्वेन दक्षिणभारते आङ्गलानाम् आधिपत्यस्य शाक्तीकरणमेव ‘कर्णाटकास्कन्दनं’ नामके तृतीयसर्गे प्रतिपाद्यविषय:। चतुर्थसर्गस्य ‘परङ्गिनिष्कासनम्’ इति नाम अन्वर्थमेव। भारते फ्रञ्च् आधिपत्यस्य पतनमेव अस्मिन् सर्गे प्रतिपाद्यते। ‘कालगर्तरात्रिवृत्तम्’ इति पञ्चमसर्गस्य नाम, वङ्गविजय: एव षष्ठसर्गस्य नाम। बंगाल् कलापविवरणं तथा बंगाल् गवर्णर् पदव्यां क्लैव् वर्यस्य अवरोधनम् इत्यादय: सप्तमे सर्गे वर्णिता:। अष्टमे तु वारन्हेस्टिङ् वर्यस्य भरणपरिष्कार: रेगुलेटिंग् आक्ट्, पिट् वर्यस्य इन्ट्या आक्ट् इत्यादय: विषया: प्रतिपादिता:। नवमे सर्गे मराठाचरितं, दशमे मैसूर् चरितं च उपवर्णितम्। अनन्तरसर्गत्रये तथा चतुर्दशसर्गस्य पञ्चविंशतिश्लोकपर्यन्तं टिप्पुसुल्तान् राज्ञ: वर्णना च भवति। चतुर्दशसर्गस्य शिष्टश्लोकै: वेल्लस्लीप्रभो: शासनवर्णना कृता वर्तते। पञ्चदश सर्गे मरात्ताराज्ञां पराजय:, षोडशसर्गे ब्रिटीष् शासकै: विहितशासनक्रम: चित्रित:। मध्यभारतोधृति: च सप्तदशसर्गे:, आम्हेस्ट् बेन्टिक् आक्लन्ट् इत्यादयानां भरणाधिपानां भरणक्रम: अष्टादशे सर्गे च उपवर्णित:। डेल्हौसे: नयतन्त्रै: जायमानं सिक् पतनमेव नवदशसर्गस्य प्रतिपाद्यविषय:। डेल्हौसी प्रभो: रेल् व्यवस्था, पत्रालयव्यवस्था, विद्याभ्यासपरिष्कार: च विंशे सर्गे प्रतिपादित:। प्रथमस्वातन्त्र्यसंग्रामवर्णना एव महासमुप्पिञ्चिलं इत्यस्मिन् एकविंशे अध्याये वर्ण्यते। राजश्रीपरिग्रहमिति द्वाविंशसर्गस्य नाम। यद्यपि आङ्गलसाम्राज्यस्थापनमिति काव्यस्येतिवृत्तम् एषु अध्यायेषु समाप्तं याति, तथापि विक्टोरिया राज्ञ्या: भरणस्वीकारोद्घोष: तत्कालीनभरणक्रम: इत्यादि विषयान् प्रवक्तुं साम्राज्यसिद्धिरिति त्रयोविंशसर्गस्य विनियोग: कविना विहितं वर्तते।
      विषयदृष्ट्या आङ्गलशासनप्रशंसनमेव कवे: मुख्यलक्ष्यमित्यत: कालिकप्रसक्तिरेव वर्तते। रचनाशैल्या: मनोहारितया ऐतिहासिकप्रधानतया च आङ्गलसाम्राज्यमिति अस्य काव्यस्य महत्तमं स्थानं चरितकाव्यप्रस्थाने वर्तते इत्यत्र नास्ति सन्देह:।

Friday, 29 December 2017

 सांख्यदर्शनानुसारेण पुरुषस्वरूप विचारः
Research Article  No: 20171229  
 अनुसन्धानाध्ययनम्

जिषा के नारायणन्, गवेषका
संस्कृत-वेदान्त-विभागः, 
शङ्कराचार्य संस्कृत विश्वविद्यालयः, कालटि ।
दूरवाणी-९३८७४५९२३४ 
     
         भारतीयेषु आस्तिकदर्शनेषु प्राचीनतमं भवति सांख्यदर्शनम्। सांख्यसूत्रकर्ता कपिलमुनिः। किन्तु सग्रन्थः इदानीं नोपलभ्यते। ईश्वरकृष्ण विरचिता सांख्यकारिका इदानीं उपलभ्यमानेषु सांख्यग्रन्थेषु प्राचीनतमा मुख्यतमा च। वाचस्पति मिश्र विरचिता तत्वकौमुदी अज्ञातकर्तृता, युक्ति दीपिका, गौढपादीयम् भाष्यं, माठरकृतावृत्तिः, शङ्कराचार्य विरचिता जयमङ्ला च अस्याः व्याख्यान ग्रन्थेषु मुख्या।

         गणनार्थकात् सम्यक्ज्ञान अर्थकात् वा संख्या शब्दात् मिप्पन्नोऽयं संख्या शब्दाः। अर्थद्वयमपि अत्र सङ्गच्छते। यतो हि अत्र पुरुषः, प्रकृतिः, महत् इत्यादिभिः पञ्चविंशति सांख्याख्यानि तत्वानि प्रतिपादितानि। एतेषां तत्वानां सम्यक् ज्ञानमेव अत्र दुखत्रय आत्यन्तिक निवृत्तिरूप कैवल्योपायत्वेन अमिहितम्।

        इदानीं पुरुषस्य स्वरूपविचारारम्भकद्वारेण पुरुषस्य अस्तित्व साधकानि कारणानि उच्चते। अत्र संघातपरार्थत्वात् इति। अचेतनानां पदार्थनां क्रमं अनुसृत्य सज्जीकरणमेव अथवा सङ्घातः इत्युच्चते। तादृशाः सर्वे अपि सङ्घातः सचेतनं परं उद्धि२य वर्तते। अव्यक्तादयः सर्वे सङ्घातः अपि परं सचेत नं उद्धिश्य प्रवर्तन्ते।

Monday, 13 November 2017

शिव उत माधवः? कस्त्वम्?
 सम्पादका -बाला  चिर्रावूरी
               "शिवस्य हृदयं विष्णुः विष्णोश्च हृदयं शिवः" इति शिवकेशवयोरैक्यं प्रतिदिनमपि संध्यायां उच्यन्ते। शिवविष्ण्वोःअभेदं अयं मन्त्रः प्रतिपाद्यते।तद्वदेव हरिहरौ, रामलिङ्गेश्वरौ, रामेश्वरौ, शंकरनारायणौ एतानि नामान्यपि अभेदं प्रतिपाद्यन्ते।

एकदा अमर्त्यानां संदेहो सञ्जातः" रामेश्वरमिति पदस्य समासःक "इति। व्याकरणे समासेषु ' कर्मधारय' 'तत्पुरुष''बहुव्रीहि' इति वर्तन्ते। 

राजसेवकः इत्युक्ते तत्पुरुषसमासो भवति। राज्ञः सेवकः इतयर्थः भवति। षष्ठीविभक्त्यर्थः अस्मिन् वर्तते इति कारणात् अयं षष्ठीतत्पुरुषसमासो भवति। 


'नीलोत्पलम्' अर्थात् नीलिवर्णयुत उत्पलमिति। इदं कर्मधारयमिति वदन्ति।

'दण्डपाणिः'अर्थात् दण्डः पाणौ यस्य सः ।बहुव्रीहिःभवति। दण्डपाणि शब्दस्य विभिन्ना अर्थाः वर्ततन्ते। यथा सुब्रह्मण्यः, कालभैरवः ... इत्यदयः। दण्ड इति शब्दात् पाणि इति शब्दादपि भिन्नोऽर्थः द्योतते बहुव्रीहौ। 'बहुव्रीहिः' इत्यस्य पदस्य अर्थ एव बहुफलसम्पन्नं धान्यसस्यमिति। 

'रामेश्वरम्' कस्समासो भवति? तत्पुरुषो वा? ' रमस्य ईश्वरः' इत्युक्ते सति ' रामस्य प्रभुरीश्वरः'इति अर्थो द्योतते। तदा तत्र शिवाधिक्यं भवति। शिवधनुर्भङ्गः कृत रामः शिवात् कथं न्यूनो भवति? सर्वलोकशरण्यो रामः , तस्मादुपरि पुनरीश्वरो वा? इमान् सन्देहाने कः समाधत्ते?  देवाः विष्णुमेव प्रक्ष्यामः इति विचार्य वैकुण्ठं प्रति अगमन्। ' अतिस्वल्पविषयमधिकृत्य बहुदूरं आगच्छन्ति?  एतत्पदस्यवलोकनेनैव तत्तपुरुष इति ज्ञायते। 'रामस्य ईश्वरः'एव इति विष्णुना प्रोक्तम्।किन्तु इतोऽपि देवाः न शंकानिवारिताः।

"विष्णुः कल्याणपरिपूर्णो भवति। कल्याणगुणेषु विनयोऽपि वर्तते। विनयसम्पन्नात्, अहंभावरहिताद्वा , ह्रिया वा विष्णुना एवं कथितम्। भवतु , शिवं प्रक्ष्यामः, सः किं कथयिष्तीति द्रक्ष्यामः" इति विचिन्त्य' विष्णुस्तत्पुरुषं ब्रूते' ' विष्णुः, रामेश्वरपदम्, तत्पुरुषसमासः इति चिन्तयन्तस्सन्तः कैलासमगच्छन्।

नाकलोकवासिनां सन्देहं श्रुतवान् नागाभरणधारी। ' भोः! अस्मिन् सन्देहस्य अवकाश कुत्रास्ति? रामेश्वरपदं बहुव्रीहिः भवति। राम एव ईश्वरः यस्य सः रामेश्वरः' इति समधत्तः ईश्वरः। 

व्याकरणविषये शिवकेशवयोर्मध्ये एवंप्रकारेण भेदाभिप्रायाः वर्तन्ते इति देवाः स्वप्ने अपि न ऊह्यन्ते। रामेश्वरपदे तयोः नाम प्रसक्तिरस्तीति कारणात् मध्यवर्तिनं पृष्ट्वा शंकानिवारणं कुर्मः इति ' बहुव्रीहिं महेश्वरः', शिवः बहुव्रीहिसमासः इति उक्तस्सन्तः  ब्रह्माणं दर्शितवन्तः। देवतानां सन्देहं, प्रचलितवृत्तान्तम्यावत् प्रशान्ततया आकर्ण्य " अयं तत्पुरुषसमसो नास्ति, बहुव्रीहिरपि नास्ति कर्मधारय इति, वीरराघव इत्युक्ते वीरः एकः राघवः अन्यो वा? नास्ति खलु! तद्वदेव रामेश्वर इत्युक्ते रामः एकः ईश्वरः अन्यो वा? रामएव ईश्वरः, ईश्वर एव रामः अर्थात् रामश्चासौ ईश्वरः- रामेश्वरः कर्मधारय एव भवति" इति शासनं क्रियते ब्रह्मणा। 

 विष्णुस्तत्पुरुषं ब्रूते बहुव्रीहिं महेश्वरः।
 उभयोरप्यतृप्तानामत्मभूः कर्मधारय।।

आत्मभूः अर्थात् ब्रह्मा, देवानां प्रति शिकेशवयोरेकमेव परतत्त्वमस्तीति ब्रह्मा बोधयामास। 

                बाला...✍

Sunday, 12 November 2017

हरियाणा-राज्यस्य कलाः संस्कृतिः इतिहासश्च  
                                                              - बलदेवानन्द-सागरः  
हरियाणा अर्थात् परमात्मनः निवास-स्थानम्  -
             सम्प्रति हिमालयस्य मुकुटवन्तं विशालम् आधुनिकञ्च भारतदेशं  सरलतया अवगन्तुं शक्यते, अस्य च वैभव-ज्ञानं सुकरञ्चेति नूनं गूगल्-कारणात् प्रतीयते परन्तु यावदवधि अस्य देशस्य कलाः संस्कृतिम् इतिहासञ्च सम्पूर्णतया हृदयङ्गमं नैव कुर्मः तावदवधि महतो भारतस्य बोधः नैवास्ति सुकरः | विशेषेण भारतस्य पृथक्-पृथक् राज्यानि अवगन्तुं तत्तद्-राज्यानां कलानां संस्कृतेः इतिहासस्य च गभीरतया हृदयङ्गमीकरणं परमावश्यकम् |
               “हरियाणा” अर्थात् हरेः [परमात्मनः] निवास-स्थानम् | मन्ये, सर्वे जानन्ति एव यत् “हरि व्यापक सर्वत्र समाना” अर्थात् “हरिः व्यापकः सर्वत्र समानः” | सः परमात्मा सर्वव्यापी किन्तु यस्याः भूमेः नाम एव हरेः निवासत्वेन ख्यातम् सा भूमिः कियती गरीयसी महत्वाधायिनी चास्तीति तु अनुभव-विषयः | शाब्दिक-व्याख्यया एवमवगन्तुं शक्यते यत् - हरि + अयन [अयण], तद्धि पूर्वं ‘हर्ययनम्’- रूपेण [‘हर्ययणम्’- रूपेण वा] प्रयुक्तमासीत्, अनन्तरं भाषित-भाषायां ‘हरियाणा’-नाम्ना प्रतिष्ठितं जातम् |  
             केचन विद्वान्सो निगदन्ति यत् अस्याः भूमेः नाम आसीत् “हरित + अरण्यम्” अर्थात् “शाद्वल-सम्भरितं काननम्” - एतस्मिन्नर्थे ‘हरितारण्यम्’ आसीत् यद्धि कालक्रमेण “हरियाणा” इति रूढं जातम् | एवम्मन्यमानेषु प्रमुखेषु विद्वत्सु श्रीमुरलीचन्द्र-शर्मा, श्रीएच्.ए.फडके, श्रीसुखदेवसिंह-छिबः श्रीमुन्नीलाल-प्रभृतयः अन्यतमाः सन्ति | 
आधुनिक-हरियाणा-राज्यस्य प्राचीन-सन्दर्भाः -        
        आधुनिक-सन्दर्भानुसारेण भारतीय-गणतन्त्रे पृथक्-राज्य-रूपेण १९६६-तमे वर्षे नवम्बर-मासे प्रथम-दिनाङ्के एतत् प्रतिष्ठापितं जातम्, किन्तु विशिष्टमेतद् ऐतिहासिकं सांस्कृतिकञ्च क्षेत्रमिति हरियाणा-राज्यस्य अस्तित्वं प्राचीनकालादेव अभिज्ञातम् आसीत् । 
         राज्यमिदम् आदिकालादेव भारतस्य  संस्कृतेः सभ्यतायाश्च धुरत्वेन अवर्तत। स्मृति-कारस्य महर्षेः मनोः अनुसारेण अस्य प्रदेशस्य अस्तित्वं देवताभिः विरचितम् अत एव अयं 'ब्रह्मवर्त'-प्रदेशः इति अभिहितम् ।  
         हरियाणा-प्रदेशस्य विषये अनेके सन्दर्भाः वैदिक-साहित्ये समुल्लिखिताः सन्ति | प्रदेशेsस्मिन् विहितेन उत्खननेन ज्ञायते यत् सिन्धु-उपत्यकायाः सभ्यतायाः, मोहनजोदड़ो- इत्यवशेषाणां च संस्कृतेः विकासः अत्रैव अजायत ।
          शास्त्र-वेत्तारः, पुराण-रचयितारः विचारकाश्च सुदीर्घ-कालं यावद् अस्य ब्रह्मर्षि-प्रदेशस्य रमणीये अङ्के स्थित्वा अनेकान् धर्म-ग्रन्थान् विरचय्य ज्ञानं प्रसारितवन्तः। ते सर्वदैव भगवत्याः मातुः सरस्वत्याः पावनस्य ब्रह्मवर्तस्य च गुणान् विविधासु निज-रचनासु वर्णितवन्तः।
         अस्य राज्यस्य ब्रह्मवर्त-ब्रह्मर्षि-इति नाम-द्वयम् अतिरिच्य 'ब्रह्मणः उत्तरवेदिका' - इति नाम्नापि प्रदेशोsयं ग्रन्थेषु जेगीयते। राज्यमिदम् आदि-सृष्टेः जन्म-स्थानमित्यपि आमन्यते । एतदपि विश्वस्यते यत् मानव-जातेः समुत्पत्तिः यस्मात् वैवस्वत-मनोः जाता, सः अस्यैव प्रदेशस्य राजा आसीत् । 
        “अवन्ति-सुन्दरी-कथा”- इति ग्रन्थे अयं मनु-महाराजः स्थाण्वीश्वर-निवासी [थानेश्वरवासी] इति वर्णितम् । पुरातत्ववेत्तारो निगदन्ति यद् आद्यैतिहासिक-कालीनायाः, प्राग्हड़प्पा-हड़प्पा-परवर्ति-हड़प्पा-प्रभृतीनाम् चानेकासां संस्कृतीनां बहुविधानि प्रमाणानि, हरियाणा-राज्यस्य वणावली-सीसवाल-कुणाल-मिर्ज़ापुर-दौलतपुर-भगवान्पुरादि-स्थानानाम् उत्खननैः प्राप्तानि ।
हरियाणा - ‘भारत’ - इति नामकरणस्य पृष्ठभूमिः अस्ति  -   
                    भरतवंशी सुदासः अस्मादेव प्रदेशाद् स्वीयं विजयाभियानम् प्रारभत, आर्याणां शक्तिञ्च सङ्घटितवान् । एते एव भरतवंशिनः आर्याः रंहसा सुदूरे पूर्वस्मिन् दक्षिणे च दिग्विभागयोः स्वीयां शक्तिं विवर्धयन्तः अग्रेसृताः । अनन्तरं तेषामेव वीर-भरतवंशिनां नाम्ना अशेष-राष्ट्रस्य अभिधानं ‘भारत’मिति प्रसिद्धिमगात्।
                   महाभारत-कालात् शताब्देभ्यः पूर्वम् आर्यवंशिनः कुरवः अत्रैव कृषि-युगमारभन्त । पौराणिक-कथानुसारेण ते आदिरूपायाः सरितः मातुः सरस्वत्याः ४८-कोष-मितम् उर्वर-प्रदेशं प्रप्रथमं कृषि-योग्यं व्यदधुः । अत एव सा ४८-कोष-परिमिता कृषि-योग्या भूमिः कुरूणां नाम्ना सुप्रतिष्ठिता सती अद्यत्वेsपि “कुरुक्षेत्र”-मिति भारतीय-संस्कृतेः पवित्रप्रदेशत्वेन जगति सम्मान्यते।
                  सुदीर्घ-कालं यावत् सरस्वत्याः गङ्गायाः च मध्यगतः सुविस्तृतः भू-भागः 'कुरु-प्रदेश'- नाम्ना अभिज्ञायते स्म । महाभारतस्य विश्व-प्रसिद्धं युद्धं कुरुक्षेत्रे एव अयुध्यत । अस्यैव युद्धस्य तुमुलेषु  शंख-नादेषु अद्भुतः सनातनः अलौकिकश्च स्वरः उदपद्यत-
“धर्मक्षेत्रे कुरुक्षेत्रे समवेताः युयुत्सवः |
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ! ||”  
                   श्रीमद्भगवद्गीतायाः अमुना प्रथमेन श्लोकेन साकमेव योगेश्वरस्य श्रीकृष्णस्य विश्व-जनीनस्य पारमार्थिक-स्वरस्य अनुकीर्तनम् अनुगुञ्जनञ्च अद्यापि श्रद्धालुभिः निज-कर्णाभ्यां पेपीयते | युगपुरुषस्य भगवतः श्रीकृष्णस्य मुख-कमलात् प्रकटिता श्रीमद्भग- वद्गीता या हि भारतीय-संस्कृतेः बीज-मंत्ररूपास्ति, सर्व-कालार्थं अमरायते ।
हरियाणा-प्रदेशस्य गौरवयुगम्  -
           वर्धनवंशस्य सर्वोत्तमः शासकः हर्षवर्धनः आसीत् येन विशालं साम्राज्यं स्थापितम् । हरियाणा-प्रदेशस्य तद् गौरवयुगमासीत् । चीन-देशीयः भिक्षुः ह्वेनसांगः हर्षस्य राजधान्याः (थानेश्वर) स्थाण्वीश्वरस्य वैभवं समृद्धिञ्च समीचीनतया अवर्णयत् । संस्कृत-साहित्यस्य महान् गद्यलेखकः बाणभट्टः नैजे 'हर्षचरितम्'- नाम्नि ग्रन्थे तत्कालीनस्य हरियाणा-प्रदेशस्य जन-जीवनं सांस्कृतिक-परम्पराश्च व्यापकतया अवर्णयत् । हर्षकालेsपि जनपदानां स्वरूपं यथावदेव सन्धारितमासीत् । सम्राट्, न कदापि अत्र आन्तरिक-व्यवस्थायां हस्तक्षेपमकरोत् ।
                 सम्राजो हर्षवर्धनस्य मृत्योः पश्चाद् अत्रत्यं जनजीवनं व्यस्तीभूतम् । अनारतं बाह्याक्रमणानि जायन्ते स्म । परन्तु अत्रत्याः जनाः निज-शक्त्या आन्तरिकीं सामाजिक-व्यवस्थां सन्धारितवन्तः। प्राचीनस्य हरियाणा-प्रदेशस्य सबलायाः गण-परम्परायाः फलस्वरूपेण एव अत्रत्याः जनाः सदा दृढतया जनवादिनः स्थिताः, तथा च कालान्तरेsपि ते प्रत्येकमपि तया साम्राज्यवादिन्या शक्त्या संघर्षम् अकुर्वन् याः काश्चन अपि शक्तयः तेषां जनवादि-व्यवस्थायां हस्तक्षेपं विहितवत्यः। 1857-मिते खीस्ताब्दे सञ्जातो जन-विद्रोहोsपि एतस्याः आस्थायाः प्रतीकरूपः ।
                यौधेय-काले अयं 'बहुधान्यक'- प्रदेशस्य नाम्ना अभिज्ञायते स्म। मूर्तिकला-हस्तकला-ललित-कलानां कृते यौधेयाः कृत्स्नेsपि प्रदेशे प्रसिद्धाः आसन्। रोहतकस्य मृदङ्ग-वादकाः पटह-ताडकाश्च उज्जयिनीं यावत् गत्वा प्रसिद्धिं प्राप्तवन्तः। मल्लयुद्धे युद्ध-कौशले च ते अद्वितीयाः आसन् । ते एकतः दुर्धर्षाः योद्धारः आसन्, अपरतश्च अदम्य-शक्तिमन्तः कृषकाः अपि । गौरवस्य विषयोsयं यत् सहस्राधिकानि वर्षाणि यावत् अमुना गणराज्येन भारतस्य इतिहासे अपूर्वा काचित् प्रसिद्धिः प्राप्ता, तथा च, ते नैजं प्रदेशं गणतन्त्रात्मक-राजनैतिक-व्यवस्थायाः अन्तर्गतं चरम-विकास-पर्यन्तं प्रापितवन्तः । तोमरशासकानां शासनकाले हरियाणा-प्रदेशेन कला-संस्कृति-व्यापारेषु महती उन्नतिः अधिगता यद्विषये वयं दशम-शताब्द्यां सुख्यातेन संस्कृत-विदुषा सोमदेवेन लिखिते 'यशस्तिलक-चम्पू'- इति ग्रन्थे सूचनां लभामहे। 
                  हरियाणा-प्रदेशस्य इतिहासो हि अनेक-विधानां राजनैतिक-सामाजिक-घटनानां विस्तृतेतिवृत्तं सत् विराजते यस्य विषये अत्र दिङ्गमात्रमेव निर्दिष्टमस्ति | 
भारतस्य हरित-क्रान्तौ समृद्धस्य हरियाणा-प्रदेशस्य योगदानम् -
                 ऊन-विंश-शताब्दस्य षष्ठे दशके [१९६०] देशे प्रवर्तितायां हरित-क्रान्तौ हरियाणा-प्रदेशस्य महद् योगदानमासीत् येन आधुनिकं भारतं खाद्यान्न-सम्पन्नं जातम् । भारतस्य समृद्धतम-राज्येषु अन्यतमस्य हरियाणा-राज्यस्य,  प्रतिव्यक्ति आयमानाधारेण इदं देशस्य द्वितीयं समृद्धतमं राज्यं वर्तते । एतदतिरिच्य, भारते सर्वाधिकाः ग्रामीणाः कोटि-पतयो धनिकाः अपि अस्मिन्नेव राज्ये सन्ति ।  हरियाणा-राज्यम् आर्थिकरूपेण दक्षिण-एशिया-द्वीपस्य विकसिततमं क्षेत्रं वर्तते, अपि चात्र, कृषि-विनिर्माणोद्योगः १९७०-वर्षतः अनारतं वृद्धिमवाप्नोत् । यात्रिणां कारयानानां, द्विचक्रिका-वाहनानां, कृषित्र-[ट्रैक्टर]-यानानाञ्च निर्माणे भारते हरियाणा-राज्यं सर्वोपरि वर्तते। भारते प्रतिव्यक्ति-निवेशाधारेण २०००-तमे वर्षे हरियाणा सर्वोपरि स्थानं भजते स्म । 
हरियाणा-राज्यस्य कला-परम्पराः बहुवर्णीया संस्कृतिश्च  - 
      हरियाणा-राज्यस्य सांस्कृतिक-जीवनेsपि कृषेः अर्थव्यवस्थायाः विभिन्नानाम् अवसराणां समन्वितिः प्रतिबिम्बायते तथा चास्मिन् विराजते प्राचीन-भारतस्य परम्पराणां लोककथानाञ्च भाण्डारः। हरियाणा-प्रदेशस्य एका विशिष्टा भाषित-भाषास्ति, एतस्याञ्च स्थानिकानाम् आभाणकानां सहजं प्रचलनं प्रवर्तते । स्थानीयं  लोकगीतं [विशेषरूपेण...रागिणी] नृत्यञ्च स्वीयाकर्षक-शैली-कारणात् एतद्-राज्यस्य सांस्कृतिक-जीवनं सविशेषं प्रदर्शयतः । एते ओजोभरिते स्थानीय-संस्कृतेः विनोद-प्रियतया च संपृक्ते स्तः। वसन्तर्तौ आनन्दोल्लास-सम्भृते होलिका-पर्वणि जनाः परस्परं ‘गुलाल’-इति रक्तचूर्णं स्नेहेन रागेण प्रेम्णा च प्रक्षिप्य आर्द्र-वर्णैः क्रीडन्ति | अस्मिन् न कस्यचन वयसो वा सामाजिक-योग्यतायाः वा भेदो व्यवह्रियते । हरियाणा-राज्ये जन्माष्टमी - इति भगवतः श्रीकृष्णस्य जन्मदिनस्य विशिष्टं धार्मिकञ्च महत्त्वं वर्तते |
              सूर्यग्रहणावसरे पवित्र-स्नानार्थं अशेष-देशात् लक्ष-लक्षशः श्रद्धालवः कुरुक्षेत्रं समायान्ति । अग्रोहा-(हिसारं निकषा)-पिहोवा-सहितानि अनेकानि प्राचीनानि तीर्थस्थलानि राज्येsस्मिन् विराजन्ते । अग्रोहा- इति अग्रसेन-रूपेण आमान्यते, यो हि अग्रवाल-समुदायस्य, अस्य च उपजातीनां प्रमुखः पूर्वजः वा प्रवर्तकः विश्वस्यते । अत एव अग्रोहा-तीर्थं सम्पूर्णस्य अग्रवाल-समुदायस्य जन्मभूमिः अस्ति । भारतस्य व्यापारि-वर्गेषु प्रमुखोsयं समुदायः साम्प्रतम् अशेष-देशे प्रसृतोsस्ति । अग्रसेनस्य जन्मभूमेः सम्मानस्वरूपोsयं समुदायः कतिपय-वर्षेभ्यः प्रतिष्ठापितवान् ।
              वैदिक-सन्दर्भाणाम् अनुसारेण कला-ज्ञानयोः देव्याः, सरस्वत्याः [सरितः] तट-स्थितं पिहोवा-तीर्थस्थलं पूर्वजानां श्राद्ध-हेतोः पिंडप्रदानाय महत्त्वाधायि-पवित्र-स्थलत्वेन आमान्यते । विभिन्न-देवतानां सत्पुरुषाणाञ्च स्मृतौ आयोज्यमानानि मेलकानि हरियाणा-संस्कृतेः महत्त्वपूर्णाङ्गत्वेन वर्तन्ते। अनेकेषु स्थानेषु पशु-मेलकान्यपि आयोज्यन्ते । क्षेत्रमेतत् उत्त्तम-जातेः दुग्ध-दायिनां पशूनां, विशेषेण च, महिषाणां कृषि-योग्यानां वर्ण-संकर-प्रजातीनां च पशूनां कृतेsपि सुख्यातमस्ति ।
              ‘हवेलियां’ - इति हरियाणा-प्रदेशस्य पारम्परिकाः पारिवारिकावासाः   वास्तुशिल्पस्य सुन्दरता-हेतोः, विशेषेण च तेषां द्वाराणां संरचना-कारणात् अभिज्ञायन्ते । एतेषां ‘हवेलियां’ - इति पारिवारिकावासानां द्वाराणाम् अभिकल्पनं [designing] हस्तकौशलञ्च न केवलं विविधता-युक्तम्, अपि तु, एतेषु उत्कीर्णा विभिन्न-विषयाणां शृंखलापि विस्मयकारिणी वर्तते | एते पारम्परिकाः पारिवारिकावासाः हरियाणा-राज्यस्य वीथीनां मध्ययुगीन-स्वरूपं सौन्दर्यञ्च विस्तारयन्ति । एतेषु भवनेषु बहवः आलिन्दाः [चबूतरे] भवन्ति, ये नाम आवासीयानां सुरक्षायाः धार्मिकाणां न्यायालयीयानाञ्च कार्याणां कृते समुपयुज्यन्ते । एतानि भवनानि निज-स्वामिनां सामाजिक-स्थितिमपि संकेतयन्ति । एतेषु आलिन्देषु उत्कीर्णाः कलाकृतयः अस्य क्षेत्रस्य समृद्धं सांस्कृतिकं वंशानुगतं च रिक्थं स्मारयन्ति ।
                   संक्षेपेण वक्तुं शक्यते यत् एताभिः अनेक-प्रकारिकाभिः विशेषताभिः समन्वितस्य हरियाणा-राज्यस्य विषये एतादृक्-लघु-निबन्धः एव नैवास्ति अलम् | विस्तृत-ग्रन्थस्य माध्यमेनैव वयं हरियाणा-राज्यस्य कलानां संस्कृतेः इतिहासस्य च विषये समग्रां सूचनामधिगन्तुं शक्नुमः |

Tuesday, 17 October 2017

दीपावलिः

वि के हरीशः
  दीपावलिः भारतवर्षस्य एकः महान् उत्सवः अस्त्ति । दीपावलि इत्युक्ते दीपानाम् आवलिः । अयम् उत्सवः कार्तिकमासास्य अमावस्यायां भवति । कार्त्तिकमासस्य कृष्णपक्षस्य त्रयोदशीत: आरभ्य कार्त्तिकशुद्धद्वितीयापर्यन्तं ५ दिनानि यावत् आचर्यते एतत् पर्व । सायंकाले सर्वे जनाः दीपानां मालाः प्रज्वालयन्ति । दीपानां प्रकाशः अन्धकारम् अपनयति । एतत्पर्वावसरे गृहे, देवालये, आश्रमे, मठे, नदीतीरे, समुद्रतीरे एवं सर्वत्रापि दीपान् ज्वालयन्ति । प्रतिगृहं पुरत: आकाशदीप: प्रज्वाल्यते । दीपानां प्रकाशेन सह स्फोटकानाम् अपि प्रकाश: भवति । पुरुषाः स्त्रियः बालकाः बालिकाः च नूतनानि वस्त्राणि धारयन्ति आपणानां च शोभां द्रष्टुं गच्छन्ति । रात्रौ जनाः लक्ष्मीं पूजयन्ति मिष्टान्नानि च भक्षयन्ति । सर्वे जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति, सुधया लिम्पन्ति सुन्दरैः च चित्रैः भूषयन्ति । ते स्वमित्रेभ्यः बन्धुभ्यः च मिष्टान्नानि प्रेषयन्ति । बालकाः बालिकाः च क्रीडनकानां मिष्टान्नानां स्फोटकपदार्थानां च क्रयणं कुर्वन्ति । अस्मिन् दिवसे सर्वेषु विद्यालयेषु कार्यालयेषु च अवकाशः भवति । भारतीयाः इमम् उत्सवम् प्रतिवर्षं सोल्लासं समायोजयन्ति । एवं सर्वरीत्या अपि एतत् पर्व दीपमयं भवति । अस्य पर्वण: दीपालिका, दीपोत्सव:, सुखरात्रि:, सुखसुप्तिका, यक्षरात्रि:, कौमुदीमहोत्सव: इत्यादीनि नामानि अपि सन्ति । अस्मिन्नवसरे न केवलं देवेभ्य: अपि तु मनुष्येभ्य: प्राणिभ्य: अपि दीपारतिं कुर्वन्ति ।

इदं कथ्यते यत् अस्मिन् दिवसे रावणं हत्वा रामः सीतया लक्ष्मणेन च सह अयोध्यां प्रत्यागच्छत् । तदा अयोध्यायाः जनाः अतीव प्रसन्नाः अभवन् । अतः ते स्वानि गृहाणि दीपानां मालाभिः आलोकयन् । ततः प्रभृति प्रतिवर्षम् तस्मिन् एव दिवसे एषः उत्सवः भवति ।

नीराजयेयुदेर्वांस्तु विप्रान् गावतुरङ्गमान् ।
ज्येष्ठान्पूज्यान् जघन्यां मातृमुख्या योषित: ॥ इति उक्तम् अस्ति ।
दीप: ज्ञानस्वरूप:, सर्वविद्यानां कलानां च मूलरूप: । सत्तामात्रं निर्विशेषं निरीहं स त्वं साक्षात् विष्णुरध्यात्मदीप: । इति वदति भागवतम् । हृदयकमलमध्ये दीपवद्वेदसारम् इति उच्यते गुरुगीतायां स्कान्दपुराणे च । यद्यपि दीपावली सर्वैरपि आचर्यते तथापि विशेषतया वैश्यपर्व इति उच्यते । एतदवसरे धनदेवताया: महालक्ष्म्या:, धनाध्यक्षस्य कुबेरस्य च पूजां कुर्वन्ति ।

पूजनीया तथा लक्ष्मीर्विज्ञेया सुखसुप्तिका ।
सुखरायां प्रदोषे तु कुबेरं पूजयन्ति हि ॥
एतत् केवलं धनसम्बद्धं पर्व न । अत्र महालक्ष्मी: केवलं धनदेवता न । श्रेयस: सर्वाणि अपि रूपाणि लक्ष्मीस्वरूपाणि एव । सा धर्मलक्ष्मी: मोक्षलक्ष्मी: अपि । वैश्या: तद्दिने लक्ष्मीपूजां कृत्वा नूतनगणनाया: आरम्भं कुर्वन्ति । तमिळुनाडुराज्ये चतुर्दशीदिनं दीपावली इति, कर्णातके चतुर्दशी-प्रतिपत् च दिनद्वयं दीपावली इति वदन्ति ।

त्रयोदश्यां सायङ्काले स्नानगृहं तत्रत्यानि पात्राणि च स्वच्छीकृत्य शुद्धं जलंपूरयन्ति । तत् जलपूरणपर्व इति वदन्ति । तद्दिने रात्रौ अपमृत्युनिवारणाय यमधर्मराजस्य सन्तोषाय च गृहस्य बहिर्भागे दीप: प्रज्वालनीय: इति वदति स्कान्दपुराणम् । तस्य दीपस्य नाम एव यमदीप: इति ।

कार्त्तीकस्यासिते पक्षे त्रयोदश्यां निशामुखे ।
यमदीपं बहिर्दद्यात् अपमृत्युर्विनश्यति ॥ (स्कान्दपुराणम्)
मृत्युना पाशदण्डाभ्यां कालेन श्यामया सह ।
त्रयोदश्यां दीपदानात् सूर्यज: प्रियतां मम ॥ (स्कान्द-पद्म-पुराणे)
चतुर्दश्यां प्रात:काले सर्वेपि अभ्यङ्गस्नानं कुर्वन्ति । एतद्दिने एव श्रीकृष्ण: नरकासुरं संहृत्य प्रात: अभ्यङ्गं कृतवान् आसीत् । अनेन स्नानेन नरकान्तक: नारायण: सन्तुष्ट: भवति । नरकभीति: निवार्यते । तद्दिने प्रात:काले तैले लक्ष्मी:, जले च गङ्गा निवसत: इति । तैलजलयो: उपयोगं कृत्वा य: स्नाति स: यमलोकं न गच्छति, तस्य अलक्ष्मीपरिहार: अपि भवति इति विश्वसन्ति ।

”तैले लक्ष्मीर्जले गङ्गा दीपावल्याचतुर्दशीम् ।
प्रात:काले तु य: कुर्यात् यमलोकं न पश्यति ॥“ (पद्मपुराणम् - ४-१२४)
”अलक्ष्मीपरिहारार्थम् अभ्यङ्गस्नानमाचरेत् ।” (नारदसंहिता)
तद्दिने विभिन्नानां चतुर्दशशाकानां भक्षणपद्धति: अपि कुत्रचित् अस्ति ।

”अत्र आचारात् चतुर्दशशाकभक्षणं च कर्तव्यम् ॥ इति उक्तिरपि श्रूयते ।
रात्रौ च ज्वलन्तम् आलातं गृहीत्वा पित्रृभ्य: मार्गदर्शनम् अपि कुर्वन्ति ।
यमाय धर्मराजाय मृत्यवे चान्तकाय च ।
वैवस्वताय कालाय सर्वभूतक्षयाय च ॥
औदुम्बराय दध्नाय नीलाय परमेष्ठिने ।
वृकोदराय चित्राय चित्रगुप्ताय वै नम: ॥
इति यमधर्मराजस्य चतुर्दशनामानि वदन्त: तस्मै तिलतर्पणं समर्पयन्ति । तद्दिने रात्रौ नरकपरिहाराय देवालयेषु, मठेषु, वृन्दावनेषु, गृहेषु, गृहात् बहि: प्राङ्गणे, आयुधशालासु, नदीतीरे, दुर्गेषु, कूपसमीपे, अश्वशालासु, गजशालासु मुख्यमार्गेषु च दीपान् ज्वालयन्ति । नरकासुरस्य स्मरणार्थं वर्त्तिकाचतुष्टययुक्तम् एकं दीपम् अपि ज्वालयन्ति । महाविष्णुं, शिवं, महारात्रिदेवता: च पूजयित्वा रात्रौ केवलं भोजनं कुर्वन्ति । मधुरभक्ष्याणां वितरणम् अपि कुर्वन्ति ।

अमावास्यायाम् अपि प्रात:काले अभ्यङ्गस्नानं कृत्वा लक्ष्मीपूजां कुर्वन्ति । ल्क्ष्म्या: पूजनेन दारिद्य्रं दौर्भाग्यं च नश्यति इति । अभ्यङ्गस्नानस्य जले उदुम्बर-अश्वत्थ-आम्र-वट-प्लक्षवृक्षाणां त्वगपि योजयन्ति । स्नानानन्तरं महिला: पुरुषाणाम् आरतिं कुर्वन्ति । नरकासुरेण बन्धने स्थापिता: १६ सहस्रं कन्या: बन्धमुक्ता: सन्त्य: कृतज्ञतासमर्पणरूपेण कृष्णस्य आरतिं कृतवत्य: आसन् एतद्दिने । देवपूजया सह पितृपूजाम् अपि कुर्वन्ति । तद्दिने गृहे सर्वत्र दीपान् ज्वालयन्ति । नृत्य-गीत-वाद्यै: सन्तोषम् अनुभवन्ति । नूतनानि वस्त्राभरणानि धरन्ति । रात्रौ जागरणं कुर्वन्ति । तद्दिने अलक्ष्मी: निद्रारूपेण आगच्छति इति भेरि पणवानकै: महाशब्दं कुर्वन्ति निद्रानिवारणाय । अस्मिन् दिने वणिज: गणनापुस्तकस्य पूजां कृत्वा ग्राहकेभ्य: मधुरभक्ष्याणि ताम्बूलं च वितरन्ति । लक्ष्म्या सह धनाध्यक्षं कुबेरम् अपि पूजयन्ति ।
-कूष्माण्ड-मुरनामकानां राक्षसानाम् अपि चित्राणि लिखन्ति । कर्णकुण्डलकिरीटै: शोभमानं बलिं विभिन्नै: कमलपुष्पै:, गन्ध-धूप-दीप-नैवेद्यै: पूजयन्ति । स्वर्णेन अथवा स्वर्णवर्णपुष्पै: तस्य पूजां कुर्वन्ति ।

”बलिराज नमस्तुभ्यं विरोचनसुत प्रभो ।
भविष्येन्द्र सुराराते विष्णुसान्निध्यदो भव ॥“
पूजेयं प्रतिगृह्यताम् इति प्रार्थयन्ति । एतद्दिने महादानी बलिचक्रवर्ती वामनावतारिण: विष्णो: सकाशात् प्राप्तस्य वरस्य अनुगुणं भूलोकं द्रष्टुम् आगच्छति इति । अत: बलिम् उद्दिश्य तद्दिने यानि दानानि दीयन्ते तानि अक्षयफलदायकानि भवन्ति, नारायणस्य सन्तोषम् अपि जनयन्ति इति वदति भविष्योत्तरपुराणम् ।

”बलिमुद्दिश्य दीयन्ते बलय: कुरुनन्दन ।
यानि तान्यक्षयाण्याहु: मय्येवं सम्प्रदर्शितम् ॥“ (भविष्योत्तरपुराणम् - १४०-५७)
एतद्दिने पार्वतीशिवौ द्यूतं कीडितवन्तौ । तत्र पार्वत्या जय: प्राप्त: इति वदति ब्रह्मपुराणम् । तस्य स्मरणार्थं तद्दिने द्यूतम् अपि क्रीडन्ति कुत्रचित् । तत्र य: जयं प्राप्नोति स: वर्षपूर्णं जयं प्राप्नोति इति विश्वास: ।

”तस्मात् द्यूतं प्रकर्तव्यं प्रभाते तत्र मानवै: ।
तस्मिन् द्यूते जयो यस्य तस्य संवत्सर: शुभ: ॥“
एतद्दिने एव श्रीकृष्ण: गोवर्धनपर्वतम् उन्नीय गोकुलस्य रक्षणं कृतवान् इति । अत: तस्य दिनस्य स्मरणार्थं गोपूजाम् आचरन्ति । तद्दिने गोवृषभेभ्य: विश्रान्तिं यच्छन्ति । गोवृषभान् स्नापयित्वा अलङ्कुर्वन्ति । तेषां पूजां कृत्वा नैवेद्यं समर्पयन्ति । गोवर्धनपर्वतस्य गोपालकृष्णस्य च पूजां कुर्वन्ति । पर्वतं गन्तुम् अशक्ता: तस्य विग्रहं, चित्रं वा पूजयन्ति । गोवर्धनपूजाम् अन्नकूट: इति वदन्ति । गोपालेभ्य: नैवेद्यरूपेण अन्नसन्तर्पणं व्यवस्थापयन्ति च एतद्दिने ।

अग्रिमं दिनम् अस्ति कार्त्तीकशुद्धद्वितीया । एतद्दिनं भ्रातृद्वितीया, यमद्वितीया, भगिनीद्वितीया इति अपि वदन्ति ।

”यमं च यमुनां चैव चित्रगुप्तं च पूजयेत् ।
अर्घ्यात्र प्रदातव्यो यमाय सहजद्वयै: ॥“

एतद्दिने एव यमदेव: भगिन्या: यमुनादेव्या: गृहं गत्वा आतिथ्यं प्राप्तवान् इति । अत: पुरुषा: सर्वे यमाय यमुनादेव्यै च अर्घ्यं समर्प्य भगिनीनां गृहं गच्छन्ति भोजनार्थम् । भगिनीभ्य: उपायनानि दत्त्वा ता: सन्तोषयन्ति च । मार्कण्डेयादीनां चिरञ्चीवीणां स्तोत्रं कुर्वन्ति । तद्दिने विशेषतया यमुनानद्यां स्नात्वा तां पूजयन्ति । एतत् दिनं दीपावलीपर्वण: अन्तिमं दिनम् । एवं ५ दिनानि आचरन्ति दीपावलीपर्व ।

”उपशमित मेघनादं प्रज्वलित दशाननं रमितरामम् ।
रामायणमिव सुभगं दीपदिनं हरतु वो दुरितम् ॥“ (भविष्योत्तरपुराणम् - १४० - ७१l

रामायणे मेघनाद: (इन्द्रजित्) यथा शान्त: तद्वत् एतत् पर्वावसरे मेघ: शान्त: जात: भवति । रामायणे दशमुखरावण: यथा दग्ध: भवति तथा अस्मिन् पर्वणि दशामुखं (वर्त्तिका) दहति । रामायणे राम: यथा रमते तद्वत् अस्मिन् पर्वणि सर्वे जना: रमन्ते । एवं रामायणमिव रमणीयं दीपावलीपर्व अस्माकं पापानि नाशयतु इति वदति अयं श्लोकः ll

Friday, 11 August 2017

Research Article No: 20170811
  संस्कृतकवयित्रीणां सामान्यपरिचयः     लेखनम्

Silpa N.S 
Research scholar,
Dept. Of Vyakarana
Sree Sankaracharya University of Sanskrit, Kalady.

              विश्ववाङ्मये संस्कृतसाहित्यस्य स्थानम् उन्नतमस्ति। अनेके पाश्चात्याः विद्वांसः अपि संस्कृतसाहित्यं प्रति मुग्धाः परिलक्ष्यन्ते। संस्कृतस्य प्रतिभाधनाः कवयः विश्वप्रसिधिं  प्राप्नुवन्। कविरत्नभूताः कवयित्र्यः अपि संस्कृतसाहित्ये आदरणीयं स्थानमलङ्कुर्वन्ति।
                     वैदिककालादारभ्य आधुनिककालपर्यन्तं स्त्रियः स्वसृजनतायाः योगदानं संस्कृतसाहित्याय प्रयच्छन्त्यः सन्ति। कवयित्रीणां समृद्धपरम्परा भारतदेशे द्रष्टुं शक्यते। स्त्रियः द्वारा रचितं साहित्यं न्यूनमस्ति। पारिवारिक तथा सामाजिकावरोधः बन्धनं च स्त्रीणां प्रतिभायाः न्यूनतायाः हेतुरभवन्। प्रतिभा अस्ति चेदपि कोपि न जानाति।
                 भारतीयजीवनव्यवस्था पुरुषप्रधाना इत्यस्मात् साहित्यक्षेत्रेपि स्त्रीणां योगदानं न्यूनमस्ति। अतः तासां योगदानम् अधिकतया प्रेरणारूपेण आसीत्, स्रष्टारूपेण न्यूनं च।
वैदिककालः
                 लिखितप्रमाणेषु ऋग्वेदः प्राचीनतमः अस्ति। तस्मिन् काले महिलानां सामाजिकस्थितिः उन्नताः, स्त्रियः शिक्षिताः च मन्त्राणां द्वारा ज्ञायते। ऋग्वेदे स्त्रीणाम् ऋचः उपलभ्यन्ते। ऋषिकाः इति नाम्ना अभिहिताः ताः वेदशास्त्रेषु पारङ्गताः भुत्वा काव्यरचनामकुर्वन्। ऋग्वेदे सामवेदे च आहत्य एकविंशति महिलानां नामानि विद्यन्ते। अधिकाधिकं भक्तिगीताः विरचिताः अभवन्। ऋग्वेदकालीनकवयित्रीणां नामानि तु एवमुच्यन्ते- विश्ववारा आत्रेयी, वागम्भृणी, ब्रह्मवादिनी सूर्या, लोपामुद्रा, रोमशा, घोषा, शश्वती, श्रद्धा, काक्षीवती, कामायनी च।
1. ब्रह्मवादिनी सूर्या
                सावित्री सूर्या ब्रह्मवादिनी नाम्ना प्रसिद्धा अभवत्। सा स्वस्याः तपश्चर्यायाः प्रभावेण ऋग्वेदस्य दशममण्डलस्य पञ्चाशीतिसूक्तस्य सम्पूर्णसप्तचत्वारिंशत् ऋचः सूर्या सूक्तमित्याख्यं व्यरचयत्। तस्याः मन्त्रेषु प्रेमभावस्य महत्त्वं दृश्यते। सा स्त्री-पुरुषयोः समानतायाः विशिष्टतलमप्यददत्। तस्मात् भारते अद्यापि विवाहसंस्कारविधौ ते मन्त्राः प्रयुज्यन्ते। सूर्यसावित्र्याः विवाहसम्बन्धेषु मन्त्रेषु विवाहस्य आदर्शम् आधारितमस्ति।
2. विश्ववारा आत्रेयी
                विश्ववारा इति तस्याः नाम, आत्रेयी कुलनाम च। सा अत्रिमहर्षेः परम्परायां जाता। अत्रिमहर्षेः पत्न्या अनसूयया तपोबलेन मन्दाकिनी नदीं प्रवाहितवती। आत्रेयी विश्ववारा तु काव्यस्य सरः मन्दाकिनी प्रवाहितवती इति काचन उक्तिरस्ति। तया त्रिष्टुप्, जगती, अनुष्टुप् इत्यादि छन्दसः उपयुज्यन्ते। एकस्यैव सूक्तस्य ऋषिका सा अस्य सूक्तस्य विषयवस्तुनः दृष्ट्या एकस्याः कवयित्र्याः जीवनस्य सम्पूर्णतां दर्शयति। सा सद्गृहिणी आसीदिति सूक्तपठनेन ज्ञायते।
"समिद्धो अग्निर्दिविशोचिरश्रेत् प्रत्यङुषसमुर्विया विभाति।
प्रति प्राची विश्ववारा नमोभिर्देवाँ ईळाला हविषा घृताची।।"
3. वागम्भृणी
                वागम्भृणीनामकऋषिकायाः मतानुसारं यदा विश्वस्य भूतानाम् आत्मनि सर्वभूतानि दृश्यन्ते, सर्वभूतेषु चात्मानं दृशेयन्ते च तदा ऋषिः मन्त्रद्रष्टा भविष्यतीति। तस्याः जीवनकालः अन्यकार्याणि च न ज्ञायते। तया विरचिताः केचन मन्त्राः लभ्यन्ते।
                 यस्य मनसि औदार्यभावं नास्ति तस्य कृते विश्वे किमपि मूल्यं न प्राप्स्यतीति तया मन्त्रैः सूच्यते। दानं विना स्वीकारः तस्याः अभीष्टं नासीत्। सा स्वमन्त्रैः मानवीयशक्तिषु ब्रह्मणः आलेखनं करोति।
"श्रोत्रस्य श्रोत्रं मनसो मनो यद् वाचो ह वाचं स उ प्राणस्य प्राणम्।
चक्षुषश्चक्षुरतिमुच्य धीरा प्रेत्यास्माल्सोकदमृता भवन्ति।।"
                ब्रह्मशक्तेः अनुपस्थितौ अस्माकं श्रोत्र-नेत्रादि अवयवाः शक्तिहीनाः भविष्यन्तीति अस्य सारः। तस्याः दृष्ट्याः ब्रह्मज्ञानग्रहणं विना उन्नतिं न प्राप्नोति। ब्रह्मज्ञानं तु अन्तः ज्ञानमेव तद् बाह्यजगतः न प्राप्नोति।

Monday, 17 April 2017

 Dr. Abhilash J
Research Article No: 20170417
शिक्षया विश्वहितम्     लेखनम्

विद्यया मृत्युं तीर्त्वा विद्यया अमृतमश्नुते इति वेदघोषः। सा विद्या एव प्रकृष्टा या मुक्तिं ददाति। उपनिषदनुसारेण परा अपरा इति विद्ये द्वे स्तः। यया विद्यया लैकिकं ज्ञानं जायते सा अपराविद्या। यया च अक्षरब्रह्मविषयकं ज्ञानं जायते सा परा विद्या। विद्या शब्दस्य अपरं नाम भवति शिक्षा इति।
 
     शिक्षायाः शाब्दिकार्थः- शिक्ष् विद्योपादाने इति धातोः निष्पन्नः शिक्षा शब्दः। यस्य च अर्थः भवति शिक्षणम् अध्ययनं वा। शिक्षायाः अर्थः भवति व्यक्तेः आन्तरिकशक्तेः बहिरानयनं अथवा अन्तस्थशक्तीनां बहिर्निष्क्रमणम्। पुनः शिक्षापदस्य निर्देशः, शिक्षणम्, प्रशिक्षणं, अनुशासनं, पालनपोषणं,संस्कृतिः इत्याद्यर्थाः च प्रतीयन्ते।

     शिक्षायाः व्यापकार्थः- शिक्षायाः व्यापकार्थे शिक्षा नाम आजीवनं प्रचलन्ती काचित् गतिशीला प्रक्रिया भवति। व्यापकार्थे शिक्षायाः कार्यं जीवनपर्यन्तं  प्रचलत् भवति। व्यक्तिः जन्मतः मृत्युपर्यन्तं किमपि किमपि शिक्षते। व्यक्तिः परिवारे , समाजे,बन्धुवर्गे, क्रीडोद्याने, आपणे, यात्रायां, उद्यानादिषु च क्रमशः शिक्षते। एवं शिक्षायाः क्षेत्रम् अतीव विस्तृतं भवति। आधुनिक शिक्षाशास्त्रिणां मते शिक्षा आगर्भात् चितापर्यन्तं प्रचलति इति।

     शिक्षायाः सड्कुचितार्थः- विद्यालये प्रदीयमाने शिक्षा इति अस्याः सड्कुचितार्थः। अस्यामभिप्रायः यत् बालकः निश्चितयोजनानुसारं, निश्चितसमयानुगुणं, निश्चितपाठ्यक्रमानुसारं,निश्चितोद्देश्यमाधारीकृत्य निश्चितविधिमाश्रित्य निश्चितेभ्यः अध्यापकेभ्यः शिक्षां प्राप्नोति। अत्र सर्वमपि पूर्वयोजनानुगुणं भवति।

     शिक्षायाः विश्लेषणात्मकः अर्थः- शिक्षायाः अर्थः विद्यालये प्रदीयमान ज्ञाने सीमिता न भवेत्, परं जन्मसमयादारभ्य मृत्युपर्यन्तं प्रचाल्यमाना क्रिया भवति। शिक्षा बालकस्य जन्मजातशक्तेः विकासार्थं भवति।

     शिक्षायाः वास्तविकार्थः- शिक्षायाः वास्तविकार्थः सर्वाड्गीणविकासः भवति। अर्थात् शिक्षा तादृशी एका प्रक्रिया भवति यया मनुष्यस्य जन्मजातशक्तीनां स्वाभाविकसामञ्जस्यपूर्णविकासः च प्रस्फुटितः भवति। सर्वाड्गीणविकासः इत्युक्ते शारीरिक, मानसिक,संवेगात्मक,सामाजिक,नैतिक,आध्यात्मिकश्च विकासः। एवं सर्वाड्गीणविकासयुक्तः छात्रः समाजस्य सदस्यरूपेण समाजं प्रति राष्ट्रं प्रति च स्वदायित्वस्य निर्वहणे समर्थः भवति। पुनः तस्य व्यवहार विचार आचारादीनां विषये मर्यादानुगुणं परिवर्तनं संभवति। तेन समाजस्य देशस्य तथा विश्वपरिवारस्य च हितं भवति।
--------------------------------

Tuesday, 23 August 2016

संस्कृतिक-पुनर्जागरणार्थं संस्कृतम्


संस्कृतिक-पुनर्जागरणार्थं  संस्कृतम्                              डा . बलदेवेनन्दसागरः
Sanskrit in Cultural Renaissance                  संस्कृतवार्ताप्रचारकः, आकाशवाणी/दूरदरशनम्



शुभेऽस्मिन् अवसरे वेदिकोपरि विराजमानाः मान्याः अध्यक्षाः , आदरणीयाः च केरलराज्यस्य सामान्यशिक्षाविभागीयाः अधिकारिणः कोषिक्कोट्नगरस्य टागोर शताब्द सभागृहे समुपस्थिताः अत्रभवन्तो भवन्तः संस्कृतसेवाव्रतिनः विद्वांसःसंस्कृतानुरागिणः च केरलराज्यस्य संस्कृतशिक्षकाः !!

भवद्भ्यः सर्वेभ्यः सविनयं प्रणम्य निवेदयामि यत् एकदिवसानन्तरम् एव राष्ट्रियराजधान्यां दिल्यां सुख्याते अक्षरधाम्नि भारतीयसंस्कृत- पत्रकार संघेन द्विदिवसीया पञ्चमी राष्ट्रियसंस्कृतपत्रकारसंगोष्ठी आयोज्यते तदुपकल्पनेषु अतितरां व्यापृतोहं मित्रवर्येण श्रीमता सनल् चन्द्रेण अत्रागमनार्थं साग्रहं सूचितः । कतिपयहोरार्थमेव आगन्तव्यमिति राष्ट्रियमिदं केरलसंस्कृतशिक्षकसम्मेलनमिति च परिभाव्य आगन्तव्यम् । एतद् आमन्त्रणार्थं हार्दिकान् साधुवादान् व्यवहरामि ।

भवतां सर्वेषां स्नेहाकृष्टोहं समुपस्थितोमि । आनन्दसन्दोहञ्च अशुभवामि। भवन्तो जानन्ति एव भारतनामेदं राष्ट्रं अतिविशालम्। भारतराष्ट्रे वर्तन्ते अनेकानि राज्यानि तेषु केरलं अन्यतमम्। एष पावना समृद्धा च केरलभूमिः सर्वैरपि  वन्द्यते अभिनन्द्यते च।

भारतस्य वर्णनं कुर्वन् कविकुलगुरुः कालिदासः स्वीये रमणीये महाकाव्ये कुमारसम्भवे आद्ये श्लोके निगदति-


अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः।
पर्वापरौ तोयनिधिं वगाह्य स्थितः पृथिव्या  इव मानदण्डः।।
देवाः अपि  अस्य राष्ट्रस्य यशोगीतानि गायन्ति। भवद्भिः श्रुतं स्यात् यदिह विष्णुपुराणे प्रोक्तम्
गायन्ति देवाः किस गीतकानि
धन्यास्तु ते भारतभूमि भागे ।
स्वर्गापवर्गस्पदमार्गभूते भवन्ति
भूयः पुरुषाः सुरत्वात् ।।

अस्याः भारतभूमेः रात्रिः रम्या, दिवसः दिव्यकर्मप्रेरकः, सन्धा सौन्दर्यमयी, प्रभातश्च प्रमोदकः। अत एव प्रतिदिनं प्रभाते भवन्तः श्रुण्वन्तु -  इयम् आकाशवाणी, सम्प्रता वार्त्ताः श्रूयन्तां........ प्रवाचकः ........
अयमेव सः   सुरभारतीसेवकः।

जगति विदिततरमिदं यत् भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्था संस्कृतं विना भारतं नाहि भारतम्।
किं नाम संस्कृतं  का नाम संस्कृतिः च?
एतत् अवगम्य एव सांस्कृतिक-पुनर्जागरणे वयं संस्कृतस्य महत्वम् आवश्यकतां च अवगन्तुं शक्ष्यामः।
कानिचित् एतानि लघु लघूनि सूत्राणि भवद्भिः श्रुतानि स्युः। भूमा वै सुखं नाल्पे सुखमस्ति, तेन त्यक्तेन भुञ्जीथाः ,  चरन्  वै मधु विदन्ति,  चरैवेदि, रूपं रूपं प्रतिरूपो बभूव सह वीर्यं करवावहै , संगच्छध्वं संवदध्वं,  वसुधैव कुटुम्बकम् एतानि सूक्तानि भारतीय प्रज्ञायाः वैदिकमनीषायाः च हार्दं भावं प्रकटयन्ति। एषा अस्ति भारतीया संस्कृतिः । उत वा वक्तुं शक्यते यत् एतदस्ति भारतीयसंस्कृतेः आभ्यन्तरीणं रूपम्।

अपि च मातृदेवो भव  , पितृदेवो भव , आचर्यदवो भव, अतिथिदवो भव , स्वाध्याय प्रवचनाभ्यां न प्रमदितव्यं यानि अस्माकं सुचरितानि तानि त्वया उपन्यासानि नेतराणि।
एतदस्ति भारतीयसंस्कृतेः बाह्यस्वरूपं यत्र वयं सर्वमपि  शिक्षणं प्रशिक्षणं च संस्कारत्वेन परिभावयामः। अत एव सर्वे वदन्ति संस्कृतं
 संस्कारयति विश्वम्  । अत एव भारतीयः ऋषिः उद्बोधयति -
एतद्देशप्रसूतस्य सकाशादग्रजन्मनः ।
स्वं स्वं चरित्रं शिक्षरन् पृथिव्यां सर्वमानवाः।।
( मनुस्मृतिः )
अद्वतीयायाः अस्याः भारतीयसंस्कृतेः प्रकाशिका संवाहिका च अभिव्यक्तिरूपा अस्ति संस्कृतभाषा......!!!

न केवलं  एषा भाषा, अपि तु ध्वनि विज्ञानम् इति आधुनिकाः अपि भौतिकविज्ञानो वदन्ति। अत एव सड़्गणकविज्ञानार्थम् अतितरां समुचिता समुपयोगीनि वर्तते संस्कृतभाषा।

एवमस्ति चेत् कथं नैषा , विद्यालयेषु  आरम्भादेव पाठनीया शिक्षणीया च? ज्ञानं विज्ञानं कला शिल्पं  साहित्यं चेत्यादि विषयाः न कदापि कस्यापि वर्गविशेषस्य जातिविशेषस्य चाधिकारक्षेत्रे प्रवर्तन्ते। अत्र तु स्वयमेव मृगेन्द्रता इति विभावनीयम्। काले काले शुभासु स्वस्थासु दिव्यासु च परस्परासु  विकारः भवति , कालप्रभावात् युगप्रभावात् चैवं भवत्येव। गीतायां प्रोक्तं-
काम एष क्रोध एष रजोगुण समुद्भवः....
अत एव रजोगुणमयं परिदृश्यं प्रतीकर्तुं सत्वगुणमयं च परिवेषं विवर्धयितुं सुदृढीकर्तुं चापि संस्कृतस्य शिक्षणं प्रशिक्षणं चावश्यकम्।
केरलप्रशासनं संस्कृतस्य कृते भूरिशः प्रयतते इति  वृत्तान्तं मोदावहम् । परञ्च यदि अत्र केरले एका केरलसंस्कृत-अकादमीं स्थाप्यते चेत् राज्ये संस्कृतजीवनं सज्जीवनं तत् सर्वेषामपि कृते लाभप्रदं सेत्स्यति इति मे मतिः । भवतां सर्वेषामपि सर्वविधं शुभं कामयमानः  पुनः पुनः साधुवादान् वितरामि इति शम्।
जयतु भारतम्.... जयतु  संस्कृतम् ।।

Sunday, 21 August 2016

शिक्षाशास्त्रम्।


शिक्षाशास्त्रम्।
विपिन् जि नायर्
के जि वि जि यु पि एस् कुण्टरा।

वैदिकानां शब्दानाम् उच्चारणमधिकृत्य प्रवृत्तं शास्त्रं भवति शिक्षाशास्त्रम्। शास्त्रमिदं वेदेड़्गेषु अन्यतमत्वेन प्रथितम्।
छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते।
ज्योतिषामयनं चक्षुः निरुक्तं श्रोत्रमुच्यते ।।
शिक्षा ध्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् ।
तस्मात् साड़्गमधीत्यैव ब्रह्मलोके महीयते।।
इति पाणिनीयशिक्षागतश्लोकप्रामाण्येन षडपि वेदाड़्गानि वेदपुरुषस्य अवयवत्वेनाद्रीयन्ते चेत् शिक्षात्मकम् अड़्गं तत्र ध्राणस्वरूपमिति ज्ञातुं शक्यते।
शिक्षायायः ध्राणत्वप्रतिपादनेन तस्याः वेदेध्ययने अतीवावश्यकत्वम् अड़्गीक्रियते। यद्यपि व्याकणं शरीरस्थोच्चस्थानं मुखस्वरूपं भवति तथापि नासिकायाः मुखोपरि स्थित्या तत्स्थानपन्ना शिक्षैव सर्वोपरि  वरीवर्ति। पदसाधुत्वमात्रविधायकं व्याकरणम् उच्चारणादिविधिविहीनं तत् नासिका विरहितं मुखमिव न शोभते इति शिक्षयाः वेदपुरुषनासिकात्वव्यवहारं सयुक्तिकं सम्पादयति। स्वरवर्णाद्युच्चारणप्रकारो यत्र शास्त्रो शिक्ष्यते, उपदिश्यते सा शिक्षेति सायणाचार्यस्य ऋग्वेदभाष्यभूमिकायामुक्तं दृश्यते।  अनेनावगम्यते यत् येन शास्त्रेण  वेदमन्त्रणाम् उच्चारणं शुद्धं सम्पाद्यते तच्छास्त्रं शिक्षाशास्त्रमिति। वेदे स्वरस्य प्राधान्यं तु सर्वविदितमेव। स्वरज्ञानं च शिक्षामूलकमेव।अत एवेदं शिक्षाशास्त्रं वेदाड़्गत्वेन कल्प्यते। मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह।
स वाग्व्रजो यजमानं हिनस्ति।
यथेन्द्रशशत्रुसावरतोऽपराधात्।।
इति शिक्षावचनं वेदमन्त्रणामुच्चारणे शिक्षाशास्त्रस्य प्राधान्यं प्रमाणयति।

आख्यायिकेयं प्रसिद्धा - विश्वरूपसंज्ञिते
त्वष्टुः पुत्रे इन्द्रेणापहृते सति रूष्टस्त्वष्टा इन्द्रस्य हन्तारं पुत्रमुत्पादयितुमाभिचारपूर्वकं कञ्चन यागं चकार। तत्र इन्द्रशत्रुवर्धस्व इति पदप्रयोगः तत्पुरुषसमासयुक्तः मन्त्रे ऊहितः। तस्मिन्  मन्द्रे तत्पुरुषसमासोक्त अन्तोदात्तत्वे कर्तव्ये बहुव्रीहिप्रयुक्तः अद्युदात्तस्वरः ऋत्विजा प्रयुक्तः।  अतः शब्दस्यार्थान्तराभिधानात् इन्द्रेण इन्द्रहननार्थं त्वष्टजनयितः वृत्रासुरोऽपि हतः।

अतः मन्त्रेषु स्वरदोषो वर्णदोषो वा कथमपि न भवेदिति ज्ञायते। स्वरतः स्वरेण वर्णतः वर्णेन अक्षरेण वा हीनः रहितः मन्त्रः मिथ्या प्रयुक्तः सन् तमभीप्सितमर्थं नाह। सः मन्द्रः वाग्व्रचो भूत्वा यजमानं हिनस्ति हन्ति। यथा स्वरस्य अपराधात् इन्द्रः शत्रुः इति शब्दः यजमानं हिंसितवानिति शिक्षावचनस्य तात्पर्यम्।  अद्यत्वे नैके शिक्षाग्रन्थाः प्रकाशितत्वेन चोपलभ्यन्ते।  बादरायणशिक्षा , पाणिनीयशिक्षा,  नारदशिक्षा, कौडिन्यशिक्षा इत्येवमादयो ग्रन्थास्तत्र प्रमुखाः।  शिक्षाग्रन्थेषु सर्वविदितं प्राशस्त्यं पाणिनीय शिक्षायेव आवहन्ति।  यतो हि पाणिनीयं व्याकरणं न केवलं लौकिकमात्रम् अपि तु वैदिकानमपि शब्दानां साधुत्व कल्पकमेव।  अतः पाणिनीयस्य लौकिकवैदिकेत्युभयविधव्याकरणस्य व्युत्पादकत्वेन तत्सम्बन्धा शिक्षा इतरशिक्षाग्रन्थेभ्यः प्रसिद्धिमलभत।

शिक्षाशास्त्रे प्रतिपाद्यतया बहवो विषयाः उपतिष्ठन्ते। तत्र वर्णानां भेदः उदात्तानुदातस्वरितभेदाः अनुनासिकानामनुनासिकाभेदाः ह्रस्वदीर्धप्लुतभेदाः वर्णोत्पत्तिः वर्णभेदानाम् उच्चारणस्थानानि वर्णनामाभ्यन्तर बाह्यप्रयत्नभेदाः इत्येते अंशाः मुख्यभूताः वर्णानां भेदाः-
मुखसहितनासिकया उच्चार्यमाणः वर्णः अनुनासिकः।

पाणिनीयशिक्षायां वर्णानां भेदमधिकृत्यैवमुच्यते
द्विषष्टिः चतुषष्टिर्वा वर्णाः शम्भुमते मताः।
प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयंभुवा
स्वराः विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः
यादयश्च स्मृता ह्यष्टौ  चत्वारश्च यमाः स्मृताः।
अनुस्वारो विसर्गश्च ख फौ चापि पराश्रितौ
दुःस्पृष्टश्चेति विज्ञेयो लृकारः प्लुत एव च।। इति।

संस्कृतभाषायां स्वरः सन्ति एकविंशतिः । अ इ उ ऋ इत्येते चत्वारः वर्णाः ह्रस्वदीर्धप्लुतभेदात् द्वादश सन्ति। ए ऐ ओ औ इतीमे वर्णाः चत्वारः दीर्धप्लुत भेदात् अष्टौ तेषां ह्वस्वभावात्। लृकारो ह्रस्वः एक एव इति मते लृकारः एक एव। संकलनया स्वरवर्णाः एकविंशतिर्जाता। ककारादरभ्य मकारपर्यन्तं स्पर्शाख्या पञ्चविंशति वर्णाः सन्ति। यमसंज्ञकाः चत्वारः वर्णाः प्रातिशाख्ये प्रसिद्धाः। वर्गेषु अद्यानां चतुर्णां पञ्चमे परे मध्ये पूर्वसदृशाः वर्णाः यमाख्याः। अनुस्वारविसर्गौ इति द्वौ। क फ इति कफाभ्यां प्रागर्धविसर्गसदृशौ जिह्वामूलीयोपध्मानीयौ द्वौ। द्वयोर्स्वरयोरध्ये वर्तमानः लकारः दुःस्पृष्टाख्यः। अन्यः एकः इति आहत्य त्रिषष्टिः वर्णाः संस्कृतभाषायाम् विद्यन्ते इति पक्षे चतुःषष्टि वर्णाः बोध्याः भाषायाम्। लृकारस्य प्लुतभेदे प्लुतलृकारोऽपि पृथक् वर्णः शिक्षायाम् अच् वर्णानाम् उदात्त अनुदात्त स्वरित अशुनासिक अननुनासिकधर्माः अपि उच्यन्ते। ताल्वादिषु उच्चारण स्थानेषु ऊर्ध्वभागे निष्पन्नः अच् उदात्तसंज्ञः। आये मित्रावरुणा इत्यृचि अकारः एकारश्च उदात्तः । तल्वादिषु उच्चारणस्थानेषु अधोभागे निष्पन्नः अजनुदात्तसंज्ञः स्यात्। अर्वाड़् यज्ञसंक्राम इत्यृचि आद्यः अकारः अनुदात्तः। उदात्तत्वानुदात्तरूपवर्णधर्मौ यस्मान्नचि विद्येते सः अच् स्वरितसंज्ञो भवति। मुखसहितनासिकया उच्चार्यमाणः वर्णः अनुनासिकः
केवलं मुखेनैवोच्चार्यमाणो वर्णः अनुनासिकसंज्ञः इति अनुनासिकाननुनासिकयोर्भेदः। वर्णानां ह्रस्व दीर्ध प्लुतभेदे तादृशानां वर्णानाम् उच्चारणकाल एव निमितभूतो भवति। एकया मात्रया उच्चार्यमाणो वर्णः ह्रस्वः , द्विमात्रकालिको वर्णः दीर्धः , त्रिभिः मात्ररूपकालैः उच्चिर्यमाणो वर्णः प्लुतसंज्ञकः इति तत्र विवेकः।

वर्णोत्पत्तिक्रमः - शिक्षायां वर्णोत्पत्तिमेवमाह -
आत्मा बुद्ध्या समेत्यर्थान् मनो भुड़्क्ते विवक्षया
 मनः कायाग्निमाहन्ति स प्रेरयति मारुतम्।
 सोत्तीर्णो मूर्ध्न्यभिहतो वक्त्रमापद्य मारुतः वर्णाञ्जनयते तेषां विभागः पञ्चधा स्मृतः । इति आत्मा संस्काररूपेण स्वागतान् घटपटादि पदार्थान् स्ववृत्त्या एकबुद्धिविषयान् कृत्वा स्वस्मिन् संस्काररूपेण स्थितपदार्थबोधनेच्छया मनः स्वस्यैव परिणामविशेषं युक्तं करोति। तदनु मनः जठराग्निम् अभिहन्ति। सः जठराग्निः जठरस्य वायुम् ऊर्ध्वं गन्तुं प्ररयति। यदा कायाग्निना प्रेरितः वायुः ऊर्ध्वदेशं संप्राप्य वर्णोच्चारणस्थानानि स्पृशति , तदा तत्तद्वर्णाः मुखान्निस्सरति।

वर्णानामुच्चारणस्थानानि
 अष्टौ स्थानानिवर्णानामुरः कण्ठः शिरस्था।
जिह्वामूलञ्च दन्ताश्च नासिकौष्ठौ च तालु च।।
वर्णानामुच्चरणस्थानानि शिक्षायमेवमुच्यते।
अकारस्य कवर्गस्य हकारविसर्गयोश्च उच्चारणस्थानं कण्ठो भवति। इकारस्य चवर्गस्य यकारशकारयोश्च उच्चारणस्थानं तालुर्भवति । ऋकारस्य टवर्गस्य रेफषकारयोः च उच्चारणस्थानं दन्ताः भवन्ति ।
उपूपध्मानीयानां ओष्ठौ भवतः। ञमणड़णनानां नसिका च स्थानत्वेन प्रख्यायते । एकार ऐकारौ कण्ठातालुस्थानीयौ, वकारस्य दन्तोष्ठम्। जिह्वामुलीयस्य जिह्वामूलं नासिका अनुस्वारस्य स्थानं भवति। एवं शिक्षायां वर्णोच्चारणस्थानानि स्पष्टमुक्तानि ।
शिक्षाशास्त्रस्य अध्ययनमद्यत्वेऽपि  जनेभ्यः अत्यन्तम् उपकुरुत एव । यतो हि प्रादेशिकभाषासु उपयुज्यमानेषु शब्देषु इमे एव वर्णाः आदृताः । परन्तु इदानीं विद्यलयेषु वर्णानाम् अध्यापनाध्ययनव्यवस्था आधिक्येन प्रमादान्विता भवति । अत एव तद्वर्णयुक्तानां शब्दानामुच्चारणमपि त्रुटिं गच्छन्ति। छात्राः महाप्रणान् वर्णान् अल्पप्राणत्वेन अल्पप्राणान् वर्णान् महाप्राणत्वेन वा उच्चारयन्ति । नो चेत् तान् तथा उच्चारयितुम् अध्यापकाः प्ररयन्ति च। किन्तु शिक्षाशास्त्रस्य अध्ययनेन इयं रीतिः परिवर्तमानयोग्य इव भवति।

निरुक्तम्
 निरुक्तमिति नाम्ना प्रथितं शास्त्रं वेदाड़्गेष्वन्यतमं भवति।
छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते।
ज्योतिषामयनं चक्षुः निरुक्तं श्रोत्रमुच्यते।।
शिक्षा ध्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् ।
तस्मात्  साड़्गमधीत्यैव ब्रह्मलोके महीयते।।  इति

शिक्षाग्रन्थवचनेन षडपि वेदाड़्गानि वेदपुरुषस्य अवयवत्वेन प्रकल्प्यन्ते। तत्र निरुक्तात्मकमड़्गं वेदपुरुषस्य श्रोत्रत्वेन गण्यते। श्रोत्रं नाम कर्णः । शब्दानां श्रवणद्वारे तदर्थज्ञानं श्रोत्रेणैव अस्माकं सम्भवति। यथा श्रोत्रमन्तरेण शब्दानां श्रवणं तेषामर्थमवगमश्च असम्भव एव, तथा वैदिकानां  शब्दानाम्  अर्थज्ञानमपि निरुक्तादृते असाध्यमेव। अत एव निरुक्तरूपं शास्त्रंवेदपुरुषस्य श्रोत्रत्वेन निर्णीयते। किञ्च शास्त्रस्यास्य अध्ययनेन ब्रह्मलोकप्रप्तिरपि सेत्स्यतीति शिक्षावचनमिदं शास्त्रमेतद्  अधिजिघांसमानन् स्मारयति।

निरुक्तशब्दव्युत्पत्तिः-
निरुच्यन्ते निश्शेषेण उपदिश्यन्ते वैदिकाः शब्दाः तदर्थावबोधनाय यत्र तन्निरुक्तमिति निरुक्तशब्दस्य व्युत्पत्तिः।
वेदे विद्यमानानाम् अर्थकथनापेक्षायुक्तानां शब्दानां सड़्कलनं तावत् निघण्डुः इति नाम्ना प्रथिते वैदिके कोशे कृतमस्ति। तस्य भाष्यत्वेन नो चेत्क टीकारूपतावेन वा विरचितः ग्रन्थो भवति निरुक्तम्। निघण्डौ तु केचन वैदिकाः शब्दाः परिगणिता एव। निरुक्ते तावत् तेषां शब्दानां सविस्तरं विवेचनं क्रियते। अर्थात् प्रकृति प्रत्ययविभागानुसारेण अर्थज्ञानाय प्रक्रिया वर्णिता अस्ति।
अर्थावबोधे निरपेक्षतया पदज्ञानं यत्रोक्तं तन्निरुक्तमिति ऋग्वेदभष्यभूमिकायां सायणाचर्यः निरुक्तं निर्वक्ति । किञ्च एकैकस्य पदस्य सम्भाविताः अवयवार्थाः यत्र निश्शेषेण उच्यन्ते तदपि निरुक्तमित्यपि केचन निरुक्तशब्दमाचक्षते। एवं नानाविधनिरुक्तनिर्वचनैः निरुक्तशब्देन निघण्टुः निरुक्तञ्च इत्युभयोऽपि ग्रन्थाराशिः स्वीक्रियते इति ज्ञायते।

निरुक्ताकारः यास्कः-
बृहस्पतिः, काश्यपः, औपमन्यवः इत्यदयः सन्ति बहवो निरुक्तकाराः । तथापि यास्काचार्यस्य निरुक्तमेव अद्यत्वे समुपलभ्यते । तस्मात् निरुक्तशब्दश्रवणे तत्प्रवर्तकत्वेन यास्क एव स्मृतिपथमारोहितः। तस्य निरुक्तग्रन्थादेव तत्र प्रवृत्तानां इतरेषामार्याणां नामानि श्रूयन्ते । यास्काचार्यादपि पूर्वं निघण्टुग्रन्थः आसीत् , तथापि तस्य परिष्कार एव तेन कृतः। तथा च
 स्वपरिष्कृतस्य  निघण्टुग्रन्थस्य भाष्यमेव निरुक्तशब्देन व्यपदिश्यते। एवञ्च स्वपरिष्कृतनिघण्टुसम्मुल्लसितयास्कीयनिरुक्तग्रन्थ एव अद्यतत्वे निरुक्तेभिधीयते।

यास्कस्य कालः-
यास्कस्य कालस्थानयोर्विषये विदुषां मते यास्कस्य कालः प्रायः क्रिस्तोः पूर्व॔ सप्तमशदाब्दिः  (700 क्रि. पू. ) इति कल्प्यते। यास्कः पाणिनोः प्राच्यो भवतीति ऐतिहासिकानां मतम्। यतो हि तदीयसिद्धान्ताः पाणिनिनापि स्वीकृताः। यास्कस्य निरुक्तस्यान्ते पारस्कर इति नाम विद्यते । तेन विद्वंसः ऊहन्ते  यत् सः पारस्कदाशीय इति। तस्य गोत्रस्य नाम भवति यास्क इति गोत्रनाम्नैव सः संप्रत्यपि अभिधीयते।

निघण्टुः निरुक्तञ्च -
यास्केन परिष्कृते निघण्टुग्रन्थे  शब्दाः सड़्ग्रहीताः सन्ति। ते शब्दाः अध्यायपञ्चके विभक्ताः। गवादिदेवपत्न्यन्ताः वैदिकाः शब्दाः तत्रोक्ताः । तेषां शब्दानां निरुक्तिः द्वादशाध्याययुक्ते निरुक्तग्रन्थे यास्केन कृता । तत्र परिशिष्टत्वेन अध्यायद्वयमपि योजितमस्ति। एवञ्च आहत्य चतुर्दशाध्यायाः निरुक्ताख्ये ग्रन्थेस्मिन् दृश्यन्ते। अस्य ग्रन्थस्य विषये यास्कः स्वयमेव वदतीत्थम्-समाम्नायः समाम्नातः सः व्यख्यातव्यः इति । अर्थात् अस्मिन् ग्रन्थे निघण्टौ आम्नाय शब्दाः एव समाहृताः तेषां विवरणमत्र क्रियते इति।
उदाहरणतया स्वर्गपर्यायस्य नाकः इति शब्दस्य व्युत्पत्तिः निरुक्तकारेण एवं प्रदर्शिता - कै शब्दे इत्यस्मत्द्धतोः कायन्ति, आनन्दोत्सवध्वनिं कुर्वन्ति यस्मिन्नित्यर्थे कमिति शब्दः सुखार्थे निष्पादित न कं अकमिति सुखविरोधि दुःखमित्यस्मिन्नर्थे बहुव्रीहिमाश्रित्य नलोपं अकृत्वा सवर्णदीर्धे च नाकः इति शब्दः व्युत्पद्यते। दुखेन   अमिश्रितं सुखं यत्रोपलभ्यते सः नाकः स्वर्गः इति नाकशब्दार्थः।

निरुक्तकाराणां मौलिकाः सिद्धान्ताः-
निरुक्तकारः यास्कः समानपि   शब्दान् नाम आख्यात उपसर्ग निपातत्वेन चतुर्था विभजते। तत्र नामाख्यातयोः वाचकत्वरूपमर्थम् उपसर्गनिपातानान्तु द्योतकत्वरूपमर्थमपि अकल्पयत्।

भावप्रधानमाख्यातमित्यनेन वाक्येषु तिड़न्तानां प्राधान्यं, धातुलभ्यव्यापारर्थस्य विशेष्यत्वं  व्यापारमुख्यविशेष्यकशाब्दबोधकथनप्रकारोनपि तैः स्वीकृतः। इमामेव  सरणीं वैयाकरणाः अपि अनुवर्तन्ते।

सत्वप्रधानानि नामानि इत्युक्त्वा नामासु द्रव्यस्य प्राधान्यञ्च निर्णीतम्। शब्दाः रूढि- योगिक-
 योगरूढ भेदेन त्रिधा विभक्ताः
येषां  शब्दानां प्रकृतिप्रत्ययरूपव्याकरणप्रकियां विना अर्थात् अवयवार्थं विना साक्षात् अर्थकथनेन प्रयोगो विहितः, ते योगरूढशब्दाः इत्युच्यन्ते। स्तम्भादयः  शब्दाः तत्र उदाहृताः। ये च तावत् प्रकृति प्रत्ययविभागपरत्वेन निष्पाद्य कस्मिश्चिदर्थे रूढाः भवन्ति ते रूढिशब्दाः इत्युच्यन्ते। पड़्कजादिशब्दास्तत्र लक्ष्यन्ते। पड़्कात् जायते इति अर्थकथनपुरःस्सरं पड़ूकात् इत्युपपदपूर्वकात् जनि प्रादुर्भावे इत्यस्माद्धातोः डप्रत्यये कृते पड़्कजशब्दः कमलरूपार्थे व्युत्पद्यते। तत्रावयवार्थे सत्यपि कृमिकीटादिषु पड़्कजशब्दो न प्रवर्तते। अवयवार्थसहकृतरूढ्यर्थः एव अत्र आश्रीयते। नतु अवयवार्थ एव।

एषां शब्दानां प्रकृतिप्रत्ययरूपविभागपरकत्वेन अर्थकथनं दृश्यते ते शब्दाः यौगिकाः इत्युच्यन्ते। तेषां तु अवयवार्थ एव स्वीक्रियते। पाचकादयः शब्दास्तत्रोपतिष्ठन्ते। अत्र पाककर्ता इत्यवयवार्थ एव आश्रियते। न तु  चेदपि सर्वाणि नामानि आख्यातजानि ( धातुजानि  ) इति प्रकृतिप्रत्ययविभागपरत्वेन अर्थकथनयोग्याः इत्येव निरुक्तकाराणां समयः। किन्तु गार्ग्यदयः विमतिं प्रदर्शयन्ति। एवं सति निरुक्तकाराणामेव मतं समीचीनमिति निरुक्ते सयुक्तिकं निरूपितम्।

सुखमिति शब्दः विकारर्थकत्वेनैव कैरल्याम् उपतिष्ठते। किन्तु तस्य अवयवार्थसहकृतस्वार्थः निरुक्तकारस्य पन्थानमेव अनुगच्छति । सु इत्यव्ययं समीचीनमर्थकं खं नाम आकाशं तच्च मनःप्रतिरूपकम्। तथा च समीचीनतया विद्यमानां मानसिकीं अवस्थां सुखशब्दः आचष्टे इति। सुखशब्दात् एतावानर्थः आदेय इति चिन्ता न कस्यापि प्रादेशिकभाषागतशब्दप्रयोक्तुः उदिता स्यात्।
एवं केषाञ्चन शब्दानां निर्वचनं श्रूयताम्। आचार्यः आचारं ग्रहयति आचिनोत्यर्थानिति वा। अर्थः- अर्थ्यते स्वसम्बन्धितया इष्यते इत्यर्थः। अर्थः ( धनार्थकः अर्थशब्दः  )- अरणे( ऋ धातोः ल्युडन्तम्  )गमने अत्रैव तिष्ठति न तेन सह गच्छति परलोकं प्राप्तं स्वामिनं नानुगच्छतीत्यर्थः । सर्वषां मन्त्राणामर्थवत्वं पूर्वपक्षनिराकरणपुरःसरं निरुक्ते व्यवस्थापितम्। अर्थो न बुध्यते इत्यत्रेदं समाधानम् - न हि स्थाणोरपराधः यदेनमन्धो न पश्यति पुरुषापराधः सः अर्थावगमनेन निरर्थकाः मन्त्राः इति यस्को निरूपयति। एवम् अद्यत्वेऽपि निरुक्तकारपदं बहवः प्रादेशिकाः  शब्दाः अनुसरन्तीति तस्य गरिमानमेधयति।

 निरुक्तस्य प्रयोजनम्।
वेदानमध्ययनार्थम् अवश्यं वेदाड़्गानाम् अध्ययनमपेक्षितमेव। अतः वेदाड़्गानि वेदास्य कुञ्चिकेत्युच्यते । लोके तु कुञ्चिकया कार्यद्वयं सम्पाद्यते । एकं रक्षणम् अन्यच्च उद्घाटनम्।। इत्थमेव वेदाड़्गान्यपि वेदमन्त्राणां रक्षां कुर्वन्ति। अपि च यस्तु वेदमन्त्राणामर्थाभिलाषी तस्मै वेदार्थस्य उद्घाटनमपि कारयन्ति अड़्गानि। तथा च वेदमन्त्राणां यथावत् रक्षणे अर्थोद्घाटने च निरुक्तस्यापि अध्ययनमहेयमिति निश्चप्रचम्।

अर्थप्रधानं निरुक्तं शब्दप्रधानं व्याकरणम् इति हेतोः व्याकरणज्ञानस्य परिपूर्णता निरुक्तस्याध्ययनेनैव सम्पद्यते।

यास्केनैव शास्त्रस्यास्य प्रयोजनमित्थमुच्यते-
अथापीदमन्तरेण मन्त्रेष्वर्थप्रत्ययो न विद्यते। अर्थात् शास्त्रस्यास्य अध्ययनेन विना वेदमन्त्राणाम् अर्थज्ञानं न सम्भवति। यतो हि शास्त्रेऽस्मिन्नेव प्रकृतिप्रत्ययविभागपुरस्कारं वैदिकानां शब्दानाम् अर्थविवेचनं कृतं दृश्यते। मन्त्रगतशब्दार्थज्ञानस्य प्रयोजनं चोक्तं-
योऽर्थज्ञः सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा इति-
यः अर्थज्ञः सः एव मड़्गलं प्राप्नोति नान्य इति।
वैदिकानां शब्दानां निरुक्तकारेणकश्चन नियत अर्थः प्रस्तुतः। ते एव वैदिकाः शब्दाः भारतीयप्रादेशिकभाषासु नैके निपतिताः। सुख दुख अक्षरादिशब्दाः तत्र उदाहार्याः।

सुखमिति शब्दः विकारर्थकत्वेनैव कैरल्याम् उपतिष्ठते। किन्तु तस्य अवयवार्थसहकृतस्वार्थः निरुक्तकारस्य पन्थानमेव अनुगच्छति । सु इत्यव्ययं समीचीनमर्थकं खं नाम आकाशं तच्च मनःप्रतिरूपकम्। तथा च समीचीनतया विद्यमानां मानसिकीं अवस्थां सुखशब्दः आचष्टे इति। सुखशब्दात् एतावानर्थः आदेय इति चिन्ता न कस्यापि प्रादेशिकभाषागतशब्दप्रयोक्तुः उदिता स्यात्।
एवं केषाञ्चन शब्दानां निर्वचनं श्रूयताम्। आचार्यः आचारं ग्रहयति आचिनोत्यर्थानिति वा। अर्थः- अर्थ्यते स्वसम्बन्धितया इष्यते इत्यर्थः। अर्थः ( धनार्थकः अर्थशब्दः  )- अरणे( ऋ धातोः ल्युडन्तम्  )गमने अत्रैव तिष्ठति न तेन सह गच्छति परलोकं प्राप्तं स्वामिनं नानुगच्छतीत्यर्थः । सर्वषां मन्त्राणामर्थवत्वं पूर्वपक्षनिराकरणपुरःसरं निरुक्ते व्यवस्थापितम्। अर्थो न बुध्यते इत्यत्रेदं समाधानम् - न हि स्थाणोरपराधः यदेनमन्धो न पश्यति पुरुषापराधः सः अर्थावगमनेन निरर्थकाः मन्त्राः इति यस्को निरूपयति। एवम् अद्यत्वेऽपि निरुक्तकारपदं बहवः प्रादेशिकाः  शब्दाः अनुसरन्तीति तस्य गरिमानमेधयति।

-----------------------------------------------