Monday 27 August 2018

‘मनोगतम्’ – ४७  ‘मन की बात’
(47 वीं कड़ी)            प्रसारणतिथि: - २६-०८-२०१८
 [“मन की बात”- “मनोगतम्” - इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]                                 
                             - भाषान्तर-कर्ता -  डॉ.बलदेवानन्द-सागरः 
     मम प्रियाः देशवासिनः!  नमस्कारः | अद्य अशेष-देशः रक्षाबंधन-पर्व आयोजयति| अस्मिन्  पावन-पर्वणि सर्वेभ्योsपि देशवासिभ्यः भूरिशो मङ्गल-कामनाः | रक्षाबंधन-पर्व नाम भगिनी-भ्रात्रोः पारस्परिकं         प्रेम्णः विश्वासस्य प्रतीक-रूपम् | पर्वेदं सहस्राब्देभ्यः सामाजिक-सौहार्दस्य बृहदुदाहरणत्वेनापि प्रवर्तते | देशस्य इतिहासः अनेकाभिः तादृशीभिः कथाभिः सम्भरितोsस्ति, यस्यां हि एकेनैव रक्षासूत्रेण पृथक्-पृथक्-राज्य-द्वयस्य वा धर्म-द्वयस्य जनाः विश्वास-सूत्रेण संयुक्तीकृताः |  सद्यः कतिपय-दिनानन्तरं जन्माष्टमी-पर्व  अपि आगन्तास्स्ति | अशेष-परिवेशः ‘हाथी, घोड़ा, पालकी – जय कन्हैयालाल की, गोविन्दा-गोविन्दा’ इति जयघोषैः गुञ्जायमानो भविता | भगवतः कृष्णस्य रङ्गेण रञ्जितानां समुल्लास-सन्दोहवतां सहजानन्दः किञ्चित् पृथगेव भवति | देशस्य अनेकेषु कोणेषु विशेषेण च, महाराष्ट्रे दही-हाँडी-इति दधि-घटानां सज्जतां क्रियमाणाः अस्मदीयाः युवानो भवेयुः | सर्वेषामपि देशवासिनां कृते रक्षाबन्धन-जन्माष्टमी-पर्वणोः हार्दिक्यः शुभकामनाः | 
    प्रधानमन्त्रि-महोदय ! नमस्कारः | अहं चिन्मयी, बेंगलुरु-नगरे विजयभारती-विद्यालये दशम-कक्ष्यायां पठामि | अद्य संस्कृत-दिनमस्ति | संस्कृतं सरलम् इति सर्वे वदन्ति | वयमत्र बहवः संस्कृत-सम्भाषणमपि कुर्मः | अतः संस्कृत-विषये

Wednesday 15 August 2018

डा. प्रियव्रतमिश्रविरचितम्-  
          अहङ्कारशतकम्    ( ग्रन्थपरिचयः)
DR. Dhanya P V
 Article  No: 20180815 
 ग्रन्थपरिचयः
डा. धन्या पि वि
पोस्ट् डोक्टरल् फ़ेल्लो
राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपति।

     ह जगतीतले संस्कृतवाङ्मयम् अनन्यसाधारणं वैशेष्यं समश्नुत। सुरभारत्याः संस्कृतसरस्वत्याः अलङ्कारभूतानि सन्ति बहूनि काव्यतल्लजानि । यद्यपि गीर्वाण्या वाण्या तावदसङ्ख्यातानि सन्ति काव्यानि तथापि तत्र अनन्यसाधारणोऽयं डा. प्रियव्रतमिश्रविरचितः ग्रन्थः "अहङ्कारशतकम्"। ग्रन्थकारोऽयं बिहारराज्यस्थ दरभङ्गाप्रदेशस्थ श्रीरामसुन्दरसंस्कृतविश्वविद्याप्रतिष्ठाने, व्याकरणविभागे सहायकाचार्यत्वेन वृत्तिनिरतः। सुरभारतीसमाराधनैकव्रतस्य अस्य  कारिकामुखः, प्रयुक्ताख्यातमञ्जरी, उमराव जान् इत्यादीनि पुस्तकानि एवं चाटुश्लोक-शास्त्रलेख-कवितादीनि हृद्यानि च अनेकानि सन्ति। राष्ट्रियसंस्कृतसंस्थानं, राजीवगान्धीपरिसरः, शृङ्गेरीद्वारा "लेखविशारदः" अपि च दिल्लीसंस्कृत अकादमीद्वारा "नवोदितकविः" इत्यादि उपाधिभाजः डा. प्रियव्रतमिश्रः आधुनिकसंस्कृतकविषु अनन्यस्थानं समावहति।

       आधुनिकाः मानवाः आत्मानं श्रेष्ठं मन्यन्ते। उक्तं च भगवद्गीतायां "अहङ्कारविमूढात्मा कर्ताहमिति मन्यते " इति । तादृश अहङ्कारपूरितजगतः चित्रणं प्रददाति कविः स्वीयकाव्ये अहङ्कारशतके। एवं च
"असारे संसारे सकलविषयो नश्वरपरो
दिवारात्रो लोको जननमिह मृत्युं च लभते।
न किञ्चिन्नित्यं वै न खलु मनुजो बुध्यति पुनः
मदोन्मत्तो लोकस्त्वहमहमिकायां विहरते॥ "(अहङ्कारशतकम्)

वेदान्तपरिप्लुतः सन्नपि अहङ्कारे  मानवाः विहरन्ति इति सत्यं कविः स्मारयति।  अहङ्कारजन्यक्लेशान् ज्ञात्वापि लोकः अहङ्करोतीति कविवचनं चिन्तोद्वीपिकैव।  मदान्धकारस्य तीक्ष्णावस्थाम् एवं प्रदर्शयति

"मदोन्मत्तावस्था ननु च मनुजं प्रेरयति भोः!
तदा नासौ धूर्तो निशमयति कस्यापि वचनम्।
त्वहं जाग्रस्त्येनं न हि खलु विजानाति पुरुषो
मदोन्मत्तो लोकस्त्वहमहमिकयां विहरते ॥"(अहङ्कारशतकम्) इति ।

    तथा काव्ये निगदितानां व्यावहारिकतत्वानां वाचनावसरे काव्यास्वादकस्य, कवेः च समन्वयो बहुत्र भवति। कवेः श्लोकरचनाशैली हृद्या एवं सर्वास्वाद्ययुक्ता। अपि च श्लोकानां हिन्दी-आङ्गलभाषाभावार्थाः संस्कृतानभिज्ञानपि सुरभारतीकामुकान्, सुरवाण्याः उपसेवने समायोजयन्ति इत्यत्र नास्ति शङ्का। ’शिखरिणी’वृत्तम् (रसैरुद्रैश्छिन्ना यमनसभलागः शिखरिणी) अनुज्ञातः कविः आशतकम् अमुं वृत्तं स्व्यकरोत्। "This meter (शिखरिणी) is most suitable for the expression of strong feeling." इति टि.के रामचन्द्र अय्यर्, ’लघुवृत्तरत्नाकरे’ अभिप्रैति। अस्य वचनस्य सार्थकता अहङ्कारशतकस्य पठनेनोपजायते। अलङ्काराणां प्रयोगेपि कविः स्वीय काव्योत्कर्षता बहुत्र व्यादिशति।अस्मिन् ग्रन्थे प्रतिश्लोकः मुक्तकवत् भाति तथापि श्लोकधारा सुबद्धा। वाचकेभ्य कविः प्रायोगिकवेदान्तस्य प्रयोगस्यावश्यकता, मानवस्य तथा समाजस्य अहङ्कारोन्मत्तता च प्रकृतार्थे प्रयच्छति।

     अपायोपेतस्य अहङ्कारस्य अतिरेकः लोके सर्वत्र दरीदृश्यते। अहङ्कारः क्षणभङ्गुरस्यास्य जीवनस्य परमलक्ष्यार्थं, ईश्वरप्राप्त्यर्थं भवेत् इति समाख्यापयति काव्यकुसुमैः कविः। शतश्लोकान्वितस्यास्य काव्यस्य अहङ्कारशतकस्य काव्यास्वाद्यतां सहृदयेभ्यः सुचारुरीत्या प्रददाति नवदेहलीस्थ मान्यताप्रकाशनं नाम पुस्तकप्रकाशकसंस्था। ईदृशकाव्यकुसुमैः भूयो भूयो सेव्यमाना भवतु  संस्कृतसरस्वतीत्याशास्महे।