Tuesday, 6 August 2019

संस्कृताभियानम्।
-प्रा. डॉ. विजयकुमार: मेनन्, 
कविकुलगुरु कालिदास विश्वविद्यालयः
महाराष्ट्रम्।
नमांसि!  संस्कृतं कठिनम्, व्याकरणभूयिष्ठम्(अभ्यसितुं न शक्यते), निर्जीवम्, एषा विशिष्टजातीयानां भाषा,संस्कृतपठनं नाम ' राम: रामौ रामा: ......',  ' गच्छति गच्छत: गच्छन्ति....' इत्यादीनां - शब्दरूपाणां धातुरूपाणां च कण्ठस्थीकरणम्, संस्कृतं नाम पूजादिकर्मकाण्डम्, संस्कृतं नाम पुरातनम्, (कालबाह्यं out-of-date)- इत्येवं प्रकारेण जनानां मनसि या: मिथ्याभावना:, ये च पूर्वाग्रहा: वा सन्ति ते जनानां भाषाभ्यासस्य प्रवर्तने अवरोधा: भवन्ति।मित्राणि,  तेषां निवारणोपाया: चिन्तनीया:, तदनुकूला: कार्यक्रमा: आयोजनीया: च । तदर्थम् अस्माकं जीवनात् अल्पं कालं संस्कृतमात्रे समर्पयाम: ।
  जयतु संस्कृतम् जयतु भारतम्। 
भट्‌टलोल्लटस्य रसोत्पत्तिवादः 
(कार्यकारणभावविषयकाः वादाः)
-प्रो. आर् वासुदेवन् पोट्टि 
तिरुवनन्तपुरम् 
भट्‌टलोल्लटः उत्पत्तिवादी आचार्यः इति उपगम्यते। अचार्योऽयं भामह-दण्डी- उद्भटादिषु आचार्यपम्परासु अन्तर्भवतिI उत्पत्तिवादः यद्यपि भट्टलोल्लटेन इदं प्रथमतया नोद्भावितः तथापि उत्पत्तिवादस्य समुचित-व्यवस्थापकत्वेन लोल्ट एव सर्वैरङ्गीक्रियते। लोके कारण कार्य सहकारिकारणपदैः व्यपदिश्यमानाः एव काव्ये अलौकितया प्रतीयमानाः विभावानुभावव्यभिचारिभाव पदव्यपदेश्याः भवन्ति। शकुन्तलादिभिः आलम्बन विभावैः, चन्द्रिकादिभिः  उद्‌दीपन विभावैः रोमाञ्चादिभिः अनुभावैः औत्सुक्यचिन्दादिभिश्च व्यभिचारिभावैः निष्पादितः परिपोषमुपगतः दुष्यन्तादिनिष्ठः रत्यादि स्थायीभावो रसः इत्युच्यते। रसविषये त्रयोदशाः विद्यन्ते- अनुकार्यं रामादिकथापात्रम्, अनुकर्ता नटः, दर्शक सामाजिकश्चेति। एषु कुत्र रसः इति प्रश्नः तावत् समाधेयः। लोल्लटस्तु मुख्यतया वृत्या रामादावनुकार्ये तद्रूपतानुसन्धानात् नटेऽपि प्रतीयमानः रसः इति अभिप्रैति। रसगङ्गाधरेऽपि इदमुक्तम् 'मुख्यतया दुष्यन्तादिगत एव रसो रस्यादि कमनीय विभावाद्यभिनय प्रदर्शनकोविदे दुष्यन्ताद्यनुकर्तरि नटे समारोप्य साक्षात् फ्रियते इत्येके ' इति। अस्य अयमभिप्रायः- वस्तुतः शकुन्तलादि विषयकरतिः दुष्यन्तादावेव वर्तते। नाटकादौ विभावादीनां समुचित कमनीयाभिनयेन  दुष्यन्तादीनाम् अनुकर्तरिनटे सा रत्यादिरारोप्यते । सामाजिकस्तु  नटे दुष्यन्तादि रूपता'मनुसन्धत्ते। तेन अनुकर्तृ- अनुकार्ययोः भेदप्रतीतिः तिरोहितो भवति। इमाम् अभेदप्रतीतिम् आश्रित्यैव रसाभिव्यक्तिः तिष्टति। नटस्तु स्वयं रामाद्यनुकार्यभिन्नतया आत्मानम् अभिमन्येत। 
भट्ट लोल्लटस्य रसविषयकाः मुख्याः विचाराः
१. रसः अनुकार्ये रामादावेव उत्पद्यते। विभावानुभावसञ्चारिभावद्वारा उपचितः उद्बुद्धो वास्थायीभावः एव रसतां प्रतिपद्यते।
२. अयं च रसः रामादीनाम् अनुकर्तरि नटेऽपि तद्रूपानुसन्धानवशात् अवतिष्ठते।
३. सामाजिके तु रसस्तु नोत्पद्यते। परन्तु सोऽपि तद्रूपानुसन्धानवशात् अनुकार्यरामादिरूपं गृह्णाति। ततः स रसमास्वदते। तन्मते 'विभावानुभावसञ्चारिसंयोगात् रस निष्पतिः' इति रससूत्रं तु एवं व्याख्येयम्। विभावानुभावसञ्चारिभिः संयोगात् सम्बन्धात् रत्यादेः उत्पत्तिः इति। अत्र 'दुष्यन्तोऽयं शकुन्तलाविषयक-रतिमान्' इत्यादि साक्षात्कारः धर्मिणि दुष्यन्ते अंशे लौकिकेन सन्निकर्षेण नायकयोः परस्पर स्मावलोकनस्थले सम्भोगेन तयोः परस्परं काटाक्ष-विक्षेपणे संयुक्त समवायत्वेन जन्यत्वात् लौकिकः साक्षात्कारः। आरोप्ये नटादावंशे ज्ञानलक्षणप्रत्यासक्त्या अलौकिकः शास्त्रीयानुभवमात्रकल्प्यः भवति। एवं मीमांसा-दर्शनानुयायी भट्टलोल्लटः रसस्य निष्‌पत्तिमेव अभिप्रैति।

Monday, 5 August 2019

देवशयनैकादशी
-डा. गदाधर त्रिपाठी
देवेषु चैव विष्णुर्हि ज्येष्ठः पूज्यस्तथा च वै।
लीला तस्य विशिष्टा चरम्या त्वाह्लादिका तथा ॥१॥
सूर्यो मिथुनराशौ च भवत्यद्यैव  प्रायशः।
गमनञ्चैव विष्णोर्हि शयनाय च सर्वथा ॥२॥
शयनैकादशी तेन पुराणेषु हि वर्णिता।
विरक्तापि चतुर्मासायोत्सुका :सर्वथा तथा ॥३॥
पद्भनाभेति नाम्ना वै विश्रुतेति च श्रूयते।
शुक्लपक्षे तथा चैवाषाढमासे च सर्वदा ॥४॥
दानवृत्या बलेश्चैव बद्धआसीद्धरिश्च वै।
अद्यैव स च मुक्तो वा एकादशी तथा हि वै ॥५॥
सूर्यस्य हि तथा चैव चन्द्रस्यापि च रश्मयः।
क्षीणतां यान्ति तेनैव देवयो:शयनं तथा ॥६॥
'हरिशयनम्' वै नाम्ना पुराणेषूद्धृता तथा।
भागवते तथा चैव भविष्ये लिखिता यथा ॥७॥
सत्प्राप्त्यै तु यथा चैव वृत्तिर्येषां हि जीवने।
मान्या हि सज्जनाश्चैव जीवनं सफलं सदा ॥८॥
मृतः शंखासुरश्चैव  विष्णुना शयनं कृतम्।
अयने दक्षिणे तूत्तरायणस्य फलञ्च वै।।8।।
कुर्वन्ति शयनञ्चैव त्रिदेवा:सुतले सदा।
अनेन च बलेरिच्छा पूर्णा भवति सर्वदा ॥९॥
विवाहश्चैव दीक्षा वै तथोपनयनं हि वै।
पुण्यकार्याणि चान्यानि वर्जितानि हि सर्वथा ॥१०॥
जागरणञ्च देवानामेकादश्यां तथा हि वै।
कार्तिके चैव मासे वै पुण्यकार्याणि सर्वथा ॥११॥
उपवासं च कुर्वन्ति रात्रेर्जागरणं तथा।।
राजसूयस्य यज्ञस्याश्वमेधस्यतथा च वै ॥१२॥
स्वर्गं गच्छन्ति सर्वे मुक्तेरधिकारिणस्तथा।
अवर्षणाच्च मान्धात्रा राज्यञ्च रक्षितं तदा ॥१३॥
श्रेष्ठा  चैकादशी चैवाद्येयञ्च स्वीकृता तथा।
संवत्सरस्य चारम्भः केषाञ्चिन्नु मते च वै ॥१४॥