वर्षाकाले भोज्यवस्तूनि संरक्षितुम् एताः विद्याः परीक्ष्यन्ताम्-
![]() |
ज्योतिलक्ष्मी जे. वेदपूर्णपुरी - |
वर्षाकाले भोज्यवस्तूनि संरक्षितुम् एताः विद्याः परीक्ष्यन्ताम्-
![]() |
ज्योतिलक्ष्मी जे. वेदपूर्णपुरी - |
वास्तविकं स्वातन्त्र्यम्
-डा गदाधर त्रिपाठी
श्रुत्वा संरक्षिता वेदा श्रुत्वा संरक्षणं तदा।
लिपिर्नासीत्तथा चैव न ज्ञानं मुद्रणस्य वै।।
आदौ जाता ध्वनिश्चैवाक्षराणां नु समुद्भवः।
पितृभिः गुरुभिश्चैव भाषा वै प्रस्तुता तदा।।
शनै:शनैश्च जातं नु लिपेर्ज्ञानं तदा हि वै।
लेखनं भूर्जपत्रेषु समारब्धं सुशोभनम्।।
लिपिर्जाता नु पुष्टा वै कर्गदस्य च शोधनम्।
विचाराः कलिताश्चैव समारब्धं तु मुद्रणम्।
काष्ठाक्षरैस्तथा चैव लोहाक्षरैः सहैव वा।
आरब्धं मुद्रणञ्चैव व्यवस्थेयं पुरा हि वै।।
कवयो लेखकाश्चैव लिखन्ति यद् वदन्ति वा।
इच्छन्ति मुद्रणं तस्य सर्वेषाञ्च हिताय वै।।
अभवद्वै विकासो हि यन्त्राणाञ्च यथा तथा।
मुद्रणञ्चैव यन्त्रैर्हि जातं रुचिकरं हि वै।।
अनेके विधयश्चैव मुद्रणस्य नु भारते।
यन्त्रै: प्रचलितास्तेन सरलं मुद्रणं हि वै।।
चीनदेशे तु बुद्धस्य चित्रमासीत् प्रकाशितम्।
प्राप्तं हीरकसूत्रञ्च मुद्रणं प्रथमं हि वै।।
भवति या च शक्तिर्हि मुद्रणेन सुरक्षिता।
'चाल्सी डिक्नस' विद्वान् निरूपयति मतं यथा।।
मुद्रणस्य तु कार्यं वै साध्यमर्थेन सर्वदा।
अर्थहीनास्तथा चैव लेखका:प्रायशस्तु वै।।
अनेनैव तु प्रायो वै मुद्रणं मुद्रकैर्यथा।
लाभान्वितास्तथा चैव लेखका हि यथा तथा।।
oooooooooooooooooooooooooooooooooooooo
अरण्यजीवाः
द्विधा भवन्ति जीवास्तु पाल्या आरण्यकाश्च वै।
पशवः पक्षिणश्चैव तेषां चर्या पृथक् पृथक्।।
पृथिव्यां यच्च प्राप्तं वै मनुष्याणां कृते च तत्।वन्यजीवास्तथा चैव मानवानां हिताय वै।।
कूर्दन्ते नु मृगाश्चैव शशकानाञ्च धावनम्।
व्याघ्रा वै हिंसकाश्चैव वनमध्ये वसन्ति च।।
वसन्ति चैव सर्वत्र विचरन्ति च सर्वथा।
पर्वतेषु नदीतीरे शुष्कस्थलेषु प्रायशः।।
भ्रमति केशरी चैव वनराजश्च कथ्यते।
अरण्ये हि तथा चैव भल्लूकोऽपि विराजते।।
वने भवन्ति गावश्च कूर्दन्ति हरयस्तथा।
नृत्यञ्चैव च केकानां मनोहारि च सर्वदा।।
कोकिलाभिश्च रावैर्वै वनमाकर्षकं सदा।
खगैरन्यैर्नु रावैर्वै वनं संशोभितं तथा।।
संरक्षिता सदा सन्तु वन्यजीवाश्च भूतले।
नियमा विविधा: सन्ति शासनेन निरूपिता:।।
घातका ये च जीवा वै स्वयमेव नियन्त्रिता:।
पर्यावरणरक्षायै महत्त्वञ्च निरूपितम्।।
-डा गदाधर त्रिपाठी -
पि. एन्. पणिक्करः- ग्रन्थालयप्रतिष्ठापना योजनायाः संस्थापकः
वाचनेन वर्धते।
वाचनं विनापि वर्धते।
वाचनेन पुष्टिमाप्नुयात्।
वाचनं विना वक्रतामाप्नुयात्। (कविः- कुञ्ञुण्णि-)
---------------------------------------------
विवेकज्ञानसिद्ध्यर्थं प्रतिभावैभवाय च ।
ग्रन्थानां वाचनं नित्यं कारयेत् बालकैर्मुदा॥
अन्तर्जाले महापुटे लभन्ते ग्रन्थतल्लजाः।
अन्तर्जालश्च भग्ने तु हस्तग्रन्थो सदाश्रयः॥
पोषणाय तु गात्रस्य हिताहारं समाश्रयेत्।
पोषणाय च प्रज्ञायाः आर्षग्रन्थान् समाश्रयेत्॥
शरीरस्य तु व्यायामो मनसश्चैव वाचनम्।
उत्तमावौषधौ नित्यं नराणां सुखकाङ्क्षिणाम्॥
- रमा टि.के -
----------------------------------------------
पठ्यतां पठ्यतां पुस्तकानि पठ्यतां
चिन्तनाय साम्प्रतं निरन्तरं च पठ्यताम्॥
विस्मृतिर्यथा भवेत् विकल्पज्ञानं वा भवेत्
पुस्तकानां वाचनेन सुस्मृतिर्तथा भवेत्॥
सुष्टुज्ञानमावहेत् सुपुस्तकानि सन्ततम्।
विश्वज्ञान-सञ्चयान् मानसे प्रसारयेत्॥
अन्तर्जालात् ग्रन्थाणि लभन्ते निमिषान्तरे
अन्तर्जालं भग्ने तु हस्तग्रन्थो वरं स्मृतम्॥
पुस्तकस्था महाविद्या मस्तके धारयेत् सदा
मस्तके सुप्रतिष्ठा तु वाचनेन सुसाधयेत्।
पुस्तकेन हृदि भासते मधुरभावना मृदुलचोदना
संस्कृतिं परिरक्षणाय हि पठथ संस्कृतमुत्तमम्॥
-आय्यम्पुष़हरिकुमारः -
मनोगतम् [०२.२४]- ७७-उपाख्यानम् ‘मनकीबात’, प्रसा.तिथि: - ३०-मे’२०२१
[भाषान्तरम् – डॉ.श्रुतिकान्तपाण्डेय-गवीशद्विवेदिभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]
*****
मम प्रियाः देशवासिनः, नमस्कारः। वयं पश्यामः यत् केन प्रकारेण देशः पूर्ण-शक्त्या COVID-एकोनविशं विरुद्ध्य युध्यति। विगतेषु शत-वर्षेषु इयं हि बृहत्तमा महामारी अस्ति, तथा च अस्याः प्रवर्तमानायाः महामार्याः अवधौ भारतेन अनेकाः प्राकृतिकाः आपदः ससाहसं सम्मुखीकृताः। अस्मिन्नवधौ ‘अम्फान्’-नामा सामुद्रिक-झञ्झावातः समापतितः, ‘निसर्ग’- इति चक्रवातः आगतः, अनेकेषु राज्येषु जलपूरः समापन्नः, कदाचित् लघवः कुत्रचिच्च बृहन्तः अनेके भूकम्पाः दुरापन्नाः, भू-स्खलनानि च सञ्जातानि । नाति
संस्कृतं किमर्थम् आवश्यकम् ? केन वा सरल-प्रकारेण एतत् शिक्षितुं शक्यते?
... -डॉ.बलदेवानन्द-सागरः
संस्कृत-विषये कश्चन मां पृच्छति यत् किमर्थं संस्कृतम् आवश्यकम् ? अथवा साम्प्रतम् एकविंशे शताब्दे संस्कृतस्य किं नाम उपयोगित्वम्? तदा अहन्तु इदमेव उत्तरामि यत् यथा जीवनार्थं जलं श्वसनं चावश्यके भवतः तद्वदेव अस्माकं भारतीयानां सनातन-वैदिक-धर्मावलम्बिनां च कृते संस्कृतानुसरणं संस्कृताङ्गीकरणं संस्कृतावलम्बनं चावश्यकम् |
विषयेsस्मिन् नात्र मम कश्चन दुराग्रहः | अहन्तु अनुभवाधारेण वदामि | आकाशवाण्यां दूरदर्शने च संस्कृत-वार्ता-प्रसारणनिरते एतावति ४५-वर्षावधिके काले अनेके तादृशाः अनुभवाः अभवन् यत् नाहं संस्कृत-वार्ता-प्रसारकः अभविष्यं चेत् ममास्तित्वमेव नाभविष्यत् | ‘अस्माकं भारतीयानां सनातन-वैदिक-धर्मावलम्बिनां च कृते संस्कृतानुसरणं...’ इत्यत्र ‘सनातन-वैदिक-धर्मावलम्बिनां’ इति शब्दाः साशयं लिखिताः सन्ति |
कश्चन एवमपि प्रष्टुं शक्नोति यत् किं ये भारतीयाः न सन्ति वा वैदिक-सनातन-धर्मावलम्बिनो नैव भवन्ति, किं ते जीवितुं वा श्वसितुं वा नैव शक्नुवन्ति? अवश्यम्, नात्र कश्चन सन्देह-लेशोsस्ति | परन्तु येन विधिना वयं भरत-वंशिनः आर्य-श्रेष्ठाः देवपूज्याः जगद्गुरु-पदवी-धारिणः च सन्तः सम्पूर्ण-जगतः शुभाकाङ्क्षिणः च भवन्तः सुदीर्घ-काल-पर्यन्तां विश्वजनीन-यात्रां वा लोक-लोकोत्तर-यात्रां विहितवन्तः, तदेव वैशिष्ट्यम् अस्मदीयम् | अत एव अस्माकं भारतीयानां सनातन-वैदिक-धर्मावलम्बिनां च कृते संस्कृतानुसरणं संस्कृताङ्गीकरणं संस्कृतावलम्बनं चावश्यकम् |
इतोऽपि अनेकानि अपराणि कारणानि सन्ति यानि अस्मान् तथ्यमिदं दृढतया स्वीकर्तुं प्रेरयन्ति यत् संस्कृतं विना अस्माकम् इतरत् प्रेयः श्रेयः चाभिज्ञानं नैवास्ति |
नात्र केवलं संस्कृत-महिम्नो गानम् अभीष्टं मम | अहन्तु केवलं निजानुभवाधारेण विवच्मि | जगति साम्प्रतं स्फुटमिदं तथ्यं यत् महर्षेः पतञ्जलेः अष्टाङ्ग-योगाभ्यासः सर्वेषामपि लाभाय कल्पते, तद्वद् आयुर्वेदानुसरणं समेषामपि कृते लाभप्रदम् | भवेद्वा सः भारतीयो वा भारतीया आहोस्वित् वैदेशिको वा वैदेशिकी | सर्वेषामपि कृते संस्कृताध्ययनं योगायुर्वेदवदेव परमं लाभप्रदम् |
संस्कृतमधिकृत्य स्वामिना विवेकानन्देन उक्तमस्ति यत् संस्कृतशब्दानां प्रौढिः मधुरिमा अर्थसम्पुष्टिः च अन्यभाषाशब्दानां न सन्त्येव इति | बौद्धमतस्य अधःपतनस्य एकं कारणम् अपि तेषां संस्कृतावगणनम् एव | राष्ट्रपुरोगतये भरणसारथ्यं कर्तुं संस्कृतज्ञाः एव शक्ताः इति | महर्षि-अरविन्द-लोकमान्य-टिळक-स्वामिचिन्मयानन्द-श्रीरामचन्द्रडोंगरे-मोरारीबापू-रमेशभाई-ओझा-अमृतानन्दमयीत्यादिभिः अनेकैः आचार्यैः अनेकैः वाक्यैः अनेकेषु सन्दर्भेषु च संस्कृताध्ययनस्य अनिवार्यत्वं प्रस्तुतम् | डॉ. मैक्समूलर-गेथे-प्रभृतयः पाश्चात्यविपश्चितः अपि संस्कृताध्ययनस्य महत्वं सुतरां प्रतिपादितवन्तः| एनां भाषां विना अथर्ववेदतः आरब्धस्य आयुर्वेदस्य सुष्ठु अध्ययनम् असाध्यम् | ज्यौतिषे महाशास्त्रे संस्कृतेतरच्छात्राणां प्रवेशाधिकारः नास्ति | वेदान्तादिसकलशास्त्राणाम् अध्ययनाय संस्कृतमनिवार्यम् | काव्यरसास्वादकैः अवश्यम् अध्येयं भवति संस्कृतम्| भाषान्तरानुवादाभ्यां यत् पठनं भवति तत्तु पूर्णास्वादने रसभङ्गहेतुत्वेन समुपकल्प्यते | भूभृत् शब्दस्य भूमिं भरति इति शब्दार्थः शास्त्रतत्त्वार्थश्च अनुवादे उक्तेन माउण्टेन् [mountain] इति शब्देन
कथं ज्ञातुं शक्यते ? यया भाषया लिखितं तया एव पठनीयं भवति काव्यम् | उत्तमोत्तम-काव्यानि संस्कृते एव सन्ति यानि अपठित्वा काव्यास्वादनं पूर्णं न भवति | अतः संस्कृतं काव्यास्वादकैः अपि पठनीयम् | भारतेतिहासं ज्ञातुं ये इच्छन्ति तेषां प्रबलं साधनम् एषा एव भाषास्ति | तैः वेदेतिहास-पुराणादीनाम् आश्रयः करणीयः। शास्त्रकारैः तन्त्रज्ञैः भाषाशास्त्रज्ञैः च संस्कृताध्ययनेन महान् लाभः अधिगम्यते इति समुदीरितं नैकत्र | सर्वोपरि व्यक्तित्वविकासेच्छुः यः सोऽपि संस्कृताध्ययनशीलः स्यात् ।
एषः विज्ञानस्य तन्त्रज्ञानस्य च युगः । अस्य महादानं कम्प्यूटर्-यन्त्रम् । तत्रापि अतितरां समुपयोगिनी सहजभाषा संस्कृतभाषा एवेति तज्ज्ञानाम् अभिमतम् । महामुनेः पाणिनेः काले तादृशं वा किञ्चित् कम्प्यूटरयन्त्रम् आसीत् इति चिन्तनमुद्दीपयति तस्य सूत्रशैली। अहं स्वीयेषु ‘संस्कृतं पठ : आधुनिको भव [Learn Sanskrit : Be Modern] – इति शृङ्खला-व्याख्यानेषु पौनःपुनिकं सबलञ्च कथयामि यत् महामुनिना पाणिना संस्कृत-व्याकरणं शब्दानुशासनत्वेन व्यापकं सुव्यवस्थितं गणितात्मकं वैज्ञानिकम् अनुशासनात्मकं च विधातुम् ‘अष्टाध्यायी’ति ‘सोफ्टवेयर’-निर्माणं कृतम् |
एवं च, संस्कृति-साहित्य-विज्ञान-तन्त्रज्ञानादिषु सर्वत्र विराजमाना संस्कृतभाषा स्वाभिमानं स्वाश्रयं स्वराष्ट्रस्नेहं सहिष्णुतां संस्कृतिं सम्पत्तिं च सततं सम्वर्द्धयति । अत एव संस्कृतं राष्ट्रस्य प्राणवायुः सनातनधर्मस्तु राष्ट्रस्य जीवात्मा चेति कथ्यते । भारतराष्ट्रस्य अस्मिता रक्षणीया चेत् संस्कृताध्ययनं हि परमावश्यकम् । महामुनिना पतञ्जलिना व्याकरण-महाभाष्ये प्रोक्तम् - "एकः शब्दः सम्यग् ज्ञातः सुप्रयुक्तः च स्वर्गे लोके च कामधुक् भवति” इति प्रमाणेनैव संस्कृताध्ययनस्य महत्त्वं समुपयोगित्वञ्च सरलतया अवगन्तुं शक्यते |
साम्प्रतं प्रश्नः समुदेति यत् केन वा सरल-प्रकारेण एतत् शिक्षितुं शक्यते? अस्तु, प्राचीना अध्ययन-शैली तु प्रायेण गुरुकुल-पद्धतिरेव आसीत् | गच्छता कालेनात्र अनेकविधं परिवर्तनं जातं जीवन-पद्धतौ शिक्षा-पद्धतौ च | एवमपि वक्तुं शक्यते यत् साम्प्रतं संस्कृत-शिक्षणं पूर्व-कालापेक्षया सरलतरं सञ्जातम् | सामान्यतया संस्कृत-शिक्षणं हि पारम्परिक-संस्कृत-पाठशालासु, वैदिक-पाठशालासु, विद्यालयेषु, महाविद्यालयेषु, विश्व-विद्यालयेषु च विधीयते एव | परञ्च साम्प्रतिके समुन्नते सूचना-प्रविधि-काले सङ्गणक-अन्तर्जाल-माध्यमेन अध्ययन-अध्यापनयोः परिधिः व्यापकतरः सुगमश्च सम्वृत्तः | वयं साम्प्रतम् अनेकविधैः विद्युदाणविकैः [electronic] बह्वायाम-युतैः सञ्चार-माध्यमैः [multi-media] सामाजिक-सञ्चार-माध्यमैः [social media] चापि संस्कृत-शिक्षणं कर्तुं पारयामः | अधुनातनैः समुपायैः [यथा- युट्युब्-ह्वाट्स्-अप्-फेसबुक्-ट्विटर्-इन्स्ट्राग्राम्-ऑन्लाइन[सद्यस्कः]-वेब्साइट्-ब्लॉग-प्रभृति-समुपकरणैः] सरलतया संस्कृतं शिक्षतुं शक्नुमः।
- डॉ.बलदेवानन्द-सागरः
दूरभाषः - ९८१० ५६२२ ७७
अणुप्रैषः - baldevanand.sagar@gmail.com