Monday, 30 July 2018

मनोगतम् – ४६ 
‘मन की बात’ (4६वीं कड़ी) प्रसारण तिथि: 29.07.2018
[“मन की बात”- “मनोगतम्” - इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]                               
                     - भाषान्तर-कर्ता -  बलदेवानन्द-सागरः
          मम प्रियाः देशवासिनः, नमस्कारः ! एतेषु दिनेषु अनेकेभ्यः स्थानेभ्यः समीचीनायाः वर्षायाः वृत्तानि अधिगम्यन्ते | कुत्रचित्तु समधिकायाः वर्षायाः कारणात् चिन्तायाः अपि वृत्तानि अवाप्यन्ते| अपि च, केषुचित् स्थानेषु साम्प्रतमपि जनाः वर्षां प्रतीक्षन्ते| भारतस्य विशालता, विविधता च स्तः, कदाचित् वर्षापि रुचित्वम् अरुचित्वं च प्रदर्शयति, परन्तु कथं वयमत्र वर्षायाः दोषम् अभिमन्यामहे?  मनुष्यः एवास्ति यो हि प्रकृत्या साकं संघर्षस्य मार्गं अवाचिनोत् | अस्य परिणामत्वेन एव कदाचित् प्रकृतिरेषा रुष्टा भवति |  तथा च, एतस्मादेव कारणात् अस्माकं सर्वेषामपि दायित्वं भवति यत् वयं प्रकृति-प्रेमिणः भवेम, वयं प्रकृति-रक्षकाः स्याम, वयं  प्रकृतेः सम्वर्धकाश्च भवेम, एवमाचरिते सति यानि प्रकृतिदत्त-वस्तूनि सन्ति तेषु स्वतः एव सन्तोलनं सन्धारितं भवति |

       विगतेषु दिनेषु तादृशी एवैका प्राकृतिका- पदायाः घटना अशेष-विश्वस्य ध्यानमाकर्षयत्,  मानव-मनांसि च प्राकम्पयत् | भवद्भिः सर्वैरपि दृश्यवाहिन्यां दृष्टं स्यात्, थाईलैंड-देशे द्वादशानां किशोराणां पाद-कन्दुक-क्रीडकानां वृन्दं, तेषां च प्रशिक्षकः भ्रमणार्थं गुहायां गताः |  तत्र प्रायेण गुहायां प्रवेशार्थं ततः निर्गमनार्थं च, कतिपय-होरावधिकः कालः अपेक्षते | परञ्च तस्मिन् दिने दैवेन किमपि अन्यदेव निर्णीतमासीत् | यदा ते गुहायाः सुबहु आभ्यन्तरं प्रविष्टाः –  सहसा मूसलाधार-वृष्टिकारणात् गुहायाः उपद्वारम् अतिमात्रम् जलं सञ्चितं जातम् | तेषां बहिः निर्गमनस्य मार्गः अवरुद्धो जातः |  न कश्चन अपरो मार्गः लब्धः एतस्मात् ते गुहान्तर्वर्तिनि एकस्मिन् लघु-केदारे अवस्थिताः –  तच्च न केवलं एक-द्वि-दिवसार्थं –  अष्टादश-दिन-पर्यन्तम् ! किं भवन्तः कल्पयितुं शक्नुवन्ति यत् किशोरावस्थायां यदा पुरतः एव मृत्युः अवलोक्यते तदा प्रतिपलं युगायते इति ! एकतः ते संकट-प्रतीकारं कुर्वन्तः आसन्,  अपरतश्च अखिलेsपि विश्वे मानवता एकीभूय ईश्वर- दत्तान् मानवीय-गुणान् प्रकटयति स्म | विश्वस्मिन् विश्वे जनाः एतान् बालकान् सुरक्षितान् एव बहिः निष्कासयितुं प्रार्थना-निरताः आसन् |     

        एतदवगन्तुं सर्वविधोsपि प्रयासः विहितः यत् बालकाः सन्ति कुत्रेति? कस्यां दशायाञ्च वर्तन्ते?  केन प्रकारेण ते बहिः निष्कासयितुं शक्यन्ते? यदि सुरक्षाकार्यं काले एव न सञ्जातं चेत् तर्हि प्रावृट्-ऋतौ कतिपय-मास-पर्यन्तं तेषां बहिः निष्कासनं शक्यं नाभविष्यत् | अस्तु ! यदा शुभ-वृत्तं प्राप्तं तदा अशेष-विश्वं शान्तिमन्वभवत्, सन्तोषोsजायत, परञ्च पूर्णमेनं घटनाक्रमम् अपरेण मन्तव्येन अपि विचारयितुं मम मानसमभिलषति यत् कृत्स्नमपि सुरक्षा-साहाय्य-कार्यं केन प्रकारेण प्रचालितम्? प्रत्येकमपि स्तरे यो दायित्वानुभवः जातः सोsद्भुतः आसीत् | सर्वेsपि,  भवतु नाम तत् प्रशासनं वा एतेषाम् निरुद्धानां बालानां पितरौ,  भवन्तु वा तेषां कुटुम्ब-जनाः वा सञ्चार-माध्यमानि, भवेद्वा सः देशस्य नागरिकः –  प्रत्येकमपि शान्तेः धैर्यस्य च अद्भुताचरणम् अकरोत् | सर्वेsपि ‘संगछध्वं संवदध्व’मिति कृत्वा समूह-भावेन एकीभूय स्वकार्येsस्मिन् संलग्नाः आसन् |  सर्वेषामपि संयमितो व्यवहारः! – अवगच्छामि यत् शिक्षणस्य विषयोsयम्,  अवगमनस्य पाठ-सदृशः| एवं नासीत् यत्तेषाम् पितरौ दुःखितौ नाभविष्यताम्, एवमपि नासीत् यत् जनन्याः अक्ष्णोः अश्रूणि नैव निरगच्छन्, परन्तु धैर्यम्, संयमः,  सम्पूर्णस्यापि समाजस्य शान्तचित्त-व्यवहारः – एतत्सर्वमेव सर्वेषामपि अस्माकं कृते शिक्षणीयं वर्त्तते |  अस्मिन् पूर्णेsपि सुरक्षा-साहाय्य-कार्ये थाईलैंडस्य नौसेनायाः अन्यतमः सैनिकः हुतात्मः सञ्जातः | कृत्स्नमपि विश्वम् आश्चर्यचकितमस्ति यत् एतादृशीषु कठिन-परिस्थितिषु सतीषु जलपूरितायाम् अन्धकार-पूर्णायां च गुहायां एतावता साहसेन धैर्येण च साकं ते निजाशां नैव त्यक्तवन्तः | एतत्तु नूनं प्रमाणयति यत् मानवता यदा सम्भूय पुरो याति,  अद्भुत-वस्तूनि सम्पद्यन्ते | केवलमिदमेव अवधेयं यद् वयं शान्त-स्थिर-मनसा निजलक्ष्यमादध्याम,  तदर्थं कार्यनिरताः च भवेम|

       विगतेषु दिनेषु अस्माकं देशस्य प्रियः कविः नीरजः अस्मान् विहाय प्रयातः|नीरज-कवेः अनन्य-तमा विशेषतासीत् - आशा, विश्वासः, दृढसंकल्पः,

Wednesday, 18 July 2018

।। महाकालज्योतिर्लिङ्गकथा।।
(शिवपुराणान्तर्गतकथा)
---- सुनीश् नम्बूतिरि


      पुराणवर्णितानि द्वादशज्योतिर्लिङ्गानि भारते अद्यापि प्रसिद्धानि। तेषु तृतीयम् उज्जयिन्यां महाकालज्योतिर्लिङ्गम् इति सुप्रसिद्धं वर्तते। 

       पुरा एव अवन्ती नगरी शिवभक्तानां बाहुल्येन प्रसिद्धा पावनी च आसीत्। तत्र परमशैव एकः वेदनिष्ठायुक्तो ब्राह्मणः पार्थिवलिङ्गस्य नित्यम् अर्चनं करोति स्म। परमज्ञानी सः ब्राह्मणः शरीरयात्रावसाने शिवलोकं जगाम। तस्य महात्मनः चत्वारः पुत्राः देवप्रियः प्रियमेधः सुकृतः धर्मवाही ते च पितसदृशा: परमशिवभक्ता एवासन्। जनकेन अनुष्ठितं शिवपूजनं तेऽपि भक्त्या अनुष्ठानं कृतवन्तः। अनेन तेषां कीर्तिः सर्वत्र प्रसृता जाता। एवम् अवन्ती च ब्रह्मतेजोमयी जाता।। 


     अथैकदा ब्रह्मदेवात् वरं सम्पाद्य दूषणः नामकः एको महासुर: भूलोके धर्मक्षयाय प्रयत्नं कुर्वन् आसीत्। धर्मतेजोमयी नगरी अवन्ती इति श्रुत्वा अवन्त्याः विषये तस्य मनसि आश्चर्यम् जातम्। अनेकेषां महापराक्रमशालिनां वधं कृतवानहं कथं शरीरबलहीनाः ब्राह्मणाः तत्र अधुनाऽपि निर्भयेन वैदिकधर्मपालने शक्ताः भवन्ति इति चिन्ता तं बाधते स्म। सैन्येन सह अवन्त्याः नाशं कर्तुं निश्चितवान् सो महाखलः तत्र गत्वा साधुजनानां हननम् आरब्धवान्।।
भयभीताः जनाः आत्मरक्षणार्थं शिवार्चनतत्पराणां ब्राह्मणपुत्राणां समीपं गतवन्तः। शिवे अचञ्चलां भक्तिं कुर्वन्तः ते सर्वे नामसङ्गीर्त्तनं कृत्वा पार्थिवलिङ्गं परितः उपविष्टवन्तः। यथा दुष्टः दूषणासुर एतेषां शिवभक्तानां वधार्थम् आक्रोशं कृतवान् तावता महता शब्देन पार्थिवलिङ्गस्य स्थाने एको गर्तो जातः ततः विकटरूपधारी महाकाल इति ख्यातो  भगवान् परमेश्वर आविर्भूतः। सूर्योदयेन यथा अन्धकारस्य सम्पूर्णः नाशः जायते तथा दुष्टराक्षसानां नाशो जातः। क्षणाभ्यन्तरे दुष्टानां भस्मीकरणं परमात्माना महाकालेन कृतम्। आकाशात् हरिब्रह्मादयदेवाः पुष्पवृष्टिं चक्रुः। तदानीं द्विजाः विविधैः स्तोत्रैः शङ्करं नमस्कृत्य एवं प्रोक्तवन्तः।। 

महाकाल महादेव दुष्टदण्डकरप्रभो।
मुक्तिं प्रयच्छ नः शम्भो संसाराम्बुधितः शिव।।

अत्रैव लोकरक्षार्थं स्थातव्यं हि त्वया शिव।
स्वदर्शकान्नरान् शम्भो तारय त्वं सदा प्रभो।।

      तेषां भक्त्या प्रसन्नः भगवान् शिवः तेभ्यः मुक्तिं दत्त्वा तस्मिन्नेव गर्ते भक्तानां रक्षणार्थं विलयं गतवान् तदेव महाकालेश्वरस्य ज्योतिर्लिङ्गं जातम्। अद्यापि उज्जयिन्यां महाकालेश्वरस्य दर्शनादेव सर्वाभीष्टसिद्धिं पापनाशं तथा अन्ते शिवलोकञ्च प्राप्स्यन्ति इत्येव भक्तानां विश्वासः।। 

Monday, 16 July 2018


ऐतिहासिककाव्येषु आङ्गलसाम्राज्यम्।
डा. रोहिणी के.

Research Article  No: 20180716 

 अनुसन्धानाध्ययनम्
Dr. ROHINI K.
Guest Lecturer 
Dept. of Sanskrit
Sree Krishna college, Guruvayoor.


कैरलीभाषाया: व्यवस्थापक:, युगप्रभाव: केरलपाणिनि: इति नाम्ना प्रसिद्ध: ए. आर्. राजराजवर्मा महोदय:। अनेन विरचितमिदं काव्यं चरितमहाकाव्येषु अद्वितीयस्थानमर्हति। आङ्गलभारतचरित्रमेव वर्ण्यविषय:। अन्यचरितकाव्यापेक्षया आङ्गलसाम्राज्यस्य वर्णना नदीप्रवाहरूपेणैव भवति। आङ्गलभारतचरितं विशदरूपेण प्रतिपादित एका एव संस्कृतकृतिरस्ति आङ्गलसाम्राज्यम्।
लण्टन् नगरवर्णनया काव्यस्यास्य आरम्भ:। ‘ब्रिटीष् ईस्ट् इन्ट्या कम्पनी’ नाम संघटनाया:, 1900 तम भारताङ्गलचरितं च अत्र विशदरूपेण प्रतिपादयति। काव्येस्मिन् 23 सर्गेषु 1900 श्लोका: सन्ति। आङ्गलसाम्राज्ये 1911 श्लोका: सन्ति, किन्तु 11 श्लोका: कवि: तस्य एव ‘पञ्चाशत्पूर्तिपञ्चाशिका’ नामक काव्यात् स्वीकृता: भवन्ति। मातुल: ‘केरलकालिदास:’ इति प्रथित: केरलवर्मा वलियकोयितम्पुरान् महाभागस्य निर्देशानुसारमेव काव्यस्यास्य रचना कृता इति 1897 जूण् मासस्य दैनिक्यां लिखितमासीत्। ग्रन्थस्य अवतारिका ए. शेषय्या शास्त्रिमहोदयेन, लघुटिप्पणी टि. गणपतिशास्त्रिणा च लिखितं वर्तते। 1901 तमे वर्षे ग्रन्थस्यास्य प्रकाशनमभवत्। काव्येस्मिन् स्थल-कथापात्र-नदीनां नामानि स्थूललिप्या लिखिता वर्तते। प्रत्येकपुटस्य वामभागे तत्र वर्णितमुख्यविषयस्य वर्षस्य च विवरणमपि दत्तमस्ति।
अस्ति प्रशस्तेष्वतलान्तिकाब्धि-
क्षिप्तेषु विष्वक्पुरमाङ्गलेषु
तिंसा नदीतीरवतंसभूतं
भूमण्डनं लण्टननामधेयम्।।22 (आ. सा. 1/1)
एतेन श्लोकेन लण्टन् नगरस्य वर्णनया ग्रन्थारम्भ: भवति। कुमारसभ्मवस्य शैली एव अत्र प्रयुक्त: इति एतेन काव्येन ज्ञायते। प्रथमसर्गस्य नाम इन्ट्याप्रवेश: इत्यस्ति। काव्येस्मिन् 29 छन्दसां प्रयोग: कविना कृत:।
‘आद्यचरितानुवर्णना’ नामकस्य द्वितीयसर्गस्य 77 श्लोकेषु भारते आर्याणाम् आगमनकालत: मुगलचक्रवर्तीनां शासनपर्यन्तविस्तृतकालस्य रूपरेखा कृता वर्तते। क्लैव् वर्यस्य नायकत्वेन दक्षिणभारते आङ्गलानाम् आधिपत्यस्य शाक्तीकरणमेव ‘कर्णाटकास्कन्दनं’ नामके तृतीयसर्गे प्रतिपाद्यविषय:। चतुर्थसर्गस्य ‘परङ्गिनिष्कासनम्’ इति नाम अन्वर्थमेव। भारते फ्रञ्च् आधिपत्यस्य पतनमेव अस्मिन् सर्गे प्रतिपाद्यते। ‘कालगर्तरात्रिवृत्तम्’ इति पञ्चमसर्गस्य नाम, वङ्गविजय: एव षष्ठसर्गस्य नाम। बंगाल् कलापविवरणं तथा बंगाल् गवर्णर् पदव्यां क्लैव् वर्यस्य अवरोधनम् इत्यादय: सप्तमे सर्गे वर्णिता:। अष्टमे तु वारन्हेस्टिङ् वर्यस्य भरणपरिष्कार: रेगुलेटिंग् आक्ट्, पिट् वर्यस्य इन्ट्या आक्ट् इत्यादय: विषया: प्रतिपादिता:। नवमे सर्गे मराठाचरितं, दशमे मैसूर् चरितं च उपवर्णितम्। अनन्तरसर्गत्रये तथा चतुर्दशसर्गस्य पञ्चविंशतिश्लोकपर्यन्तं टिप्पुसुल्तान् राज्ञ: वर्णना च भवति। चतुर्दशसर्गस्य शिष्टश्लोकै: वेल्लस्लीप्रभो: शासनवर्णना कृता वर्तते। पञ्चदश सर्गे मरात्ताराज्ञां पराजय:, षोडशसर्गे ब्रिटीष् शासकै: विहितशासनक्रम: चित्रित:। मध्यभारतोधृति: च सप्तदशसर्गे:, आम्हेस्ट् बेन्टिक् आक्लन्ट् इत्यादयानां भरणाधिपानां भरणक्रम: अष्टादशे सर्गे च उपवर्णित:। डेल्हौसे: नयतन्त्रै: जायमानं सिक् पतनमेव नवदशसर्गस्य प्रतिपाद्यविषय:। डेल्हौसी प्रभो: रेल् व्यवस्था, पत्रालयव्यवस्था, विद्याभ्यासपरिष्कार: च विंशे सर्गे प्रतिपादित:। प्रथमस्वातन्त्र्यसंग्रामवर्णना एव महासमुप्पिञ्चिलं इत्यस्मिन् एकविंशे अध्याये वर्ण्यते। राजश्रीपरिग्रहमिति द्वाविंशसर्गस्य नाम। यद्यपि आङ्गलसाम्राज्यस्थापनमिति काव्यस्येतिवृत्तम् एषु अध्यायेषु समाप्तं याति, तथापि विक्टोरिया राज्ञ्या: भरणस्वीकारोद्घोष: तत्कालीनभरणक्रम: इत्यादि विषयान् प्रवक्तुं साम्राज्यसिद्धिरिति त्रयोविंशसर्गस्य विनियोग: कविना विहितं वर्तते।
      विषयदृष्ट्या आङ्गलशासनप्रशंसनमेव कवे: मुख्यलक्ष्यमित्यत: कालिकप्रसक्तिरेव वर्तते। रचनाशैल्या: मनोहारितया ऐतिहासिकप्रधानतया च आङ्गलसाम्राज्यमिति अस्य काव्यस्य महत्तमं स्थानं चरितकाव्यप्रस्थाने वर्तते इत्यत्र नास्ति सन्देह:।
 गज्जलिका          कविता

-अंकित शर्मा 'इषुप्रिय'

का हृदि आगच्छ, विक्षुब्ध करोति माम्।
का स्मृत्यां विहरन् सति, स्तम्भयति मम गाम्।
पिबन् सुधां प्रेमस्य, तथाप्यतृप्तोऽहम्।
दग्धोरस्य व्यथामथ, वदतु वदामि काम्।
अंतस्थ तिमिरस्य ,शरद्चन्द्रवत् या।
करोति प्रीत्या नाशं दृष्ट्यां वासं याम्।
सुरभिर्श्वासे श्वासे रोमे रोमे स्पर्शं।
पश्यामि सर्वत्र खञ्जननयनां ताम्।
वचने वार्तालापे कार्ये यस्या वृत्ति।
नात्मनः बोधं मे सर्वं हि तस्याम्।
सरितावन्मम हृदयं नेत्रसागरे याति।
यौवनजलेऽभिषिक्ता मे प्रत्यावस्थां।
मोहाधरयोः च लटपाशे सम्बिध्दं।
मुक्तिर्लभामि न कष्टमिदं मधुरम्।