Sunday 30 June 2019

नरेन्द्रमोदिनः 'मनोगतम् ' इति कार्यक्रमः पुनरारब्धः
जनप्रियः कार्यक्रमः आसीत् नरेन्द्रमोदिनः मन की बात। आकाशवाणिद्वारा प्रसारितः अयं कार्यक्रमः विगतसर्वकारस्य (एन् डि ए) अभिमानात्‍मक -कार्यक्रमः आसीत्|  विपक्षदलीयैरपि श्लाघितः बहुवारम्।  भारतस्य विविधासु भाषासु अनूद्य कार्यक्रमः आकाशवाणि द्वारा प्रसारितः अस्ति। संस्कृतभाषायां भाषिकानुवादं कृत्वा भारतस्य वरिष्ठवार्तावतारकः डा. बलदेवानन्दसागरः स्वस्य शब्दमाधुर्येण अस्मान् श्रावितवान् च। अस्य दृश्यरूपम् अन्तर्जाजालवाहिनिद्वारा सम्प्रतिवार्तायाः दृश्यवहिन्यां प्रसारयति। सर्वेषां संस्कृतप्रेमिणां पुरतः सादरं समर्पये  'मनोगतम् २.०१'
संस्कृतमातरं नत्वा
सम्पापादकः

'मनोगतम्’ –  २.०१ [प्रथमः भागः]  
   ‘मन की बात’ (२.o१)               प्रसारण-तिथि: - ३०-६-२०१९                               
                  - संस्कृत-भाषान्तर-कर्ता -  डॉ.बलदेवानन्द-सागरः
            मम प्रियाः देशवासिनः, नमस्कारः | दीर्घान्तरालानन्तरं, पुनरेकवारं, भवतां सर्वेषां मध्ये, ‘मन की बात’-मनोगतम्, जन-वृत्तम्, प्रत्येकमपि जनस्य मनोगतम्, जन-मनोगतम्’- अस्य सातत्यं वयं प्रारभामहे | प्रपञ्च-बहुलेषु निर्वाचनेषु, सत्यपि कार्यबाहुल्ये, ‘मन की बात’-इत्यस्य प्रसार्य-कार्यक्रमस्य यः आनन्दः अस्ति, सः विलुप्तः आसीत् | किञ्चित् नैयून्यम् अनुभवामि स्म | आत्मीयानां मध्ये उपविश्य

Tuesday 25 June 2019

 दुःखेष्वनुद्विग्नमनाः                 -लेखनम्
 बाला चिर्रावूरी
"दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः।
वीतरागभयक्रोधः स्थितधीः मुनिरुच्यते।।"
   --भगवद्गीता

    सुखदुःखेषु भ्रमणंमेव जीवनस्य सारं भवति। सुखेषु उपस्थितिं वयं नाभिजानीमः।यथा सुषुप्त्यां अहं स्वपिमि इति न भावयामः। परन्तु दुःखसमये अहं अतयन्तं दुःखमनुभवामीति लोके यः कोऽपि मत्समान दुःखभूयिष्टो नास्तीति च स्वात्मानं आधिक्येन विभाव्य बाधाग्रस्थाः भवामः।

   वयं चिन्तयामश्चेत् श्रीरामादि सर्वेष्वतारेषु पुराणपुरुषेषु च बाधापूरितवृत्तान्तानि पठामः श्रुण्मश्च। तेऽपि अस्मादपि अत्यधिकं दुःखं अप्राप्नुवन्। किन्तु तस्मिन् समये एव मनःस्थैर्यमवलम्ब्य धर्ममार्गमवलम्ब्य उत्तमचरिताः अभूवन्।
   श्रीरामःसर्वसद्गणोपेतः सर्वेषामपि प्रजानां पूजनीयः सकलानां देवमहर्षीणां वन्दनीयश्च।तथापि कैकेय्याः कारणात् राज्यबहिष्कृतः वनवासवासिश्च अभवत्। सः एव न सीतालक्षमणयोरपि। किन्तु ते विधिं न निन्द्य दुःखं नानुभूय च कैकेयीवचनपालिताः बभूवुः। तद्व्याजेन समूलराक्षससंहारं कृतवान् रामः। तदर्थमेव पुरुषोत्तमः भवति श्रीरामः ।सीता साध्वीति कीर्तिता।

   कुन्ती महाराजस्य शूरसेनस्य पुत्री। पित्रा कुन्तिभोजाय दत्तकारणात् तस्य पुत्री अभवत्। तथापि कुन्तिभोजस्य गेहे सुशिक्षिता। महाराजस्य पुत्री कुरुवंशस्य पुत्रवधू सा। किन्तु उद्वाहस्यानन्तरं पाण्डुना सह अरण्ये एव निवासम्, अनन्तरं तस्य अकालमृयुः, पाण्डवानां पालने उत्तरदायित्वम्, ईर्ष्यापूरितधृतराष्ट्रस्य धार्तराष्ट्राणां कारणाच्च पुत्रैः सह अत्यन्तक्लोशानि अन्वभवत्। तथापि कृष्णे मनः निधाय स्थैर्यमवलम्ब्य दुःखं नास्पृशत्। तस्याः स्थैर्येणैव युधिष्ठिरादयः धर्मप्रवर्तकाः सत्यनिष्ठाः शौर्यसम्पन्नाः अभूवन्।

   दुःखसमयेषु गुरुपदिष्टमार्गप्रचोदकाः‌भवेमश्चेत् मनोपशमनं लप्स्यते। एवं क्षेत्रतीर्थाटनम्, महात्मानां दर्शनम् , जपस्तोत्राद्यनुष्ठानम् च कर्तव्यम्।

   कदाचित् दुःखं नास्ति चेत् सुखस्यानुभूतिं न गणयामः खलु!
-----------------------