भगवती
गङ्गा
”दिव्यमुक्तेः
पवित्रतायाः च अनन्तः प्रवाहः”
-लेखनम्
भगवतः
विष्णोः ज्ञानरूपा भावरूपा
क्रियारूपा च तिस्रः शक्तयः
वर्तन्ते,
ताश्च
भगवती लक्ष्मी,
भगवती
सरस्वती,
भगवती
गङ्गा चेति विद्वद्भिः निगद्यते।
एकदा
भगवान् विष्णुः भगवतीं गङ्गाम्
अकथयत् – “त्वं पृथिव्यां
पवित्र-नदीत्वेन
भवितासि या हि वसुधा-वासिनाम्
अखिलानां प्राणिनां पापानि
अपाकरिष्यति।
सूर्य-वन्शावतन्सः
भगीरथः नाम राजा त्वां पृथ्वीं
सन्नेष्यति।
अनन्तरं
त्वं भगवतः शिवस्य पत्नीरूपेण
कैलास-पर्वतं
प्रतिष्ठिता भवितासि।”
सूर्यवन्शे
सगरः नाम नृपतिः अभवत्,
स
च अश्वमेध-यागस्य
अनुष्ठानम् अकरोत्।
यज्ञ-सम्पूर्ति-हेतोः
सगरस्य षष्टि-सहस्रं
पुत्राः यागस्य अश्वेन सह
पूर्णस्य विश्वस्य पर्यटनं
कृतवन्तः।
परञ्च
यथैव ते सागर-तटस्य
समीपम् आगताः,
यज्ञ-अश्वः
सहसा विलुप्तः जातः।
कुत्र
गतोऽयम् अश्वः ?
नृपतेः
सगरस्य पुत्राः विलुप्तम्
अश्वं सर्वत्र अन्विष्टवन्तः।
अश्वस्य
अन्वेषणार्थं यदा पृथिव्यां
न किमपि स्थानम् अवशिष्टम्,
तदा
ते अन्ततः पाताल-लोकं
प्रयाताः।
तत्र
ते अश्वं दृष्टवन्तः।
अयम्
अश्वः गूढ-ध्यानस्थं
महर्षिं कपिलं निकषा बद्धः
आसीत्।
वस्तुतस्तु,
देवेन्द्रः
अमुम् अश्वं चोरितवान्।
सगर-पुत्राः
तथ्यमिदम् अजानन्तः महर्षिं
कपिलम् आक्रान्तुं सन्नद्धाः
जाताः।
क्रोधेन
आविष्टः महर्षिः स्वीय-नेत्रे
उन्मील्य दृष्टि-मात्रेण
तान् भस्मीसात् चकार।
नृपतिः
सगरः विलुप्तान् राजकुमारान्
अन्वेष्टुं स्वीयं पौत्रम्
‘अन्शुमन्तं’ प्रेषितवान्।
अन्शुमान्
यदा महर्षिं दृष्टवान् ,
सादरम्
असौ तं नमस्कृतवान्।
अन्शुमतः
विनम्रताम् अवलोक्य प्रसन्नः
तपोमूर्तिः कपिलः अश्वं
परावर्तितवान् ,
अवादीत्
च,
यत्
“ सगर-पुत्राणां
मुक्तये त्वया भगवती गङ्गा
धरातलम् आनेतव्या।”
परञ्च
अन्शुमान् तस्य पुत्रः दिलीपः
वा एतत् कार्यं कर्तुं नैव
अपारयताम् |
तत्रान्तरे,
दिलीपस्य
आत्मजः भगीरथः राजा अभवत्।
भगीरथः
भगवतीं गङ्गां धरातलम्
अवतारयितुं समैहत।
सः
स्वीय-राज्य-कार्य-भारं निज-मन्त्रिभ्यः
दत्वा तपश्चर्याम् आचरितुं
हिमालयं प्रति अगच्छत्।
भगीरथस्य
अनेक-वर्षीय-कठोर-तपश्चर्यायाः
अनन्तरम् ,
भगवती
गङ्गा तस्य समक्षं प्रत्यक्षीभूता।
भगीरथस्य
श्रद्धया समर्पणेन च तुष्टा
भगवती गङ्गा अवोचत् – “ भो
भगीरथ !
अहं
धरातलम् आगन्तुं सन्नद्धा
अस्मि।
परन्तु
भगवान् शिवः एव मम अवतरण-वेगं
धारयितुं शक्ष्यति।”
कृतनिश्चयः
भगीरथः भगवन्तं शिवं प्रसादयितुं
पुनः तपः आचरितवान्।
अनेकेषां
वर्षाणाम् अन्तरालानन्तरं
भगवान् शिवः प्रत्यक्षीभूतः।
भगीरथस्य
कामनां प्रपूरयन् भगवान्
शिवः अवादीत् – “स्वर्गतः
अवतरन्त्याः गङ्गायाः
प्रवाह-वेगं
धारयितुं शक्ष्यामि।”
एवं
प्रकारेण,
भगवान्
शिवः निज-जटा-कलापे
स्थातुं भगवतीं गङ्गां
सत्कृतवान्।
तदनु,
भगवती
गङ्गा कौतुकेन विचारितवती-
“मन्ये,
भगवान्
शिवः सुदीर्घ-कालं
यावत् मम प्रवाह-वेगं
धारयितुं नैव शक्ष्यति।
कथं
नाहं भगवन्तं शिवम् आत्मना
साकमेव पाताल-लोकं
नयेयम् ?”
परन्तु
सर्वज्ञः भगवान् शिवः भगवतीं
गङ्गां स्वीय-जटा-कलापे
आबद्धवान्।
अनेक-वर्षाणि
यावत् भगवती गङ्गा ततः
निष्क्रान्तुं निरर्थकं
प्रायतत।
भगीरथः
पुनः भगवन्तं शिवं प्रसादयितुं
तपस्याम् अकरोत्।
भगवान्
शिवः स्वीयं जटा-कलापं
उन्मोचितवान्,
ततः
गङ्गा-प्रवाहं
पृथ्वीम् अस्पृशत्।
पृथिव्यां
अवतरितस्य गङ्गा-जलस्य
सप्त-धाराः
अभूवन्।
तासु
धारा-त्रयं
प्राचीं प्रति,
अपरं
धारा-त्रयं
प्रतीचीं प्रति प्रावहत्।
सप्तमः
प्रवाहः भगीरथम् अन्वगच्छत्
,
अपि
च,
अन्तिमत्वेन
महात्मनः जह्नोः आश्रमं
प्राप्तवान्।
अहङ्कार-पूर्णा
भगवती गङ्गा सोत्साहं
स्वीय-शक्ति-प्रदर्शनार्थं
आश्रमं जलाप्लावितम् अकरोत्।
अनेन
विक्षोभेण क्रुद्धः महात्मा
जह्नुः गङ्गायाः अपान्सि
पीतवान् ,
गङ्गां
च शोषितवान्।
भगीरथः
महर्षेः पादारविन्दयोः निपत्य
याचितवान् यत् – “कृपया
गङ्गा-देवीं
क्षम्यताम्,
हे
महात्मन् !
भवान्
यदि एनां विमोक्ष्यसि चेत्,
मम
पूर्वजाः मुक्ताः भवितारः।
”
महात्मा
जह्नुः भगीरथे करुणान्वितः
सन् गङ्गा-प्रवाहं
निज-कर्ण-कुहरात्
बहिः निष्कासितवान्।
ततः
प्रभृति देवी गङ्गा जाह्नवी-
इति
नाम्ना अपि प्रख्याता जाता।
जाह्नवी
अर्थात् जह्नु-मुनेः
जाता सरित् वा कन्या।
ततः
परम्,
भगीरथः
गङ्गां पाताल-लोकम्
अनयत् |
यथैव
देवी गङ्गा सगर-पुत्राणां
भस्मावशेष-स्थलीम्
आप्लावितवती,
ते
सर्वे अपि मुक्ताः सञ्जाताः।
एवं
रीत्या,
भगीरथः
यत् कार्य-लक्ष्यं
निश्चितवान् ,
तत्
पूर्णताम् अनयत्।
ततः
परम्,
भगीरथः
देवीं गङ्गां सागरं प्रति
नीतवान्।
अनेक-वर्षाणि
व्यतीतानि।
एकदा
नृपतिः शन्तनुः गङ्गा-नद्याः
तीरे सुन्दरीं रमणीमेकाम्
अपश्यत्।
वस्तुतः
एषा मानव-रूपधारिणी
भगवती गङ्गा आसीत्।
“भो
परम-सौन्दर्य-शालिनि
महाभागे,
ममेदं
सौभाग्यम् अभविष्यत्,
यदि
भवती मम अर्धाङ्गिनी अभविष्यत्”,
- शन्तनुः
स्वीयां समीहां प्राकटयत्।
भगवती
गङ्गा प्रसन्ना सती उदतरत्
–“ससमयं भवता सह विवाहं
करिष्यामि।
कदाचिदपि
भवान् मम कार्य-विषयिणीं
पृच्छां नैव करिष्यति -
इति।”
राजा
शन्तनुः समयमेनं स्वीकृतवान्
,
अपि
च,
अनयोः
विवाहः महता समारम्भेण वैभवेन
च सम्पन्नः।
किञ्चित्-कालानन्तरम्,
ताभ्याम्
एकः पुत्रः अजायत।
भगवती
गङ्गा च किम् अकरोत्...?
सा
तं पुत्रं नद्याम् अक्षिपत्।
राजा
शन्तनुः स्तब्धः एवातिष्ठत्
यतो हि तेन स्वीय-पत्न्या
सह कृतः समयः परिपालनीयः आसीत्।
पत्न्याः
आश्चर्यकारिणः कार्यस्य
विषये स न किमपि प्रष्टुम्
अपारयत्।
एतावत्-पर्यन्तमेव
पर्याप्तं नासीत्।
सा
अपरान् अपि नव-जातान्
षट् पुत्रान् नद्याम् अक्षिपत्।
राजा
शन्तनुः स्वीय-दुःखं
नियन्त्रितवान् परं निज-पत्नीं
न किमपि प्रष्टुम् अपारयत्।
परञ्च,
भगवती
गङ्गा यथैव स्वीयम् अष्टमं
पुत्रं नद्याम् प्रक्षेप्तुम्
उद्यता,
राजा
शन्तनुः ताम् अवरोधितवान्,
प्रार्थितवान्
च -
“कृपया
आत्मजम् एनं जीवितुम् आज्ञापय।”
तस्मिन्
क्षणे एव भगवती गङ्गा स्वीय-पुत्रेण
साकं तिरोहिता बभूव।
अनेक-वर्षाणि
व्यतीतानि।
राजा
शन्तनुः यदा मृगयार्थं गतः
आसीत्,
सः
अनुपममेकं दृश्यम् अपश्यत्।
कश्चन
परस्सहस्रं शरौघैः भित्तिं
निर्मीय गङ्गा-प्रवाहम्
अवरोधितवान्।
शन्तनुः
किञ्चित् अग्रे गत्वा अपश्यत्
यत् तत्र एकः बालकः स्थितोSस्ति।
अयमेव
बालकः परस्सहस्रं शरौघैः
भित्तिं निर्मीय गङ्गा-प्रवाहम्
एवम् अवरोधितवान्।
शन्तनुः
सन्निकटं गत्वा तं द्रष्टुम्
ऐच्छत् परञ्च सः तिरोहितः।
तस्मिन्नेव
क्षणे शन्तनुः अन्वभवत् यद्
-
“ कदाचित्
एषः मम पुत्रः सम्भवेत् ?
“शन्तनुः
सौत्सुक्यं देवीं गङ्गां
प्रार्थितवान्।
भगवती
गङ्गा निज-पुत्रेण
साकं स्वयमेव उपस्थिता अजायत
न्यगादीच्च यत् “अयमेव अस्मदीयः
अष्टमः पुत्रः देवव्रतः अस्ति।”
भगवती
गङ्गा एतदपि न्यगादीत् यत्
“अष्टसु वसुषु अन्यतमः अयं
द्यौः अस्ति यः अस्माकं
पुत्र-रूपेण
पुनर्जातोSस्ति।
कृपया
एनं स्वीकरोतु।”
भगवती
गङ्गा शन्तनवे देवव्रतं दत्वा
कैलासम् आरूढवती,
महाविष्णोः
वचनञ्च सत्यापितवती।
[३२]
एषा
अस्ति कथा यत् भारतस्य पवित्रा
नदी गङ्गा केन प्रकारेण धरातलम्
अवतीर्णा।
गङ्गायाः
पवित्रता-विषये
महाभारत-ग्रन्थे
लिखितमस्ति यत् “दुष्कर्म-निवृत्यर्थं
गङ्गा-जलावगाहनं
परमावश्यकम्।
गङ्गा-जलावगाहनं
शत-यागानाम्
अनुष्ठान-तुल्यं
वर्तते।
भारतवासिनां
कृते गङ्गा केवलं नदी एव
नैवास्ति परमेषास्ति –
“दिव्य-मुक्तेः
पवित्रतायाः च अनन्त-प्रवाहः
बलदेवानन्दसागरः....