Wednesday 10 October 2018

न्यायशास्त्रस्य सामान्यपरिचयः
रजीष् के वि, 
(दर्शनम्)
Research Articles No: 20181010


रजीष् के वि, 
संस्कृताध्यापकः, त्रिश्शूर्।


   "दृश्यते अनेन इति दर्शनम्" इति दर्शनशब्दस्य व्युत्पत्तिः၊ अनया च व्युत्पत्त्या ज्ञानार्थकदृश् धातोः दर्शनमिति पदं निष्पन्नम्। तथा च शास्त्रे निहितानां निगूढतत्त्वानाम् उद्बोधनं येन सम्भवति तदेव दर्शनं भवितुमर्हति। एवञ्च प्रपञ्चरहस्यानाम् ईश्वररहस्यानां च मार्गम् अन्विष्यमाणैः पुरुषैः दर्शनमेव अवाप्तव्यम् इति स्पष्टम्। अयं प्रपञ्चः, प्रकृतिः, मनुष्यः, ज्ञानं, जीवनम् इत्येवम् अनेके विषयाः प्राचीनदार्शनिकानां चिन्तनधारायां मुख्याः आसन्। वस्तुतः अस्य प्रपञ्चस्य विषये , आत्मविषये च परस्परभिन्नतां वर्तते चेदपि प्रायः सर्वाण्यपि दर्शनानि परमपुरुषार्थात्मकं मोक्षमेव आत्यन्तिकलक्ष्यत्वेन स्वीकृतानि दृश्यन्ते। इदञ्च दर्शनम् आस्तिकदर्शनं नास्तिकदर्शनं चेति द्वेधा विभक्तं वर्तते। तत्र विभाजकधर्मत्वेन वेदप्रामाण्यमेव स्वीक्रियते दार्शनिकैः। तथाहि यानि दर्शनानि वेदप्रामाण्यम् अङ्गीकुर्वन्ति तानि आस्तिकदर्शनानि यानि नाङ्गीकुर्वन्ति तानि नास्तिकदर्शनानि इति च भेदः। तत्र नास्तिकदर्शनानि प्रायः बृहस्पतेः चार्वाकदर्शनं, भगवतः बुद्धस्य बौद्धदर्शनं, वर्धमानमहावीरस्य जैनदर्शनं च भवन्ति। आस्तिकदर्शनानि प्रधानतया षट्विधानि वर्तन्ते, तद्यथा- कपिलमुनिविरचितं सांख्यदर्शनं, पतञ्जलिविरचितं योगदर्शनं, कणादविरचितं वैशेषिकदर्शनं, महर्षिगौतमविरचितं न्यायदर्शनं, जैमिनिविरचितं पूर्वमीमांसादर्शनं, बादरायणविरचितम् उत्तरमीमांसादर्शनम् अथवा वेदान्तदर्शनं चेति।

  ॥ न्यायशास्त्रस्य परिचयः ॥
     आस्तिकदर्शनेषु षट्सु अन्यतमं भवति महर्षिगौतमप्रणीतं न्यायदर्शनम्।" काणादं पाणिनीयं च सर्वशास्त्रोपकारकम् " इत्युक्तिः सुविदितैव विश्वे अस्मिन्। अस्याम् उक्त्यां प्रयुक्तेन काणादपदेन यद्यपि वैशेषिकदर्शनस्य ग्रहणं सम्भवति तथापि न्यायशास्रस्यापि प्रभाव: तत्र वर्तत एव, न्यायवैशेषिकदर्शनयोः समानतन्त्रत्‍वात् ।न्यायवैशेषिकदर्शनयोः समानतन्त्रत्‍वं तु आत्मनः अस्तित्‍वं ,परमाणुसाधनं, प्रपञ्चोत्पत्ति इत्येवं रीत्या अनेकेषु विषयेषु दृश्यते, अपि च पदार्थानां यथार्थज्ञानेन अथवा तत्त्वज्ञानेन मोक्षप्राप्तिरिति दर्शनद्वयाभिमतमेव। तत्र तु न्यायसूत्रकारेण गौतममहर्षिणा प्रमाणप्रमेयादिषोढशपदार्थानां तत्त्वज्ञानस्य मोक्षहेतुत्वं दर्शितम्। 

   "नीयते अनेन इति न्यायः ." इति न्यायशब्दस्य व्युत्पत्तिः ।अर्थात् यत् अस्मान् अर्थतत्वं प्रति नयति अथवा तत्वज्ञानाय प्रेरयति तदेव न्यायः भवितुमर्हति। शास्त्रार्थविचारादिषु स्वमतस्थापनाय परमतखण्डनस्य आवश्यकतया परमतखण्डनपूर्वकमेव स्वमतस्थापनं कर्तव्यं भवति। एवञ्च परमतखण्डन-पूर्वकस्वमत-स्थापने वक्त्रा यादृशवाक्य-विन्यासः क्रियते तादृशवाक्य-समुदाय एव न्याय  इत्युच्यते। तथा च कीदृशावयवसमुदायेन अर्थज्ञानं जायते तद्‌वाक्यसमुदाय एव न्याय इति स्पष्टम्। तत्र न्याय नाम किमिति जिज्ञासायां न्यायवार्तिककारेण उद्योतकराचार्येण उक्तं वर्तते एवम्- "प्रयोजने सति परीक्ष्यते इति प्रयोजनं परीक्षां प्रवर्तयति इति का पुनरियं परीक्षा न्यायः" इति। अर्थात् परीक्षान्यायपदयोः ऐक्यात् एकार्थप्रतिपादकत्वात् वा न्यायो नाम परीक्षा इति युज्यते। न्यायस्वरूपं तु भाष्यकारेण वात्स्यायनमहर्षिणा एवं दर्शितम् - "प्रमाणैरर्थपरीक्षणं न्यायः" इति। अत्र तु प्रमाणशब्देन प्रमाणमूलाः प्रतिज्ञादयः पञ्चावयवाः एव गृह्यन्ते। एतैः अवयवैः लिङ्गस्य अर्थस्य वा परीक्षणमेव न्यायशब्देन उद्दिश्यते। एतत् व्याख्यातं वार्तिककारेण उद्योतकराचार्येण एवं - "समस्तप्रमाण-व्यापारादर्थातिगतिर्न्यायः। न एकैकप्रमाणमर्थपरिच्छेदहेतुभावेन व्यवतिष्ठमानं न्याय इत्युच्यते किन्तु समस्तानि" इति। अर्थात् प्रत्यक्षानुमानादिप्रमाणमूलैः प्रतिज्ञादिभिः पञ्चावयवैः जायमाना अर्थसम्पत्तिरेव न्यायपदवाच्या भवति।

     न्यायशास्त्रमिदम् आन्वीक्षिकी, न्यायविद्या, प्रमाणशास्त्रं, हेतुविद्या, तर्कशास्त्रम् इत्येवं बहुभिः नामभिः व्यपदिश्यते। उक्तं च भाष्यकारेण वात्स्यायनमहर्षिणा एवम् - "इमास्तु चतस्रो विद्याः पृथक्प्रस्थानाः प्राणभृतामनुग्रहायोपदिश्यन्ते, यासां चतुर्थीयमान्वीक्षिकी न्यायविद्या" इति। अर्थात् "आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती" इत्यनेन सूक्तेन उक्तासु चतसृषु विद्यासु चतुर्था भवदियम् आन्वीक्षिकी। अन्वीक्षा नाम प्रत्यक्षागमाभ्याम् ईक्षितस्य ज्ञानस्य पुनरीक्षणम् इत्यर्थः। तया अन्वीक्षया प्रवर्तत इति आन्वीक्षिकी न्यायविद्या वा। एवं प्रत्यक्षाभिः चतुर्भिः प्रमाणैरेव अर्थानां प्रतिपादनं क्रियतेत्यतः शास्त्रस्यास्य प्रमाणशास्त्रमित्यपि नाम सङ्गतमेव। एवमेव अनुमानप्रमाणस्य प्राधान्यत्वात् तस्य अनुमानस्य हेतुविषयकत्वाच्च हेतुशास्त्रं, प्रमाणद्वारा विवक्षितार्थविचारेषु तर्कबोधनात् तर्कशास्त्रम् इत्यपि न्यायशास्त्रस्य नामान्तरं साधुरेव।

   न्यायशास्त्रप्रवर्तकाणां तत्तद्विषयप्रतिपादनदृष्ट्या शास्त्रस्यास्य परम्परा द्वेधा विभक्ता दृश्यते प्राचीना नवीना चेति। तत्र सूत्रभाष्यवार्तिककारादारभ्य प्रायः जयन्तभट्टपर्यन्तं प्राचीनपरम्परा, क्रिस्तोः पश्चात् त्रयोदशशतकजन्मनः आचार्यगङ्गेशोपाध्यायादारभ्य प्रचाल्यमाना नवीनपरम्परा इति व्यपदेशः। तत्र सूत्रकारेण गौतममहर्षिणा तावत् प्रमाणप्रमेयादिः षोढशपदार्थाः प्रोक्ताः। एतेषां षोढशपदार्थानां तत्त्वज्ञानं मोक्षहेतुरिति तेषामाशयः। किन्तु नवीनैस्तावत् पदार्थाः इत्यनेन प्रतियोगिता, अनुयोगिता, प्रकारता, विशेष्यता इत्येवंरीत्या पारिभाषिकपदार्थाः एव अभिमताः दृश्यन्ते। किन्तु वैशेषिकसूत्रकर्ता कणादमहर्षिणा तु द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधर्म्यवैधर्म्यतत्त्वज्ञानमेव मोक्षहेतुत्‍वेन अभिमतम्। परन्तु अन्नंभट्टविश्वनाथप्रभृतिभिः नवीनैस्तावत् सूत्रोक्तपदार्थानां द्रव्यादिषु सप्तसु एव अन्तर्भावः स्वीकृतः वर्तते। एवंरीत्या दर्शितानां पदार्थानां लक्षणस्वरूपविचारविमर्शद्वारा न्यायशास्त्रमिदं प्रवर्तमानं वर्तते।

Tuesday 2 October 2018

मनोगतम्’ – ४८  ‘मन की बात’ 
(48-वीं कड़ी)   प्रसारणतिथि: - ३०-०९-२०१८
              [“मन की बात”- “मनोगतम्” - इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]                               
                                          - भाषान्तर-कर्ता -  डॉ.बलदेवानन्द-सागरः
     मम प्रियाः देशवासिनः!  नमस्कारः | कदाचिदेव भवेद् कश्चन भारतीयः यो हि अस्मदीयानां सशस्त्र-बलानां सैनिकानां कृते गौरवं नैवानुभवेत् | प्रत्येकमपि भारतीयः, भवतु नाम सः कस्यचन क्षेत्रस्य, जातेः, धर्मस्य, पथः, भाषायाः वा – अस्मदीयान् सैनिकान् प्रति निज-प्रसन्नतां प्रकटयितुं समर्थनञ्च प्रदर्शयितुं सर्वदैव तत्परो भवति | गतदिने एव भारतस्य सपाद-शत-कोटिः देशवासिनः, पराक्रमपर्व आयोजितवन्तः | वयं वर्ष-द्वय-पूर्वं विहितं surgical strike-इति शस्त्र-निपातनं स्मृतवन्तः, यदा अस्मदीयाः सैनिकाः अस्माकं राष्ट्रमभिलक्ष्य आतङ्कवाद-व्याजेन छद्म-युद्ध-निरतान् धृष्टान् सम्यक् उत्तरितवन्तः | देशस्य नाना-स्थानेषु अस्मत्-सशस्त्र-बलानि प्रदर्शनीः आयोजयेयुः येन देशस्य समधिकाः नागरिकाः विशेषेण युव-जनाः नूनमिदम् अवगच्छेयुः यत् अस्मदीया शक्तिः नाम किमस्ति ? कियन्तो वयं क्षमाः ? तथा च, केन प्रकारेण अस्माकं भटाः निज-प्राणान् पणीकृत्य अस्मान् देशवासिनो रक्षन्ति | पराक्रम-पर्व-सदृशः दिवसः अस्मदीय-सशस्त्र-सेनानां गौरवपूर्ण-रिक्थ-विषये यूनः स्मारयति, तथा च, देशस्य एकताम् अखण्डताञ्च सुनिश्चेतुं अस्मान् प्रेरयति | अहमपि वीराणां भूमौ राजस्थाने जोधपुरे एकस्मिन् कार्यक्रमे सहभागित्वमावहम्, साम्प्रतमिदं सुनिश्चितं यद् अस्माकं सैनिकाः तान् सर्वान्नपि समीचीनं प्रत्युत्तरिष्यन्ति ये हि अस्मदीये राष्ट्रेsस्मिन् शान्तेः उन्नतेश्च परिवेशं प्रणाशयितुं प्रयतिष्यन्ते | वयं शान्तौ विश्वसिमः तथा चैनां प्रवर्धयितुं प्रतिबद्धाः स्मः, किञ्च सम्मान-सामञ्जस्यं कृत्वा राष्ट्रस्य च सम्प्रभुतां पणीकृत्य न कदाचिदपि| भारतं सर्वदैव शान्तिं प्रति वचनबद्धं समर्पितञ्च अवर्तत | विंशतौ शताब्दे विश्वयुद्ध-द्वये अस्माकं लक्षाधिकाः सैनिकाः शान्तिं प्रति नैजं सर्वोच्चं बलिदानं कृतवन्तः तथा चेदं बलिदानं तदानुष्ठितं, यदा आभ्यां युद्धाभ्यां न वयं साक्षात्-सम्पृक्ताः आस्मः | न वयं कदापि कस्यचन भूमेः अभिलाषिणः समभवाम | एषासीत् शान्तिं प्रति अस्मदीया प्रतिबद्धता | कतिपय-दिनेभ्यः प्रागेव सेप्टेम्बर-मासे त्रयोविंशे दिने वयं इस्राइलस्य Haifa-युद्धस्य शत-वर्ष-पूर्तौ सत्यां मैसूर-हैदराबाद-जोधपुर-शक्ति-समूहानां अस्मदीयान् वीर-सैनिकान् अस्मराम, ये हि आक्रान्तृभ्यः Haifa-क्षेत्रं मुक्तमकुर्वन् | अयमपि शान्ति-दिशि अस्माकं सैनिकैः समाचरितः अन्यतमः पराक्रम एवासीत् |  अद्यत्वेsपि संयुक्त-राष्ट्र-संघस्य पृथक्-पृथक् शान्ति-संधारक-बलानां कृते भारतं सर्वाधिक-सैनिक-प्रेषकेषु देशेषु अन्यतमोsस्ति | दशकेभ्यः अस्माकं वीर-सैनिकाः नीलं शिरस्त्राणं परिधाय विश्वस्मिन् विश्वे शान्तिं सन्धारयितुं महत्त्वाधायिनीं भूमिकां निरवहन् |
          मम प्रियाः देशवासिनः, नभसः कथा तु अनुपमा एव भवति, नात्र किमपि आश्चर्यं यन्नभसि निज-शक्तिं प्रदर्श्य भारतीय-वायुसेना देशवासिनां