Saturday 19 June 2021

पि. एन्. पणिक्करः- ग्रन्थालयप्रतिष्ठापना योजनायाः संस्थापकः

 अद्य जून् मासस्य नवदशतमदिनाङ्कः। अस्य दिवसस्य प्राधान्यं  सर्वैः सुविदितमेव। अद्य वाचनदिनम्। श्रीमत: के - एन् पणिक्कर् महोदयस्य स्मरणार्थं तस्य चरमदिनमेव वाचनदिनत्वेन समाचरन्ति। केरलेषु इदंप्रथमतया ग्रन्थालययोजनायाः समारम्भ: अनेन महाशयेन एव कृतः। अस्य पूर्णनाम पुतुवयिल् नारायणपणिक्कर् इति। एषः नवाधिकनवशतोत्तरसहस्रतमे (१९०९ मार्च१) वर्षे मार्च मासस्य प्रथमे दिने आलप्पुषा जिल्लायां नीलम्पेरूर् ग्रामे जनिमलभत। अस्य माता जानकियम्मा पिता गोविन्दपिल्ला च आस्ताम्। सः सर्वकारविद्यालये अध्यापकः आसीत् । ग्रन्थालययोजनायाः प्रचारकः अयं (१९९५जून१९) पञ्चनवत्युत्तर नवशताधिकसहस्रतमे वर्षे जून् मासस्य नवदशतमे दिने दिवङ्गतः। 1996 षण्णवत्यधिकनवशतोत्तर सहस्रतमवर्षादारभ्य केरलसर्वकारः प्रतिसंवत्सरं तस्य चरमदिनं वाचनदिनत्वेन समाचरन् अस्ति। (२०१७) सप्तदशोत्तरद्विसहस्रतमे वर्षे प्रधानमन्त्रिणा नरेन्द्रमोदिना अस्य चरमदिनं राष्ट्रियवाचनदिनत्वेन आचरणाय प्रख्यापितम्।

Friday 18 June 2021

पुस्तकवाचनदिनम् जूण् १९

ग्रन्थालयसंघसंस्थापकः पि एन् पणिक्कर्
     ग्रन्थानाम् आलयः ग्रन्थालयः। ग्रन्थालये विविधाः ग्रन्थाः सन्ति। अस्माकम् अभिरुचिम् अनुसृत्य ग्रन्थालयात् पुस्तकनि स्वीकृत्य पठितुम् अवसरः लभते। पुस्तकपठनेन अस्माकं भाषाप्रयोगचातुर्यं वर्धते। भावना अपि वर्धते। आधुनिकयुगे विद्यालये कलालये च ग्रन्थालयस्य व्यवस्था अस्ति। ग्रन्थाः अस्माकं सुहृत्, मार्गदर्शकः च भवति। आधुनिके युगे इ - वाचनस्य अवसरः अपि सुलभा:।

वाचनेन वर्धते।
वाचनं विनापि वर्धते।
वाचनेन पुष्टिमाप्नुयात्।
वाचनं विना वक्रतामाप्नुयात्।  (कविः- कुञ्ञुण्णि-)

---------------------------------------------

विवेकज्ञानसिद्ध्यर्थं प्रतिभावैभवाय च ।
ग्रन्थानां वाचनं नित्यं कारयेत् बालकैर्मुदा॥

अन्तर्जाले महापुटे लभन्ते ग्रन्थतल्लजाः।
अन्तर्जालश्च भग्ने तु हस्तग्रन्थो सदाश्रयः॥

पोषणाय तु गात्रस्य हिताहारं समाश्रयेत्।
पोषणाय च प्रज्ञायाः आर्षग्रन्थान् समाश्रयेत्॥

शरीरस्य तु व्यायामो मनसश्चैव वाचनम्।
उत्तमावौषधौ नित्यं नराणां सुखकाङ्क्षिणाम्॥

- रमा टि.के -

----------------------------------------------

पठ्यतां पठ्यतां पुस्तकानि पठ्यतां
चिन्तनाय साम्प्रतं निरन्तरं च पठ्यताम्॥
विस्मृतिर्यथा भवेत् विकल्पज्ञानं वा भवेत्
पुस्तकानां वाचनेन सुस्मृतिर्तथा भवेत्॥
सुष्टुज्ञानमावहेत् सुपुस्तकानि सन्ततम्।
विश्वज्ञान-सञ्चयान् मानसे प्रसारयेत्॥ 

अन्तर्जालात् ग्रन्थाणि लभन्ते निमिषान्तरे
अन्तर्जालं भग्ने तु हस्तग्रन्थो वरं स्मृतम्॥

पुस्तकस्था महाविद्या मस्तके धारयेत् सदा
मस्तके सुप्रतिष्ठा तु वाचनेन सुसाधयेत्।

पुस्तकेन हृदि भासते मधुरभावना मृदुलचोदना
संस्कृतिं परिरक्षणाय हि पठथ संस्कृतमुत्तमम्॥

-आय्यम्पुष़हरिकुमारः -

Thursday 3 June 2021

 

 मनोगतम् [०२.२४]- ७७-उपाख्यानम् ‘मनकीबात’, प्रसा.तिथि: - ३०-मे’२०२१                                          

    [भाषान्तरम् – डॉ.श्रुतिकान्तपाण्डेय-गवीशद्विवेदिभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]

                 *****

         मम प्रियाः देशवासिनः, नमस्कारः। वयं पश्यामः यत् केन प्रकारेण देशः पूर्ण-शक्त्या COVID-एकोनविशं विरुद्ध्य युध्यति। विगतेषु शत-वर्षेषु इयं हि बृहत्तमा महामारी अस्ति, तथा च अस्याः प्रवर्तमानायाः महामार्याः अवधौ भारतेन अनेकाः प्राकृतिकाः आपदः ससाहसं सम्मुखीकृताः।  अस्मिन्नवधौ ‘अम्फान्’-नामा सामुद्रिक-झञ्झावातः समापतितः, ‘निसर्ग’- इति चक्रवातः आगतः, अनेकेषु राज्येषु जलपूरः समापन्नः, कदाचित् लघवः कुत्रचिच्च बृहन्तः अनेके  भूकम्पाः दुरापन्नाः, भू-स्खलनानि च सञ्जातानि । नाति