दीपावलिः
दीपावलिः
भारतवर्षस्य अतिमहत्वपूर्ण: उत्सवः अस्त्ति। दीपावलि इत्युक्ते दीपानाम्
आवलिः। कार्तिकमासस्य कृष्णपक्षस्य त्रयोदशीत: आरभ्य
कार्त्तिकशुद्धद्वितीयापर्यन्तं ५ दिनानि यावत् आचर्यते एतत् पर्व।
सायंकाले सर्वे जनाः दीपानां मालाः प्रज्वालयन्ति। दीपानां प्रकाशः
अन्धकारम् अपनयति। एतत्पर्वावसरे गृहे, देवालये, आश्रमे, मठे एवं
सर्वत्रापि दीपान् ज्वालयन्ति। प्रतिगृहं पुरत: आकाशदीप: प्रज्वाल्यते।
दीपानां प्रकाशेन सह स्फोटकानाम् अपि प्रकाश: भवति। पुरुषाः, स्त्रियः,
बालकाः, बालिकाः च नूतनानि वस्त्राणि धरन्ति। शुभमुहूर्ते जनाः लक्ष्मीं
पूजयन्ति मिष्टान्नानि च आस्वादयन्ति । सर्वे जनाः स्वगृहाणि स्वच्छानि
कुर्वन्ति, सुधया लिम्पन्ति सुन्दरैः च चित्रैः भूषयन्ति। ते स्वमित्रेभ्यः
बन्धुभ्यः च मिष्टान्नानि प्रेषयन्ति। बालकाः बालिकाः च क्रीडनकानां
मिष्टान्नानां स्फोटकपदार्थानां च क्रयणं कुर्वन्ति। अस्मिन् दिवसे सर्वेषु
विद्यालयेषु कार्यालयेषु च अवकाशः भवति। भारतीयाः इमम् उत्सवं प्रतिवर्षं
सोल्लासं मन्यन्ते। अस्य पर्वण: दीपालिका, दीपोत्सव:, सुखरात्रि:,
सुखसुप्तिका, यक्षरात्रि:, कौमुदीमहोत्सव: इत्यादीनि नामानि अपि सन्ति।
अस्मिन्नवसरे न केवलं देवेभ्य: अपि तु मनुष्येभ्य: प्राणिभ्य: अपि दीपारतिं
कुर्वन्ति। दीपावली भारतस्य चिन्तनस्य प्रतिनिधित्वं करोति। भायां रत: स:
भारतीय:। अत: सर्वे भारतीया: प्रकाशपूजका:।
ब्रह्मानंदः कुलकर्णी
संस्कृतभारती कार्यकर्ता
अहमदपूरतः
अहमदपूरतः