राजा परिक्षीत् कथा
-सन्तु घोष्
पुरा एकस्मिन् दिने वनविहारेण परिश्रान्तः सन् राजा परिक्षीत् महर्षेः शमीकस्य आश्रमं प्राप्तवान् | परन्तु ऋषिः शमीकः तदा ध्याने निमग्नः आसीत् | राजाभिमानेन ध्यानमग्नं ऋषिं दृष्ट्वा राजा रुष्टोऽभवत् | तदा राजा किमपि मनसि कृत्वा भूमौ पतितं मृतसर्पं महर्षेः शमीकस्य गण्डदेशे स्थापयित्वा स्वप्रासादं प्रतिगतवान् | एतस्मिन् क्षणे महर्षेः पुत्रः श्रृङ्गी तपःप्रभावेन सर्ववृत्तान्तं ज्ञात्वा शपितवान् – आगमिनि सप्तमे दिने मम पितुः गण्डे मृतसर्पं स्थापितवन्तं राजानं तक्षकः दङ्क्ष्यति | एतत् शापवृत्तान्तं ज्ञात्वा सुलभशान्तः महर्षिः शमीकः पुत्राय शृङ्गिणे क्रुधित्वा अवदत् – भो पुत्र ! एवं शापकार्यं न कर्तव्यं भवता | वयं शमगुणप्रधानाः ऋषयः, सः परिक्षीत् अस्माकं राजा | राजा भगवत्सदृशः भवति | राजाऽपि स्वप्रासादं गत्वा चिन्तयति – अद्य मया महर्षिम् अपमानं कृत्वा दुष्कार्यमेकं कृतम् | तस्मात् दुष्कार्यात् मृत्युरपि श्र्येयः एतस्मिन् समये राजाऽपि शापवृत्तान्तं श्रुत्वा तत्क्षणादेव राज्यं परित्याज्य गङ्गातटं समागत्य महर्षिं वैयासखिं निवेदयति स्म – भो भगवन्! आगमिनि सप्तमे दिने मम मृत्युः भविष्यति | येन केन प्रकारेण मां मृत्युभयात् रक्ष | तदा महर्षिः शुकदेवः अवदत् राजन्! श्रीमद्भागवतमहापुराणं श्रृणोतु | भगवतां लीलाकथा श्रवणेन मृत्युभयं दूरीभूतं भविष्यति | तस्मात् दिनात् आरभ्य अस्माकं जगति श्रीमद्भागवतमहापुराणसप्ताहयज्ञः प्रचलितोऽभवत् | एवं क्रमेण सप्तमदिनात् अन्ते राजा परिक्षीत् शापप्रभावेन अभयेन शरीरं परित्याज्य वैकुन्ठधामं प्राप्तवान्॥
--------------------------------------------------------------------