Tuesday, 1 January 2019

मनोगतम्’ – ५१   
        ‘मन की बात’ (५१-वीं कड़ी)   प्रसारणतिथि: - ३०-१२-२०१८                                   
                      - संस्कृत-भाषान्तर-कर्ता -  डॉ.बलदेवानन्द-सागरः 
         मम प्रियाः देशवासिनः, नमस्कारः | अष्टादशोत्तर-विंशतिशततमं वर्षं पूर्णतामेति |वयं नवदशोत्तर-विंशतिशततमं वर्षं प्रवेक्ष्यामः| स्वाभाविक- रूपेण एतादृशे काले, विगत-वर्षस्य विषयाः चर्च्यन्ते, युगपदेव आगामिवर्षस्य संकल्पस्यापि चर्चा श्रूयते| भवतु नाम व्यष्टिजीवनम्, समाजजीवनम्, राष्ट्र- जीवनं वा – प्रत्येकमपि जनस्य कृते सिंहावलोकनं भवत्यनिवार्यम्, तथा च, यथादूरमपि शक्यं तावद् दूरं भविष्यति द्रष्टुमपि प्रयतनीयम्, तदैव अनुभवानां लाभोsपि प्राप्यते, तथा च, किमपि नूतनमाचरितुम् आत्मविश्वासोsपि लभ्यते | वयम् एतादृशं किं करवाम येन निज-जीवनं परिवर्तयितुं शक्नुम ? युगपदेव देशं समाजञ्च अग्रेसारयितुं स्वीयं योगदानं कर्तुं शक्नुम ? भवतां सर्वेषां कृते  नवदशोत्तर-विंशतिशततमं वर्षं शुभं भवेदिति कृत्वा कोटिशः शुभकामनाः व्याहरामि |  भवन्तः सर्वेsपि कदाचित् विचारितवन्तः यत् अष्टादशोत्तर-विंशतिशततमं वर्षं केन प्रकारेण स्मरणीयम्? अष्टादशोत्तर-विंशतिशततमं वर्षं हि भारतमेकदेशरूपेण, स्वीयानां त्रिंशदुत्तरशत-कोटि-जनानां सामर्थ्यरूपेण च, केन प्रकारेण स्मरिष्यते – एतत् स्मरणमपि महत्वपूर्णमस्ति | अस्माकं सर्वेषां कृते गौरवप्रदं वर्तते | 
           अष्टादशोत्तर-विंशतिशततमे वर्षे,  विश्वस्य बृहत्तमा स्वास्थ्यागोप-योजना ‘आयुष्मान् भारतम्’इत्यारभत | देशस्य प्रत्येकमपि ग्रामः विद्युत्-सौविध्यमलभत| विश्वस्य गणमान्याः संस्थाः स्वीकृतवत्यः यत् भारतं आलेख्य-गत्या,  देशं निर्धनतातो मुक्तिं प्रयच्छति | देशवासिनां दृढसंकल्प-कारणात् स्वच्छता-कार्याणि एधित्वा प्रतिशतं पञ्चनवतितोsप्यधिकानि भूत्वा तद्दिशि अग्रेसरन्ति |
          स्वाधीनता-प्राप्तेः अनन्तरं रक्त-दुर्गात् प्रथमवारं, ‘आज़ाद-हिन्द-सरकार’-इत्यस्य पञ्च-सप्तति-वर्षपूर्त्यवसरे त्रिवार्णिको ध्वजः उत्तोलितः | देशम् एकतासूत्रेण सन्नद्धकस्य, सरदारवल्लभभाईपटेलस्य सम्माननार्थं विश्वस्य उच्छ्रिततमा प्रतिमा 
देशेनाधिगता | जगति देशस्य नाम गौरवान्वितं जातम् | देशः संयुक्तराष्ट्रस्य सर्वोच्चं ‘Champions of the Earth’-  इति पर्यावरणपुरस्कारेण सम्मानितः | सौरोर्जायाः ऋतु-परिवर्तनस्य च क्षेत्रे भारतेन विधीयमानाः प्रयासाः संसारेण अभिज्ञाताः | भारते, आन्ताराष्ट्रिय-सौर-संयुतेः प्रथमा महासभा ‘International Solar Alliance’-इत्येषा आयोजिता|अस्माकं सामूहिकप्रयासानामेव परिणाम-जातमिदं यत् अस्माकं देशस्य व्यापार-स्तर-निर्धारणे ease of doing business ranking - इत्यत्र अभूतपूर्वः परिष्कारो जातः| देशस्य आत्म-संरक्षणं नूतनतया दृढतरमभवत् | अस्मिन्नेव वर्षे अस्माकं देशः  सफलतया परमाणु-त्रिकं Nuclear Triad-इति पूर्णतामनयत्, अर्थात् इतः परं वयं जलस्थल-नभस्सु परमाणुशक्तिसम्पन्नाः संवृत्ताः | देशस्य दुहितृभिः नाविका-सागर-परिक्रमा-माध्यमेन सम्पूर्णविश्वस्य भ्रमणमनुष्ठाय देशोsयं गौरवान्वितो विहितः | वाराणस्यां भारतस्य प्रथमस्य जलमार्गस्य आरम्भो जातः |  अमुना जलमार्गक्षेत्रे नूतनायाः क्रान्तेः सूत्रपातोsजायत| देशस्य दीर्घतमस्य ‘बोगीबील- ब्रिज्’ इति रेल-भूमार्गसेतोः लोकार्पणमभवत् | सिक्किमे आद्यस्य देशे च, शततमस्य विमानपत्तनस्य ‘पाक्योंग’ इत्यस्य शुभारम्भः अजायत | ऊन-विंशतिक्रिकेट्विश्व-चषक-स्पर्धायां दृष्टि-बाधित-क्रिकेट्विश्व-चषक-स्पर्धायाञ्च भारतं विजयश्रियमवाप्नोत्| ऐषमः क्रमे, एशिया-क्षेत्रीय-क्रीडास्पर्धासु भारतं पदकानाम् अधिसंख्यं विजितवत् | Para Asian Games – इति दिव्याङ्ग-स्पर्धास्वपि भारतं शोभनं प्रदर्शनमकरोत् | एवं हि, यद्यहं प्रत्येकमपि भारतीयस्य पुरुषार्थस्य, अस्मदीय-सामूहिकप्रयासानां विषये अभिभाषयेयम्,  तर्हि अस्माकं ‘मन की बात-इति प्रसारणं तावत्काल-पर्यन्तं प्राचलिष्यत्, स्यात् नवदशोत्तर-विंशतिशततमं वर्षम् आगमिष्यत् | एतत् सर्वमपि त्रिंशदुत्तरशत-कोटि-देशवासिनां अनारत-प्रयासैः शक्यमजायत | आशासे यत् नवदशोत्तर-विंशतिशततमे वर्षेsपि भारतस्य उन्नति-प्रगत्योः यात्रेयं एवमेव सततं प्रचलिष्यति, तथा चास्मदीयोsयं देशः इतः परमपि दृढतया नवीनाः उपलब्धीः अवाप्स्यति |
           मम प्रियाः देशवासिनः, ऐषमः डिसेम्बर-मासे वयं कैश्चित् असाधारणैः देशवासिभिः वियुक्ताः जाताः| मासेsस्मिन् ऊनविंशतितमे दिने चेन्नई-नगरस्य डॉक्टर-जयाचंद्रन् प्राणान् अत्यजत् | जनाः प्रेम्णा डॉक्टर्-जयाचंद्रन्-महोदयं ‘मक्कल-मारुथुवर’- इति निगदन्ति स्म यतो हि असौ जनानां हृदयेषु निवसति स्म | डॉक्टर्-जयाचंद्रन् निर्धनानां कृते अल्पात्यल्प-मूल्यैः उपचारान् प्रापयितुं सुख्यातः आसीत् | जनाः कथयन्ति यदसौ रुग्णानां समुपचारार्थं सर्वदैव तत्परो भवति स्म | उपचारार्थं तत्समीपम् आगम्यमाने- भ्यो वृद्धेभ्यो रुग्णेभ्यः गमनागमनार्थं भाटकमपि असौ ददाति स्म |  अहं thebetterindia.com website इत्यन्तर्जालवाहिन्यां समाजस्य कृते प्रेरणा-प्रदायीनि तस्य अनेकानि कार्याणि पठितवान् |    
           एवं हि, मासेsस्मिन् पञ्चविंशे दिने कर्नाटकस्य सुलागिट्टी-नर- सम्मायाः निधनवृत्तम् अधिगतम् | सुलागिट्टी-नरसम्मा गर्भवतीनां मातृ-भगिनीनां प्रसव-क्रियावसरे सहायिकासीत्| सा कर्नाटके, विशेषेण तत्रत्येषु दुर्गम -क्षेत्रेषु मातृ-भगिनीनां परस्सहस्रेभ्यः निज-सेवाः प्रादात् | एतद्वर्षारम्भे सा ‘पद्मश्री’त्यलंकरणेन सम्मानिता | डॉ.जयाचंद्रन्-सुलागिट्टी-नरसम्मा-सदृशाः अनेके प्रेरकाः जनाः सन्ति, ये हि समाजे सर्वेषां कल्याणाय निजजीवनं समर्पितवन्तः | यदा वयं स्वास्थ्योपचर्या-विषये चर्चां कुर्मः,  तदात्राहं उत्तर- प्रदेशस्य बिजनौर-वास्तव्यानां चिकित्सकानां सामाजिक-प्रयासान् अपि चर्चितुं वाञ्छामि | विगतेषु दिनेषु अस्मदीय-दलस्य केचन कार्यकर्तारो माम् असूच- यन् यत् नगरस्य केचन युव-चिकित्सकाः शिबिराणि आयोज्य निर्धनान् निःशुल्कम् उपचारयन्ति | अत्रत्यस्य हृदय-फुफ्फुस-सङ्कट-केन्द्रस्य पक्षतः प्रतिमासम् एतादृंशि चिकित्सकीय-शिबिराणि आयोज्यन्ते यत्र अनेकविधाः रोगाः निःशुल्कं समुपचार्यन्ते | साम्प्रतं, प्रतिमासं रुग्णानां परश्शतं एतैः शिबिरैः लाभान्विताः भवन्ति | निःस्वार्थभावेन सेवा-संलग्नानां एतेषां चिकित्सकमित्राणाम् उत्साहो नितरां प्रशंसनीयः एव | अद्याहं विषयमेनम् अतितरां गर्वेण विनिवेदयामि यत् सामूहिक-प्रयासैरेव ‘स्वच्छ-भारत-कार्यक्रम’सफलाभियानत्वेन सिद्धः | केचन जनाः मामसूचयन् यत् केभ्यश्चित् दिनेभ्यः प्राक् मध्यप्रदेशे जबलपुरे युगपदेव त्रिलक्षाधिकाः जनाः स्वच्छताभियाने संलग्नाः जाताः | स्वच्छतायाः महायज्ञेsस्मिन् नगरनिगमः, स्वयंसेवि- संघटनानि, विद्यालय-महाविद्यालयानां विद्यार्थिनः, जबलपुरस्य नागरिकाः, सर्वेsपि सोत्साहं सहभागित्वं निरवहन् | नातिचिरमहं thebetterindia.com-इति अन्तर्जालवाहिनीम् उल्लेखितवान् | यत्राहं डॉ.जयाचंद्रन्-महोदयस्य विषये अपठम्, तथा च, यदापि अवसरं लभेsहं तदावश्यं thebetterindia.com website इत्यत्र गत्वा एतादृशान् प्रेरकविषयान् ज्ञातुं प्रयते | प्रसन्नोsस्मि यत् अद्यत्वे एतादृश्योsनेकाः अन्तर्जालवाहिन्यो वर्तन्ते याः एतादृशानां विलक्षण-जनानां जीवन-प्रेरणायुताः अनेकविधाः कथाः अस्मान् सूचयन्ति | यथा thepositiveindia.com – इति वाहिनी समाजे रचनात्मकतां प्रसारयितुं समाज- ञ्चाधिकतरं संवेदनशीलं विधातुं सततं कार्यनिरता वर्तते | एवमेव yourstory. com इत्यत्र नवाचारवतां यूनाम् उद्यमिनाञ्च सफलता-वार्त्ताः कुशलतया वर्णिताः सन्ति | एवमेव samskritabharati.in-इत्यस्य माध्यमेन भवन्तः गृहे स्थित्वा सरलतया संस्कृतभाषां पठितुमर्हन्ति | किं वयं कार्यमेकं कर्तुं प्रभवेम – एतादृशीनां website-इत्यर्जालवाहिनीनां विषये परस्परं विनिमयं कर्तुं पारयेम? सम्भूय वयं रचनात्मिकां प्रवृत्तिं प्रचारयेम? विश्वसिमि यत् अमुना समुपायेन समधिकाः जनाः समाजस्य परिवर्तकानामस्मदीयानां नायकानां विषये अवगताः भविष्यन्ति | नकारात्मकतायाः प्रचारः अतितरां सरलो भवति, परञ्च, अस्माकं समाजे, अस्माकं परिपार्श्वे च अनेकानि भद्राणि शुभंकराणि च कार्याणि भवन्ति, तथा चैतत्सर्वं त्रिंशदुत्तरशत-कोटि-भारत- वासिनां सामूहिकप्रयासैरेव सञ्जायते | 
            प्रत्येकमपि समाजे क्रीडानां स्वकीयं महत्वं भवति | यदा वयं क्रीडामः तदा दर्शकाणामपि मनांसि ऊर्जा-सम्भृतानि भवन्ति | क्रीडकानां नामाभिज्ञान-सम्मानादयोsनेके विषयाः अस्माभिः अनुभूयन्ते | परञ्च, कदाचित्तु एतेषां पृष्ठभूमौ अनेकानि तथ्यानि तादृंशि भवन्ति यानि क्रीडा-विश्वादपि उच्चतराणि भवन्ति, अतितरां महत्त्वाधायीनि भवन्ति | अहं कश्मीर-कन्यकायाः हनायानिसार-इत्यस्याः विषये किमपि निवेदयितुकामोsस्मि या हि कोरिया-देशे karate-स्पर्धायां सुवर्ण-पदकं विजितवती | हनाया, द्वादश- वर्षीया वर्तते, कश्मीरस्य अनंतनाग-नाम्नि स्थले च निवसति | हनाया परिश्रमेण निष्ठया च karate-क्रीडाभ्यासमकरोत्, अस्याः क्रीडायाः सूक्ष्म-प्रविधीन् ज्ञातवती स्वयञ्च एतत् प्रमाणीकृतवती | अहं सर्वेषामपि देशवासिनां पक्षतः तस्याः उज्ज्वल-भविष्यत्-विषये शुभं कामये | हनाया-क्रीडिकायै भूयस्यः शुभकामनाः भूयान्सि चाशीर्वचान्सि | एवमेव षोडश-वर्षीयायाः पुत्रिकायाः रजन्याः विषये सञ्चार-माध्यमेषु भूयसी चर्चाभवत् | भवन्तोsपि कदाचित् नूनम् अवगतवन्तः | रजनी कनिष्ठमहिला-मुष्टामुष्टि-स्पर्धायां सुवर्णपदकं विजितवती | यथैव रजनी पदकं विजितवती, सा निकटवर्तिनं दुग्ध-मण्डपं गत्वा चषकपूरितं दुग्धं पीतवती | ततः परम्, रजनी निजपदकं वस्त्रेण संगोप्य निज-स्यूते स्थापितवती | साम्प्रतं भवन्तः विचारयन्तो भवेयुः यत् रजनी चषकपूरितं दुग्धं कथं पीतवती? सा निजपितुः श्रीजसमेरसिंहस्य सम्माननार्थम् एवमाचरितवती, यो हि पानीपते एकस्य विपणपणौ तक्रं विक्रीणाति | रजनी असूचयत् यत् तस्याः पिता ताम् एतावत्-स्थान-पर्यन्तं प्रापयितुम् अनेकविधं त्यागमाचरितवान्, अनेकानि च कष्टानि तेन सोढानि | जसमेरसिंहः प्रतिप्रातः रजन्याः तस्याश्च भगिनी-भ्रातृणां उत्थानात् प्रागेव निज-कार्यार्थं प्रयाति | रजनी यदा निज-पितरं Boxing-इति मुष्टामुष्टि-क्रीडां शिक्षितुं निजेच्छां निवेदितवती, तदा पिता सर्वसम्भवं साधनम् उपायनीकृत्य तामुत्साहितवान् | रजनी मुष्टामुष्टि-क्रीडायाः अभ्यासं जीर्ण-हस्तकोषाभ्याम् आरभत यतो हि तेषु दिनेषु तस्याः कुटुम्बस्य आर्थिक-स्थितिः समीचीना नासीत् |  सतीष्वपि एतासु अनेकविधासु बाधासु रजनी साहसं नैवात्यजत् तथा च, स्वीय-क्रीडाभ्यास-शिक्षणं संधारितवती | सा सर्बिया-देशेsपि पदकमेकं विजितवती | अहं रजन्यै शुभकामनाः आशीर्वादान् च ददामि, तथा च, रजन्याः सहयोगार्थं तस्याः उत्साह-वर्धनार्थं तस्याः पित्रोः, उषारानीजी-जसमेरसिंह-वर्ययोः वर्धापनं करोमि | मासेsस्मिन् पुणे-नगरीया विंशतिवर्षीया पुत्रिका वेदांगीकुलकर्णी द्विचक्रिकया विश्व-भ्रमण-कर्तृषु तीव्रतमगतियुता एशिया-क्षेत्रीया सिद्धा | सा ऊन-षष्ट्युत्तर-शत-दिनानि यावत् प्रतिदिनं प्रायेण त्रिशतं किलोमीटर-मितं द्विचक्रिकया प्रयाति स्म | भवन्तः कल्पयितुं शक्नुवन्ति– प्रतिदिनं त्रिशतं किलोमीटर-मितं द्विचक्रिकया प्रयाणम्! द्विचक्रि -कायाः प्रचालनं प्रति तस्याः दृढा निष्ठा नूनं प्रशंसनीयास्ति | किमेतादृशीः उपलब्धीः, एतादृशीं सिद्धिं चाकर्ण्य वयं प्रेरणां नैव लभेमहि ? विशेषेण मम युवमित्राणि,  यदा वयमेतादृशीः घटनाः शृण्मः, तदा वयमपि सत्स्वपि काठिन्येषु किमपि उत्कृष्टं कर्तुं प्रेरणां लभेमहि | यदि संकल्पोsस्ति सामर्थ्य- युतः, साहसमस्ति अप्रतिहतम् चेत्तदा बाधाः स्वयमेव अवरुद्ध-गतिकाः भवन्ति | काठिन्यानि न कदाचिदपि बाधाः भवितुं प्रभवन्ति | अनेकानि एतादृन्शि उदाहरणानि, यदा शृण्मः तदा वयमपि निज-जीवने प्रतिपलमेकां नवीनां प्रेरणाम् अवाप्नुमः | 
    मम प्रियाः देशवासिनः, जान्युआरि-मासे  हर्षोत्साह-भरितानि बहूनि पर्वाणि आगमिष्यन्ति यथा – लोहड़ी-पोंगल-मकरसंक्रान्ति-उत्तरायण-माघ-बिहू- माघी-प्रभृतीनि;  एतेषां पर्वणामवसरेषु अशेष-भारते कुत्रचित् पारम्परिकनृत्यानां छटा, कुत्रचिच्च, शस्य-लवन-सज्जतायाः प्रसन्नतायां लोहड़ी ज्वालयिष्यते, कुत्रचित् नभसि विविध-वार्णिकाः कर्गद-पतत्रिणो डीयमानाः दरीद्रक्ष्यन्ते,अपरत्र च, कुत्रचित् मेलायोजनस्य शोभाः विवर्धिष्यन्ते, कुत्रचिच्च क्रीडा-स्पर्धाः भविष्यन्ति, तर्हि कुत्रचित् अन्योन्यं जनाः तिल-गुडकम् आस्वादयिष्यन्ति | जनाः परस्परं लोकभाषया कथयिष्यन्ति – “तिल गुड घ्या – आणि, गोड़ - गोड़ बोला |”
            एतेषां सर्वेषां पर्वणां नामानि भवन्तु नाम पृथक्-पृथक् परञ्च सर्वेषामपि आयोजनस्य भावना एका एवास्ति | एते उत्सवाः येन केन प्रकारेण शस्येन कृषि-कर्मणा च संयुताः सन्ति, कृषकैः ग्रामैः कृषि-क्षेत्रैश्च संयुक्ताः वर्तन्ते | अस्मिन्नेवावसरे भगवान् भास्करः उत्तरायणः सन् मकरराशिं प्रविशति | एतत्परमेव दिनानि शनैः शनैः बृहत्तराणि जायन्ते, तथा च, शीतकालीनानां शस्यानां लवनमपि आरभते | अस्मदीयाः अन्नदातारः कृषकाः भगिनी-भ्रातरः अपि अभिनन्दनीयाः, तेभ्यः कोटिशो मङ्गल-कामनाः | ‘विविधतायामेकता’ – ‘एकभारतम् श्रेष्ठभारतम्’इत्यस्याः भावनायाः सुगन्धिः अस्माकम् उत्सवेषु वरीवर्तते |  वयमेतत् अनुभवितुं शक्नुमः यत् अस्मदीयाः उत्सवाः, प्रकृत्या साकं कियत्या घनिष्ठतया सम्पृक्ताः सन्ति | भारतीयसंस्कृतौ समाजः प्रकृतिश्च पृथक्-पृथक् नैव परिगण्यते | अत्र व्यष्टिः समष्टिश्च एकैवास्ति | प्रकृत्या साकं अस्मदीय-घनिष्ठ-सम्बन्धानां शोभनमुदाहरणमस्ति – उत्सवाधृतं पञ्चाङ्गम् | अस्मिन् सम्पूर्णस्य वत्सरस्य उत्सवाः पर्वाणि च, उत्सवैश्च साकमेव ग्रहनक्षत्राणां विवरणमपि भवति | अमुना पारम्परिकेण पञ्चाङ्गेन अवगन्तुं शक्यते यत् प्राकृतिकाभिः खगोलीयाभिश्च घटनाभिः साकं अस्मदीयः सम्बन्धः कियान् पुरातनोsस्ति |सूर्य-चन्द्रमसोः गत्याधृतं, चन्द्र-सूर्ययोः पञ्चाङ्गानुसारं पर्वणाम् उत्सवानाञ्च तिथि-निर्धारणं भवति |  इदन्तु एतस्मिन् निर्भरं यत् कः कस्मिन् पञ्चान्गे विश्वसिति | कतिपयेषु क्षेत्रेषु ग्रहनक्षत्राणां स्थित्यनु- सारमपि पर्वाणि, उत्सवाश्च आमान्यन्ते | गुड़ीपड़वा-चेटीचंड-उगादि-इत्यादयः एकत्र चन्द्र-पञ्चाङ्गानुसारं आमान्यन्ते, अपरत्र तमिलपुथांडु-विषु-वैशाख-बैसाखी-पोइला-बैसाख-बिहु-प्रभृतीनि पर्वाणि सूर्य-पञ्चाङ्गानुसारम् आयोज्यन्ते |  अस्मदीयेषु अनेकेषु उत्सवेषु नदीनां जलानाञ्च संरक्षणस्य भावः विशिष्टरूपेण समाहितोsस्ति | छठपर्व – नदीषु, तडागेषु च, सूर्यस्य उपासनया संयुतमस्ति | मकर-संक्रान्त्यवसरेsपि कोटिशो जनाः पवित्रनदीषु पुण्यावगाहनम् आचरन्ति |अस्मदीयाः उत्सवाः, सामाजिकमूल्य-विषयेsपि अस्मान् शिक्षयन्ति | एकत्र एतेषां पौराणिकमहत्वमस्ति, अपरत्र च, प्रत्येकमपि पर्व, उत्सवश्च जीवनपाठं शिक्षयति – अन्योन्यञ्च भ्रातृभावेन स्थातुं सुतरां सहजतया प्रेरयति | अहं भवद्भ्यः सर्वेभ्यः नवदशोत्तर-विंशतिशततमवर्षस्य कृते कोटिशः शुभकामनाः व्याहरामि, तथा च, आगम्यमानानाम् उत्सवानाम् आनन्द-सन्दोहम् अनुभवन्तु – एतदर्थञ्च सर्वविधं शुभं कामये | एतेषु उत्सवेषु आदत्तानां चित्राणि भवन्तः सर्वैः साकं संविभाजयन्तु येन हि भारतस्य विविधतायाः भारतीयसंस्कृतेश्च सुन्दरतां प्रत्येकमपि जनः अवलोकयितुं शक्नुयात् |     
       मम प्रियाः देशवासिनः, अस्मदीय-संस्कृतौ अनेकानि तादृन्शि तथ्यानि सन्ति, येषां विषये वयं गौरवमनुभवितुं शक्नुमः, तथा च, साभिमानं अशेषविश्वं प्रदर्शयितुं शक्नुमः – तेषु अन्यतममस्ति – कुम्भ-मेला | भवन्तः कुम्भमेलाविषये स्यात् बहुविधं श्रुतवन्तः स्युः | चलचित्रेष्वपि  कुम्भ-मेलायाः भव्यतायाः विशालतायाश्च विषये पर्याप्तं दृष्टं स्यात्, एतत् सत्यमपि वर्तते | कुम्भमेलायाः स्वरूपं विराट् वर्तते – यावद्दिव्यं तावदेव भव्यम् | देशस्य अशेष-विश्वस्य च जनाः अत्रायान्ति तथा च, कुम्भ-मेलकेन संयुताः भवन्ति| कुम्भ- मेलायाम् आस्थाश्रद्धयोः जन-सागरः समुद्वेल्लति |  युगपदेव एकस्मिन्नेव स्थले देश-विदेशेभ्यः समायाताः लक्षशः कोटिशो जनाः समवेताः भवन्ति | कुम्भपरम्परा हि अस्मदीयस्य महतः सांस्कृतिक-रिक्थस्य सूत्रेण पुष्पिता पल्लविता चाभवत् |  ऐषमः क्रमे जान्युआरि-मासे पञ्चदश-दिनाङ्कतः तीर्थराजे प्रयागे विश्वप्रसिद्धा कुम्भमेला आयोज्यमानास्ति यस्याः विषये कदाचित् भवन्तोsपि सर्वे सौत्सुक्यं प्रतीक्षन्ते | कुम्भमेलायाः कृते सद्यः आरभ्य महात्मनः सन्तः साधवश्च तत्रागन्तुमारभन्त | अस्य कुम्भ-मेलकस्य वैश्विकमहत्वविषये अमुनैव तथ्येन अनुमातुं शक्यते यत् विगते वर्षे UNESCO-इत्यनेन Intangible Cultural Heritage of Humanity-इत्याख्यायां मानवतायाः दुष्प्रधर्ष-सांस्कृतिक-रिक्थ-सूच्यां एतत् चिन्हितमस्ति |  कतिपय-दिनेभ्यः प्राक् बहूनां देशानां राजदूताः कुम्भमेलकस्य पूर्व-सज्जताः अवालोक- यन्|तत्र युगपदेव बहूनां देशानां राष्ट्रध्वजाः उत्तोलिताः | प्रयागराजे आयोज्य-मानेsस्मिन् कुम्भमेलके सार्धैक-शत-देशेभ्योsपि अधिकतरेभ्यो देशभ्यो जनाः समागमिष्यन्तीति सम्भाव्यते | कुम्भमेलकस्य दिव्यतया भारतस्य भव्यता अशेष-जगति निजामाभां विकिरिष्यति | कुम्भमेला self-discovery– इत्यात्मा- न्वेषणस्यापि बृहत्तमं  माध्यमं वर्तते,  यत्रागम्यमानाः सर्वेsपि पृथक्-पृथक्-अनुभूतिं सन्धारयन्ति | सांसारिक-वस्तूनि आध्यात्मिक-दृष्ट्या पश्यन्ति अवगच्छन्ति च |  विशेषेण यूनां कृते अयं हि बृहत्तमः शिक्षणानुभवः भवितुं शक्नोति | अहं स्वयमपि कतिपय-दिनेभ्यः प्राक् प्रयागराजमगच्छम् | मया दृष्टं यत् कुम्भमेलकस्य पूर्वोपकल्पनानि महता रंहसा प्रवर्तन्ते | प्रयागराजस्य नागरिकाः अपि कुम्भ-मेलाविषये अतितरां उत्साहिनो वर्तन्ते | तत्राहं  Integrated Command & Control Centre- इत्याख्यस्य केन्द्रस्य लोकार्पणं विहितवान् | श्रद्धालवोsमुना महत्-साहाय्यम् अवाप्स्यन्ति|ऐषमः क्रमे कुम्भ- मेलके स्वच्छता-विषयोsपि सबलं प्रतिपाद्यते | आयोजने श्रद्धया साकमेव स्वच्छतापि स्थास्यति चेत्, अस्य समीचीन-सन्देशोsपि सुदूरं यावत् प्रयास्यति | ऐषमः क्रमे प्रत्येकमपि श्रद्धालुः त्रिवेणी-सङ्गमे पवित्र-स्नानानन्तरम् अक्षयवटस्य पुण्यदर्शनमपि कर्तुं शक्ष्यति | जनानाम् आस्थाप्रतीकरूपोsयम् अक्षयवटः सहस्रेभ्योsप्यधिकवर्षेभ्यः दुर्गे पिहितः आसीत्, येन श्रद्धालवः अभिलषन्तोsपि अस्य दर्शनं कर्तुं नैव शक्नुवन्ति स्म | साम्प्रतं अक्षयवटस्य द्वारं सर्वेषामपि कृते उद्घाटितं स्थास्यति | ममायम् आग्रहः भवतां सर्वेषां कृते यत् यदा भवन्तः कुम्भमेलकं गच्छेयुः, तदा कुम्भ- मेलायाः नाना-पक्षान् चित्राणि च सामाजिक-सञ्चारमाध्यमेषु नूनं सम्विभाज- येयुः येन अधिकाधिकाः जनाः कुम्भमेलकं समागन्तुं प्रेरिताः भवेयुः | 
अध्यात्मस्य अयं कुम्भः भारतीयदर्शनस्य महाकुम्भः स्यात् | 
आस्थायाः कुम्भोsयं राष्ट्रियतायाः अपि महाकुम्भः भवेत् |
राष्ट्रियैकतायाः अपि महाकुम्भः भवेत् |
श्रद्धालूनामयं कुम्भो वैश्विक-पर्यटकानामपि महाकुम्भः स्यात् | 
कलात्मकतायाः अयं कुम्भः,  सृजन-शक्तीनामपि महाकुम्भो भवेत् | 
          मम प्रियाः देशवासिनः, जान्युआरि-मासे षड्विंशे दिने सम्पत्स्य- मानं गणतन्त्रदिवससमारोहं वयं देशवासिनः अतितराम्  उत्सुकतापूर्वकं प्रतीक्षामहे |  तस्मिन् दिने वयं अस्मदीयानां महतीनां विभूतीनां स्मरणं कुर्मः, ये हि अस्मभ्यं संविधानं प्रादुः |
         वर्षेsस्मिन् वयं पूज्यबापूवर्यस्य सार्धशती-जयन्तीवर्षमायोजयामः | अस्मदीयमिदं सौभाग्यं यत् दक्षिण-अफ्रीका-राष्ट्रपतिः श्रीसिरिल-रामाफोसा, ऐषमः गणतन्त्र-दिवसे मुख्यातिथिपदम् अलङ्कर्तुं भारतमागमिष्यति | पूज्यबापू-वर्यस्य दक्षिण-अफ्रीकादेशस्य च मध्ये अभेद्यः सम्बन्धोsवर्तत | अयं दक्षिण-अफ्रीका-देशः एवासीत्, यत्र मोहनः, ‘महात्मा’ सञ्जातः | दक्षिण-अफ्रीकादेशे एव महात्मगान्धी नैजं प्रथमं सत्याग्रहमारभत तथा च, रङ्ग-भेदं विरुद्ध्य दृढतया संघर्षमकरोत् |  सः फीनिक्स्-टॉलस्टॉय-फार्म्स्-इत्यनयोः अपि स्थापनामकरोत्, यतः एव कृत्स्नेsपि जगति शान्तिन्याययोः प्रतिस्वरो मुखरायितः | अष्टादशोत्तर-द्विसहस्रतमं वर्षमिदं  नेल्सन-मंडेलाजन्मशताब्दी-वर्षरूपेणापि आमान्यते | असौ ‘मड़ीबा’- इत्यभिधानेनापि अभिज्ञायते | वयं सर्वेsपि जानीमः यत् नेल्सनमंडेला अशेष-जगति जातिभेदं विरुध्य विधीयमान -स्य संघर्षस्य उदाहरणत्वेन अवर्तत, तथा च, मंडेला-महोदयस्य प्रेरणास्रोत- स्त्वेन कः आसीत्?  एतावन्ति वर्षाणि यावत् कारावासे स्थातुं अपेक्षिता सहनशक्तिः प्रेरणा च पूज्यबापू-वर्यादेव तेनाधिगतासीत् | मंडेलामहोदयः बापू-वर्यं प्रति अकथयत् – “महात्मा अस्मदीयेतिहासस्य अभिन्नाङ्गत्वेन अस्ति यतो हि अत्रैव असौ सत्येन साकं स्वीयं प्रथमं प्रयोगं व्यदधात्;  अत्रैवासौ न्यायं प्रति निज-दृढतायाः विलक्षणप्रदर्शनमकरोत्; अत्रैवासौ स्वीय-सत्याग्रहस्य दर्शनस्य संघर्षस्य च प्रणालीं विकासितवान् |” 
          सः बापू-वर्यं निजादर्शरूपेण स्वीकरोति स्म | बापू-वर्यः मंडेला च, अशेष-विश्वस्य कृते न केवलं प्रेरणास्रोतस्त्वेन वर्तेते, परञ्च अनयोः आदर्शाः प्रेमकरुणायुतस्य समाजस्य निर्माणार्थमपि सदैव प्रोत्साहयन्ति | 
         मम प्रियाः देशवासिनः, कतिपयेभ्यो दिनेभ्यः प्राक् गुजराते नर्मदातटे केवड़िया-क्षेत्रे DGP conference –इति संगोष्ठी सम्पन्ना, यत्र जगतः उच्छ्रिततमा प्रतिमा ‘Statue of Unity’- वर्तते, तत्र देशस्य शीर्ष-रक्षिकर्मिभिः साकं सार्थकी चर्चा जाता | देशस्य देशवासिनाञ्च सुरक्षां दृढतरां विधातुं के के समुपायाः विधेयाः, इति कृत्वा विस्तरेण चर्चितम् | तस्मिन्नवधौ अहं राष्ट्रियैकतायै ‘सरदारपटेल-पुरस्कारम्’ आरब्धुमपि उद्घोषितवान् | पुरस्कारोsयं तस्मै जनाय प्रदास्यते, येन केनापि प्रकारेण राष्ट्रियैकतायै नैजं योगदानमर्पितम् | सरदारपटेलः नैजं पूर्णमपि जीवनं देशस्य एकतायै समर्पितवान् | सः सर्वदा भारतस्य अखण्डताम् अक्षुण्णां सन्धारयितुं संलग्नः आसीत् | सरदार-महोदयः आमिनोति स्म यत् भारतस्य शक्तिः अत्रत्यासु विविधतासु एव सन्निहितास्ति | सरदारपटेल-महोदयस्य तस्याः भावनायाः सम्माननार्थं एकतायाः अस्य पुरस्कारस्य माध्यमेन तस्मै श्रद्धाञ्जलिमर्पयामः|
            मम प्रियाः देशवासिनः, जान्युआरि-मासे त्रयोदशे दिनाङ्के गुरोः गोबिन्दसिंहस्य जयन्त्याः पावनपर्व वर्तते | गुरोः गोबिन्दसिंहस्य जन्म पटना-नगर्यामभवत् | जीवनस्य अधिकतर-कालार्थं तस्य कर्मभूमिः उत्तरभारतमेवा- सीत्, तथा च, महाराष्ट्रस्य नांदेड़-स्थलेsसौ स्वीय-प्राणान् अत्यजत् | जन्मभूमिः पटना, कर्मभूमिः उत्तरभारतम् तथा च, जीवनस्य अन्तिमक्षणं नांदेड़-क्षेत्रमासीत् | आपाततो वक्तुं शक्यते यत् सम्पूर्णस्यापि भारतवर्षस्य आशीर्वादास्तेन प्राप्यन्ते | तस्य जीवन-कालं परिशीलेम चेत् तत्र सम्पूर्णस्यापि भारतस्य छविः प्राप्यते | निज-पितरि श्रीगुरुतेगबहादुरे हुतात्मनि सञ्जाते सति श्रीगुरुगोबिंदसिंहः नव-वर्षात्मके अल्पायुषि गुरुपदमधिगतवान् | गुरुः गोबिन्दसिंहः न्यायस्य युद्ध-हेतोः अपेक्षित-साहसं सिखगुरुभ्यः रिक्थरूपेण अवाप्नोत् |  सः शान्तसरल-व्यक्तित्वयुतः आसीत्,  परञ्च यदा यदा,  निर्धनानां दुर्बलानाञ्च स्वरं दमयितुं प्रयतितम्, तान् प्रति अन्यायपूर्णं व्यवहृतं वा, तदा-तदा गुरुः गोबिन्दसिंहः निर्धनानां दुर्बलानाञ्च कृते निज-निनादं दृढतया उच्चारितवान्, अत एवोच्यते –                                      “सवा लाख से एक लड़ाऊँ,  चिड़ियों सों मैं बाज तुड़ाऊँ, तबे गोबिंदसिंह नाम कहाऊँ | 
        सः कथयति स्म यत् दुर्बलवर्गैः साकं युद्धं विधाय शक्तेः प्रदर्शनं न मनागपि उचितम् | श्रीगोबिन्दसिंहः आमिनोति स्म यत् सर्वातिशायिनी सेवा – मानवीयदुःखानामपसारणमेवास्ति | सः वीरता-शौर्य- त्याग-धर्मपरायणता-समन्वितो दिव्य-पुरुषः आसीत्, येन शस्त्रस्य शास्त्रस्य च अलौकिक-ज्ञानं सन्धार्यते स्म | सः धनुर्धरः सन् विलक्षणः लक्ष्यवेधी त्वासीदेव, युगपदेव गुरुमुखी-ब्रजभाषा-संस्कृत-फारसी-हिन्दी-उर्दू-सहितानां अनेकासां भाषाणामपि ज्ञातासीत् | अहं पुनरेकवारं श्रीगुरुगोबिन्दसिंहाय प्रणमामि |
       मम प्रियाः देशवासिनः,  देशे अनेकानि एतादृन्शि  समीचीनानि प्रकरणानि संजायन्ते, येषां व्यापिनी चर्चा नैव भवति, एतादृशः एव अनुपमः प्रयासः F.S.S.A.I. अर्थात् Food Safety and Standard Authority of India-इत्यनेन विधीयते | महात्मगान्धिनः सार्धशती-जयन्ती-वर्षमुपलक्ष्य कृत्स्नेsपि देशे अनेके कार्यक्रमाः आयोज्यन्ते | अस्यामेव शृङ्खलायां F.S.S.A.I.-इति प्राधिकरणम्, सुरक्षित-स्वास्थ्यकर-खाद्याभ्यासं प्रोत्साहयितुं सततं प्रयतते | “Eat Right India” इत्यभियानस्य अन्तर्गतं सम्पूर्णेsपि देशे स्वस्थभारतयात्राः आयोज्यन्ते | अभियानमिदं जान्युआरि-मासस्य सप्त-विंश-दिनं यावत् प्रचलिष्यति | कदाचित्तु शासनिक-संघटनानां परिचयः नियन्त्रकत्वेन भवति परञ्च एतत्तु नितरां प्रशंसनीयं यत् F.S.S.A.I-इत्यधिकरणम्, इतोsप्यग्रे गत्वा जन-जागृतेः लोकशिक्षायाश्च कार्याणि विदधाति | यदा भारतं स्वच्छं भविष्यति, स्वस्थं स्थास्यति, तदैव भारतं समृद्धमपि भविष्यति | समीचीन-स्वास्थ्यस्य कृते सर्वाधिकम् आवश्यकमस्ति- पौष्टिकभोजनम् | सन्दर्भेsस्मिन्, अस्य प्राथमिक-प्रयासस्य कृते F.S.S.A.I- इत्यभिकरणं हृदयेन अभिनन्दामि | ममायम् आग्रहः, आगच्छन्तु अमुना प्राथमिक-प्रयासेन आत्मानं संयोजयेम| भवन्तोsपि अत्र सहभागित्वं स्वीकुर्युः, तथा च, विशेषेण साग्रहं वदामि यत् बालकेभ्यो नूनं एतानि वस्तूनि अवश्यं प्रदर्शयेयुः | खाद्याभ्यासस्य महत्वशिक्षणं बाल्यकालादेव परमावश्यकम् |
      मम प्रियाः देशवाशिनः,  एतद्-वर्षस्यायं अन्तिम-कार्यक्रमः, ऊनविंशोत्तर-द्विसहस्रतमे वर्षे वयं पुनः मेलिष्यामः,  पुनः मनोगतं प्रकटयिष्यामः | व्यक्तिजीवनं भवेत् वा  राष्ट्रजीवनम्,  आहोस्वित् भवतु नाम समाजजीवनम्, प्रेरणा भवति, प्रगतेः आधारः | आगच्छन्तु, नवीना प्रेरणा, नूतनोत्साहः,  अभिनवः संकल्पः, नवीना सिद्धिः,  नवा उन्नतिः – अग्रेसरेम, सततं प्रचलेम, आत्मानं परिवर्तयेम, देशमपि परिवर्तयेम | भूयान्सो धन्यवादाः |
                                                       
                        ---     भाषान्तर-कर्ता -   डॉ.बलदेवानन्द-सागरः 
                                    दूरभाषः -   ९८१० ५६२२ ७७                         
                       अणुप्रैषः  - baldevanand.sagar@gmail.com