मनोगतम् – ४६
‘मन की बात’ (4६वीं कड़ी) प्रसारण तिथि: 29.07.2018
[“मन की बात”- “मनोगतम्” - इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]
- भाषान्तर-कर्ता - बलदेवानन्द-सागरः
--- भाषान्तर-कर्ता - डॉ.बलदेवानन्द-सागरः
दूरभाषः - ९८१० ५६२२ ७७
ईमेलः - baldevanand.sagar@gmail.com
‘मन की बात’ (4६वीं कड़ी) प्रसारण तिथि: 29.07.2018
[“मन की बात”- “मनोगतम्” - इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]
- भाषान्तर-कर्ता - बलदेवानन्द-सागरः
मम प्रियाः देशवासिनः, नमस्कारः ! एतेषु दिनेषु अनेकेभ्यः स्थानेभ्यः समीचीनायाः वर्षायाः वृत्तानि अधिगम्यन्ते | कुत्रचित्तु समधिकायाः वर्षायाः कारणात् चिन्तायाः अपि वृत्तानि अवाप्यन्ते| अपि च, केषुचित् स्थानेषु साम्प्रतमपि जनाः वर्षां प्रतीक्षन्ते| भारतस्य विशालता, विविधता च स्तः, कदाचित् वर्षापि रुचित्वम् अरुचित्वं च प्रदर्शयति, परन्तु कथं वयमत्र वर्षायाः दोषम् अभिमन्यामहे? मनुष्यः एवास्ति यो हि प्रकृत्या साकं संघर्षस्य मार्गं अवाचिनोत् | अस्य परिणामत्वेन एव कदाचित् प्रकृतिरेषा रुष्टा भवति | तथा च, एतस्मादेव कारणात् अस्माकं सर्वेषामपि दायित्वं भवति यत् वयं प्रकृति-प्रेमिणः भवेम, वयं प्रकृति-रक्षकाः स्याम, वयं प्रकृतेः सम्वर्धकाश्च भवेम, एवमाचरिते सति यानि प्रकृतिदत्त-वस्तूनि सन्ति तेषु स्वतः एव सन्तोलनं सन्धारितं भवति |
विगतेषु दिनेषु तादृशी एवैका प्राकृतिका- पदायाः घटना अशेष-विश्वस्य ध्यानमाकर्षयत्, मानव-मनांसि च प्राकम्पयत् | भवद्भिः सर्वैरपि दृश्यवाहिन्यां दृष्टं स्यात्, थाईलैंड-देशे द्वादशानां किशोराणां पाद-कन्दुक-क्रीडकानां वृन्दं, तेषां च प्रशिक्षकः भ्रमणार्थं गुहायां गताः | तत्र प्रायेण गुहायां प्रवेशार्थं ततः निर्गमनार्थं च, कतिपय-होरावधिकः कालः अपेक्षते | परञ्च तस्मिन् दिने दैवेन किमपि अन्यदेव निर्णीतमासीत् | यदा ते गुहायाः सुबहु आभ्यन्तरं प्रविष्टाः – सहसा मूसलाधार-वृष्टिकारणात् गुहायाः उपद्वारम् अतिमात्रम् जलं सञ्चितं जातम् | तेषां बहिः निर्गमनस्य मार्गः अवरुद्धो जातः | न कश्चन अपरो मार्गः लब्धः एतस्मात् ते गुहान्तर्वर्तिनि एकस्मिन् लघु-केदारे अवस्थिताः – तच्च न केवलं एक-द्वि-दिवसार्थं – अष्टादश-दिन-पर्यन्तम् ! किं भवन्तः कल्पयितुं शक्नुवन्ति यत् किशोरावस्थायां यदा पुरतः एव मृत्युः अवलोक्यते तदा प्रतिपलं युगायते इति ! एकतः ते संकट-प्रतीकारं कुर्वन्तः आसन्, अपरतश्च अखिलेsपि विश्वे मानवता एकीभूय ईश्वर- दत्तान् मानवीय-गुणान् प्रकटयति स्म | विश्वस्मिन् विश्वे जनाः एतान् बालकान् सुरक्षितान् एव बहिः निष्कासयितुं प्रार्थना-निरताः आसन् |
एतदवगन्तुं सर्वविधोsपि प्रयासः विहितः यत् बालकाः सन्ति कुत्रेति? कस्यां दशायाञ्च वर्तन्ते? केन प्रकारेण ते बहिः निष्कासयितुं शक्यन्ते? यदि सुरक्षाकार्यं काले एव न सञ्जातं चेत् तर्हि प्रावृट्-ऋतौ कतिपय-मास-पर्यन्तं तेषां बहिः निष्कासनं शक्यं नाभविष्यत् | अस्तु ! यदा शुभ-वृत्तं प्राप्तं तदा अशेष-विश्वं शान्तिमन्वभवत्, सन्तोषोsजायत, परञ्च पूर्णमेनं घटनाक्रमम् अपरेण मन्तव्येन अपि विचारयितुं मम मानसमभिलषति यत् कृत्स्नमपि सुरक्षा-साहाय्य-कार्यं केन प्रकारेण प्रचालितम्? प्रत्येकमपि स्तरे यो दायित्वानुभवः जातः सोsद्भुतः आसीत् | सर्वेsपि, भवतु नाम तत् प्रशासनं वा एतेषाम् निरुद्धानां बालानां पितरौ, भवन्तु वा तेषां कुटुम्ब-जनाः वा सञ्चार-माध्यमानि, भवेद्वा सः देशस्य नागरिकः – प्रत्येकमपि शान्तेः धैर्यस्य च अद्भुताचरणम् अकरोत् | सर्वेsपि ‘संगछध्वं संवदध्व’मिति कृत्वा समूह-भावेन एकीभूय स्वकार्येsस्मिन् संलग्नाः आसन् | सर्वेषामपि संयमितो व्यवहारः! – अवगच्छामि यत् शिक्षणस्य विषयोsयम्, अवगमनस्य पाठ-सदृशः| एवं नासीत् यत्तेषाम् पितरौ दुःखितौ नाभविष्यताम्, एवमपि नासीत् यत् जनन्याः अक्ष्णोः अश्रूणि नैव निरगच्छन्, परन्तु धैर्यम्, संयमः, सम्पूर्णस्यापि समाजस्य शान्तचित्त-व्यवहारः – एतत्सर्वमेव सर्वेषामपि अस्माकं कृते शिक्षणीयं वर्त्तते | अस्मिन् पूर्णेsपि सुरक्षा-साहाय्य-कार्ये थाईलैंडस्य नौसेनायाः अन्यतमः सैनिकः हुतात्मः सञ्जातः | कृत्स्नमपि विश्वम् आश्चर्यचकितमस्ति यत् एतादृशीषु कठिन-परिस्थितिषु सतीषु जलपूरितायाम् अन्धकार-पूर्णायां च गुहायां एतावता साहसेन धैर्येण च साकं ते निजाशां नैव त्यक्तवन्तः | एतत्तु नूनं प्रमाणयति यत् मानवता यदा सम्भूय पुरो याति, अद्भुत-वस्तूनि सम्पद्यन्ते | केवलमिदमेव अवधेयं यद् वयं शान्त-स्थिर-मनसा निजलक्ष्यमादध्याम, तदर्थं कार्यनिरताः च भवेम|
विगतेषु दिनेषु अस्माकं देशस्य प्रियः कविः नीरजः अस्मान् विहाय प्रयातः|नीरज-कवेः अनन्य-तमा विशेषतासीत् - आशा, विश्वासः, दृढसंकल्पः,
आत्मनि च प्रत्ययः | अस्मान् हिन्दुस्थानीयान् अपि नीरज-कवेः प्रत्येकमपि पंक्तिः सबलीकर्तुं प्रेरयितुं चार्हति| सोsलिखत् -
आत्मनि च प्रत्ययः | अस्मान् हिन्दुस्थानीयान् अपि नीरज-कवेः प्रत्येकमपि पंक्तिः सबलीकर्तुं प्रेरयितुं चार्हति| सोsलिखत् -
‘अँधियार ढलकर ही रहेगा,
आँधियाँ चाहे उठाओ,
बिजलियाँ चाहे गिराओ,
जल गया है दीप तो अँधियार ढलकर ही रहेगा’|
नीरज-वर्याय सादरं श्रद्धाञ्जलिम् अर्पयामि|
“नमस्ते! प्रधानमन्त्रि-महोदय! मम नाम सत्यम् | अहं वर्षेsस्मिन् दिल्ली-विश्व-विद्यालये प्रथमे वर्षे प्रवेशम् अलभम् | अस्माकं विद्यालयस्य board exams-इति मण्डलीय-परीक्षा-काले भवान् अस्माभिः सह परीक्षायाः उद्वेगस्य, शिक्षायाः च विषये अभाषत | मत्सदृशानां छात्राणां कृते साम्प्रतं भवतः को नाम सन्देशः|”
जुलाई-ऑगस्ट-मासौ कृषकाणां सर्वेषाम् च यूनां कृते अतितरां महत्वपूर्णौ स्तः | यतो हि एष एव कालो भवति यदा महाविद्यालयानां तुंगत्वमनु- भूयते | ‘सत्यम्’-सदृशाः लक्षशो युवानः विद्यालयेभ्यः निष्क्रम्य महाविद्यालयेषु प्रविशन्ति | फेब्रुआरि-मार्च-मासौ परीक्षासु, प्रश्न-पत्रेषु, उत्तरेषु च प्रयातश्चेत् एप्रिल्-मे-मासौ अवकाशानन्द-विहरणैः सह परिणामे, जीवनस्य भावि-कार्यदिशश्च निश्चेतुं, आजीविका-चयनादिषु व्यतीतौ भवतः | जुलाई नाम सः मासः यदा युवा निज-जीवनस्य नूतने क्रमे पदमादधाति, यदा अवधानं प्रश्नान् परिहाय cut-off- इति अङ्क-निर्धारणे भवति | छात्राणामवधानं गृहात् निर्गत्य छात्रावासं प्रति याति| छात्राः पित्रोः छायां विहाय प्राचार्याणां छायासु समायान्ति | दृढम् विश्वसिमि यत् मम युव-मित्राणि महाविद्यालयीय-जीवनस्य आरम्भमभिलक्ष्य नितराम् उत्साहिनः प्रसन्नाश्च स्युः | प्रथम-वारं गृहात् बहिः निर्गत्य प्रस्थानम्, ग्रामतो बहिर्गमनम्, संरक्षणात्मकात् परिवेशात् निर्गत्य आत्मनः एव निज-सारथित्वेन स्वीकरणम् | एतावन्तो बृहन्मात्रिकाः युवानः प्रथमवारं निज-निज-गृहाणि त्यक्त्वा, निज-जीवनस्य नवीनां दिशं निश्चेतुं निर्यान्ति| कतिचन छात्रास्तु साम्प्रतं यावत् निज-निज-विद्यालयेषु गमनमपि, स्याद् आरप्स्यन्त, केचन तु महा-विद्यालयेषु गमनोत्सुकाः स्युः | भवतः सर्वान् इदमेव ब्रवीमि यत्- be calm, enjoy life, शान्त-मनसा जीवने अन्तर्मनसः पूर्णानन्दमनुभवन्तु | पुस्तकानि अतिरिच्य तु नान्योपायो विद्यते, अध्ययनन्तु करणीयमेव, परञ्च नव-नवीनानां वस्तूनामन्वेषण-प्रवृत्तिस्तु सततं सन्धारणीया एव| पूर्वतनानां मित्राणां नैजमेव महामूल्यमस्ति | शैशवस्य मित्राणि मूल्यवन्ति भवन्ति, परञ्च नवीनानां मित्राणां चयनम्, मैत्रीकरणं तथा च मैत्री-निर्वहणम्, इदं हि सर्वं स्वतः एव अतितराम् प्रबोध-विषयो भवति | किञ्चित् नूतनं शिक्षेमहि, यथा नव-नवीनां दक्षतां, नूतनाः भाषाश्च अवगच्छेम| ये युवानः निज-गृहाणि विहाय बहिः अन्यत्र पठनार्थं गताः, ते नूनं तानि स्थलानि परिज्ञातुं प्रयतेरन्, तत्रत्यैः स्थानै अवगताः स्युः, तत्रत्यान् जनान्, भाषां, संस्कृतिं च जानीयुः, तत्रत्यानि पर्यटनस्थलानि गत्वा, तेषां विषये अवगच्छेयुः | नूतन-जीवन-क्रमोत्सुकेभ्यः सर्वेभ्यः युव-जनेभ्यः मम शुभकामनाः | नातिचिरं वार्त्तासु अहम् अवालोकयम् यत् केन प्रकारेण मध्यप्रदेशस्य अतितरां निर्धन-परिवारस्य छात्रेण आशाराम-चौधरिणा जीवनस्य कठिनतराणि समाह्वानानि अतिक्रम्य सफलता प्राप्ता | सः जोधपुरस्य AIIMS-इत्यस्य MBBS-परीक्षायां स्वीय-प्रथमे प्रयासे एव सफलो जातः | तस्य पिता अवकरान् सञ्चित्य निज-कुटुम्बं पालयति पोषयति च | अहं तस्य सफलतामिमां अभिलक्ष्य तं वर्धापयामि | एतादृशाः अनेके छात्राः सन्ति ये निर्धन-कुटुम्बस्य सदस्याः वर्त्तन्ते तथा च, सतीष्वपि विपरीत-परिस्थितिषु निज-श्रमेण संलग्नतया च ते तादृशम् किमपि कृतवन्तः, यद्धि अस्मान् सर्वान् अपि सततं प्रेरयति | भवतु नाम सः दिल्ल्याः प्रिन्स्-कुमारः, यस्य पिता DTC- इति दिल्ली-परिवहन-निगमे बस-यान-चालकः उताहो स्याद्वा सः कोलकातायाः अभय-गुप्ता, यो हि पादमार्गोपरि वीथी-विद्युद्दीपानामधस्तात् निजाध्ययनं पूर्णतामनयत् | भवतु सा अमदाबादस्य दुहिता आफरीन-शेखः, यस्याः पिता auto-rickshaw-यानं चालयति | स्याद्वा सा नागपुरस्य पुत्री खुशी, यस्याः पितापि विद्यालयीय-बस-यानस्य चालकोsस्ति अथवा भवेद्वा हरियाणा-राज्यस्य कार्तिकः, यस्य पिता रक्षिकोsस्ति अथवा भवतु वा सः झारखण्डस्य रमेश-साहुः यस्य पिता इष्टिकापाके श्रमिकोsस्ति | स्वयं रमेशः अपि मेलके क्रीडनकानि विक्रीणाति स्म अथवा भवतु सा गुरुग्रामस्य दिव्याङ्गा पुत्री अनुष्का पाण्डा, या हि जन्मना एव spinal muscular atrophy – नामकेन आनुवंशिक-रोगेण पीडितास्ति, एते सर्वेsपि निज-दृढसंकल्पेन साहसेन च प्रत्येकमपि अवरोधमतिक्रम्य – जगद्दृश्यां सफलतामवाप्नुवन् | वयं परितः पश्येम चेत् तदा एतादृन्शि अनेकानि उदाहरणानि अधिगन्तुं शक्नुमः|
देशस्य कस्मिन्नपि कोणे जायमाना काचिदपि शुभा घटना मम मानसं सम्बलयति, प्रेरयति, तथा च यदा एतेषां यूनां कथाः भवतः श्रावयामि तदा नीरज-कवेः अपि तां पङ्क्तिं स्मरामि, एवं हि जीवनस्य तदेव लक्ष्यम् भवति | नीरज-वर्यः कथयति –
‘गीत आकाश को धरती का सुनाना है मुझे,
हर अँधेरे को उजाले में बुलाना है मुझे,
फूल की गंध से तलवार को सर करना है,
और गा-गा के पहाड़ों को जगाना है मुझे’
मम प्रियाः देशवासिनः, कतिपय-दिनेभ्यः प्राक् मम दृष्टौ एका वार्त्ता समागता, लिखितमासीत् - ‘युवक-द्वयेन मोदिनः स्वप्नः साकारीकृतः’ | यदा अन्तः पठितं तदा ज्ञातं यत् केन प्रकारेण अद्यत्वे अस्माकीनाः युवानः प्रविधेः पेशलं रचनात्मकञ्च प्रयोगं कृत्वा सामान्य-जनानां जीवनानि भद्रतराणि कर्तुं प्रयतन्ते | घटना एवमासीत् यत् एकदा अमेरिकायां San Jose-नगरे, यद्धि Technology Hub – इति प्रविधि-केन्द्र-रूपेण प्रख्यातमस्ति, तत्राहं भारतीय-युवभिः साकं चर्चां कुर्वन् आसम् | अहं तान् निवेदितवान् यत् ते भारतस्य कृते निज-प्रतिभां केन प्रकारेण समुपयोक्तुमर्हन्तीति नूनं विचारयेयुः, अपि च किञ्चित्-कालं प्रदाय अवश्यं किञ्चित् कुर्युः| अहं Brain-Drain-इति बौद्धिक-पलायनं Brain-Gain-इति बौद्धिकोपलब्धित्वेन परिवर्त्तयितुमध्यर्थितवान् | रायबरेली-नगरस्य IT Professionals-इति सूचना-प्रविधि-व्यावसायिक-द्वयं, योगेश-साहूजी रजनीश- बाजपेयीजी च मम समाह्वानमिदं स्वीकृत्य अभिनव- प्रयासमेकं विहितवन्तौ | स्वीयं professional skills-इति व्यावसायिक-कौशलमुपयुज्य योगेशजी रजनीशजी च सम्भूय SmartGaon App-इत्युपकरणं सज्जीकृतवन्तौ | App-इत्युपकरणमिदं न केवलं ग्रामीणान् शेष-विश्वेन संयोजयति परञ्च इतः परं ते काञ्चिदपि विज्ञापनां सूचनाञ्च स्वयमेव नैजे जङ्गम-दूरभाषोपकरणे एव प्राप्तुमर्हन्ति|रायबरेली-जनपदस्य ग्राम-तौधकपुरस्य निवासिनः, ग्राम-प्रधानः, जनपद-दण्डाधिकारी, मुख्यः विकासाधिकारी चेति सर्वेsपि, अस्योपयोगार्थं जनान् जागरूकान् व्यदधुः | एतत् App-इत्युपकरणं ग्रामेषु आपाततः Digital-इति अङ्कीयक्रान्तिं प्रवर्त्तयितुं सहायकं भवति | ग्रामेषु यानि विकास-कार्याणि जायन्ते, तेषाम् अभिलेखनम्, अन्वेषणम्, निभालनञ्च अमुना उपकरणेन सरलतरं जातम् | अस्मिन् SmartGaon App-इत्युपकरणे ग्रामस्य phone directory, News section, events list, health centre, Information centre चेति दूरभाषनिर्देशिका-वार्त्ताप्रभाग-कार्यक्रमसूची-स्वास्थ्य-केन्द्र-सूचना-केन्द्राणि वर्त्तन्ते | इदमुपकरणम् कृषकाणां कृते सुबहु लाभप्रदमस्ति | घटनामेनां यदि भवन्तः सूक्ष्मतया परिशीलयन्ति चेत् नूनमिदमनुभविष्यन्ति यत् सः युवा अमेरिकायां जीवनं यापयन् अपि निज-ग्रामीण-जीवनस्य सूक्ष्मतां समाह्वानानि चावगच्छति, ग्रामेण साकं भावनात्मक-रूपेण सम्बद्धोsस्ति | निज-ग्रामेण, स्वीयैः मूलैः च संसक्तिः निज-राष्ट्रं मनसि निधाय च किञ्चत्-करणस्य भावः प्रत्येकमपि हिन्दुस्थानीयस्य चेतसि स्वाभाविकरूपेण भवति | परञ्च कदाचित्तु समयाभावकारणात्, कदाचित् भौगोलिकान्तराल-हेतोः, कदाचिद्वा परिस्थितिकारणात्, अत्र ईषत् भस्मावलेपो भवति किन्तु लघु-स्फुलिङ्गस्यापि स्पर्शेण ताः सर्वाः अपि स्मृतयः पुनरुज्जीवन्ति, अतीतञ्च अक्ष्णोः पुरस्तात् समुपतिष्ठते| अस्मदीया स्थितिः कीदृशी इति वयमपि अवश्यं विचारयेम |
“आदरणीय! प्रधानमन्त्रि-महोदय! नमस्कारः, अहं सन्तोष-काकड़े, महाराष्ट्रस्य कोल्हापुरतः संवदामि | पंढरपुरस्य वारी, महाराष्ट्रस्य प्राचीना परम्परास्ति | प्रतिवर्षं महता उत्साहेन संरम्भेण चायोज्यते | प्रायेण सप्ततः अष्ट-लक्षमिताः वारकरी-श्रद्धालवः अत्र सम्मिलिताः भवन्ति |अस्य अद्भुतस्य उपक्रमस्य विषये शेष-देशवासिनोsपि अवगताः स्युः, अतः भवान् वारी-विषयिणीम् इतः परामपि सूचनां ददातु |”
सन्तोषजी ! भवतः दूरभाषाकारणायै भूरिशो धन्यवादाः| सत्यं, पंढरपुरस्य वारी स्वप्रकारिका अद्भुता यात्रास्ति | सखायः! आषाढ-मासीया एकादशी या हि ऐषमः जुलाई-मासे त्रयोविंशे दिने आसीत्, एतद्दिनं पंढरपुरवारी - इत्यस्याः परिणितिरूपेणापि आयोज्यते | पंढरपुरं हि महाराष्ट्रस्य सोलापुर-जनपदस्य अन्यतमं पवित्र-नगरमस्ति| आषाढीयैका- दश्याः प्रायेण पञ्चदशभ्यः विंशतेश्च दिनेभ्यः प्राक् एव वारकरी अर्थात् तीर्थयात्रिणः शिबिकाभिः साकं पंढरपुरयात्रार्थं पद्भ्यामेव निर्गच्छन्ति | वारी- इत्यस्यां यात्रायां लक्षशो जनाः सम्मिलिताः भवन्ति | सन्त-ज्ञानेश्वर-सन्त-तुकाराम-सदृशानां महापुरुषाणां साधूनां पादुकाः, शिबिकायां स्थापयित्वा विट्ठल-विट्ठल-इति गायन्तः, नृत्यन्तः, वाद्यानि वादयन्तश्च पद्भ्यामेव पंढरपुरं प्रत्यग्रेसरन्ति | एषा वारी शिक्षा-संस्कार-श्रद्धानां त्रिवेणी वर्त्तते | भगवतो विट्ठलस्य, यो हि विठोबा वा पांडुरंगः इति नाम्नापि गीयते, तस्य दर्शनार्थं तीर्थयात्रिणः तत्र प्राप्नुवन्ति | भगवान् विट्ठलः निर्धनानां, वञ्चितानां, पीडितानाञ्च हितानि रक्षति | महाराष्ट्र-कर्नाटक-गोवान्ध्रप्रदेश-तेलंगाना-वास्तव्येषु प्रगाढा श्रद्धास्ति, अचला च भक्तिरस्ति | पंढरपुरे विठोबा-मंदिर-गमनस्य तत्रत्यमहिमानः, सौन्दर्यस्य, आध्यात्मिकानन्दस्य च पृथगेव कश्चन अनुभवोsस्ति | ‘मन की बात’-प्रसारणस्य श्रोतारः साग्रहं मया निवेद्यन्ते यत् ते प्राप्ते सत्यवसरे एकवारम् अवश्यं पंढरपुर-वारी-यात्रायाः अनुभवमादद्युः | ज्ञानेश्वर-नामदेव-एकनाथ-रामदास-तुकाराम-प्रभृतयोsगणिताः सन्तः महाराष्ट्रेsपि सामान्य-जनान् शिक्षयन्ति | अन्धश्रद्धाम् विरुद्ध्य संघर्षस्य शक्तिम् प्रददति तथा च हिन्दुस्थानस्य प्रत्येकमपि कोणे एषा सन्त-परम्परा सततं प्रेरयति | भवतु नाम सः भारुडः वा अभंगः, वयम् तेभ्यः सद्भाव-प्रेम-भ्रातृत्वस्य महत्वपूर्णं सन्देशं प्राप्नुमः | एते ते जनाः आसन् ये हि काले काले समाजमवरोधित- वन्तः, प्रबोधितवन्तः, मुकुरमपि प्रदर्शितवन्तः तथा च सुनिश्चितमिदम् अकुर्वन् यत् प्राचीनाः कुप्रथाः अस्मदीय-समाजात् निरस्ताः भवेयुः, जनेषु च करुणा-समानता-शुचितादीनां संस्काराः भवेयुः | अस्मदीयैषा भारत-भूमिः बहुरत्ना वसुन्धरास्ति, यथा सत्पुरुषा- णाम् एका महती परम्परा अस्माकं देशे आसीत्, तथैव सामर्थ्यवन्तः मातुः भारत्याः समर्पिताः महापुरुषाः, अस्यै धरायै निजजीवनानि आहुतवन्तः, समर्पितवन्तश्च| एतेषु अन्यतमः महापुरुषः अस्ति लोकमान्यः तिलकः, येन अनेकेषां भारतीयानां मनस्सु निज-गहनः प्रभावः प्रतिष्ठापितः | वयं जुलाई-मासस्य त्रयोविंशे दिने, तिलक-वर्यस्य जयन्तिम् ऑगस्ट्-मासे प्रथमे दिने, तस्य च पुण्यतिथिम् आलक्ष्य तस्य पुण्य-स्मरणम् कुर्मः | लोकमान्यः तिलकः साहसात्म-विश्वासाभ्यां सम्भरितः आसीत् | तस्मिन् आङ्ग्ल-शासकानां त्रुटीः प्रदर्शयितुं शक्तिः बुद्धिमत्ता च आस्ताम् | आङ्ग्ल-शासकाः लोकमान्य-तिलकात् एतावन्तः भीताः आसन् यत् ते विंशतौ वर्षेषु तस्मिन् वार-त्रयं राजद्रोहारोपं प्रवर्त्तयितुं प्रायतन्त, तथा च नायं कश्चन लघु-विषयः| अहं, लोकमान्यतिलकस्य, अमदावादे तस्य च प्रतिमया सम्बद्धामेकां रुचिकरीं घटनामद्य देशवासिनां पुरस्तात् स्थापयामि | विगते शताब्दे षोडशे वर्षे ऑक्टूबर-मासे, लोकमान्यतिलक-वर्यः यदा अमदावादमागतः, तस्मिन् समये, अद्यतः प्रायेण शतं वर्षेभ्यः प्राक्, चत्वारिंशत्सहस्राधिकाः जनाः अमदावादे तस्य स्वागतमकार्षुः, अपि चास्याः यात्रायाः अवसरे सरदारवल्लभभाई-पटेलः तेन साकं सम्भाषणावसरम् अलभत|सरदारवल्लभभाई-पटेलः लोकमान्यतिलक-वर्येण अत्यधिकं प्रभावितः आसीत्|विगते शताब्दे विंशतौ वर्षे ऑगस्ट्-मासे प्रथमे दिने लोकमान्य- तिलक-वर्यस्य प्राण-त्यागः अजायत, तदैव सः निरणैषीत् यदसौ अमदाबादे तस्य स्मारकं विनिर्मास्यति | सरदारवल्लभभाई-पटेलः अमदावा- दनगर-पालिकायाः Mayor-इति महापौरत्वेन निर्वाचितः, तदनु सत्वरमेव असौ लोकमान्यतिलकस्य स्मारकस्य कृते Victoria Garden-इति स्थलम् अचिनोत्, Victoria Garden-इत्युद्यान-स्थलं ब्रिटेन-साम्राज्ञ्याः नाम्ना आसीत् | स्वाभाविकरूपेण ब्रिटेन-शासनम् अप्रसन्नमासीत् | कर-समाहर्ता एतदर्थम् अनुमति-प्रदानं सततं न्यषेधीत् परञ्च सरदार-महोदयस्तु सरदार-महोदयः असीत् | असौ दृढ- निश्चयः आसीत्, अवोचच्च – ‘वरं हि पदत्यागः, परञ्च लोकमान्यतिलक-वर्यस्य प्रतिमा नूनं प्रतिष्ठापयिष्यते एव | अन्ततः प्रतिमा एषा विगते शताब्दे ऊनत्रिंशत्तमे वर्षे फेब्रुआरि-मासे अष्टाविंशे दिने, नान्यस्य अपरस्य कस्यचित्, अपि तु महात्मनः गान्धि-महोदयस्य करकमलाभ्यामेव प्रतिष्ठापिता | अतितराम् आनन्दस्य विषयोsयं यत् तस्मिन् प्रतिमानावरण-समारोहस्य अभिभाषणे पूज्यः बापूः अब्रवीत् यत् सरदारपटेलस्य महापौरत्वेन आगमनान्तरम् अमदाबादनगर-पालिका न केवलमेकं जनम् अवाप्नोत् अपि तु, अनया साहसमपि अधिगतम्, एतस्मादेव तिलक-महोदयस्य प्रतिमा-निर्माणम् शक्यमजायत |
मम प्रियाः देशवासिनः, अस्याः प्रतिमायाः एषा विशिष्टता यत् प्रतिमायाः अधस्तात् लिखितमस्ति ‘स्वराज्यम् अस्मदीयो जन्मसिद्धोsधिकारः’ तथा च आङ्ग्ल-शासकानां तस्य कालखंडस्य कथामिमां तु श्रावयामि | लोकमान्य-तिलक-मदोदयस्य प्रयासैरेव सार्वजनिकी गणेशोत्सवस्य परम्परा आरब्धा | सार्वजनिकी गणेशोत्सवस्य परम्परा एषा, श्रद्धोत्सवाभ्यां साकमेव समाज-जागरणस्य, सामूहिकतायाः, जनेषु च समरसतायाः समानतायाश्च भावान् प्रवर्धयितुं प्रभावि-माध्यमत्वेन प्रावर्त्तत | एते उत्सवाः जाति-सम्प्रदाययोः बाधाः निरस्य सर्वान्नपि समन्वेतुं सहायिनः सिद्धाः| गच्छता कालेन, आयोजनानामेतेषां लोकप्रियता समेधिता | अनेन एव ज्ञायते यत् अस्माकं प्राचीन-रिक्थस्य इतिहासस्य च वीर-नायकान् प्रति अद्यत्वेsपि अस्मदीया युव-संततिः कियन्तम् उन्मादि-भावं धारयति इति | साम्प्रतमपि अनेकेषु नगरेषु प्रतिवीथी भवन्तः गणेश-मण्डपान् अवलोकयितुं शक्नुवन्ति | वीथ्याः सर्वेsपि कुटुम्बाः सम्भूय एनमायोजयन्ति | वृन्द-रूपेण कार्याणि आचरन्ति, एवं हि अस्मदीयाः युवानोsपि अत्र नेतृत्व-प्रबन्धन-समायोजनादि-गुणान् विकासयितुं समुचितावसरम् अवाप्नुवन्ति|
मम प्रियाः देशवासिनः! विगते कालेsपि साग्रहं निवेदितवान्, साम्प्रतं यदाहं लोकमान्य-तिलक-महोदयं स्मरन्नस्मि तदा पुनरेकवारं साग्रहं कथयामि यत् ऐषमः क्रमेsपि वयं सोत्साहं सश्रद्धं सर्वात्मना च गणेशोत्सवमायोजयामः, परन्तु eco-friendly-इति पर्यावरणानुकूलं गणेशोत्सवमेव आयोजयेम इत्याग्रहं च धारयेम | अभिलषामि यत् भगवतः गणेशस्य मूर्तेः सर्वाण्यपि सज्जोपकरणानि पर्यावरणानुकूलानि स्युः, इदमपि अभिलषामि यत् प्रत्येकमपि पुरे पर्यावरणा- नुकूलस्य गणेशोत्सवस्य पृथक्-पृथक् स्पर्धाः स्युः, विजेतृभ्यः पुरस्काराः प्रदेयाः, तथा च इदमपि अभिलषामि यत् MyGov-NarendraModiApp-चेत्यत्रापि eco-friendly – इति पर्यावरणानुकूलस्य गणेशोत्सवस्य वस्तूनां व्यापकः प्रचारः स्यात् | अहमवश्यं भवतां भावान् विचारान् च जनेभ्यो ज्ञापयिष्यामि|लोकमान्य-तिलक-वर्यः देशवासिषु आत्मविश्वासं वर्धितवान्, सः समाघोषम् प्रादात्– ‘स्वराज्यम् अस्मदीयो जन्मसिद्धः अधिकारः नूनमेनम् अवाप्स्यामः’ | अद्यत्वे एतत्-कथनस्य समुचितः कालः यत् ‘स्वराज्यम् अस्मदीयो जन्मसिद्धः अधिकारः नूनमेनम् अवाप्स्यामः’ | प्रत्येकमपि भारतीयस्य कृते सुशासन-विकासयोः भद्रतर-परिणामाः सुगम्याः भवेयुः | इदमेव तथ्यं,यद्धि नूतन-भारतं निर्मास्यति | तिलक-महोदयस्य जन्मनः पञ्चाशद्वर्षा -णामनन्तरम् सुतरां तस्मिन्नेव दिने अर्थात् जुलाई-मासे त्रयोविंशे दिने भारत-मतुः प्रिय-सुपुत्रस्य जन्म अभवत्, येन देशवासिनां स्वातन्त्र्यार्थम् स्वीयं जीवनं समर्पितम् | अहं चन्द्रशेखर-आज़ादस्य पुण्य-स्मरणम् करोमि | भारते को नाम नवयुवा भवेत् यो हि एताः पङ्क्तीः श्रुत्वा प्रेरितो न स्यात्–
‘सरफ़रोशी की तमन्ना अब हमारे दिल में है,
देखना है ज़ोर कितना बाज़ु-ए-कातिल में है’
एताः पङ्क्तयः अशफाक़-उल्लाह-खान-भगत-सिंह-चन्द्रशेखर-आज़ाद-सदृशान् अनेकान् नवयुवकान् प्रेरितवत्यः | चन्द्रशेखर-आज़ादस्य शौर्यम्, स्वतन्त्रतायाः कृते तस्योन्माद-भावश्च, असंख्य-युवजनान् प्रेरितवन्तौ|आज़ादः निजजीवनं पणीकृत्य न कदाचिदपि वैदेशिकशासनस्य सम्मुखं अवानमत् | ममेदं सौभाग्यमासीत् यत् मध्यप्रदेशे चन्द्रशेखर-आज़ादस्य ग्रामे अलीराजपुरे गमनस्य सौभाग्यमपि अवाप्नवम् | इलाहाबादस्य चन्द्रशेखर-आज़ादपार्क- इत्यत्रापि श्रद्धासुमनांसि अर्पयितुम् अवसरं लब्धवान् | चन्द्रशेखर-आज़ाद-वर्यः तादृशो वीरपुरुषः आसीत् यो हि वैदेशिकानां गोलिकाभिः मर्तुमपि नैव समैहत – जीवनमपि स्वाधीनतया मरणस्य वरणमपि स्वेच्छया | इयमेवासीत् तस्य विशेषता | पुनरेकवारं अनयोः चरणकमलयोः श्रद्धापूर्वकं प्रणमामि |
नातिचिरं Finland-देशे आयोजितासु कनिष्ठ-विंशत्यून-विश्व-धावन-स्पर्धासु चतुश्शत-मीटर-मितायां धावन-स्पर्धायां, भारतस्य वीराङ्गना कृषक-पुत्री हिमादासः सुवर्ण-पदकं विजित्य इतिहासं व्यरचत्| देशस्य एका अपरा पुत्री एकता-भयानः मम पत्रस्य उत्तररूपेण इंडोनेशिया-देशात् मह्यम् ईमेल-इति विद्युत्-पत्रम् प्रेषितवती | साम्प्रतं सा Asian- Games- इत्येतदर्थम् सज्जते | E-mail-पत्रे एकता लिखति– ‘कस्यापि धावकस्य जीवने सर्वाधिकं महत्वपूर्ण-क्षणम् तद् भवति यदा असौ त्रिवार्णिकम् ध्वजं धृत्वा सहभागितामावहति, तथा चाहं गौरवमनुभवामि यत् मया तदनुष्ठितमेव|’
एकते ! वयं सर्वेsपि त्वयि गौरवमनुभवामः | त्वया देशस्य कीर्तिः विवर्धिता|Tunisia-देशे विश्व-पैराएथलेटिक्स-Grand Prix-अष्टादशोत्तर-द्वि-सहस्र-वर्षीय-स्पर्धासु एकता सुवर्णं कास्यं च पदके विजितवती|तस्याः इयम् उपलब्धिः विशिष्टा यतो हि सा पञ्चदश-वर्ष-पूर्वं मार्गीय-दुर्घटनायां आहता, तस्याः शरीरस्य अर्धभागः निष्क्रियः जातः, परञ्च एषा दुहिता धैर्यं नैवात्यजत्, आत्मानं सबलीकृत्य उपलब्धिरियमधिगता | अपरः दिव्याङ्गः योगेश- कठुनिया, असौ Berlin-नगरे पैरा-एथलेटिक्स-Grand Prix-स्पर्धासु discus throw-इति चक्रक्षेप-स्पर्धायां सुवर्ण-पदकं विजित्य विश्व-कीर्तिमानं व्यरचयत्, तेन साकं सुन्दरसिंह-गुर्जरः अपि javelin-इति प्रास-क्षेप-स्पर्धायां सुवर्ण-पदकं जितवान् | अहं एकता-भयान-योगेश-कठुनिया-सुन्दरसिंह-वर्याणाम् सर्वेषामपि साहसं सङ्कल्पं दृढ-निश्चयञ्च अभिनन्दामि वर्धापयामि च | भवन्तः सर्वे इतः परमपि अग्रेसरन्तु, अनारतं क्रीडन्तु, विकसन्तु च |
मम प्रियाः देशवासिनः, ऑगस्ट-मासः इतिहासस्य अनेकाभिः घटनाभिः, उत्सवैश्च नितरां सम्भरितोsस्ति, परञ्च ऋतोः प्रभावात् कदाचित् रुग्णतापि गृहं प्रविशति | अहं भवतां सर्वेषाम् उत्तम-स्वास्थ्यस्य कृते, देशभक्तेः प्रेरणादायिनः अस्य ऑगस्ट-मासस्य कृते, युग-युग-प्राचीनेभ्यः अनेकानेकेभ्यः उत्सवेभ्यश्च, भूरिशो शुभकामनाः व्याहरामि | पुनरेकवारं ‘मन की बात’-प्रसारण-व्याजेन अवश्यं मेलिष्यामः| कोटिशो धन्यवादाः |
--- भाषान्तर-कर्ता - डॉ.बलदेवानन्द-सागरः
दूरभाषः - ९८१० ५६२२ ७७
ईमेलः - baldevanand.sagar@gmail.com