प्रक्रियासर्वस्वम्
डॉ. जि. गङ्गाधरन् नायर्
भारतराष्ट्रे केरलराज्ये जन्म प्राप्तवत्सु संस्कृतसाहित्यसपर्यां कृतवत्सु महात्मसु सर्वप्रथमं स्थानम् अद्वैताचार्यस्य श्रीशङ्करस्य , तदनन्तरं स्थानं श्रीमतः नारायणभट्टपादस्य इति भूयसाम् आधुनिकगवेषकाणाम् अभिप्रायः। केरलीयभाषाभूते मलयाळे नारायणभट्टतिरि (नारायणभट्टश्रीः इति संस्कृते) इति प्रथितः अयं भट्टापादः श्रीकृष्णभक्तिमयस्य नारायणीयम् इति स्तोत्रकाव्यस्य रचनां कृतवान् , गुरुवायुपुरे श्रीकृष्णमन्दिरे विग्रहस्य पुरतः प्रतिदिनम् एकं दशकम् इति क्रमेण दिनशतेन इदं काव्यं पठित्वा स्वस्य तीव्रवातरोगात् विमुक्तः अभवत् इति ऐतिह्यं प्रसिद्धं भवति। मीमांसा, व्याकरणं, ज्योतिषं, तर्कः इत्यादिषु नानाशास्त्रेषु निष्णातः नारायणभट्टः अम्बरनदीराजस्य देवनारायणस्य आज्ञया प्रक्रियासर्वस्वं नाम व्याकरणग्रन्थस्य रचनां षष्ट्या दिनैः ( by 60 days ) कृतवान्। सः वदति –
भूखण्डे केरळाख्ये सरितमिह निळामुत्तरेणैव नावा-
क्षेत्राद् गव्यूतिमात्रे पुनरुपरिनवग्रामनाम्नि स्वधाम्नि।
धर्मिष्ठाद्भट्टतन्त्राद्यखिलमतपटोर्मातृदत्तद्विजेन्द्रा-
ज्जातो नारायणाख्यो निरवहदतुलां देवनारायणाज्ञाम्॥
इतः ज्ञायते तस्य गृहम् उपरिनवग्रामः ( मेल्पुत्तूर् इति मलयाळभाषायाम् ), तच्च निळायाः ( इदानीं भारतप्पुषा इति प्रथितायाः नद्याः ) तीरे नावामुकुन्ददेवमन्दिरात् नातिदूरे, पिता मातृदत्तनामकः नम्पूतिरिब्राह्मणः च इति॥
स्वस्य शिक्षाविषये भट्टापादः वदति –
मीमांसादि स्वतातान्निगममविकलंमाधवाचार्यवर्यात्-
तर्कं दामोदरार्यादपि पदपदवीमच्युताख्याद् बुधेन्द्रात्।
तेषां कारुण्ययोगात् किमपि च कवितामाप्नवं कर्म चैतद्
भूयात्कृष्णार्पणं मे भवतु च सततंधीरघारेः कथायाम्॥
एतदनुसृत्य नारायणस्य मीमांसागुरुः पिता एव, वेदगुरुः माधवाचार्यः, न्यायशास्त्रगुरुः दामोदरः, व्याकरणाचार्यः अच्युतपिषारोटिः च आसन् इति।
शास्त्रेषु काव्यभेदेषु च भट्टपादः बहून् ग्रन्थान् विरचितवान्। नारायणीयं काव्यं पूर्वं सूचितम्। गुरुवायुपुरेशम् अभिसम्बोध्य शतसङ्ख्यकेषु दशकेषु सहस्राधिकैः पद्यैः तस्मिन् कृष्णकथा वर्णिता अस्ति। अतिमनोहरं काव्यम् इदम्। श्रीपादसप्ततिः इति देवीस्तुतिपरं स्तोत्रकाव्यं बाणभट्टस्य चण्डीशतकस्य समानं वर्तते। धातुकाव्यं व्याकरणशास्त्रकाव्यं भवति यत्र त्रिषु सर्गेषु कंसवधवर्णनेन साकं माधवीयधातुवृत्तिम् अनुसृत्य क्रमेण धातुनिष्पन्नक्रियारूपाणि उदाहृतानि सन्ति। देवीस्तुतिनामके स्तोत्रे नव पद्यनि सन्ति येषु कटपयादिसंख्यासम्प्रदायेन ऋग्वेदस्य अष्टकानां वर्गाणाम् अध्यायानां सूक्तानां च संख्याः सूचिताः। स्वस्य उपकारं कृतवतां राज्ञां प्रशस्तयः नारायणेन प्रणीताः सन्ति -- शैलाब्धीशमानविक्रमप्रशस्तिः, माटमहीशवीर-केरलप्रशस्तिः, अम्बरनदीशदेवनारायणप्रशस्तिः, बिम्बिलीशगोदवर्मप्रशस्तिः च। राजसूयम्, सुभद्राहरणम्, पाञ्चालीस्वयंवरः, मत्स्यावतारः, गजेन्द्रमोक्षः, कुचेलवृत्तम्, अजामिलोपाख्यानम्, अष्टमीचम्पूः इत्यादयः अनेके चम्पूप्रबन्धाः तेन विरचिताः सन्ति यान् उपयुज्य चाक्यारनामक-जातीयाः इदानीमपि देवमन्दिरेषु अनुष्ठेयं "कूत्तु" नामकं क्लारूपम् अवतारयन्ति। शूर्पणखा-प्रलापप्रबन्धे अनुनासिकाः वर्णाः न सन्ति इति सः निरनुनासिकप्रबन्धः इति प्रसिद्धः। व्याकरणे प्रक्रियासर्वस्वम् , अपाणिनीयप्रमाणता इति ग्रन्थतल्लजद्वयं विशेषतः उल्लेखनीयं वर्तते।
व्याकरणप्रस्थानद्वयं प्रक्रियासर्वस्वं च
पाणिनेः अष्टाध्याय्यां येन क्रमेण सूत्राणि पठितानि तेन क्रमेण एव पुरातनकाले सूत्राणाम् अर्थप्रतिपादनम् उदाहरणप्रदर्शनं च आसीत्। अत्यन्तं सङ्क्षेपेण, स्मरणसौकर्यापेक्षया च पाणिनिना सूत्राणां क्रमः स्वीकृतः। अतः सूत्रेषु शब्दानाम् आवर्तनं यावच्छक्यं परिहृतम् । एकस्य सूत्रस्य अर्थज्ञानाय तस्मिन् सूत्रे विद्यमानानाम् ऊह्यानां वा शब्दानाम् अपेक्षया अधिकाः शब्दाः आवश्यकाः सन्ति तर्हि पूर्वसूत्रेभ्यः ग्रहीतुं शक्यन्ते इति अस्य क्रमस्य सौष्ठवम्। काशिकायाम् अष्टाध्यायीक्रमेणैव सूत्राणाम् पाठः, अर्थप्रतिपादनम्, उदाहरणं च सन्ति। एवं रीत्या पाणिनीयसूत्रशिक्षणस्य काशिकाप्रस्थानम् इति नाम अधुना व्याकरणशास्त्रिभिः कथ्यते। शब्दानां रूपनिष्पत्तिप्रतिपानाय अष्टाध्याय्याम् एकत्र पठितस्य सूत्रस्य अनन्तरम् अपरत्र पठितस्य सूत्रस्य अपेक्षा स्यात्। अतः प्रक्रियाज्ञाने क्लेशः अस्ति इति अस्य प्रस्थानस्य दोषः।
धर्मकीर्तेः रूपावतारे, विमलसरस्वत्याः रूपमालायां, रामचन्द्रदीक्षितस्य प्रक्रियाकौमुद्यां च अष्टाध्यायीक्रमं त्यक्त्वा प्रक्रियानुसारेण सूत्राणि विन्यस्य व्याख्यातानि उदाहृतानि च । इमां रीतिं कौमुदीप्रस्थानमिति कथयन्ति वैयाकरणाः। नारायणभट्टः ( 1560-1666 क्रि.सं.), तस्य समकाले जीवितवान् भट्टोजिदीक्षितः ( 1550-1630 क्रि.सं.) च प्रक्रियानुसारेण सूत्राणि प्रतिपादितवन्तौ। नारायणभट्टस्य प्रक्रियासर्वस्वं भट्टोजिदीक्षितस्य वैयाकरण-सिद्धान्तकौमुदी च कौमुदीप्रस्थाने अन्तर्भवतः। तौ महान्तौ परस्परं न दृष्टवन्तौ, परस्परस्य ग्रन्थान् अपि न दृष्टवन्तौ। कर्णाकर्णिकया दीक्षितः नारायणस्य महत्त्वं श्रुतवान् इति ऐतिह्यं प्रचलति। सिद्धान्तकौमुद्याः महान् प्रचारःअभवत्। इदानीमपि व्याकरणपठने सा एवअधिकतया आश्रीयते॥
प्रक्रियासर्वस्वस्य पृष्ठभूमिका
काशिकावृत्तौ शब्दानां रूपसिद्धिप्रकारः सम्यक् न प्रदर्शितः। रूपावतारे, प्रक्रियाकौमुद्याम् , अन्येषु प्रक्रियाग्रन्थेषु च सर्वेषां पाणिनिसूत्राणां वर्णनं नास्ति। अनेन कारणेन अम्बरनदीदेशनरेशः पाणिनीयव्याकरणस्य समग्रं ग्रन्थं रचयितुं भट्टपादम् आदिष्टवान्। तद्विषये भट्टः लिखति--
सो/थ कदाचन राजा स्वगुणैराकृष्य स्वसन्निधिं नीतम्।
श्रीमातृदत्तसूनुं नारायणसंज्ञमशिषदवनिसुरम्॥
वृत्तौ चारु न रूपसिद्धिकथनं रूपावतारे पुनः
कौमुद्यादिषु चात्र सूत्रमखिलं नास्त्येव तस्मत् त्वया।
रूपानीतिसमस्तसूत्रसहितं स्पष्टं मितं प्रक्रिया-
सर्वस्वाभिहितं निबन्धनमिदं कार्यं मदुक्ताध्वना॥
स्वकीयग्रन्थस्य यावच्छक्यं सर्वशब्दानुशासनत्वम् अभिलषन् नारायणभट्टः स्वपठितानां बहूनां ग्रन्थानाम् उपयोगं करोति। व्याकरणग्रन्थरचनार्थं यावत्सङ्ख्यकानां ग्रन्थानाम् उपयोगं सः कृतवान् तावत्सङ्यकानाम् अन्यः न को/पि अन्यः शास्त्रकारः कृतवान् इति नारायणस्य प्रशंसायां वक्तव्यमस्ति। मुनित्रयात् परमपि भाषायां प्रयोगे आगतानां शब्दानां साधुत्वं साधयितुम् इच्छन् भोजराजविरचितस्य सरस्वतीकण्ठाभरणस्य , दण्डनाथेन विरचितायायाः तद्वाख्यायाः हृदयहारिण्याः च अधिकतया उपयोगं करोति इति सुव्यक्तं दृश्यते॥
विषयविन्यासः शैली च
अम्बरनदीनरेशः विद्वान् आसीत्। तस्य निर्देशम् अनुसृत्य एव प्रक्रियासर्वस्वे प्रकरणानि योजितानि। तत्र विंशतिः खण्डाः सन्ति -- संज्ञाखण्डः, परिभाषाखण्डः, सन्धिखण्डः, कृत्खण्डः, तद्धितखण्डः, समासखण्डः, स्त्रीप्रत्ययखण्डः, सुबर्थखण्डः, सुब्विधिखण्डः, आत्मनेपद-परस्मैपदविभागखण्डः, तिङ्खण्डः, लार्थविशेषखण्डः, सनन्तखण्डः, यङ्खण्डः, यङ्लुक्खण्डः, सुब्धातुखण्डः, न्यायखण्डः, धातुखण्डः, उणादिखण्डः, छान्दसखण्डः।
सरलवाक्यैः सूत्राणाम् अर्थः उदाहरणानि च प्रक्रियासर्वस्वे उच्यन्ते। क्वचित् क्वचित् पद्येन प्रतिपादनं भवति। शास्त्रे यस्मिन् कस्मिन् अपि विषये मतभेदः इतरेषां दृश्यते तर्हि तस्य अपि विवरणं तत्र स्वस्य युक्तिसम्मतं मतं च भट्टपादः लिखति।
रासविलासविलोलं भजत मुरारेर्मनोरमं रूपम् ।
प्रकृतिषु यत् प्रत्ययवत् प्रत्येकं गोपिकासु सम्मिलितम्॥ इति मङ्गलश्लोकेन प्रक्रियासर्वस्वम् आरभमाणः नारायणः सूत्राणां भूयांसि उदाहरणानि श्रीकृष्णसम्बद्धानि एव ददाति। प्रायेण अन्ये ग्रन्थकाराः भाष्यकाशिकादिषु विद्यमानान् उदाहरणविशेषान् एव यदा ददाति तदा नारायणः स्वयमेव अन्यानि उदाहरणानि अधिकतया दर्शयति। प्रायेण तस्य उदाहरणानि तस्य कविथवद्योतकानि अपि भवन्ति॥
मुनित्रयस्य विधीनाम् अविषयान् शब्दान् अपाणिनीयान् उक्त्वा केचिद् वैयाकरणाः शाठ्येन तान् असाधून् कथयन्ति, तिरस्कुर्वन्ति च। महाकवीनां कृतिषु अपि तादृशाः शब्दाः दृश्यन्ते। केनापि उक्तम् –
अपशब्दत्रयं माघे भारवेरेकविंशतिः।
असङ्ख्याः कालिदासस्य व्यासस्तन्मयतां गतः ॥
इति।
नारायणभट्टः रूढप्रयोगाणां शब्दानाम् असाधुत्वं नाङ्गीकरोति। महाकवीनां प्रयोगाणां साधुत्वम् अपि सः प्रतिपादयति। उदाहरणार्थं भवभूत्यादिभिः प्रयुक्तः विश्रामशब्दः दृश्यताम्। पाणिनीयव्याकरणानुसारेण विश्रमः साधुः, न विश्रामः। वर्धमान-भोजराजादयः विश्रामशब्दमपि साधयन्ति । नारायणः वदति --
वर्धमानाख्य आचार्यो वौ श्रमेर्वेत्यसूत्रयत्। विश्रमेर्वेति भोजो/पि तेन विश्राम-विश्रमौ॥
विश्रामस्यापशब्दत्वं वृत्त्युक्तं नाद्रियामहे। मुरारिभवभूत्यादीनप्रमानणीकरोति कः॥
विश्रामशाखिनं वाचां विश्रामो हृदयस्य च। विश्रामहेतोरित्यादि महान्तस्ते प्रयुञ्जते॥
अपाणिनीयप्रयोगाणां साधुत्वप्रतिपादनम्
पाणिनि-कात्यायन-पतञ्जलिभिः त्रिभिः मुनिभिः यथोत्तरम् अधिकप्रामाण्यवद्भिः अनुगृहीताः एव शब्दाः साधवः, अन्ये असाधवः इति वदामः चेत् अस्माभिः अङ्गीकर्तव्यं यत् मुनित्रयात् परंसंस्कृतभाषा वन्ध्या निर्जीवा च आसीद् इति। एतत् सत्यं न। पुराण-काव्य-कथादिसाहित्यं यत् पतञ्जलेः परं जातं तत् अतीव पुष्कलं भवति। मानवस्य कालानुसारिविकासम् अनुसृत्य नूतनवस्तूनि उत्पद्यन्ते, नूतनाः आशयाः जायन्ते। तेषामपि प्रतिपादनार्थं भाषा नूतनशब्दैः विकसिता भवति। को वा इच्छति मुनित्रयस्य काले यानि वस्तूनि, ये आशयाः च आसन् तैः एव अहं जिविष्यामि, ततः परं लोके आविर्भूतं किमपि मम न आवश्यकम् इति ? लोकव्यवहारार्थं नृत्यन्ती ऊर्जस्वला भाषा आवश्यकी। पुराणकाव्यादिषु संस्कृतभाषा तादृशी एव दृश्यते । तस्याः समर्थनार्थम् एव चन्द्रगोमि-भोज-बोपदेवप्रभृतयः नूतनशब्दानां साधुत्वं प्रतिपादितवन्तः। तेषाम् आशयान् यथावत् अवगम्य अपाणिनीयाः इति कैश्चित् निन्दितान् शब्दान् अपि साधयितुम् ऊर्जस्वलः नारायणः युक्तिपूर्णम् अपाणिनीयप्रामाण्यसाधनम् इति ग्रन्थं लिखितवान्। एषः ग्रन्थः प्रक्रियासर्वस्वस्य आधारशिला इति वक्तुं शक्यते।
अपाणिनीयप्रामाण्यसाधनस्य आरम्भे एव नारायणः पद्येन वदति --
पाणिन्युक्तं प्रमाणं न तु पुनरपरं चन्द्रभोजादिसूत्रं
के/प्याहुस्तल्लघिष्ठं न खलु बहुविदामस्ति निर्मूलवाक्यम्।
बह्वङ्गीकारभेदो भवति गुणवशात् पाणिनेः प्राक् कथं वा
पूर्वोक्तं पाणिनिश्चाप्यनुवदति विरोधे/पि कल्प्यो विकल्पः ॥
वार्तिककारः कात्यायनः पाणिनिसूत्रोक्तिषु परिष्कारं विदधाति। तथैव भाष्यकारः पतञ्जलिः सूत्रकार-वार्त्तिककारयोः उभयोः अपि उक्तिषु परिष्कारं निर्दिशति। लोकव्यवहारमेव प्रमाणं स्वीकृत्य वार्त्तिककार-भाष्यकारौ एवं कुरुतः। सूत्रकारः स्वयम् अपि पूर्वेषां मतानि उद्धृत्य अङ्गीकरोति। मुनित्रयस्य रीतिमेव चन्द्र-भोजादयः अनुवर्तयन्ति। अतः तेषाम् उक्तिषु अपाणिनीयत्वम् आरोप्य तिरस्करणं बालिशमेव इत्येव नारायणभट्टस्य सुचिन्तितं युक्तिसहं मतम्।
उपसंहारः
नारायणभट्टः दीर्घदर्शितया समीक्षात्मकबुद्ध्या विशालचिन्तया च संस्कृतस्य पोषणाय प्रक्रियासर्वस्वम् इति व्याकरणग्रन्थं रचितवान्। अभिनन्दनीयः तस्य प्रयासः। केवलं मासद्वयेन रचिते अस्मिन् व्याकरणग्रन्थे यावन्तः शब्दाः अनुशिष्टाः तावन्तः अन्यस्मिन् कस्मिन् अपि व्याकरणग्रन्थे न सन्ति। दैनन्दिनव्यवहाराय संस्कृतस्य प्रयोगे केन अपि कारणेन त्रुटिः अभूत्। अतः अस्माकं प्राचीनेषु ग्रन्थेषु विद्यमानान् व्याकरणग्रन्थेषु पठितान् बहून् शब्दान् अर्थतः वयं न अवगच्छामः। यदि प्रक्रियासर्वस्वं पठिष्यामः तर्हि बहूनां तादृशानां शाब्दानां ज्ञानं सुलभं भविष्यति ।दैनन्दिनव्यवहारे पुनरुज्जीवितां संस्कृतभाषां प्रचारयतां संस्कृतानुरागिणाम् अयं ग्रन्थः सहायः भविष्यति। प्रक्रियासर्वस्वात् सन्दर्भोचितानि त्रीणि पद्यानि अधः दीयन्ते --
न किञ्चिदत्र स्वकपोलकल्पितंलिखामि शास्त्रे क्वचिदीक्षितं विना।
अनेकधा यत्र पुराविदां मतंमनोहरं तत्र परं ग्रहीष्यते॥
वृत्तौ नानाप्रमादा विवृतिषु कथिता माधवाद्यैश्च सर्व-
व्यास्वाख्यायि दोषो बहुलमघटितं प्रक्रियाकाव्यपङ्क्तौ।
नाम व्याख्यास्वनन्तं किल तदिह महाकोविदैरप्यवर्ज्या
विभ्रान्तिश्चेत् कृशाभ्यासिनि कृशधिषणे मादृशे किन्नु वाच्यम्॥
स्वनिर्मितत्वप्रणयावकुण्ठितःस्वकाव्यदोषं न बुधो/पि बुध्यते ।
अतो/त्र सूरीन् । ॥
॥ शुभम् ॥