Monday 27 August 2018

‘मनोगतम्’ – ४७  ‘मन की बात’
(47 वीं कड़ी)            प्रसारणतिथि: - २६-०८-२०१८
 [“मन की बात”- “मनोगतम्” - इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]                                 
                             - भाषान्तर-कर्ता -  डॉ.बलदेवानन्द-सागरः 
     मम प्रियाः देशवासिनः!  नमस्कारः | अद्य अशेष-देशः रक्षाबंधन-पर्व आयोजयति| अस्मिन्  पावन-पर्वणि सर्वेभ्योsपि देशवासिभ्यः भूरिशो मङ्गल-कामनाः | रक्षाबंधन-पर्व नाम भगिनी-भ्रात्रोः पारस्परिकं         प्रेम्णः विश्वासस्य प्रतीक-रूपम् | पर्वेदं सहस्राब्देभ्यः सामाजिक-सौहार्दस्य बृहदुदाहरणत्वेनापि प्रवर्तते | देशस्य इतिहासः अनेकाभिः तादृशीभिः कथाभिः सम्भरितोsस्ति, यस्यां हि एकेनैव रक्षासूत्रेण पृथक्-पृथक्-राज्य-द्वयस्य वा धर्म-द्वयस्य जनाः विश्वास-सूत्रेण संयुक्तीकृताः |  सद्यः कतिपय-दिनानन्तरं जन्माष्टमी-पर्व  अपि आगन्तास्स्ति | अशेष-परिवेशः ‘हाथी, घोड़ा, पालकी – जय कन्हैयालाल की, गोविन्दा-गोविन्दा’ इति जयघोषैः गुञ्जायमानो भविता | भगवतः कृष्णस्य रङ्गेण रञ्जितानां समुल्लास-सन्दोहवतां सहजानन्दः किञ्चित् पृथगेव भवति | देशस्य अनेकेषु कोणेषु विशेषेण च, महाराष्ट्रे दही-हाँडी-इति दधि-घटानां सज्जतां क्रियमाणाः अस्मदीयाः युवानो भवेयुः | सर्वेषामपि देशवासिनां कृते रक्षाबन्धन-जन्माष्टमी-पर्वणोः हार्दिक्यः शुभकामनाः | 
    प्रधानमन्त्रि-महोदय ! नमस्कारः | अहं चिन्मयी, बेंगलुरु-नगरे विजयभारती-विद्यालये दशम-कक्ष्यायां पठामि | अद्य संस्कृत-दिनमस्ति | संस्कृतं सरलम् इति सर्वे वदन्ति | वयमत्र बहवः संस्कृत-सम्भाषणमपि कुर्मः | अतः संस्कृत-विषये
भवतः अभिप्रायः कः ? इति वदतु |
"भगिनि! चिन्मयि !! भवती संस्कृत-प्रश्नं पृष्टवती | बहूत्तमम् ! बहूत्तमम्  !! अहं भवत्याः अभिनन्दनं करोमि | संस्कृत-सप्ताह-निमित्तं देशवासिनां सर्वेषां कृते  मम हार्दिक-शुभकामनाः |" 
अहं चिन्मयी-दुहितुः सुबहु कार्तज्ञ्यमावहामि यत् सा विषयमेनम् उत्त्थापितवती | सखायः!  रक्षाबन्धनमतिरिच्य श्रावण-पूर्णिमावसरे संस्कृत-दिनमपि आयोज्यते | अहं तान् सर्वान् अपि अभिनन्दामि, ये हि अस्य महतः रिक्थस्य संरक्षण-सम्वर्धनयोः निरताः सन्तः जन-सामान्य-पर्यन्तम् एतं प्रापयितुं संलग्नाः सन्ति | प्रत्येकमपि भाषायाः नैजं माहात्म्यं भवति | तमिलभाषा विश्वस्य प्राचीनतमा भाषा- इति कृत्वा भारतं गौरवम् अनुभवति, अपि च, वयं सर्वेsपि भारतीयाः विषयमेनम् अनुभूय गौरवम् अनुभवामः यत् वेदकालादारभ्य वर्तमान-काल-पर्यन्तं संस्कृतभाषा अपि ज्ञानस्य प्रचार-प्रसारयोः अतितरां महतीं भूमिकां निरवहत् | 
      जीवनस्य प्रत्येकमपि क्षेत्र-सम्बद्धं ज्ञान-भाण्डारं संस्कृतभाषायां अस्याश्च साहित्ये विराजते | भवतु नाम तत् विज्ञानं वा तन्त्रज्ञानम्, कृषिः वा स्वास्थ्यम्,  खगोलशास्त्रम् आहोस्वित् वास्तुशास्त्रम्, गणितम् वा प्रबन्धनम्,  अर्थशास्त्रं वा पर्यावरण-विषयः, एवम् उच्यते यत् global warming- इति जागतोष्णतायाः समाह्वनानि निराकर्तुमपि तद्विषयकाः मन्त्राः अस्माकं वेदेषु सविस्तरं समुल्लिखिताः सन्ति |  वृत्तमिदं ज्ञात्वा भवन्तः सर्वे आनन्द-सन्दोहम् अनुभविष्यन्ति यत् कर्नाटक-राज्ये शिमोगा-जनपदे मट्टूर-ग्राम-वासिनः अद्यापि सम्भाषणार्थं संस्कृतभाषायाः प्रयोगं कुर्वन्ति | 
         इदं ज्ञात्वा भवन्तः आश्चर्यम् अनुभविष्यन्ति यत् संस्कृतं नाम तादृशी काचित् अनन्यतमा भाषास्ति, यस्यां अनन्त-शब्दानां निर्मितिः शक्यास्ति | धातूनां द्वि-साहस्रम्, द्विशतं suffix-इति प्रत्ययाः, द्वाविंशतिः prefix-इति उपसर्गाः – एतेभ्यः शब्दानाम् असांख्यं विरचयितुं शक्यते, तथा च, सूक्ष्मतमान् भावान्, विषयान्, विचारान् च समीचीनतया वर्णयितुं शक्यते | एतदतिरिच्य, संस्कृतभाषायाः अपरापि एका अनन्यतमा विशेषता वर्तते, अद्यापि वयं स्वीयं वक्तव्यं सबलम् उपस्थापयितुं आङ्ग्लभाषायाः उद्धरणानि युञ्जामहे | कदाचित् कवितानां अंशानां गद्य-पद्य-खण्डानां वा उपयोगं कुर्मः परञ्च ये जनाः संस्कृतसुभाषितैः परिचिताः सन्ति, ते जानन्ति यत् अतितरां न्यून-शब्दैः  सुयुक्ति-युक्तं वक्तव्यं संस्कृतसुभाषितैः कर्तुं पार्यते, तथा च, एतत् सर्वम् अस्मदीयाभिः परम्पराभिः, अस्माकं भूम्या च संयुक्तमिति कृत्वा सरलतया अवगन्तुमपि शक्यते | यथा जीवने गुरोः महत्वं बोधयितुं निगदितम् -
          एकमपि अक्षरमस्तु, गुरुः शिष्यं प्रबोधयेत् | 
         पृथिव्यां नास्ति तद्-द्रव्यं, यद्-दत्त्वा ह्यनृणी भवेत् ||
    अर्थात् कश्चन गुरुः स्वीयं शिष्यम् एकमपि अक्षरम् अध्यापयति, तदर्थं सम्पूर्णायामपि पृथिव्यां तादृशं किमपि वस्तु वा धनं नास्ति यद् गुरवे दत्त्वा शिष्यः निज-गुरोः ऋण-भारं निस्तारयितुं शक्नोति | आगामिनं शिक्षक-दिवसम् एतादृशैः भावैः सह वयम् आयोजयेम | ज्ञानं गुरुश्च अतुल्यौ, अमूल्यौ, अनुपमौ च | जननीम् अतिरिच्य शिक्षकाः एव भवन्ति, ये हि बालकानां विचारान् समुचित-दिशि प्रगन्तुं तद्दायित्वमावहन्ति तथा च, जीवने तस्य सर्वाधिकः प्रभावोsपि द्रष्टुं शक्यते | शिक्षक- दिवसावसरे महान्तं चिन्तकं देशस्य राष्ट्रपतिचरं भारतरत्नं डॉ०सर्वपल्ली-राधाकृष्णन्-वर्यं वयं सर्वदैव स्मरामः | अशेष-देशः तस्य जन्म-दिवसं शिक्षक-दिवस-रूपेण आयोजयति | आगामि-शिक्षक-दिवसम् उपलक्ष्य अहं देशस्य सर्वेभ्योsपि शिक्षकेभ्यः शुभकामनाः व्याहरामि, युगपदेव, शिक्षा-विज्ञान-छात्रान् प्रति, भवतां यः समर्पण-भावोsस्ति, तम् अभिनन्दामि | 
        मम प्रियाः देशवासिनः ! कठिन-परिश्रम-निरतानाम् अस्माकं कृषकाणां कृते प्रावृट्कालः नवीनाः आशाः आदाय आगच्छति | भीषणेन घर्मातपेन म्लानान् पादपान्  वृक्षान्, शुष्कान् जलाशयान् च प्रावृट्कालः सुखयति परञ्च कदाचित्तु एषा अतिवृष्टिः विनाशकारिणं जलपूरमपि आनयति | प्रकृतिरेषा तादृशं व्यवहरति यत् कुत्रचित् अन्य-स्थानापेक्षया समधिका वृष्टिः जाता | सद्यः वयं दृष्टवन्तः | केरळे भीषण-जलपूरेण जन-जीवनम् अतितरां दुष्प्रभावितम् | सम्प्रति एतासु कठिन-परिस्थितिषु सम्पूर्णोsपि देशः केरळेन सम्वर्तते | अस्मदीयाः सम्वेदनाः तैः कुटुम्बैः साकं वर्तन्ते, ये हि निजात्मीयान् निहतान्, प्रणष्टान्, प्रप्लावितान् च दृष्टवन्तः, जीवनस्य या क्षतिः सञ्जाता सा तु पूरयितुं नैव शक्यते, परञ्च अहं शोक-संतप्त-परिवारान् विश्वासयितुं वाञ्छामि यत् सपाद-शत-कोटि-भारतीयाः अस्यां दुःख-दग्धे क्षणे भवद्भिः सम्भूय स्थिताः सन्ति | प्रार्थयामि यत् प्राकृतिकापदायाम् अस्यां ये जनाः आहताः, ते सत्वरं स्वस्थाः भवेयुः | पूर्णतया विश्वसिमि यत् राज्य-वासिनां भावानाम् अदम्य-साहसस्य चाधारेण केरळम् अतिशीघ्रं पुनः उत्त्थास्यति | 
   आपदाः विनाश-लीलां विस्तारयन्तीति तु दुर्भाग्यपूर्णम् | परञ्च, आपत्काले मानवतायाः अपि दर्शनं कर्तुं शक्यते | कच्छतः कामरूपं यावत्, कश्मीरतः कन्याकुमारी-पर्यन्तं, प्रत्येकमपि जनः निज-निज-क्षमतानुसारं किञ्चित् किञ्चित् करोत्येव, येन यत्रापि आपत् समापतिता; भवतु नाम तत् केरळम् आहोस्वित् हिन्दुस्थानस्य कश्चन अपि जनपदः, किञ्चित् क्षेत्रं वा,  जनजीवनं पुनः सामान्यत्वेन प्रवर्तेत | सर्वेsपि आयुःवर्गीयाः, प्रत्येकमपि कार्य-क्षेत्रेण सम्बद्धाः जनाः स्वं स्वं योगदानं कुर्वन्ति | प्रत्येकमपि सुनिश्चेतुं प्रयतते केरळस्य जनानां कष्टानि सुतरां  न्यूनीभवेयुः, तेषां दुःखानि वयं संविभज्येरन् | वयं सर्वे जानीमः यत् सशस्त्रबलानां भटाः केरळ-साहाय्य-कार्याणां नायकाः सन्ति | जलपूराप्लावितान् संरक्षितुं ते सर्वात्मना प्रयतन्ते | भवतु नाम सा वायुसेना वा नौसेना, आहोस्वित् स्थलसेना, BSF, CISF, RAF-इति प्रत्येकमपि सुरक्षा-साहाय्य-कार्येषु महतीं भूमिकां निरवहत् | विशेषेण अहं NDRF – इति राष्ट्रियापदा-प्रबन्धन-बलस्य वीराणां भटानां कठिन-परिश्रमम् उल्लेखयितुं वाञ्छामि| संकट-क्षणेsस्मिन् ते बहूत्तमम् आचरितवन्तः | NDRF- इति राष्ट्रियापदा-प्रबन्धन-बलस्य क्षमतां, प्रतिबद्धतां, त्वरित-निर्णयं कृत्वा परिस्थिति-सम्भालनस्य च प्रयासं च, विभाव्य प्रत्येकमपि हिन्दुस्थानीयः, अस्मै बलाय नूतनतया श्रद्धावनतः वर्तते | ह्यः ओणम्-पर्व आसीत्, ओणम्-पर्व देशाय, विशेषेण च, केरळाय समधिक-शक्ति-प्रदं स्यादिति वयं प्रार्थयामः, येन एतत् शीघ्रातिशीघ्रम् आपदातो विमुक्तं स्यात्, तथा च, केरल-विकास-यात्रा समधिकं जवीयसी भवेत् | पुनरेकवारं सर्वेषामपि देशवासिनां पक्षतः अहं केरळ-वास्तव्यान्, देशस्य अन्य-स्थलेषु यत्र यत्र आपदा-कष्टानि समापतितानि, तत्रत्यान् विश्वासयितुं वाञ्छामि यत् सम्प्रति एतासु कठिन-परिस्थितिषु सम्पूर्णोsपि देशः तैः सम्भूय वर्तते |     
   मम प्रियाः देशवासिनः! क्रमेsस्मिन् यदा ‘मन की बात’-प्रसारणस्य कृते सम्प्राप्तान् परामर्शान् अवलोकयन् आसम्, तदा सम्पूर्णस्यापि देशस्य जनाः यं विषयम् अवलम्ब्य अधिकतरं अलिखन्, स विषयोsस्ति– ‘अस्माकं सर्वेषां प्रीतिभाक् श्रीमान् अटलबिहारी-वाजपेयी’ | गाज़ियाबादतः कीर्तिः, सोनीपततः स्वाति-वत्सः, केरळतः भाई-प्रवीणः, पश्चिमबंगालतः डॉक्टर-स्वप्न-बैनर्जी, बिहारस्य कटिहारतः अखिलेश-पाण्डेः,  न जाने, कियन्तो जनाः Narendra Modi Mobile App –Mygov- चेत्यत्र लिखित्वा माम् अटल-महोदयस्य जीवनस्य विभिन्नान् पक्षान् आधृत्य किमपि भाषितुं साग्रहं अकथयन् | मासेsस्मिन् षोडशे दिनाङ्के यथैव जनाः अशेष-जगच्च अटल-महोदस्य निधन-वृत्तं श्रुतवन्तः, शोक-सागरे निमग्नाः अभूवन् | तादृशः अनन्यतमः राष्ट्र-नेता, यो हि चतुर्दश-वर्षेभ्यः प्राक् प्रधानमन्त्रि-पदम् अत्यजत् | वस्तुतस्तु विगतेभ्यः दश-वर्षेभ्यः असौ सक्रिय-राजनीतितः विच्छिन्नः एवासीत् | वार्त्तासु कुत्रचिदपि नैवावलोक्यते स्म, सार्वजनिकञ्च नैव दृश्यते स्म| दश-वर्षावधिकः कालः नितरां दीर्घतमो भवति किन्तु मासेsस्मिन् षोडश-दिनाङ्कानन्तरं देशः संसारश्च अवालोकयतां यत् हिन्दुस्थानस्य सामान्य-जनानां मनस्सु दश-वर्षावधिकः कालखण्डः क्षणस्यापि अन्तरालं नैवाजनयत् | अटल-वर्यस्य कृते यादृशः स्नेहः, यादृशी श्रद्धा, यावान् शोकश्च प्रादुरभवन्, एतत्-सर्वं तस्य विशाल-व्यक्तित्वं प्रदर्शयति |  विगतेषु कतिपय-दिनेषु अटल-महोदयस्य व्यक्तित्वस्य उत्तमोत्तमाः पक्षाः राष्ट्रस्य समक्षम् उपस्थापिताः जाताः |  जनाः तम्  उत्तमसांसद- संवेदनशील-लेखक-श्रेष्ठवक्तृ- लोकप्रिय-प्रधानमन्त्रिरूपेण स्मृतवन्तः स्मरन्ति च| good governance-अर्थात् सुशासनं  मुख्यधारया संयोजयितुं देशोsयं सर्वदैव अटल-वर्यस्य कृतज्ञताम् आवक्ष्यति, तथा च, अद्याहम् अटल-महोदयस्य विशाल-व्यक्तित्वस्य अपरमेकं पक्षं स्प्रष्टुं समीहे | अटल-महोदयेन भारताय या राजनीतिक-संस्कृतिः प्रदत्ता, राजनीतिक-संस्कृतौ यत् परिवर्तनमापादयितुं यो हि प्रयासः कृतः,  एनाञ्च व्यवस्था-प्रारूपे आकारयितुं यत् प्रयतितं च, तस्माच्च कारणात् भारतं बहु लाभान्वितं जातम्, अनागते कालेsपि बहवो लाभाः भवितारः – एतदपि सुनिश्चितम् | एतत्-शताब्दस्य तृतीय-वर्षे अभ्युपगतस्य एक-नवतितमस्य संशोधन-अधिनियमस्य कृते भारतं सर्वदैव अटल-महोदयस्य कृतज्ञं स्थास्यति |अमुना परिवर्तनेन भारतस्य राजनीतौ महत्वपूर्ण-परिवर्तन-द्वयं जातम् | प्रथमन्तु राज्येषु मन्त्रि-मण्डलस्य आकारः, आहत्य विधानसभा-स्थानानां प्रतिशतं पञ्चदशमित्या सीमितो विहितः| द्वितीयञ्च परिवर्तनं तत्, यत् दल-परिवर्तन-रोधि-विधेः अन्तर्गतं निर्धारित-सीमानं प्रतिशतं त्रयस्त्रिंशत्तः वर्धयित्वा प्रतिशतं षट्-षष्टि-मिता विहिता| अनेन सहैव दल-परिवर्तकान् अयोग्यान् निर्णेतुं स्पष्टाः निर्देशाः अपि निर्धारिताः | अनेकेभ्यः वर्षेभ्यः बृहदाकारयुतानां मन्त्रि-मण्डलानां संरचनायाः राजनीतिक-संस्कृतिः राजनेतॄणां तोषार्थमेव प्रसृतासीत्, अटल-महोदयः तां परिवर्तितवान् | तस्यामुना समुपायेन वित्तस्य संसाधनानाञ्च सञ्चयो जातः| युगपदेव च, कार्यक्षमतापि समेधिता |अयमासीत् अटल-वर्य-सदृशो दीर्घदृष्टा, येन स्थितिः परिवर्तिता, अस्मदीयायाञ्च, राजनीतिक-संस्कृतौ निर्मलाः परम्पराः समेधिताः | अटल-वर्यः परमार्थेन देशभक्तः आसीत् |  तस्य कार्यकाले एव महाय-व्यय-पत्रकस्य संसदि उपस्थापनस्य कालः परिवर्तितः | पूर्वम् आङ्ग्ल-परम्परानुसारं सायं पञ्च-वादने महाय-व्यय-पत्रकं संसदि उपस्थाप्यते स्म परञ्च एकोत्तर-द्विसहस्रतमवर्षे अटल-वर्यः एनं परिवर्त्य प्रातः एकादशवादनं कृतवान् | ‘अपरमेकं स्वातन्त्र्यम्’ अटल-वर्यस्य कार्यकाले एव लब्धम्, Indian Flag Code- भारतीय-ध्वज-संहिता तथा च, द्व्युत्तर-द्विसहस्रतमवर्षात् एषा अधिकारिता | अस्यां तादृशाः केचन नियमाः समावेशिताः येन त्रि-वार्णिकोsयं ध्वजः सार्वजनिक-स्थलेष्वपि साम्प्रतं उत्तोलयितुं शक्यते | अमुना एव परिष्कारेण अधिकाधिकाः भारतीयाः स्वीयं राष्ट्रध्वजमुत्तोलयितुम् अवसरमवाप्नुवन् | एवं हि असौ अस्मदीयं प्राणप्रियं त्रिवार्णिकं ध्वजं जनसामान्यस्य सुगमत्वकोटिमानयत् | भवन्तो दृष्टवन्तः! देशे भवतु नाम निर्वाचन-प्रक्रिया तथा चैषा जनप्रतिनिधि-सम्बद्धा वा भवेत्, अत्र ये विकाराः समापन्नाः आसन्, ते साहसिकोपाय-प्रवर्तन-पुरस्सरं आधारस्तरेण परिष्कृताः | एवं रीत्या अद्यत्वे भवन्तः अवलोकयन्ति यत् देशे युगपदेव केन्द्रस्य राज्यानां च निर्वाचनानुष्ठान-विषयिणी चर्चा सम्प्रवर्तते | विषयेsस्मिन् पक्ष-विपक्षौ स्व-स्वाभिमतं स्थापयतः| एषास्ति शुभा वार्ता, लोकतन्त्रस्य च कृते शुभ-संकेत-रूपा च | नूनमहं कथयिष्यामि यत् स्वस्थस्य उत्तमस्य च लोकतन्त्रस्य कृते, समुचितानां परम्पराणां विकासः, लोकतन्त्रं दृढतरं विधातुं सततं प्रयासानुष्ठानं, निराग्रहं चर्चा-प्रवर्तनं चेत्यादि-सर्वम् अटल-महोदयस्य कृते उत्तम-श्रद्धाञ्जलि-रूपं भविष्यति | समृद्धस्य विकसितस्य च भारतस्य, तस्य स्वप्नं पूर्णतां नेतुं तद्विषयकं संकल्पं पुनः उदीरयन्नहम् अस्माकं सर्वेषामपि पक्षतः अटल-महाभागाय श्रद्धाञ्जलिमर्पयामि | 
   मम प्रियाः देशवासिनः! संसदः चर्चा अद्यत्वे यदा प्रवर्तते तदा प्रायेण अवरोधः, कोलाहलः, गतिरोधश्च विषयेsस्मिन् चर्च्यन्ते परञ्च यदि किञ्चित् भद्रं भवति तदा तस्य चर्चा तावती नैव जायते | नातिचिरं संसदः प्रावृट्-कालिकं सत्रम् अवसितम् | वृत्तमिदं ज्ञात्वा भवन्तः प्रसन्नतामनुभविष्यन्ति यत् लोकसभायाः कार्योत्पादकता प्रतिशतं अष्टादशोत्तरैकशत-मिता राज्यसभायाश्च प्रतिशतं चतुःसप्ततिमिता जाता | दलहितानि अविगणय्य सर्वेsपि सांसदाः संसदः प्रावृट्-कालिकं सत्रम् अधिकतरं समुपयोक्तुं प्रयतितवन्तः, एतस्मादेव कारणात् लोकसभा एकविंशतिं विधेयकानि राज्यसभा च चतुर्दश विधेयकानि अभ्युपगन्तुम् अपारयताम् | संसदः प्रावृट्-कालिकमिदं सत्रं सामाजिकन्यायस्य यूनां कल्याणस्य च सत्ररूपेण सर्वदैव स्मरिष्यते | सत्रेsस्मिन् यूनां पश्चवर्तिनाञ्च समुदायानां कृते लाभ-प्रापणार्थं तत्सम्बद्धानि महत्वपूर्णानि विधेयकानि अभ्युपगतानि | भवन्तः सर्वे जानन्त्येव यत् विगतानेक-दशकेभ्यः अनुसूचित-जाति-जनजात्यायोगस्य तुल्यमेव इतर-पश्चवर्ति-वर्गायोगस्य संरचनाभियाचनं प्रवर्तते स्म | पश्चवर्ति-वर्गाणाम् अधिकारान् सुनिश्चेतुं देशेन ऐषमः क्रमे इतर-पश्चवर्ति-वर्गायोगस्य संरचनायाः संकल्प-पूर्तिः विहिता, तदर्थञ्च अस्मै साम्विधानिकाधिकारोsपि प्रदत्तः | अनुसूचित-जाति-जनजात्यधिकारान् सुरक्षितुं संशोधन-विधेयकस्य अभ्युपगमनमपि सत्रेsस्मिन् सञ्जातम् | अमुना विधिना अनुसूचित-जाति-जनजातीयानां हितानि व्यापकतया सुरक्षितानि भवितारः | सममेव, विधिरयम् अत्याचरणात् अपराधिनो निवारयिष्यति दलित-समुदायेषु च विश्वासमु- त्पादयिष्यति | 
    देशस्य नारीशक्तिं विरुद्ध्य न कश्चन अपि सभ्य-समाजः कथङ्कारमपि अन्यायं सोढुं पारयति | बलात्कार-दोषिणः सोढुं देशः न मनागपि सन्नद्धः, अतः संसदा आपराधिक-विधि-संशोधन-विधेयकम् अभ्युपगम्य कठोरतम-दण्डः प्रावधत्तः | दुष्कर्मणः दोषिणः न्यूनान्यूनं दश-वर्षात्मक-दण्डेन दण्डयिष्यन्ते, तथा च, द्वादश-वर्षेभ्यो न्यूनायुष्मतीषु बालिकासु बलात्कारिणः मृत्युना दण्डयिष्यन्ते | कतिपयेभ्यो दिनेभ्यः प्राक् भवन्तो वार्तापत्रेषु पठितवन्तः स्युः यत् मध्यप्रदेशे मंदसौरे अन्यतमेन न्यायालयेन केवलं मास-द्वयावधौ एव वाद-श्रवणानन्तरं अवयस्क-बालिकायां बलादाचरणस्य दोषि-द्वयं मृत्युना दण्डितम् | एतत्-पूर्वं मध्यप्रदेशे कटनी-नगरे एकेन न्यायालयेन केवलं दिवस-पञ्चके वाद-श्रवणं कृत्वा दोषिणो मृत्युना दण्डिताः| राजस्थानेsपि तत्रत्य-न्यायालयैः एतादृशाः त्वरित-निर्णयाः विहिताः | अयं विधिः महिलाः बालिकाश्च विरुद्ध्य विधीयमानानि अपराध-प्रकरणानि अवरोद्धुं प्रभाविनीं भूमिकां निर्वक्ष्यति | सामाजिक-परिवर्तनं विना आर्थिक-प्रगतिः अपूर्णा एवास्ति | लोकसभायां triple-तलाक़-इति विवाह-विच्छेदक-विधेयकम् अभ्युपगतम्; यद्यपि राज्यसभायाः ऐषमः सत्रे नैतत् शक्यमजायत | अहं मुस्लिम-महिलाः विश्वासयामि यत् कृत्स्नोsपि देशः ताभ्यो न्यायं प्रदापयितुं पूर्ण-शक्त्या सन्नद्धोsस्ति | यदा वयं देशहितार्थम् अग्रेसरामः तदा, निर्धनानां, पश्चवर्तिनां, शोषितानां, वञ्चितानां च जीवनानि परिवर्तयितुं शक्यन्ते| प्रावृट्-कालिक-सत्रे क्रमेsस्मिन् सर्वेsपि सम्भूय आदर्शमेकं प्रस्तुतवन्तः| अहं देशस्य  सर्वान् अपि सांसदान् सार्वजनिकरूपेण अद्य हार्दिकान् साधुवादान् व्याहरामि |                                                         
    मम प्रियाः देशवासिनः! एतेषु दिनेषु कोटि-कोटि-देशवासिनः जकार्ता-नगर्यां सम्पद्यमानानाम् एशियन्-क्रीडा-स्पर्धानां विषये दत्तावधानाः सन्ति | प्रतिदिनं प्रातः जनाः सर्वप्रथमं वार्तापत्राणि वा दृश्यवाहिनीः वा सामाजिक-संचार-माध्यमानि सोत्सुकं दृष्ट्वा अवगन्तुं प्रयतन्ते यत् केन कया वा भारतीय-क्रीडकेन क्रीडिकया वा पदकं विजितम् | एशियन्-क्रीडा-स्पर्धाः साम्प्रतमपि प्रवर्तन्ते | देशस्य कृते पदक-विजेतॄन् सर्वान् अपि क्रीडकान् अभिनन्दामि | तेभ्योsपि क्रीडकेभ्यः मम भूरिशः शुभ-कामनाः येषां यासाञ्च स्पर्धाः साम्प्रतमपि अवशिष्टाः सन्ति | भारतस्य क्रीडकाः विशेषेण Shooting-Wrestling-इति लक्ष्यवेध-मल्ल-स्पर्धासु तु उत्कृष्ट-प्रदर्शनं कुर्वन्त्येव परञ्च अस्माकीनाः क्रीडकाः क्रीडिकाश्च तास्वपि स्पर्धासु पदकानि अधिगच्छन्ति, यासु पूर्वम् अस्माकं प्रदर्शनं तादृक् समीचीनं नासीत् | एतानि न केवलं पदकानि अपि तु, भारतीय-क्रीडानां क्रीडकानां क्रीडिकानाञ्च नभःस्पर्शि-समुत्साहस्य स्वप्नानाञ्च प्रमाणमस्ति | देशस्य कृते पदक-विजेतृषु अस्माकीनाः पुत्र्यः अपि सन्ति इति नूनं भूयान् सकारात्मक-संकेतः| पदक-विजेतृषु न्यूनायुष्मन्तो युवानः तथा च एतेषु अधिसंख्यं लघु-लघु-ग्राम-जनपद-वास्तव्याः चेति परिभाव्य मोमुद्यते अस्माकीनं मानसम् | 
 मासेsस्मिन् ऊन-त्रिंशत्तमे दिनाङ्के वयं ‘राष्ट्रिय-क्रीडा-दिवसम्’ आयोजयिष्यामः, शुभेsस्मिन् अवसरे अहं सर्वेभ्योsपि क्रीडा-प्रेमिभ्यः शुभकामनाः निवेदयामि, युगपदेव हॉकी-क्रीडायाः महते क्रीडकाय श्रीध्यानचंद-वर्याय स्वीयं श्रद्धांजलिम् अर्पयामि | अहं देशस्य सर्वान् अपि नागरिकान् निवेदयामि यत् ते अवश्यं क्रीडन्तु तथा च, स्वीय-सुस्वास्थ्यस्य कृते विशेषेण अवधानं दद्युः, यतो हि स्वस्थं भारतमेव सम्पन्नं समृद्धञ्च भारतं निर्मास्यति | यदा भारतं स्वस्थं भवति, तदैव उज्ज्वल-भविष्यतः निर्माणं भविता | पुनरेकवारं  एशियन्-क्रीडा-स्पर्धालून् पदक-विजेतॄन् अभिनन्दामि शेष-क्रीडकानां उत्कृष्ट-प्रदर्शनञ्च कामये | सर्वेभ्योsपि राष्ट्रिय- खेलदिवसस्य कोटिशः शुभकामनाः |
“प्रधानमन्त्रि-महोदय ! नमस्कारः  ! अहं कानपुरतः भावनात्रिपाठी, आभियान्त्रिक्याः छात्रास्मि | प्रधानमन्त्रि-महोदय ! विगते ‘मन की बात’-प्रसारणे भवान् महाविद्यालयीयैः छात्रैः छात्राभिः च समभाषत, तत्पूर्वमपि चिकित्सकैः लेखा-परीक्षकैश्च साकं भवान् समभाषत | ममैका प्रार्थनास्ति यत् आगामिनि सेप्टेम्बर-मासे पञ्चदशे दिने आभियान्त्रिकी-दिवसोsस्ति, तदुपलक्ष्य भवान् यदि अस्माभिः आभियान्त्रिकी-च्छात्रैः छात्राभिश्च साकं सम्भाषणं करोतु, येन अस्मदीयं मनोबलं वर्धिष्यते, वयञ्च प्रसन्नतामनुभविष्यामः, तथा च, भविष्यति काले स्वीय-देशस्य कृते किञ्चित् कर्तुं वयम् प्रोत्साहनमपि लप्स्यामहे, धन्यवादः|”    
    नमस्ते भावना-महोदये! अहं भवत्याः भावनायाः आदरं करोमि |  वयं सर्वेsपि प्रस्तरेष्टिकाभिः निर्मीयमाणानि गृहाणि भवनानि चावलोकितवन्तः परञ्च, किं भवन्तः कल्पयितुं शक्नुवन्ति यत् प्रायेण द्वादश-शत-वर्षेभ्यः प्राक् विशालमेकं पर्वतं, यः एक-शिलात्मकः एवासीत्, तम् उत्कीर्य उत्कृष्टम् , विशालम्, अद्भुतञ्च  मंदिर-स्वरूपम् प्रदत्तम् | स्यात् एतादृशी कल्पना अशक्या प्रतीयते परञ्च तत् सञ्जातं महाराष्ट्रस्य एलोरास्थितस्य  कैलाशनाथमंदिरस्य विषये | यदि कश्चन भवन्तं कथयति यत् प्रायेण सहस्र-वर्षेभ्यः प्राक्  granite –इति ग्रावायुतः षष्टि-मीटर-मितो लम्बायितः स्तम्भः विनिर्मितः | तथा च, तस्योपरि प्रायेण अशीति-टन्-भारयुतः शिलाखण्डः स्थापितः – तर्हि किं भवान् विश्वस्यति ? परञ्च, तमिलनाडुराज्ये तंजावुरे बृहदेश्वरमंदिरम् तत्स्थानमस्ति, यत्र स्थापत्यकलायाः आभियान्त्रिक्याश्च अविश्वनीय- मेलनम् अवलोकयितुं शक्यते | गुजरातस्य पाटण-नगरे एकादश-शताब्दस्य ‘राणी नी वाव’- इति वापीं दृष्ट्वा सर्वोऽपि जनः आश्चर्यचकितो भवति | भारतभूमिः आभिया- न्त्रिक्याः प्रयोगशाला अवर्तत | भारते अनेके तादृशाः अभियन्तारः अभूवन् ये अकल्पनीयम् कल्पयित्वा तत् साकारीकृतवन्तः, आभियान्त्रिकी-जगति च, चमत्कार-रूपाणि उदाहरणानि प्रस्तुतवन्तः | एतेषु महत्तमेषु भारतीयाभियन्तृषु भारतरत्नम्  डॉ.एम्.विश्वेश्वरय्या (Dr. M. Vishveshwarya), अन्यतमः अभियन्ता येन कावेरीनद्याः उपरि कृष्णराजसागर-जलावष्टम्भः विनिर्मितः, तस्माच्च साम्प्रतमपि लक्षशो जनाः  कृषकाश्च लाभान्विताः भवन्ति |  तस्यैव स्मृतौ सेप्टेम्बर-मासे पञ्चदशे दिने आभियान्त्रिकी-दिवसः आयोज्यते | यदाहं आभियान्त्रिक्याः चमत्कार-विषये ब्रवीमि तदा एकोत्तर-द्विसहस्रतमे वर्षे गुजराते कच्छ-प्रान्ते समापन्न-भूकंप-विषयिणीं घटना- मेकां स्मरामि | तदाहं स्वयंसेविरूपेण तत्र कार्यं कुर्वन् आसम् | तत्राहम् एकं   ग्रामम् अगच्छम्, यत्र शताधिक-वर्षायुष्मती एका मातृचरणा दृष्टा | सा मां दृष्ट्वा उपहसन्तीव कथयन्ती प्रतीयते स्म यत् पश्यतु, मम लघुगृहं भूकंप-त्रयेण सन्ताडितं सत् न किमपि प्रनष्टम् | सावदत् यत् गृहमिदं अस्माकं पूर्वजैः अत्रत्य-प्रकृतेः अनुसारम् निर्मितम् | यदा वयं आभियान्त्रिकी-दिवसं आयोजयामः तदा अस्माभिः भविष्यद्विषयेsपि विचारणीयमस्ति | स्थाने स्थाने कार्यशालाः आयोजनीयाः | परिवर्तिते युगे अस्माभिः कानि कानि नूतन-वस्तूनि शिक्षितव्यानि शिक्षणीयानि च? अद्यत्वे आपदा-प्रबन्धनं हि महत्त्वाधायि-कार्यं जातम् | विश्वं प्राकृतिकापदाभिः साकं संघर्ष-निरतं वर्तते | एतादृश्यां स्थितौ, स्वरूपात्मिकाभियान्त्रिक्याः नूतनं रूपं कीदृशं भविष्यति? अस्याः पाठ्यक्रमः कीदृशः स्यात्? छात्रेभ्यः किं किं  शिक्षणीयम्? संरचनात्मक-निर्माणं केन प्रकारेण पर्यावरनानुकूलं स्यात्? स्थानिक-सामग्र्याः मूल्याकलनं कृत्वा निर्माणं केन प्रकारेण अग्रेसारणीयम्? सुतरां अवकर-शून्यता केन प्रकारेण अस्मदीया प्राथमिकता भवेत्? एतादृशाः अनेके बिन्दवः आभियान्त्रिकी-दिनावसरे नूनं विचारणीयाः |
मम प्रियाः देशवासिनः! उत्सवानां परिवेशः तथा चामुना साकमेव दीपावल्याः सन्नद्धता अपि आरभ्यते  | ‘मन की बात’-प्रसारण-व्याजेन सततं मेलिष्यामः, मनसः कथां कुर्वन्तो भविष्यामः, तथा च, निज-मनसा राष्ट्रं अग्रेनेतुमपि सततं प्रयत्नं करिष्यामः | अनया भावनया साकं भवद्भ्यः सर्वेभ्यः शुभकामनाः | धन्यवादाः  | पुनः मेलिष्यामः |                       
                                              
               ---     भाषान्तर-कर्ता -   डॉ.बलदेवानन्द-सागरः