नरेन्द्रमोदिनः 'मनोगतम् ' इति कार्यक्रमः पुनरारब्धः
जनप्रियः कार्यक्रमः आसीत् नरेन्द्रमोदिनः मन की बात। आकाशवाणिद्वारा प्रसारितः अयं कार्यक्रमः विगतसर्वकारस्य (एन् डि ए) अभिमानात्मक -कार्यक्रमः आसीत्| विपक्षदलीयैरपि श्लाघितः बहुवारम्। भारतस्य विविधासु भाषासु अनूद्य कार्यक्रमः आकाशवाणि द्वारा प्रसारितः अस्ति। संस्कृतभाषायां भाषिकानुवादं कृत्वा भारतस्य वरिष्ठवार्तावतारकः डा. बलदेवानन्दसागरः स्वस्य शब्दमाधुर्येण अस्मान् श्रावितवान् च। अस्य दृश्यरूपम् अन्तर्जाजालवाहिनिद्वारा सम्प्रतिवार्तायाः दृश्यवहिन्यां प्रसारयति। सर्वेषां संस्कृतप्रेमिणां पुरतः सादरं समर्पये 'मनोगतम् २.०१'
संस्कृतमातरं नत्वासम्पापादकः
'मनोगतम्’ – २.०१ [प्रथमः भागः]
‘मन की बात’ (२.o१) प्रसारण-तिथि: - ३०-६-२०१९
- संस्कृत-भाषान्तर-कर्ता - डॉ.बलदेवानन्द-सागरः
मम प्रियाः देशवासिनः, नमस्कारः | दीर्घान्तरालानन्तरं, पुनरेकवारं, भवतां सर्वेषां मध्ये, ‘मन की बात’-मनोगतम्, जन-वृत्तम्, प्रत्येकमपि जनस्य मनोगतम्, जन-मनोगतम्’- अस्य सातत्यं वयं प्रारभामहे | प्रपञ्च-बहुलेषु निर्वाचनेषु, सत्यपि कार्यबाहुल्ये, ‘मन की बात’-इत्यस्य प्रसार्य-कार्यक्रमस्य यः आनन्दः अस्ति, सः विलुप्तः आसीत् | किञ्चित् नैयून्यम् अनुभवामि स्म | आत्मीयानां मध्ये उपविश्य