Wednesday, 13 April 2016

यदचेतनोऽपि पादैः स्पृष्टः प्रज्वलति सवितुरिनकान्तः ।
तत्तेजस्वी पुरुषः परकृतनिकृतिं कथं सहते ॥

नीतिशतकम् – ३५

लोके सामान्यः पुरुषः अपि अन्यैः कृतं स्वस्य अपमानं न सहते । स्वाभिमानी पुरुषः अन्यैः कृतम् अपमानं न सहते इति तु न वक्तव्यम् । तस्य उदाहरणम् अपि कविना दत्तं यत् सूर्यकान्तमणिः यदा सूर्यकिरणैः स्पर्शं प्राप्नोति तदा झटिति प्रज्वलति । अचेतने मणौ एव एतादृशः स्वभावः दृश्यते । सचेतनानां विषये तु वक्तव्यमेव नास्ति ।
मनसि वचसि काये पुण्यपीयूषपूर्णा:
त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः ।
परगुणपरमाणून् पर्वतीकृत्य नित्यं
निजहृदि विकसन्तः सन्ति सन्तः कियन्त: ॥
नीतिशतकम् (५३/२२१)

अन्वयः---मनसि वचसि काये पुण्यपीयूषपूर्णाः उपकार-श्रेणिभिः त्रिभुवनं प्रीणयन्तः परगुणपरमाणून् पर्वतीकृत्य निजहृदि नित्यं विकसन्तः सन्तः कियन्तः सन्ति ।


व्याख्या---मनसि---हृदये, वचसि--वाण्याम्, काये---देहे, पुण्यपीयूषपूर्णाः---(पुण्यमेव पीयूषः तेन पूर्णाः) सुकृतसुधाप्रपूरिताः, उपकारश्रेणिभिः---(उपकारस्य श्रेणय: ताभिः) हिताचरणपंक्तिभिः, त्रिभुवनम्---(त
्रयाणां भुवनानाम् समाहारः) लोकत्रयम्, प्रीणयन्तः---प्
रसादयन्तः, परगुणपरमाणून्---(परेषां गुणाः, परमाश्च ते अणवः परमाणवः,परगुणानां परमाणवः, तान्) इतरेषां सौजन्यादिगुणसूक्ष्मागान्, पर्वतीकृत्य--(अपर्वतान् पर्वतान् कृत्वा इति) शैलमिव अतिबृहदाकारान् कृत्वा, निजहृदि---स्वकीयमनसि, विकसन्तः---हर्षानुभवं कृतवन्तः, सन्तः---सत्पुरुषाः, कियन्तः---कियत्
संख्याकाः सन्ति, अत्यल्पा एव वर्तन्ते इति तात्पर्यम् । (मालिनी वृत्तम्)


भावार्थः---मनसा, वचसा, कर्मणा च सर्वेषामेव प्राणिनामुपकारिणः, सदा परेषां सूक्ष्मानपि गुणान् विशदीकृत्य हृदि धारयन्तः सज्जनाः जगति अंगुलिगणनीया एव भवन्ति ।

अर्थाः--- सज्जनानां स्वभावं वर्णयति कविः । सत्पुरुषाणां वचांसि मनांसि शरीराणि च अमृतेन पूर्णानि भवन्ति । तादृशेन अमृतपूर्णेन वचनेन, चेतसा, शरीरेण च ते सज्जनाः उपकारसहस्रेण लोके स्थितानां सर्वेषां जीविनामपि हितम् आचरन्ति । अपि च अन्येषु स्थिताः गुणाः अल्पाः चेदपि तान् एव बहु मत्वा, मनसि सन्तोषम् अनुभवन्ति । किन्तु एतादृशाः जनाः जगति कियन्तः सन्ति ?

Saturday, 2 April 2016

सुजनो न याति विकृतिं परहितनिरतो विनाशकालेऽपि ।
छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥

सु.भा. - सज्जनप्रशंसा (४९/११०)


लोके तावत् मनुष्यस्य एषः स्वभावः यत् यदा सः स्वयं कष्टम् अनुभवति, आपद्ग्रस्तो वा भवति, तदा सः कुपितः भवेत्, दु:खितो वा भवेत् । किन्तु सत्पुरुषाणां स्वभावः न तादृशः । ते सर्वदा परोपकारे एव निरताः सन्तः स्वस्य नाशसमये अपि कमपि विकारं न प्राप्नुवन्ति । तत्कथमिति कविः एकेन उदाहरणेन दर्शयति ।
यथा चन्दनवृक्षः छेदनसमये अपि सहजगुणं सुगन्धं न जहाति, अपि च छेदनार्थम् उपयुक्तं कुठारमपि सुगन्धयुक्तं करोति, तथैव सज्जनाः नाशसमये अपि परोपकारबुद्धिं न परित्यजन्ति ।