Monday, 11 November 2024

 श्रीमद्देवीभागवते प्रोक्तं शक्तितत्त्वम्

-निबन्धः

प्रस्तावना -

पुराणवाङ्मयेषु देवीभागवपुराणमेकमन्यततमं वैशिष्ट्यमारोहते। देवीभागवतपुराणे 318 अध्यायाः, 18,000 श्लोकाः,द्वादशस्कन्धाश्च सन्ति। पुराणवाङ्मये देवीभागवतं भुक्तिमुक्तिप्रदायकं पञ्चमपुराणमिति प्रोच्यते। अस्य पुराणस्य वक्ता महर्षिव्यासः, श्रोता राजा जन्मेजयश्च भवति। देवीभागवतस्यानुशीलनेन ज्ञायते यत् देवी एव परमतत्त्वमस्ति, या निर्गुणा, नित्या, सर्वव्यापिका योगगम्या,जाग्रत्स्वप्नसुप्तिभ्यः परायां तुरीयावस्थायां विराजते। तत्र देवीभागवतपुराणस्य द्वादशस्कन्धेषु तृतीयस्कन्धे ब्रह्माण्डोत्पत्तिविषयकप्रश्नाः, उत्तराणि तथा ब्रह्मविष्ण्वीशानां त्रयाणां देवानां ब्रह्माण्डदर्शनं, भगवत्या स्वस्वरूपकथनादिविषयाः यथा विवृताः सन्ति, तथैव भगवत्याः कृपामाहात्म्यत्वेन सत्यव्रतचरितं, शशिकलासुदर्शनयोः परिणयवृत्तान्तः, नवरात्रविधानत्वेन श्रीरामचरितादिविषयाश्चापि सम्यगालोचिताः सन्ति। प्रस्तुतप्रबन्धेऽस्मिन् श्रीमद्देवीभागवते भगवत्या ब्रह्मणे बोधितं शक्तितत्त्वं सविशदं विशदीकृतमस्ति।


ब्रह्मणे श्रीदेव्या बोधितं श्रीदेवीतत्त्वम् -

ब्रह्मदेवजगदम्बिकासंवादत्वेन देवीभागवते भगवत्याः स्वरूपमित्थं वर्णितमस्ति। तद्यथा – भगवती ब्रह्मदेवं कथयति – हे ब्रह्मदेव, मयि तथा परमात्मनो मध्ये किञ्चिदपि भेदो न विद्यते। यत्सर्वं ते सन्ति,तदपि सर्वमहमस्मि। एवञ्च यत्सर्वमहमस्मि, तत्सर्वं ते सन्तीति जानीहि। भेदस्तु केवलं बुद्धिभ्रमादेव दृश्यते। तदनु देवी पुनरपि कथयति - अहं च ब्रह्मा च एक एव। यः एव अस्माकं सूक्ष्मभेदान् जानाति, सः एव बुद्धिमान् पुरुषः अस्ति। सः संसारसागरात् मुक्तः भवतीति नास्ति लेशोपि संशयस्य अवकाशः। एक एव ब्रह्म। संसारसृष्टिसमये तावत् द्वन्द्वरूपं प्राप्नोति । तदा द्वन्द्वभावः उद्भवितुं आरभते। यथा एक एव दीपः, किन्तु लघुबृहत्प्रमाणानुसारेण भिन्नप्रकारः दृश्यते, एकस्यैव मुखस्य छाया च दर्पणभेदात् भिन्नप्रकारतया दृश्यते, तथैव अहं ब्रह्मा च एकौ,तथापि मायारूपेण कार्यकारणपदवीविच्छेदात् अस्माकं प्रतिबिम्बं भिन्नरूपेण दृश्यते। ब्रह्मदेव ! संसारसृष्ट्यर्थं सृष्टिकाले भेदो दृश्यते एव। यदा वयं रूपद्वयं धारयित्वा कार्यकरणे व्यस्ताः भवेम तदा अस्य दृश्यस्य अदृश्यस्य च भेदस्य प्रादुर्भावः सर्वथा युक्त इति मन्तव्यः। संसाराभावे नाहं स्त्री,न पुरुषो न च नपुंसकोऽस्मि। अथ सृष्टेरारम्भे अयं भेदः कल्प्यते। प्रज्ञा, श्रीः, धृतिः, कीर्ति, स्मृतिः, श्रद्धा, मेधा, बुद्धिः, दया, लज्जा, क्षुधा, तृष्णा, क्षमा, दीप्तिः, शान्तिः, तृष्णा, निद्रा, तन्द्रा, जरा, अजरा, विद्या, अविद्या, स्फृहा, वाञ्छा, शक्तिः, अशक्तिः, मज्जा, त्वक्, दृष्टिः, सत्यासत्यवाणी, परामध्यमापश्यन्तीति अनेकाः प्रकारकाः वाण्यः तथा च याः अनेकप्रकरकाः तन्त्रिकादयश्च विभिन्नप्रकारतया सर्वाणि उपर्युक्तानि तत्त्वानि मम रूपाणि एव सन्ति। मां विना संसारे न किमपि पदार्थोऽस्ति। ब्रह्मदेव! सर्वं ममैव रूपम्,अर्थात् अहं सर्वमिति - एषः निश्चितः प्रत्ययो धारणीय एव। ब्रह्मदेव ! अहमेव अस्मिन् समग्रे संसारे व्यापकरूपेण विराजमानाऽस्मि। नानानामभिश्च सर्वेषु देवेषु प्रसिद्धाऽस्मीति सर्वथा निश्चितम् ।

शक्तितत्त्वनिरूपणम् -

भगवती ब्रह्मदेवं कथयति - अहं शक्तिरूपं धारयित्वा पराक्रमं कारोमि। गौरी,ब्राह्मी,रौद्री,वाराही,वैष्णवी,शिवा,वारुणी,कौबेरी,नारसिंही,वासवी चेति एतानि सर्वाणि मम रूपाण्येव भवन्ति। विभिन्नकार्योपस्थितेषु सति तदा तदा तासु तासु देवीषु स्वशक्तिं स्थापयित्वा यथोचितां सर्वां व्यवस्थां करोम्यहम्। आं तथैव मम स्वभावोऽस्ति। जले शीतलता,अग्नौ तापः,सूर्ये प्रकाशः,चन्द्रे शीतलता चेति शक्तीनां विस्तारक्षमता यथा अक्षुण्णा तिष्ठेदिति तथैव व्यवस्थां कृत्वा तेषामन्तः प्रविशाम्यहम्।

जले शीतलत्वं शुचौ दाहकत्वं विधौ निर्मलत्वं रवौ तापकत्वम्।

त्वमेकाम्बिके यस्य कस्यापि शक्तिस्त्वमेका परम्ब्रह्मरूपेण सिद्धा।।

पुनश्च भगवती कथयति। हे ब्रह्मदेव! अहं निश्चयेन वदामि यत् - यद्यहं शक्तितः अन्तर्हिता भविष्यामि तर्हि जगति एकोऽपि जीवः चलितुं न शक्नुयात्। यदा मम शक्तिः विच्छिन्ना भवति तदा शङ्करः राक्षसान् हन्तुं सर्वदा असमर्थः भवति। यदा अहं कस्यचित् पुरुषस्य शरीरात् किञ्चित् दूरं गच्छामि तदा सः जीवः अतीवदुर्बलः इति कथ्यते। तस्य नीचस्य मनुष्यस्य विषये न कश्चित् वदति यत् सः रुद्रहीनः,विष्णुहीनो वा इति। यदि कश्चित् भूमौ शयानः,आत्मनः पोषणं कर्तुम् असमर्थः,भीतः,हृदये चिन्तायाः तरङ्गेण व्याकुलितोऽस्ति,अथवा शत्रोः कर्षणे कर्षितो दृश्यते,तर्हि सः शक्तिहीनः इति उच्यते। लोके तस्य विषये न कश्चित् वदति एषः रुद्रहीनोऽस्तीति। अतः मां शक्तिस्वरूपाम् एकमेव कारणत्वेन मन्यताम्। यदा भवान् सृष्टिकार्ये प्रवर्तते तदा मम शक्तिसहकारत्वात् एव सम्पूर्णजगन्निर्माणे समर्थो भवति । तथैव विष्णुः,शङ्करः,इन्द्रः,अग्निः,चन्द्रः,सूर्यः,यमः,त्वष्टा,वरुणः पवनश्चेत्यादयः सर्वेऽपि देवाः मम शक्तिसाहाय्येन एव स्वकार्येषु सफलतां प्राप्नुवन्ति। तदा एव पृथिवी स्थिरा भूत्वा सम्पूर्णप्राणिजगद्धारणे समर्था भवति,यदा अहं शक्तिरूपा तथैव समर्थनं करोमि। यदि अहं दूरं गच्छामि तर्हि पृथिवी एकपरमाणुमपि धारयितुं समर्था न भवति। तथैव शेषनागः,कच्छपः,सर्वे दिग्गजाः अपि मम साहाय्येन एव स्वकार्यं कर्तुं प्रभवन्ति। सर्वजलपानं, अग्निसत्तायाः नाशनं,वायोः गतिनिरोधनञ्च सर्वं मम इच्छायाः उपरि निर्भरति। अहमधुना यदिच्छामि तत्सर्वं कर्तुं शक्नोमि । एवम्प्रकारेण श्रीमद्देवीभागवतस्य तृतीयस्कन्धे शक्तितत्त्वं सम्यक् निरूपितमस्तीति ॐ शम् ।



लेखकः - डा.रुरुकुमारमहापात्रः(अध्यापकः)

राष्ट्रियसंस्कृतविश्वविद्यालयः,तिरुपतिः