Monday, 24 October 2022

 भगवतीमुद्दिश्य विष्णुस्तुत्योपस्थापनम्

   भगवत्याः नखकोणे ते देवाः समग्रभवनं विश्वञ्च दृष्टवन्तः। तदा विष्णुः उक्तवान् एषा एव भगवती आदिशक्तिः जगतः जननी भवति। तदा भगवान् विष्णुः भगवत्याः स्तुतिं कृतवान्। तद्यथा- प्रकृतिदेव्यै नमः। हे भगवति! भवती कल्याणस्वरूपिणी मनोरथञ्च पूरयति। भवती बुद्धिं ददाति सिद्धिस्वरूपा च अस्ति। त्वां वारम्बारं नमस्करोमि। भवती एव सृष्टि-स्थिति-संहारस्य मूलकारणं भवति। अतः त्वां भगवतीं भुवनेश्वरीं प्रणमामि। सर्वाभीष्टानां पूरणकारिणीं भगवतीं नमामि। मातः! अहं ज्ञातवान् यत् एतस्मिन् सम्पूर्णसंसारे त्वमेव विराजसे। भवती एतस्य जगतः सृष्टिसंहारस्य च तत्त्वं भवति। तव एव व्यापकमाया संसारे ममत्वं सज्जीकरोति। भवती एव अखिल-जगन्मयी माता अस्ति। भवती एव अखिलविश्वे व्यापकरूपेण विराजमाना वर्तते। देवि! प्रलयकाले भवती एव संसारं भक्षयति। भगवति! तव वैभवं चरित्रं वा कः ज्ञातुं शक्नुयात्। मातः! भवती एव मधुकैटभौ इति असुरद्वयात् अस्मान् रक्षितवती। भवानि! यदा अहं,शङ्करः, ब्रह्मा च भवत्याः विषये अज्ञाताः भवामः, तदा अन्यः कः तव विषये ज्ञातुं शक्नुयात्। समग्रविश्वमेव तव नखदर्पणे दृश्यते। देवि! तव एतत् विस्तृतं अचिन्त्यम् ऐश्वर्यं नराः कथं जानीयुः। मातृपुत्रैव आवयोः सम्बन्धः सर्वदा तिष्ठतु। जगदम्बे! भवती एव समग्रजगत्प्रपञ्चं जानाति। हे भवानि! तव इच्छातः एव शक्तिं प्राप्य ब्रह्मा सृजति, विष्णुः पालयति, महेशश्च संहरति। गिरिजानन्दिनि! त्वमेव सर्वेषां माता असि। जगत्सृजनं, पालनं संहरणञ्च तव स्वाभाविककार्यं भवति। भगवति! तव शक्तितः एव शक्तिं प्राप्य सूर्यः जगदिदं प्रकाशयति। भवती समग्रसंसारं उद्भासयति। अहं ब्रह्मा शङ्करश्च तव कृपातः एव भवामः। अस्माकं आर्विभावः तिरोभावश्च भवति। केवलं त्वं जगत्जननी असि । भवती बुद्धिमतां जनानां बुद्धिः, शक्तिमतां जनानां शक्तिश्च भवति। त्वं शुद्धस्वरूपा असि। मुक्तिदानं तव स्वाभाविककार्यं भवति। वेदस्य मुख्यविषयः गायत्री भवती एव भवति। स्वाहा, स्वधा एवं ऒम् भवत्याः रूपाणि भवन्ति। भवती देवानां रक्षणार्थं वेदशास्त्राणां रचनां कृतवती। जीवानाम् उदाहरणार्थं भवती अखिलजगदिदं रचितवती। देवि! भवती महाविद्या स्वरूपिणी अस्ति। तव रूपं कल्याणमयमस्ति। त्वं सम्पूर्णं मनोरथं पूरयसि । तव चरणयॊः वारम्बारं प्रणौमि । 

लेखकः - डा.रुरुकुमारमहापात्रः

अध्यापकः,पुराणेतिहासविभागः

राष्ट्रियसंस्कृतविश्वविद्यालयः,तिरुपतिः

Tuesday, 4 October 2022

 श्रीमद्देवीभागवतपुराणस्य संक्षिप्तपरिचयः  

मनुष्याणां जीवनं सुखमयं समृद्धिमयं तथा शान्तिमयं कर्तुं वेदानां रचनाभूत्। परन्तु साधारणमानवानामवगतये क्लिष्टकरवेदानां भाष्यभूतं पुराणसाहित्यं व्यासदेवेन विरचितम्। अष्टादश महापुराणानि, उपपुराणानि, औपपुराणानि च व्यासदेवेन रचितानि। तेषु अष्टादश संख्याकानि उपपुराणानि वर्तन्ते, तेषु देवीभागवतपुराणम् अन्यततम्। कलपभेदेन 'देवीभागवतम्' महापुराणत्वेनापि स्वीक्रियते । देवीभागवतपुराणे 318 अध्यायाः, 18,000 श्लोकाः,द्वादशस्कन्धाश्च सन्ति। पुराणवाङ्मये देवीभागवतं भुक्तिमुक्तिप्रदायकं पञ्चमपुराणमिति प्रोच्यते। अस्य पुराणस्य वक्ता महर्षिव्यासः श्रोता राजा जन्मेजयश्च भवति। पुराणमिदं वेदसम्मतं तद्धिया अर्थानुमोदितञ्चास्ति। अखिलशास्त्रस्य रहस्यस्रोतरूपमिदं पुराणम् आगमे स्वस्थानं प्रसिद्धं ख्यापयति। देवीभागवतस्यानुशीलनेन ज्ञायते यत् देवी एव परमतत्वमस्ति, या निर्गुणा,नित्या,सर्वव्यापिका,योगगम्या,जाग्रत्स्वप्नसुप्तिभ्यः परायां तुरीयावस्थायां विराजते। तस्याः तिस्त्र: शक्तयः, सात्त्विकी राजसी तामसी चेति क्रमशः लक्ष्मीः,सरस्वती,कालीरूपेण च प्रकटिताः सन्ति। अनयैव च दृष्ट्या पुराणेषु ब्रह्मविष्णुमहेश्वराः त्रिमूर्तिरूपेण वर्णिता: सन्ति।

 

निर्गुणा दुर्गमा शक्तिः निर्गुणश्च पर: पुमान्।

ज्ञानगम्यो मुनीनां तु भावनीयौ पुनः पुन:॥

अनादिनिधनौ विद्धि सदा प्रकृतिपुरुषौ।

एवञ्च देवीभागवतपुराणेषु प्रोक्तमस्ति यत्-

देवीभागवतं पुराणममलं यद् ब्राह्मणानां धनम्

धर्मो धर्मसुतेन यत्र गदितो नारायणेनामल:।

गायत्र्याश्च रहस्यमत्र च मणिदीपश्च संवर्णित:

   श्रीदेव्या हिमभूभृते भगवती गीता च गीता स्वयम् ॥

         तत्र देवीभागवतपुराणस्य द्वादशस्कन्धेषु विशेषतः तृतीयस्कन्धे ब्रह्माण्डोत्पत्ति-विषयकप्रश्नाः,  उत्तराणि तथा त्रिदेवानां ब्रह्माण्डदर्शनादिविषयाः यथा विवृताः सन्ति, तथैव भगवत्याः कृपामाहात्म्यत्वेन सत्यव्रतचरितं, शशिकलासुदर्शनयोः परिणयवृत्तान्तः, नवरात्रविधानत्वेन श्रीरामचरितादिविषयाः अपि सम्यगालोचिताः सन्ति । 

लेखकः - डा.रुरुकुमारमहापात्रः (अध्यापकः)

राष्ट्रियसंस्कृतविश्वविद्यालयः,तिरुपतिः।