Thursday 20 February 2020

कविता
कुञ्जिका
- डा. गदाधरत्रिपाठी






प्रवृत्तिश्चैव जीवानामशुभा नु शुभा हि वै।
तया तेषाञ्च कार्याणि  सम्पादितानि सर्वदा ॥

जानन्नपि मनुष्या ह्यकृतकार्ये रतास्तथा।
हरन्ति परवस्तूनि प्रहरी तेन निर्मितः ॥

नरभिन्नाश्च जीवा ये ज्ञानहीनाश्च सर्वथा।
किं कुर्वन्ति न जानन्ति   प्रवृत्ति: सहजा सदा ॥

देववाण्यां तु तालं वै  प्रहरीत्युच्यते तथा।
विदेशादागतस्ताला गृहान् रक्षति सर्वदा ॥

यथा भर्ता समर्थो हि रक्षणे पालने तथा।
जायां विना निरीहः स दयनीयस्तु सर्वदा ॥

तालस्यानवरोधस्तु कुञ्जिकया च सर्वदा।
तालार्थे कुञ्जिका चैव यथा भार्या गृहे तथा ॥

कौशलं कुञ्जिका चैव  सैव भाग्यप्रवर्तिका।
हेतुश्चैव विकासस्य नाम्ना नु कुञ्जिका च वै॥

तथा समर्थता ताले रक्षणे सक्षमः सदा।
कुञ्जिकाया अभावे तु निरीहो विवशो हि वै॥

कुञ्जिका नु तथा चैव व्याप्नोत्यस्मान् हि सर्वथा।
जीवने या च प्राप्तिर्वै कौशलेनैव सम्भवा ॥

सुरक्षायै च तालस्य  भूमिका महती नु वै।
संचालनाय तालस्यानिवार्या कुञ्जिका सदा ॥

गोप्यमेकस्य चान्येभ्यः कुञ्जिकावच्च सर्वदा।
चतुरश्चालयत्यन्यं धूर्तैश्च पीडिता जनाः ॥

कुञ्जिका नु तथा चैव रोधयतीति सर्वदा।
इगिंतेनानेन चैव तालं रक्षति सर्वथा ॥
॥---------------------------------------------॥