Showing posts with label कथा. Show all posts
Showing posts with label कथा. Show all posts

Friday, 25 October 2024

शशिकला-सुदर्शनपरिणयः 

(श्रीमद्देवीभागवते प्रोक्तः शशिकलासुदर्शनयोः परिणयवृत्तान्तः )

    पुरा एकदा काशिराजः सुबाहुः तस्याः कन्यायाः शशिकलायाः विवाहार्थमेकं स्वयंवरं आयोजितवान्। अस्मिन् प्रसङ्गे यथाशास्त्रं स्वयंवरमुद्दिश्य किञ्चिदालोचयामः। विद्वद्गणाः स्वयंवरः त्रिविधः इति प्रोक्तवन्तः। क्षत्रियाणां राज्ञां कृते स्वयंवरः उपयुक्तः न तु अन्येषां कृते। तद्यथा-

स्वयंवरस्तु त्रिविधो विद्वद्भिः परिकीर्तितः।

राज्ञां विवाहयोग्यो वै नान्येषां कथितः किल॥

विद्वद्गणाः स्वयंवरः  त्रिविधः इति प्रोक्तवन्तः। ते यथा क्रमशः १. इच्छास्वयंवरः २. *पणस्वयंवरः ३. शौर्यशुल्कस्वयंवरश्च भवन्ति। यथोक्तम्-

इच्छास्वयंवरश्चैको द्वितीयश्च पणाभिधः ।

यथा रामेण भग्नं वै त्र्यम्बकस्य शरासनम् ॥

तृतीयः शौर्यशुल्कश्च शूराणां परिकीर्तितः ।

इच्छास्वयंवरं तत्र चकार नृपसत्तमः॥

     काशिराजः इच्छास्वयंवरमायोजितवान्। अर्थात् अस्मिन् स्वयंवरे कन्या इच्छानुसारं स्वयं तस्याः वरचयनं करोति। परन्तु पणस्वयंवरे किमपि पणः तिष्ठति। यथा भगवान् श्रीरामः जानक्याः स्वयंवरे शिवधनुः भङ्गीकृत्य जानकीं स्वस्य पत्नीरूपेण प्राप्तवान्। शिवधनुः अत्र पणः आसीत्। तृतीयः स्वयंवरः पृथ्वीराजविषये आसीत्। एवञ्च विवाहादिकं प्रचलति स्म। तथापि विवाहसमये किं के पश्यन्ति इति श्रुतिः वर्तते यथा-

कन्या वरयते रूपं माता वित्तं पिता श्रुतम् ।

बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः ॥

      काशिराजः सुबाहुः स्वकन्यायाः शशिकलायाः तस्मिन् स्वयंवरे विभिन्नदेशदेशान्तराणां राज्ञां राजकुमाराणाञ्च निमन्त्रणं विहितवान्। परन्तु तत्सभां प्रति सुदर्शनस्य कृते निमन्त्रणं नासीत्। परन्तु शशिकला स्वयं सुदर्शनस्य पार्श्वे एकसंवादं प्रेषयित्वा सुदर्शनं निमन्त्रितवती। सुदर्शनोपि तत्रागतः। तत्र सभास्थले सुदर्शनं दृष्ट्वा प्रायशः राजानः तस्योपरि बहुलतया उपहासं कृतवन्तः। तद्यथा-

सुदर्शनोऽतिदुर्भाग्यो राज्यभ्रष्टो निराश्रयः ।

बलसैन्यविहीनश्च परित्यक्तस्तु बान्धवैः ।।

तथापि राजकन्या शशिकला तु केवलं भगवत्याः प्रियभक्तं सुदर्शनमेव स्वपतिरूपेण इच्छति स्म। परन्तु सुदर्शनेन साकं शशिकलायाः विवाहं कारयितुं तस्याः पिता सुवाहुः स्वीकृतिं न दत्तवान्। किन्तु शशिकला तस्याः निश्चये अटलासीत्। सुदर्शनादृते अन्यस्य कस्यापि सम्मुखे आगन्तुं शशिकला निराकृतवती। ततः स्वयंवरसभाङ्गणे निम्नोक्तप्रकारेण वार्तालापः प्राचलत्। तद्यथा-

मिलिता भूभुजः सर्वे त्वयाहूता: स्वयंवरे ।

कथमद्य नृपा गन्तुं योग्यास्ते स्वगृहान्प्रति॥

      सा राजकन्या शशिकला स्यमातुः पितुश्च वार्तामपि अमान्यं कृतवती। बहुप्रयासानन्तरमपि शशिकलायाः मनसः परिवर्तने असमर्था भूत्वा राजा सुबाहुः स्वेच्छां परित्यज्य अन्ततो गत्वा सर्वेषां राज्ञां सम्मुखे स्वकन्यायाः शशिकलायाः निष्पत्तिं श्रावितवान्। शशिकलायाः सुदर्शनविषयकनिष्पत्तिं श्रुत्वा तत्र सभाङ्गणे उपस्थिताः प्रायशः सर्वे राजानः क्रोधजर्जरिताः अभवन्। तदनन्तरं ते सर्वेपि राजानः बाहुबलप्रतियोगितां कर्तुमुक्तवन्तः। तत्र यो विजयी भविष्यति स एव शशिकलया साकं विवाहं करिष्यतीति। पुन: शशिकलापार्श्वे गत्वा राजा सुबाहुः स्वयंवरधिया विवाहार्थं निवेदितवान्।   परन्तु शशिकला पुनरपि सम्मतिं न दत्तवती। तदनन्तरं शशिकला तस्याः पितुः सम्मुखे एकोपायमुक्तवती। हे पितृदेव! रात्रौ निर्जनकाले गुप्तस्थाने गत्वा तत्र सुदर्शनेन साकं मम विवाहं कारयतु। तदनन्तरं राजा सुबाहुः रात्रौ एकस्मिन् गुप्तस्थले वैदिकब्राह्मणद्वारा सुदर्शनेन साकं शशिकलायाः विवाहं कारितवान्। अनन्तरं एतत् वृत्तान्तं ज्ञात्वा स्वयंवरार्थं समुपागताः प्रायशः सर्वेपि राजानः क्रोधजर्जरिताः भूयः तत्र युद्धार्थमागताः। सुदर्शनेन  साकं ते सर्वे राजानः युद्धं कृतवन्तः। भगवत्याः कृपातः युद्धे सुदर्शनो विजयी अभवत्। तदनन्तरं भगवत्याः कृपातः विजयश्रीमण्डितः सुदर्शनः स्वनवविवाहितया पत्न्या शशिकलया सह तस्य राज्यं प्रति प्रस्थितवान्। एवम्प्रकारेण देवीभागवते शशिकलासुदर्शनयो: परिणयवृत्तान्तो वर्णितोस्ति॥

 [पणः - प्रतिज्ञा, बाजि लगाना, Stake, bate etc ]


लेखकः - डा.रुरुकुमारमहापात्रः (अध्यापकः)

राष्ट्रियसंस्कृतविश्वविद्यालयः,तिरुपतिः

Wednesday, 18 July 2018

।। महाकालज्योतिर्लिङ्गकथा।।
(शिवपुराणान्तर्गतकथा)
---- सुनीश् नम्बूतिरि


      पुराणवर्णितानि द्वादशज्योतिर्लिङ्गानि भारते अद्यापि प्रसिद्धानि। तेषु तृतीयम् उज्जयिन्यां महाकालज्योतिर्लिङ्गम् इति सुप्रसिद्धं वर्तते। 

       पुरा एव अवन्ती नगरी शिवभक्तानां बाहुल्येन प्रसिद्धा पावनी च आसीत्। तत्र परमशैव एकः वेदनिष्ठायुक्तो ब्राह्मणः पार्थिवलिङ्गस्य नित्यम् अर्चनं करोति स्म। परमज्ञानी सः ब्राह्मणः शरीरयात्रावसाने शिवलोकं जगाम। तस्य महात्मनः चत्वारः पुत्राः देवप्रियः प्रियमेधः सुकृतः धर्मवाही ते च पितसदृशा: परमशिवभक्ता एवासन्। जनकेन अनुष्ठितं शिवपूजनं तेऽपि भक्त्या अनुष्ठानं कृतवन्तः। अनेन तेषां कीर्तिः सर्वत्र प्रसृता जाता। एवम् अवन्ती च ब्रह्मतेजोमयी जाता।। 


     अथैकदा ब्रह्मदेवात् वरं सम्पाद्य दूषणः नामकः एको महासुर: भूलोके धर्मक्षयाय प्रयत्नं कुर्वन् आसीत्। धर्मतेजोमयी नगरी अवन्ती इति श्रुत्वा अवन्त्याः विषये तस्य मनसि आश्चर्यम् जातम्। अनेकेषां महापराक्रमशालिनां वधं कृतवानहं कथं शरीरबलहीनाः ब्राह्मणाः तत्र अधुनाऽपि निर्भयेन वैदिकधर्मपालने शक्ताः भवन्ति इति चिन्ता तं बाधते स्म। सैन्येन सह अवन्त्याः नाशं कर्तुं निश्चितवान् सो महाखलः तत्र गत्वा साधुजनानां हननम् आरब्धवान्।।
भयभीताः जनाः आत्मरक्षणार्थं शिवार्चनतत्पराणां ब्राह्मणपुत्राणां समीपं गतवन्तः। शिवे अचञ्चलां भक्तिं कुर्वन्तः ते सर्वे नामसङ्गीर्त्तनं कृत्वा पार्थिवलिङ्गं परितः उपविष्टवन्तः। यथा दुष्टः दूषणासुर एतेषां शिवभक्तानां वधार्थम् आक्रोशं कृतवान् तावता महता शब्देन पार्थिवलिङ्गस्य स्थाने एको गर्तो जातः ततः विकटरूपधारी महाकाल इति ख्यातो  भगवान् परमेश्वर आविर्भूतः। सूर्योदयेन यथा अन्धकारस्य सम्पूर्णः नाशः जायते तथा दुष्टराक्षसानां नाशो जातः। क्षणाभ्यन्तरे दुष्टानां भस्मीकरणं परमात्माना महाकालेन कृतम्। आकाशात् हरिब्रह्मादयदेवाः पुष्पवृष्टिं चक्रुः। तदानीं द्विजाः विविधैः स्तोत्रैः शङ्करं नमस्कृत्य एवं प्रोक्तवन्तः।। 

महाकाल महादेव दुष्टदण्डकरप्रभो।
मुक्तिं प्रयच्छ नः शम्भो संसाराम्बुधितः शिव।।

अत्रैव लोकरक्षार्थं स्थातव्यं हि त्वया शिव।
स्वदर्शकान्नरान् शम्भो तारय त्वं सदा प्रभो।।

      तेषां भक्त्या प्रसन्नः भगवान् शिवः तेभ्यः मुक्तिं दत्त्वा तस्मिन्नेव गर्ते भक्तानां रक्षणार्थं विलयं गतवान् तदेव महाकालेश्वरस्य ज्योतिर्लिङ्गं जातम्। अद्यापि उज्जयिन्यां महाकालेश्वरस्य दर्शनादेव सर्वाभीष्टसिद्धिं पापनाशं तथा अन्ते शिवलोकञ्च प्राप्स्यन्ति इत्येव भक्तानां विश्वासः।। 

Friday, 15 December 2017

ताटका                                 कथा
-सूनीश् नम्बूतिरि
       एकदा सुकेतु इति यक्षः सन्तानेच्छया कमलजं ध्यात्वा तपश्चकार कालान्तरे ब्रह्मानुग्रहेण तस्य कृते एका पुत्री जाता सा एव ताटका इति कथा। सा अतीवबलवती आसीत्।वरप्रसादेन सहस्रगजशक्तिं मायाविद्यां च सम्पाद्य सा साधुजनानां द्रोहे मग्ना जाता। ताटकापतिः झर्झरपुत्रः सुनन्दः एकदा अगस्त्याश्रमम् आक्रम्य महर्षेः कोपाग्नौ भस्मीभूतो जातः।इमां वार्तां श्रुत्वा कोपाविष्टा ताटका पुत्राभ्यां मारीचसुबाहुभ्यां सह अगस्त्याश्रमस्योपरि आक्रमणं कृतवन्तः। तपोनिष्ठोऽगस्त्यः शापेन तेभ्यः राक्षसत्वम् अददात्। ततः तटाका अनेककालं पताले तथा लङ्कायां च उषित्वा पुन अयोध्यासमीपस्थे करूषवने मुनिपीडां कृत्वा आस्थिता बभूव। अथैकदा विश्वामित्रः स्वस्य यागरक्षणार्थं रामलक्ष्मणौ करूषं प्रति आनीतवान्। यात्रायां विश्वामित्रवचनैः दुष्टनिग्रहार्थं रामः प्रेरितो जातः। अटव्यां कठोरशब्दं श्रुत्वा रामः कुतूहलेन मुनिं पप्रच्छ तदा मुनिः ताटकायाः विषये वर्णनं चकार।

कस्यचित्त्वथ कालस्य यक्षिणी कामरूपिणी।
बलं नागसहस्रस्य धारयन्ती तदा ह्यभूत्।
ताटका नाम भद्रं ते
भार्या सुनन्दस्य धीमतः।

एवं मुनिवचनात् रामः परमाद्भुतेन तटकाया: पूर्वचरितश्रवणोत्सुको जातः। रामः मुनिवचनानि श्रुत्वा ताटकाया: पीडातः सज्जनानां मुक्तिं करिष्ये इति सत्यमकरोत्।

गोब्राह्मणहितार्थाय देशस्य च हिताय च।
करिष्यामि न संदेहस्ताटकावधमुत्तमम्।

एवं ताटकया सह घोरं युद्धं प्रवृत्तम्। मायबलेन ताटकाया विविधशस्त्राणि प्रयुक्तानि तथापि अमितविक्रमेण रामेण सर्वाणि शस्त्राणि नाशितानि। ताटकाया:  करौ चिच्छेद्य युद्धान्ते रामः तस्याः वधं चकार।ताटकामोक्षेण सर्वे देवाः प्रीतमनस्काः भूत्वा पुष्पवृष्टिं चक्रुः।।
 (रामयणे बालकाण्डे ताटका इति निशाचरण्या: कथा प्रतिपादिता अस्ति। ततः संग्रहीता कथा)
----------------------------------------

Thursday, 27 October 2016

विघ्नहर्ता गजाननः
आदिदेवस्य गणेशस्य विस्मयकारिणः रूपान्तरस्य कथा !
[ सरलया संस्कृत-गिरा वर्णिता ]
डॉ. बलदेवानन्द-सागरः 
 
देवाधिदेवः शिवः स्वीय-अर्धाङ्गिन्या पार्वत्या सार्धं कैलास-पर्वते निवसति एकदा, महादेवः तत्र नासीत्, तदा भगवती पार्वती स्नानार्थं सज्जा भवन्ती सती सहसा विचारितवती यत् “कदाचित् स्नान-कर्मणि निरतायां मयि कश्चन भवनम् इदं समुपागच्छेत् !”
किञ्चित् कालं यावत् गहनं परिशील्य सा समुपायम् एकं निर्धारितवती स्नानारम्भात् पूर्वं, सा स्वीय-देहे लेपितं हरिद्रावलेपम् अपसार्य तम् एकस्मिन् पात्रे न्यदधात् ततः परम्, तल्लेप-कर्दमात् सा एकस्य किशोरस्य बालकस्य प्रतिमां निर्मितवती तदनु, भगवती पार्वती तस्यां प्रतिमायां जीवनम् अस्थापयत् सा प्रतिमा रमणीय-किशोर-बालकत्वेन रूपान्तरिता जाता। भगवती पार्वती सगौरवं शनैः च अवदत् यत् - त्वं मम सुतः! केवलं मामकीनः!.
मात ! केन प्रकारेण अत्रभवती सेवनीया ?” तस्याः सुतोऽयम् अपृच्छत् पार्वती तं बालं भवन-प्रवेश-द्वारं सन्नीय लौह-दण्डम् एकं प्रदाय निरदिशत् – “सुत ! अत्र प्रहरित्वं विदधातु मम अनुज्ञां विना न त्वया कश्चन अन्तःप्रवेशार्थम् अनुमन्तव्यः
तत्पश्चात्, भगवती पार्वती भवनान्तः प्रविष्टा किञ्चित्-कालानन्तरं कश्चन तत्र आयातः अनुमिनोतु, कोऽयं सम्भवेत्...? साक्षात् परम-शिवः !
यथैव परम-शिवः भवनं प्रवेष्टुं समुद्यतः, तत्रस्थेन किशोरेण असौ अवरुद्धः मम माता, भगवती पार्वती न कमपि जनम् अन्तःप्रवेशार्थं माम् आज्ञप्तवती
परम-शिवः स्वीय-हास्यम् अवरोद्धुं नैव अपारयत् हा...हा...हा... भगवती पार्वती साम्प्रतं पुत्रवती, तच्च, मम अवगमनं विना !”
बालकस्य तर्जनामयीं दृष्टिम् उपेक्ष्य परम-शिवः किञ्चित् अग्रेसृतः तथा हि, अचिन्तनीयं किमपि घटितम् ! बालकः लौह-दण्डेन भगवन्तं शिवम् अताडयत् अन्तः नैव प्रवेशार्थं मया पूर्वमेव प्रतिबोधितं नासीत् किम् ...?”
भगवान् शिवः अतितरां क्रुद्धः सञ्जातः किञ्चित् कालं विचिन्त्य ततः निर्गन्तुम् असौ निरणैषीत् ततः प्रस्थानात् प्राक्, भगवान् शिवः बालकम् अब्रवीत् - एतादृशः अहङ्कारः! त्वादृशं लघु-बालम् अनुशास्तुं मम गणाः एव अलम्
त्वरितमेव भगवान् शिवः स्वीय-गणान् आकारयत् आदिशत् च, “गच्छन्तु, भवन-द्वारि प्रहरित्वपरम् अहङ्कारिणं बालं सम्यक्तया शिक्षयन्तु
भगवतः शिवस्य सायुधाः गणाः स्वामिनः आज्ञां पूरयितुं द्रुतमेव भवन-प्रवेश-द्वारं प्रति धाविताः पार्वत्याः सुतः अमुना बलप्रदर्शनेन न किञ्चिदपि भीतः | गण-प्रमुखः तार-स्वरेण अवदत् – “कथं त्वं भगवन्तं शिवं समाह्वयितुं प्रभवषि ? वयं त्वां व्यापादयिष्यामः
विनैव कमपि उद्वेगम्, पार्वत्याः सुतः तान् अब्रवीत् – “मम मातुः भगवत्याः पार्वत्याः ईच्छानुसारम् अहम्, भवतां स्वामिनः आज्ञानुसारेण च भवन्तः आदिष्टाः स्मः नाहं मनागपि परावर्तिष्ये
भगवत्याः पार्वत्याः सुते अस्मिन् आक्रमणमिदं किं समुचितम् ?- इति शिव-गणाः द्वन्दाभिभूताः जाताः बालके अस्मिन् विनैव किमपि आक्रमणं ते परावर्तिताः तत्रान्तरे, भगवती पार्वती यत् किमपि घटितमासीत्, तद् अभिज्ञातवती
परम-शिवस्तु मम पतिः अस्ति, तथ्यम् अपरीक्ष्य एव, सः मम सुतम् आक्रान्तुं प्रायतत, अहं मदीय-पुत्रस्य गौरवं रक्षिष्यामि”– इति सा निर्णीतवती
गणाः भगवन्तं शिवम् उपगम्य सर्वं यत् घटितं तत् वर्णितवन्तः तत् श्रुत्वा शिवः आदिशत् यत् “यदि वयं परावर्तामहे, सः अस्मान् भीतान् अवगमिष्यति, गच्छन्तु तं पराजित्य प्रत्यागच्छन्तु
भगवतः शिवस्य सद्यः आदेशं श्रुत्वा, नूतन-बल-सम्पन्नाः गणाः भवनं प्रति द्रुतं प्रयाताः नन्दिकेशः गणानां प्रमुखः आसीत् आत्मानं प्रति आगच्छतः गणान् दृष्ट्वा पार्वती-पुत्रः अवोचत् – अहं तु केवलं मदीय-जनन्याः आज्ञां परिपालितवान् न मया भवन्तः किञ्चिदपि बाधिताः, तर्हि कथं माम् आक्रमन्ते ?” परञ्च गणाः न किञ्चिदपि सम्भाषितुम् उद्यताः आसन् | युद्ध-समाघोषान् घोषयन्तः ते आक्रान्तुम् आरभन्त एवं हि, भीषणं युद्धं प्रवृत्तम् यद् अनुवर्तितं तद् आश्चर्यकरं नासीत् ! पार्वती-पुत्रस्य एकाकिनः युद्ध-वीरस्य समक्षं स्थातुम् अशक्ताः गणाः सपदि पराजयं स्वीकृतवन्तः देवाधिदेवः शिवः स्वीयं भवनं प्रवेष्टुं नार्हत् – इति वार्ता देवलोके अपि प्रसृता समस्येयं केन प्रकारेण समाधेया ? पितामहः ब्रह्मा स्वर्गाधिपः इन्द्रः च, गहनां विचारणां अकुरुताम् अन्ततः भगवन्तं शिवम् उपगन्तुं तौ निर्णीतवन्तौ
पितामहः ब्रह्मा स्वर्गाधिपः इन्द्रः च, परमशिवम् उपगम्य निज-समवेदनां प्रकटितवन्तौ शिवः तौ निगदितवान् यत् - देवी-पार्वतीतः पराभवं न स्वीकरिष्यामि
अहं स्वपक्षतः प्रयते - इति उक्त्वा ब्रह्मदेवः कैलाश-पर्वतं प्रति जगाम अनेकैः महात्मभिः सहकृतः पितामहः ब्रह्मा ब्राह्मण-रूपेण पार्वती-पुत्रं मेलितुं प्रयातः ते प्रवीरं बालम् उक्तवन्तः - “प्रियवत्स ! त्वया परम-शिवस्य मार्गः नैव अवरोधनीयः आसीत्
बालकः अविचलितः एव स्थितः सम्प्रति भवान् प्रस्थातुं शक्नोति, अहं केवलं निजमातुः आज्ञाम् अनुपालयामि
बालकेन ब्रह्मदेवस्यापि वचनम् अन्यथाकृतं इति वृत्तम् आकर्ण्य परमशिवः अतिक्रुद्धः जातः सः निज-सुतं कार्तिकेयं देवेन्द्रं च आकार्य न्यगदत् यत् – “कार्तिकेयः शिवगणान् सन्नयतु, देवेन्द्रः च देव-सेनाः सन्नेष्यति तं व्यापादयन्तुएवं हि, शिवगणाः देवसेनाः च, भवन-प्रवेशं प्रति प्रयाताः एतद्-घटना-जातस्य वृत्तम् अवगम्य देवी पार्वती भगवतीं महाकालीं देवीं दुर्गां च आकार्य निरदिशत् यत् – “मम सुतः एकाकी वर्तते अत्रभवत्यौ द्वेSपि तस्मै साहाय्यं कुरुतात्
यथैव महाकाली आदेशमेनम् अशृणोत्, सा युद्धभूमिं प्रति सपदि प्रयाता तया देवसेनाः लक्ष्यीकृताः देवानाम् आयुधानि तया ग्रसितुं आरब्धम् भीताः सन्तः देवाः पलायिताः तत्रान्तरे, भगवती दुर्गा शिव-गणानां सेनानां साम्मुख्यं व्यदधात् तस्याः बलं सोढुम् अक्षमाः निःसहायाः गणाः स्व-जीवित-रक्षार्थम् इतस्ततः पलायिताः
एतत्-सर्वं घटितम् अवगम्य भगवान् विष्णुः परमशिवं परामर्शितवान् – “महादेव ! न कश्चन सम्मुखात् बालमेनं पराजेतुं शक्नोति वयं केवलं कपटेन एव तं पराजेतुं शक्ष्यामः
पार्वती-पुत्रम् आक्रान्तुं महाविष्णुः महादेवः च पृथक्-पृथक् दिशां प्रति प्रयातौ एकतः, महाविष्णुः बालकस्य सम्मुखम् आक्रमणम् आरभत, अपरतः, महादेवः त्रिशूलेन पश्चभागात् बालकमेनम् आक्रमत शिवस्य त्रिशूलेन बालकस्य शिरच्छेदः कृतः युद्धं समाप्तम् परञ्च परमशिवः दुःखी अभवत् अहं देव्याः पार्वत्याः पुत्रं मारितवान् मम पत्न्याः कृते किञ्चिदपि पीडादायि कार्यं मया नैव करणीयमासीत्
अपराध-बोधाविष्टः परमशिवः देवीं पार्वतीं मेलितुम् अगच्छत् स्वीय-सुतस्य निधन-वार्तया सा अदम्यं क्रोधम् अनुभवति स्म अत्रभवता मम पुत्रस्य जीवनं परावर्तनीयम् - इत्यहं वाञ्छामि नैतावन्मात्रम् ! देवेषु सम्माननीयं गौरव-पदमपि अस्मै प्रदेयमित्यपि वाञ्छामि ततः परमेव मम क्रोधः अपगमिष्यति” - इति देवी पार्वती चीत्कृतवती एतत् आकर्ण्य परमशिवः भवनात् बहिः निर्गत्य देवान् आदिशत् – “कृपया उत्तरदिशां प्रति गत्वा प्रथमं सम्मुखीक्रियमाणस्य प्राणिनः शिरश्छेदं कृत्वा च पार्वत्याः सुतस्य जीवनार्थं तत्-शिरःसन्धानं कुर्वन्तु |” देवाः सपदि एव निर्गताः ते सर्वप्रथमं दीर्घ-दन्तिनं गजम् अपश्यन् ते गजस्य शिरोवधं कृत्वा भवनं प्रत्यागताः पार्वत्याः सुतस्य जीवनार्थं तस्य देहोपरि ते गजस्य शिरः स्थापितवन्तः ते गजाननं बालं पार्वतीं उपानीतवन्तः सा प्रसन्ना जाता सा तं गजाननं स्वीय-अङ्के उपावेश्य भगवन्तं शिवम् अकथयत् यत् – “अस्मै देवेषु किं पदम् उपायनीक्रियते ?”
परमशिवः गजाननस्य शिरसि निज-करपल्लवस्य स्पर्श-पुरस्सरं तस्मै आशीराशिं प्रदाय अवदत् – “अद्य प्रभृति बालोऽयं गणान् सन्नेष्यति अतः गणेशत्वेन अर्थात् गणानां स्वामित्वेन लोकेषु पूजयिष्यते
भगवती पार्वती अतितरां प्रसन्ना अभवत् परमशिवः पुनरपि अवदत् यत् - “अस्मदीयोऽयं सुतः विघ्नानि अपाकर्तुम् उत्पादयितुं चापि शक्तिं सन्धारयति अतः असौ विघ्नेश्वर-रूपेणापि ख्यापयिष्यते विघ्नानि दूरीकर्तुं केवलं विघ्नेश्वस्य प्रसन्नता अपेक्ष्यते
एतत् श्रुत्वा देवाः सादरं गण-नायकं गणेशं नमस्कृतवन्तः प्रसन्नः गजाननः गणेशः सर्वेभ्यः स्मितवदनः सञ्जातः

Wednesday, 28 September 2016

देशरक्षा परमोधर्मः                                        कथा 
                                                                                    पुनरालेखनम्  - शान्ति सी
     पुरा काश्मीरेषु नन्दिनीदेवी नामिका काचित् ग्रामीणा वसति स्म। तस्याः चत्वारः पुत्राः आसन्। सर्वेषां शिक्षादिकं विधिवत् दत्वा सा पुत्रान् अपालयत् ।
    राज्यसीमायां कालान्तरे कलहः सञ्जातः। सीमा रक्षणाय सैनिकानांद्वौर्लभ्यम् अभवत्। अतःग्राममुख्यः ग्रामीणान् एवमवदत्‌ "भो ग्रामीणाः देशस्य एषा दुर्दशा अभवत् । देश रक्षार्थम् उपायः एक एव। भवन्तः एकैकं युवानम् अवश्यं देश रक्षायै प्रेषयन्तु " इति।
     ग्राममुख्यस्य आदेशानुसारं नन्दिनीदेवी ज्येष्ठं तनयं प्रैषयत्। एवमेव सर्वाभिः कृतम्। तथापि जन बलेन देशरक्षा अपूर्णोऽभवत्। अतः सा शिष्टान् पुत्रान् आहूय अवदत्  "पुत्राः देशस्य रक्षणम् अस्माकं धर्मः। अतः देशरक्षणाय सीमानं ग्च्छन्तु इति।
सुपुत्राः मातुराज्ञा पालने व्यग्राः खलु ? एकैकः क्रमेण सीमां प्राप्य देशरक्षणकर्मसु व्यापृतः अभवत् । तथापि सैनिकानाम् अपर्याप्तता अभवत् । पुनरपि ग्राममुख्यः ग्रामीणान् सीमारक्षणाय उद्बोधितवान्। एतत् श्रुत्वा नन्दिनीदेवी रोदितुम् आरभत। तदा काचित् तामुपगम्य रोदनकारणमपृच्छत्। "देश रक्षा परमोधर्मः । इतः परं प्रेषयितुं पञ्चमः पुत्रो नास्तीति मे दुःखम्" इति दृढमनसा नन्दिनीदेवी न्यवेदयत् ।

अपि कनकमयी लङ्का न मे रोचते लक्ष्मण।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी॥
----------------------------------------------------------------------------------------

Friday, 16 September 2016


 कथा
 स्नेहमयी जीवनाशा
 रम्या पुलियन्नूर्
 एस्  एस्  जि एच्  एस्  एस्  कण्टंड़्काली पय्यन्नूर्, कण्णूर् ।
मम प्राप्तिसमये कवाटः पिहितः आसीत् ।
 तत् गृहं वातावरणं च अत्यन्तं पुरातनमिव अभासत। जीवनम् अत्रास्तीत्यस्य कापि कला तत्र दृष्टिगोचरा नासीत्। अड़्कणं न परिमार्जितम्, तत्र तृणानि रूढमूलानि काननच्छायां प्रयच्छन्ति स्म। गृहं च न परिमार्जितम्। धूलिधूसरितम् आसीत्। लूताजालैः निर्मिताः भिन्नभिन्नालड़्कृतयः तत्र तत्रासन्।

दूरदेशोद्योगप्राप्तौ अनन्यगामिकाहम्  एकमात्र बन्धुगृहम् एतत् प्रविष्टा। गृहस्य अन्तः प्रकाशः नास्ति प्रायः । चतुश्शालेत्यतः लभ्यमान प्रकाशेन मार्गाः  ज्ञाताः। महानसस्य पुरतः  विद्यमाने प्रकोष्ठे बन्धुर्मम सा दीपज्वालनाय वर्तिकाः सज्जीकरोति स्म। तस्याः दर्शने ममहृदयं छिन्न भिन्नम् अभवत् । पूर्वं ऐश्वर्यदेवतेव विराजमाना सा सुमड़्गलित्वं सम्यक् अलड़्करोति स्म । अधुना तु कलुषितवस्त्रा कृशगात्री सा केशान् न प्रसाधितवतीति दृष्टा मया।  तस्याः एकमात्रपुत्र्याः भर्तुश्च अपघातेन देहवियोगः मया ज्ञातः आसीत्। तथापि एवंविधम् एतस्य परिवर्तनं न ज्ञातमेव मया।  स्नेहव्यवहारेणैव सा रक्षितुंशक्या इति ज्ञात्वा अहं तत्र दीपं ज्वलितवती। दीपस्य प्रकाशेन अस्वस्थतां प्रदर्शितवती सा पूर्वकर्मस्मरणेन वा वार्तिकायाः सज्जतायां लग्ना आसीत्। समीपं गत्वा 'पेरश्शी ' इति आहूय स्मारितवती। ममाह्वानेन सा किञ्चित् स्मृतवतीव भावं प्रकटितवती। किञ्चितपि समीपस्था भूत्वा तस्याः स्कन्धे हस्तं विधाय अहं निर्मला इति सूचितवती। उद्योगप्रप्तिवृत्तान्तं सर्वं तां सूचितवती। इतः परम् अत्रैव मम वासः इति च । सा अड़्गीकृतवती । तस्मिन् दिने परस्परसम्भाषणं विना मौनभोजनम् आसीत्।

अग्रिमदिने प्रातरुत्थाय गृहस्वच्छतायां व्यपृताहम् । गृहम् अड़्कणं च सम्यक् परिमार्ज्य स्नानं ततः श्रीगृहे दीपज्वलनं च श्रद्धया मया आचरितम् । मम भागवतपारयणं श्रुत्वा सा उत्थितवती । ततः किञ्चिदाश्वस्ता इव स्नात्वा आगत्य मम समीपम् उपविष्टा । ततः महानसे द्वापि मिलित्वा आहारनिर्माणं कृतवत्यौ । मम प्रस्थानावसरे सा भोजनपात्रम् आनीतवती। " नावश्यकं , मध्यह्ने अहम् आगत्य मिलित्वा भोजनं कुर्वः  " इति कथनेन सा सन्तुष्टा अभवत्। जीवनाशा तस्यां स्फुरितेव। मम गमनसमये पुरतः आगत्य स्थितवती। स्वपुत्रीं स्मृत्वा अश्रूणि मुञ्चन्ति दृष्टा मया।

तद्दिने सायंकाले तामपि बहिर्गन्तुं प्रेरितवती। महता कष्टेन तां बहिरानाय्य वाटिकानिर्माणम् आरब्धवती। सापि मम साहाय्यार्थं सन्नद्धा अभवत्। एकघण्टाभ्यन्तरे सुन्दरम् उद्यानं सज्जीकृतवत्यौ। अनन्तरं स्नात्वा सन्ध्यावन्दनाय उपविष्टे।

एवम् एकमासानन्तरं निरन्तरसामीप्यदानेन तस्यां जीवनोत्साहः वर्धितः। समीपस्थाः बालाः तस्याः वाटिकायामगत्य क्रीडां कर्तुमारब्धवन्तः । तेषां निरन्तरकोलाहलैः तत् गृहं मनुष्यगृहं जातम्। सा मध्यपि पुत्रीनिर्विशेषं स्निह्यति स्म। अहमपि स्नेहं दत्वा ताम् पुनः जीवनोन्मुखं कृतवती। आत्मविश्वासेन आश्वस्ता च।
--------------------------------------

Monday, 5 September 2016

 कथा


प्रतीक्षा
सुजा के पी
जिविएस् एस् चर्प तृश्शिवपेरूर्


भवता आहूयमाना संख्या परिधौ नास्ति......। दिनद्वयतः पुत्रस्य दूरवाण्या इयमेव आयाति इति विषादपूर्णया वाचा सगद्गदं प्रलपन्ती शारदा मम वक्षसि मुखं निहितवती। किं वक्तव्यमिति ममापि भ्रान्तिः जाता।

एक पुत्रः सुन्दरः गुणवान् च। बाल्ये सर्वे वदन्ति स्म यत्  " एतादृश पुत्रलाभार्थं तपः करणीयम्  " इति....। तस्य अष्टमजन्मवार्षिकस्य आचरणवेलायां मम मित्रं राधाकृष्ण एवमुक्तवान् - " भवान्  ग्रामीणविद्यवये पुत्रं पाठयित्व तस्य 'फ्यूचर्'  किमर्थं  नाशयति ? नगरम् आगच्छतु। तत्र उत्तम विद्यलये पाठयतु, प्रवेशन क्लेशः स्यात्  । चिन्ता मास्तु , व्यवस्थां करिष्यामि वासव्यवस्थायामपि चिन्ता न करणीया  ।  "

किन्तु पितरौ " मम चिन्ता जाता ।
किं भो! इदानीं भवतः पुत्रस्य भविष्यमेव प्रधानं ननु? वासरान्तेषु अत्र आगत्य पित्रो क्षेमान्वेषणं कुरु " तदेव उत्तममिति  शारदायाः अपि मतमासीत्। हरितमयानि क्षेत्राणि जीर्णमपि शान्तिपूर्वं मन्दिरं च त्यक्त्वा तथा सदा जपन्तम् अश्वत्थं विस्मृत्य अपरिचिते नगरे वासः। राम! राम! इति मातुः आह्वानं कदाचित् एव शृणुयाम्।समूलम् उत्पाट्य अन्यत्र रोपणम्। !! तत्र सामञ्जस्ये कति दिनानि आवश्यकानि भवेयुः । मम विविधाः चिन्ताः आसन्।

किन्तु  नगरी तु काचित् अभिसारिका इव। तस्याः करवलये बद्धः चेत् सर्वमपि विस्मरति। न गृहं , न ग्रामः न बान्धवाः । तस्याः सौन्दर्ये मुग्धः न किमपि स्मरन्ति...। मोहयितुं सा जानात्यपि......।

नगरजीवितम् आरब्धम् । ग्रामस्य व्ययात् दशगुणितः व्ययः । कदलीपत्रमपि धनेनैव लभ्यम्। तद्वत् अन्याः आवश्यकताः सञ्जाताः। "सर्वेषु गृहेषु परिचारिकाः सन्ति। एका अत्रापि भवतु। नो चेत् अस्माकम् अपमानः" शारदायाः परिभवः । कथञ्चित् परिचारिकायाः व्यवस्थाम् अकरवम्। पुत्रस्य इच्छानां तु सीमा एव नासीत्। एकस्यानन्तरम् अन्यत्...... । द्विचक्रिका, जड़्गमदूवाणी, सड़्गणकम्..... एवमेवम् आवलिः प्रवृद्धा ।

" भवान् छात्रः खलु इदानीं किमर्थम् ? " अपृच्छम् । " " " पितः! सर्वेषां मम मित्राणां हस्ते अस्ति।
भवान् कस्मिन् युगे जीवति ? " प्रश्नभावेन शारदां दृष्टवान् । " ददातु रे " , तस्याः नेत्रे स्पष्टम् अवदताम् ।
भवतु अस्माकम् उण्णिः खलु  अनयस्मै कस्मै न इति विचचिन्त्य तामपि इच्छां पूरितवान्। सड़्गणकं गृहमानीतम् । उण्णिः तु सर्वदा तस्य  पुरतः एव । पठनार्थमेव उपयोगः इति तस्य वचने तु आवयोः संशयलेशोऽपि नासीत्।

एकस्मिन्दिने दृरवाणी आगता । पुत्रस्य विद्यालयात् ।
" शीध्रम् आगन्तव्यम्  " । किं स्यात् एतावत्याः त्वरयाः कारणम् ?
प्राचार्यस्य प्रकोष्ठं प्रविष्टः । क्रोधस्फुरनेत्राभ्यां किमपि लिखन् प्राचार्यः । समीपे निद्रामग्नः इव उण्णिः । प्राचार्यः वक्तुमारब्धवान् - पश्यतु भवतः पुत्रस्य पठनवस्तूनि ....  उत्पीठिकां प्रदर्शितवान् ।


रक्तवर्णेन अड़्कितं प्रगतिपत्रम्, श्वेतचूर्णयुक्तानि लघुपलास्तिकपोटलिकाः , काचित् सान्द्रमुद्रिका.....  एवमेवं ..... व्यक्तं किल? इदमपि पश्य , सान्द्रमुद्रिकां सड़्गणके संस्थाप्य सः चलचित्रं दर्शितवान् ..... मम अधस्तात् भूमिः चलिता इव पाताले मग्नः इव अभवम्। चित्रे मम पुत्रः परिचारिका च .... अहो किं किं दृष्टं मया .... मम शिरोभ्रमणं जातम्। प्रचार्यः पुनरपि कथयन्नासीत्। आरक्षकाः न्यायवादः अधिवक्ता एवमेवं...। उण्णिः गृहमानीतः। शारदा रोदितुमारभत। पुत्रस्य स्कन्धे स्ववक्षसि च पुनः पुनः ताडयन्ती सा किमपि प्रलपन्ती आसीत्। क्रुद्धः सः मां  स्वमातरम् अपि ताडयितुम् उद्युक्तः।

प्रातिवेशिकस्य अध्यपकस्य साहाय्येन उन्मादविमुक्तक्रन्दं नीत्वा चिकित्सा ....... वर्षाणां प्रयत्नेन सः मादकवस्तुभ्यः विमुक्तः ।  " स्वकृतेभ्यः  पापेभ्यः मोचनं प्राप्तुमिच्छामि । पापनिवारिणीनां तीर्थानां वक्षसि अश्रूणि मुञ्चन् पूतो भविष्यामि ..."आवयोः मौनम् अनुमतिं मत्वा सः प्रस्थितः .... मासद्वयं अतीतम्। एकवारं कावेर्यामस्मीति दूरवाणी आसीत्। परन्तु ततः परं कापि वार्ता नास्ति। तम् आह्वयामश्चेत् परिधौ नास्तीति वचनमेव।
राम... ...  राम.......  जानकीजाने   येशुदासस्य मधुरस्वनः । रामचन्द्रः झटिति स्वप्नात् जागरितः । दूरवाणी!! मह्यं दूरवाणी !! उण्णिः स्यात् । शारदा अपि दूरवाणीं स्वीकृतवान्। अपरस्मात् पार्श्वात् ध्वनिः आगतः। राम ! किमर्थं भवान् न आगच्छति ? श्वः जन्मदिनं तव ...... आयाहि । आवामत्र भवदागमनं प्रतीक्ष्यमाणौ स्वः ।

मातुः सकम्पवचनं श्रुत्वा किमपि स्मृत्वा इव रामचन्द्रः भार्यया सह झटित्येव गृहं प्रतिष्ठित । यात्रावेलायामपि शारदा पुत्रम् आह्वयितुं प्रयतमाना आसीत्। तदापि सा एव वाणी...   " भवता आहूयमाना संख्या परिधौ नास्ति "।
---------------------------------------

Thursday, 25 August 2016

लोका: समस्ताः सुखिनो भवन्तु ।

डो. पि के शड़्करनारायणः
अकवूर् उच्च विद्यालयः,
श्रीमूलनगरम् ।

" पुत्रा: .....अप्पुट्टा ...... अम्मिणि...... सर्वे आगच्छन्तु ၊ अहमेकां कथां कथयामि ၊ " श्रावणमासस्य शैत्यसंयुते प्रभाते पूर्वस्मिन् दिने समाहृतानि  पष्पाणि उपयुज्य गृहाङ्णे पुष्पावरणनिर्माणसमये आसीत् मातामह्याः आह्वानम्।

" एषा मातामही सर्वदा एवमेव । उत्साहेन उत्साहेन किमपि कर्तं यदा दर्वीं चालयित्वा आगच्छति । " पारुकुट्ट्याः एतत् भाषणम् अप्पुट्टाय बहु अरोचत ।

" श्....... श्...... मा वदतु ज्येष्ठे एवम्। मातामही किल । स्नेह एव तस्याः सम्पाद्यम् इति अम्बा  सर्वदा वदति खलु "।

" सत्यं सत्यं ..... " अम्मिणिकुट्टी अवदत् । वदतु ,वदतु मातामहि !  वयं श्रुणुमः । ते सर्वे उत्साहेन मातामह्याः समीपं गत्वा उपाविशन् ।

' पुरा........ पुरातनकाले एकत्र एकं विशिष्टं राष्ट्रम् आसीत् '। ताम्बूलचर्वणं कुर्वती सा अवदत् ।
हुं .........  विशिष्टं राष्ट्रम् । तर्हि  तत्रत्य महाराजस्य विशेषः अपि स्यात् । उच्यतां  मातामहि उच्यताम् ' अप्पुट्टः उत्साहेन अपृच्छत् ।

" आ......आ.........  अ अ तत्रैव खलु विशेषः " मातामही सावधानं गत्वा किञ्चिद् दूरं दीर्धं निष्ठीवनम् अकरोत् ।

" हुं  वदामि श्रुणोतु, तस्मिन् राज्ये नृपः नासीत् । सर्वेऽपि नृपाः । सर्वेषामपि सर्वत्र अधिकारः आसीत् ।
 शासननिर्वहणे अपि सर्वेषाम्  अधिकारः। शिक्षाविधिं निर्णेतुं शिक्षां स्वीकर्तुं च तस्मिन् राज्ये केऽपि न आसन् ।  सर्वाण्यपि कार्याणि सुबद्धं प्रचलन्ति स्म तत्र । समत्वसुन्दरं राज्यम्  ' । मातामही साभिमानं दीर्धनिश्वासम् अकरोत् ।


" हन्त ! कष्टम् ! तर्हि तत्र आरक्षकाः भटाः वा न आसन् ? "  अम्मिणिकुट्टी अड़्गुल्या नासिकाग्रं स्पृष्ट्वा साकाड़्क्षं पृष्टवती ।

" नास्ति पुत्राः...... तदेव किल वदामि । तत्र चौर्यं नासीत् ।  धनिकाः निर्धनाः  वा न आसन्  । स्वामि-भृत्य - भावना वा न आसीत्। तत्र न केऽपि मद्यपानं कुर्वन्ति स्म । "

' उत्तमं राज्यम् । समीचीनम् । बहुविशिष्टम् । वदतु वदतु पुनः किम् ? अन्ये विशेषाः.......? ' अप्पुट्टः उपविश्यैव किञ्चिद् अग्रे सरन्नपृच्छत् ।

मातामही किञ्चिदालोच्य दीर्धनिश्वासं कृत्वा वक्तुम् आरब्धवती । तस्मिन् राज्ये सर्वेऽपि स्वस्य परिसरं प्रतिदिनं स्वच्छीकुर्वन्ति स्म । तत्र रुग्णाः न आसन् । तत्र दिनाचरणानि , इदानीं प्रचलन्ति खलु ग्रामे ग्रामे विद्यालये च, न.... न ..... तस्मिन् थाज्ये न सन्ति तादृशानि आचरणानि । सर्वं सर्वे जानन्ति स्म तत्र । परस्परसाहाय्येन सर्वेऽपि आवसन्। '

" ओ..........अरे ........... एतत् विशिष्टं राज्यमेव ' पारुकुट्याः   नेत्राभ्याम् आनन्दाश्रूणि प्रावहन् ।

' न समाप्तं पुत्राः । तत्र जनाः स्वस्य कृते आवश्यकानि वस्तूनि स्वयं निर्मन्ति स्म । शिशवः सदा सन्तुष्टाः आसन् । मातरः पितरः वा तान् न अपीडयन् । '

'आ........कारणं स्यात्..........। मातामही ! बालाः तत्र परस्परं न विवदन्ते स्म । एवं खलु  ' अम्मिणिकुट्टी सोत्साहमपृच्छत् ।

'हुं ..........सत्यं सत्यं ........' सा  शिरः अचालयत् । पारुकुट्टी अम्मिणीं नेत्रभ्यां भायितवती  ।

किं  ? मातामहि ! तस्य राज्यस्य नाम किम् ?
अप्पुट्टस्य आसीत् प्रश्नः । सर्वे साकुलं मातामहीं स्पृष्ट्वा अपश्यन् ।

ह  ह  ह मातामही तुला तोलनमिव चलित्वा हासमकरोत् । अवदत् च । तस्य राज्यस्य नाम नास्ति।एवं किञ्चित् राज्यमेव नास्ति भोः । तत्र सर्वे सुखिनः।शाश्वतप्रेम एव सर्वेषाम् । अथवा ........ अथवा ....... स्नेहः  इति स्यात् तस्य राज्यस्य नाम । श्रावणाचारणस्य स्मरणाः प्रददति तत् राज्यम् । पुरातनं राज्यम्....... ह ..... पुरातनम्.....' । मातामही नामजपेन मन्दं मन्दं महानसं लक्ष्यीकृत्य गतवती । कुत्रचित् श्रुतपुर्वं सुभाषितमपि सा वदति स्म ।

न राज्यं न राजासीत् न दण्ट्यो न च दाण्डिकः ।
धर्मेणैव प्रजाः सर्वाः रक्षन्ति स्म परस्परम् ।।

Sunday, 21 August 2016

कृष्णस्य बाललीलाः


[ सरलया संस्कृत-गिरा वर्णिताः ]                              डॉ. बलदेवानन्द-सागरः
भारते यदुवंशः प्रमुखेषु राजवंशेषु अन्यतमः आसीत् अस्य वंशस्य अनुवर्तिनो यादवाः गोपालकत्वेन विख्याताः जाताः ते सुख्याते सुरम्ये प्रदेशे गोकुले निवसन्ति स्म यादवानां प्रमुखः नन्द-गोपः तस्य पत्नी यशोदा च, आनन्द-सन्दोहं कृष्णं दत्तक-पुत्रत्वेन स्वीकृत्य तं गोकुलम् आनीतवन्तौ गोकुलस्य अनेन नूतनेन संयोगेन यादवानां प्रसन्नता द्विगुणिता जाता
कृष्णः गोकुल-वासिनां जीवनेषु अतुल्यं परिवर्तनम् अकरोत् प्रेम्णा स्नेहेन च गोपाल-इति नाम्ना ख्यातः कृष्णः अतितरां चञ्चलः सर्वैः साकं लीलया व्यवहरति स्म।  यद्यपि तस्य चञ्चल-बाल-लीलाभिः नैकवारं प्रतोदिताः सन्तोऽपि ते सर्वे गोपालाय स्निह्यन्ति स्म
अनुमिनोतु , गोपालाय अधिकतमं किं रोचते स्म ? भवतु, दुग्धं नवनीतं च प्रायेण प्रतिदिनमेव, यदा वत्सः निज-मातुः दुग्धं पातुम् उपक्रमते स्म , तद्-दृश्यं रमणीयं भवति स्म
दुग्ध-पानानन्तरं कृष्णः गोवृन्दस्य पश्च-भागे निलीयते स्म यदा यादव-स्त्रियः गो-दुग्धाहरणार्थम् आयान्ति स्म, कृष्णः गोः पुच्छं सहसा आकर्षयति स्म
भवता किं कदाचित् एवं श्रुतं यत् कश्चन गोः पुच्छम् आकर्षयति चेत् तदा किं गौः स्थिरा अभविष्यत् ? नैव... एषा स्यात् कूर्देत् ... दुग्ध-पात्रं च, आस्फा लयेत्...! एतत् सर्वं दृष्ट्वा कृष्णः प्रमुदितः सन् मुक्त-मनसा हसति दूरे पलायते स्म
एकदा कृष्णः अतितरां चाञ्चल्य-पूर्णां लीलाम् अकरोत्सः निजगृहस्य दुग्ध-भण्डारण-कक्षं गतवान्, यत्र दुग्धं मृत्तिका-पात्रे बालैः अप्राप्ये उन्नते स्थाने आधीयते स्म | किं जानाति भवान् कृष्णेन किम् आचरितम् ? सः पार्श्व-स्थात् कक्षात् चूर्णिका-प्रस्तरमेकम् लोठयित्वा तत्रानीय तस्योपरि च स्थितवान्
अहो काठिन्यम्...! साम्प्रतमपि सः दुग्ध-पात्रं स्प्रष्टुं नैव अपारयत् सः कानिचित् काष्ठानि प्रकीर्ण-लकानि च समेत्य मिथः संयोज्य प्रस्तर-खण्डोपरि स्थापितवान् तदुपरि महता प्रयासेन पादाङ्गुलिभिः आधृतः सन् दुग्ध-पात्रं बलात् स्प्रष्टुम् अपारयत्
सहसा काष्ठानि प्रकीर्ण-लकानि च अवपतितुम् आरभन्त कृष्णः पात्र-रज्जुं धृत्वा “ अम्ब ! अम्ब !! कृपया आगच्छतु ... !!! साहाय्यं करोतु... अम्ब...!” इति सोत्कण्ठं मातरम् आकारयत्
तस्मिन् स्थले सर्व-प्रथमं कृष्णस्य भ्राता, बलरामः प्राप्तः, नभसि दोलायमानं कृष्णं
दृष्ट्वा बलरामः सानन्दं मातरम् आकारयत् , “मात ! सपदि आगच्छ ! कृष्णः नभसि दोलायते .... हा... हा... हा...!”
एतत्-संक्षोभं श्रुत्वा यशोदा, राधया तत्-सखीभिः च साकं धावन्ती तत्र आगता राधा कृष्णस्य सखी आसीत् कृष्णं दृष्ट्वा यशोदा साश्चर्यं अवदत् – “उद्धत ! बाल ! , अहं दुःखितास्मि त्वत्तः... !”
कृष्णः यदा अधः अपश्यत् , सः राधां तस्याः अन्यसखीः च अपश्यत्, तदा सः समधिकेन तार-स्वरेण अवदत् – “अम्ब ! कृपया ... अम्ब !! कृपया ... साहाय्यं करोतु...अम्ब...! मां नीचैः अवतारयतु ...!!
इदं श्रुत्वा कृष्णे कृतदया यशोदा तम् अवातारयत् परञ्च, कृष्णः साम्प्रतमपि हताशः आसीत् , अतः यशोदा किम् अकरोत् ? अस्तु ... किञ्चित् नवनीत-पिण्डं दत्वा तं प्रसादितवती
एकदा , कृष्णस्य अन्यतमः सखा बलरामम् उपगम्य अवदत् , “राम ! पश्यतु , कृष्णः मृत्तिकां खादति !” अयं कृष्णस्य ताडनं वाञ्छति स्म निश्चयेन, मृत्तिकां खादन्तं कृष्णं यदि यशोदा पश्यति चेत् नूनं सा तं ताडयेत् ! इदमेव असौ सखा ईच्छति स्म
बलरामः विनैव काल-यापनम् , धावन् एव यशोदाम् उपगम्य तां वार्ताम् इमाम् अश्रावयत्रुष्टा यशोदा बलरामेण साकं कृष्णम् अन्वेष्टुं निर्गता तैः दूरं नैव गमनीयम् आसीत् सः तत्रैव आसीत् ! तम् उपगम्य यशोदा अपृच्छत् , कृष्ण ! कथय मां, किं त्वया मृत् भक्षिता ?” नैव मात...! नैव भक्षिताकृष्णः अवदत्
यद्यपि यशोदा तं पुनः पुनः पृष्टवती, कृष्णः तुल्यमेव उत्तरं प्रादात् परञ्च, यशोदा तस्मिन् विश्वासं नैव कृतवती ! कृष्णस्य हस्तौ दृढं तस्य पृष्ठभागे बद्ध्वा अपृच्छत् , “कृष्ण ! मुधा मा वद ! यदि त्वम् अलीकं वदिष्यति, ताडयिष्यामि मुखम् उद्घाटय तव मुखान्तं निरीक्षेकृष्णः सस्मितं निज-मुखम् उदघाटयत् यशोदा अतितराम् आघाताहता जाता मुखाभ्यन्तरं तया यद् अवलोकितम्, सा नासीत् मृत्तिका, परञ्च वसुधा, सूर्यः, चन्द्रमा, नक्षत्राणि..., किम्बहुना, समग्रं जगत्
इदं सर्वं दृष्ट्वा किञ्चित् स्थिरताम् अवाप्तुकामा यशोदा कृष्णस्य मुखे गोकुलम् अवालोकयत् अपि च, कृष्णस्य अनावृत-मुखस्य सम्मुखं स्थिताम् आत्मानमपि विलोकितवती परम-दुःखिता यशोदा कृष्णं सोत्कण्ठम् आश्लिष्य प्रार्थितवती. “ कृष्ण ! कृपया निजमुखं पिधातु ... अनावृतम् इदं स्वीयं मुखं पिधातु कृपया... ! सस्मैरं कृष्णः स्वकं मुखं पिहितवान्
एकदा यदा यशोदा दधि-मन्थनं करोति स्म, तदा कृष्णः कक्षाभ्यन्तरम् आगतःप्रिय-वत्स ! किं नवनीतं वाञ्छसि ...?” यशोदा अपृच्छत् कृष्णेन मूर्धावधूननं कृत्वा न्यक्कृतम् कृष्णः स्व-मातुः दुग्धं पातुम् इच्छति स्म ततः परम् , यशोदा तं दुग्धं पाययितुम् आरभत किञ्चित् कालानन्तरमेव यशोदा ज्ञातवती यत् चुल्लिकोपरि प्रक्वथनार्थं स्थापितं दुग्धं पात्राद् बहिः निस्सरति सा सहसा उत्थाय कृष्णं दूरे अपसारितवती भवान् कल्पयितुं शक्नोति यत् कृष्णः कियान् रुष्टः सञ्जातः ? क्रोधाविष्टः सः तत्रस्थं सर्वमपि नवनीतं रंहसा खादितवान् इतोऽपि अधिकतर-रुष्टः कृष्णः पार्श्वस्थं क्षीर-पात्रं विकीर्य मार्जारं क्षीर-पानार्थम् अनुज्ञातवान् ततः परमसौ गृहात् तूर्णं निःसृतः
परावर्तितवती यशोदा अवालोकयत् यत् विकीर्णं दुग्धं मार्जारः अवलिहति स्म, नवनीतं किञ्चिदपि अवशिष्टं नासीत् यशोदा वस्तुतः क्रुद्धा अजायत, “गोपालेन अतितरां तोदिताSस्मि, नूनमसौ सम्यक्तया ताडनीयोSस्ति ततः परमेव सः सुशिष्टो भविता”- सा विचारितवती यशोदा गृहात् बहिः निर्गता पूर्वतोऽपि भयङ्करं दृश्यम् अपश्यत् सा अपश्यत् यत् कृष्णः अवशिष्टं नवनीतं कपिभ्यः खादयति स्म यशोदा क्रोधाग्निना ज्वलिता यशोदा रज्जुना कृष्णं बद्ध्वा रज्जोः अपरान्तं उलूखलेन सार्धम् अबद्ध्नात् ! “ उत्पातकारिन् बाल ! अधुना त्वं किं कर्तुं प्रभवसि – इति ज्ञास्यामि ! किञ्चित् कालार्थं अत्रैव तिष्ठ !!”
प्रमुदितः बलरामः तन्मित्राणि च तत्र आगतानि ते कृष्णं उपाहसन् ततः परं क्रीडितुं निर्गताः वराकः कृष्णः ! सः अतितराम् एकाकी अवर्तत !!
किञ्चित् कालानन्तरं कृष्णः सत्यं हि अतिरुचिम् अभजत किं भवान् जानाति यत् तेन किं कृतम् ? सः पश्चवर्तिनम् उलूखलम् आकर्षयन् चलितुम् आरभत ततः प्रचलन् कृष्णः पार्श्वस्थं वृक्ष-द्वयम् अपश्यत् किं भवान् इदं ज्ञातुं नितरां उत्सुकः नास्ति यत् ततः परं कृष्णेन किम् आचरितम् ? सः केवलं वृक्ष-द्वयस्य मध्यात् प्राचलत् ! अपिच, उलूखलः तयोः मध्ये अवरुद्धः कृष्णः मन्थरतया उलूखलम् आकर्षयत् आह्... ! ओह् ...!! उलूखलः साम्प्रतमपि अवरुद्धः एव आसीत् कृष्णः स्व-पूर्ण-शक्त्या उलूखलम् आकर्षयत्अपि च, ततः परं किं घटितम् ? वृक्षद्वयमपि उन्मूलितं जातम् ! अनुवर्तिनि क्षणे उन्मूलित-वृक्ष-द्वयात् देवौ समुत्पन्नौ एतौ देवौ वृक्ष-योनौ समुत्पन्नार्थं शापितौ आस्ताम् कृष्णः स्व-लीलया एव तौ शापमुक्तौ व्यदधात् कृष्णाय निज-कृतज्ञतां समर्प्य तौ स्वर्गं परावर्तितौ वृक्षयोः उन्मूलनस्य महारावं श्रुत्वा गोकुलस्य प्रत्येकमपि निवासी धावन्निव तत्रागतः कृष्णः प्रहसन्निव तत्र स्थितः आसीत् ! नन्दगोपः कृष्णम् उन्मोचितवान्
किम् अद्भुतं घटितम् ? द्वौ विशालौ वृक्षौ अप्रतिहतौ, सहसा उन्मूलितौ जातौइदन्तु कस्यचित् अभिशापस्य उत्पात-जातम्अनेके यादवाः विचारितवन्तःअस्मात् आत्मानं रक्षितुम्, अस्माभिः किं करणीयम् ? स्थानमेतत् परित्यजेम ?” एवं हि, यादवाः गोकुलं परित्यज्य वृन्दावनं प्रति याताः
दिनानि व्यतीतानि कृष्णः बलरामः च पशु-पालन-योग्यौ सञ्जातौ तौ अपि अन्यैः गोपालकैः सह गोचारणार्थं प्रयातुम् आरभताम् तयोः अम्बा मध्याह्न-भोजनार्थं प्रतिदिनं ताभ्यां दधि-मिश्रितम् ओदनं ददाति स्म ते गोपालाः आदिनं पशुभिः सार्धं परितः परिभ्रमन्ति स्म
यदा गावः गोचारण-भूमौ चरन्ति स्म, कृष्णः तस्य सखायः च क्रीडन्ति स्म, उत वा, वृक्षाणां छायासु विश्रमन्ते स्म कृष्णः तदा स्वीयं वेणुं वादयति स्म कृष्णस्य वेणु-स्वरं श्रुत्वा प्रत्येकमपि प्राणी परिवेश-जातं विस्मरन्ति स्म एतादृशं मधुरं सङ्गीतम् ! गावः ग्रास-चरणं विस्मृत्य सङ्गीत-माधुर्ये निमग्नाः अभूवन् पक्षिणः सङ्गीतमेतत् श्रोतुम् उद्डीय कृष्णं निकषा आयान्ति स्म मयूराः हरिणः च आनन्द-सन्दोह-भरिताः तं परितः नृत्यन्ति स्म
एकदा, किञ्चित् अतितरां अद्भुतं घटितम् कृष्णस्य केचन सखायः गावः च विलुप्ताः जाताः ! एते कृष्णस्य वेणुगानं श्रोतुं तस्य समीपम् उपयान्ति स्म ते सर्वेऽपि कुत्र प्रयाताः ? निज-वंशीं वादयन् कृष्णः विलुप्तानि मित्राणि गाः च अन्वेष्टुम् आरभत
सुदीर्घ-कालं यावत् अन्वेषणानन्तरमपि सः न कमपि प्राप्तवान् तदा कृष्णः अन्वभवत् यत् ब्रह्मदेवः प्रवञ्चनया एवं क्रीडति ! ब्रह्मा, येन समग्रमपि ब्रह्माण्डं सृष्टम् सः कृष्णं परीक्षितुं गोपालान् गाः च गोपायितवान् किं भवान् जानाति ? तदा कृष्णेन किम् आचरितम् ?
निज-विलुप्तानां मित्राणां गवां च स्थाने सः तेषां तासां च प्रतिकृतीः विरचितवान् सायङ्काले कृष्णः प्रतिदिनमिव निज-मित्रैः गोभिः च साकं गृहं प्रतिनिवृत्तः ब्रह्मदेवः असमञ्जसताम् अन्वभवत् कृष्णं परीक्षितुं गोपायितानां गवां गोपालानां च विषये अधुना मया की करणीयम् ?”
दिनानि व्यतीतानि अन्ततः, ब्रह्मदेवः कृष्णस्य समक्षम् उपस्थाय न्यवेदयत् , “ कृपया मां क्षम्यताम् केवलं भवन्तं परीक्षितुं वाञ्छामि स्म अत एव मया गोपालाः गावः च चोरिताः गोपायिताः च एवम् इदम् आचरितम् ! अहं जानामि – भवान् साक्षात् पुरुषोत्तमस्य नारायण-विष्णोः अवतारः
सस्मितः कृष्णः ब्रह्मदेवं न्यगादीत् – “भगवन् ! भवता मम मित्राणि पशवः च गोपायिताः, परं मया तु सायम् एते साकमेव गृहं नेतव्याः आसन् अत एव, मया एते पुनः सृष्टाः सन्ति
एतत् श्रुत्वा, ब्रह्मदेवः अभिघोषितवान्– “अहं स्वीयं पराजयं स्वीकरोमि गोपायिताः सर्वाः गावः गोपालाश्च मया प्रत्यानीताः परञ्च विशङ्के यत् भवता प्रकल्पितानां गवां गोपालानां च किं भविष्यति इति ?”
कृष्णः सस्मितं अङ्गुलिं निर्दिशन् न्यगादीत् –“पश्यतु !” ततः परं ब्रह्मदेवेन किं दृष्टम् ? कृष्णेन प्रकल्पिताः सर्वाः अपि गावः यादवाश्च स्वयं भगवतो विष्णोः स्वरूपतां परिणताः  प्रत्येकमपि विष्णोः नाभितः कमलं प्रादुरभूत् प्रत्येकमपि कमले ब्रह्मदेवस्य प्रतिमूर्तिः उपविष्टा आसीत् आश्चर्यचकितः ब्रह्मदेवः एतत् सर्वं संवीक्षते स्म ततः परं सः बद्ध-कराञ्जलिः कृष्णाय प्रणिपातं व्यदधात् अनुवर्तिनि क्षणे, विष्णोः सर्वाण्यपि प्रतिरूपाणि एकस्मिन् समन्वितानि सन्ति कृष्णे विलीनानि कृष्णाय आदराञ्जलीन् अर्पयित्वा ब्रह्मदेवः प्रतिनिवर्तितः भगवतः विष्णोः अवतारः, भगवान् कृष्णः स्मितं व्यदधात् परःसहस्रं सूर्य-प्रभाभिः प्रकाशितः अवर्तत
कृष्णः न कमपि किञ्चिदपि अवदत् यत् किं किं घटितम् इति वृन्दावने सर्वं यथावत् सञ्जातम्, तथा च, कृष्णः सर्वैः निज-मित्रैः सह सुखम् आनन्दम् च अनुभवन् व्यराजत


Cell- 9810 5622 77
email- baldevanand.sagar@gmail.com