जागृहि भ्रातः
अयि मम भ्रातः 
शुभप्रभातम्
रजनी याता जागृहि
सह खेलावः सह धावावः
शीध्रं शीध्रं जागृहि
नहि विलम्बय जागृहि
अयि मम भ्रातः जागृहि।।
राजति गगने दीप्तभास्करः
सुखयति सर्वं मन्दसमीरः
पक्षिणां सुमधुरकलगानं
श्रोतुं शीध्रं जागृहि
नहि विलम्बय जागृहि
अयि मम भ्रातः जागृहि ।।
-संपदानन्दमिश्रः-